यजमान या साधक शुचिर्भूत होकर पवित्र वस्त्र धारण करके, आसन पर बैठे तथा देवी के पूजा-यंत्र को चौकी या वस्त्र पर स्थापित कर सर्वप्रथम ध्यान करे । यथा:
ध्यानदेवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽरिवलस्य ।प्रसीद विश्वेश्वरि पाहि विश्वं त्वामीश्वरी देवि चराचरस्य ॥या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मी: पापात्मनां कृतधियां ह्रदयेषु बुद्धि ।श्रद्धां सतां कुलजन प्रभवश्य लज्जा तां त्वां नतास्म परिपालय देवि विश्वम् ॥आवाहनम्आगच्छ वरदे देवि दैत्यदर्प निषूदिनि ।पूजां गृहाण सुमुखिः नमस्ते शंकर प्रिये ॥आसनम्अनेक रत्नसंयुक्तं नानामणि गणान्वितम् ।मातर्स्वर्णमयं दिव्यमासनं प्रतिगृह्यताम् ॥पाद्यम्गंगादि सर्वतीर्थेभ्यो मया प्रार्थनयाऽऽहृताम् ।तोय मेतत्सुखं स्पर्श पाद्यार्थं प्रतिगृह्यताम् ॥अर्घ्यम्गन्धपुष्प क्षतैर्युक्तमर्घ्यं सम्पादितं मया ।गृहाणत्वं महादेवि प्रसन्ना भव सर्वदा ॥आचनम्आचम्यतां त्वया देवि भक्ति मे ह्यचलां कुरु ।ईप्सितं मे वरं देहि परत्र च परांगतिम् ॥जल स्त्रानम्जाह्नवी तोयमानीतं शुभं कर्पूर संयुतम् ।स्नापयानि सुरक्षेष्ठे त्वां पुत्रादि फलप्रदान् ॥पञ्चामृत स्नानम्पयोदधि घृतं क्षौद्रं सितया च समन्वितम् ।पञ्चामृतमनेनाद्य क्रुरु स्नानं दयानिधे ॥वस्त्रम्वस्त्रं च सोमदेवत्यं लज्जायास्तु निवारणम् ।मया निवेदितं भक्त्या गृहाण परमेश्वरी ॥उपवस्त्रम्यमाश्रित्य महामाया जगत्सम्मोहिनी सदा ।तस्यै ते परमेशानि कल्पयाम्युत्तरीयकम् ॥मधुपर्कम्दधिमध्वाज्य संयुक्ततं पात्रयुग्म समन्वितम् ।मधुपर्कं गृहाणत्वं वरदा भव शोभने ॥गन्धम्परमानन्द सौभाग्य परिपूर्ण दिगन्तरे ।गृहाण परमं गन्धं कृपया परमेश्वरी ॥कुंकुमम्कुंकुमंकान्तिदं दिव्यं कामिनी कामसम्भवम् ।कुंकुमेनार्चिते देवि प्रसीद परमेश्वरि ॥आभूषणम्स्वभावं सुन्दरांगर्थै नानाशक्त्याश्रिते शिवे ।भूषणानि विचित्राणि कल्पयाम्यमरार्चिते ॥सिन्दूरम्सिन्दूरमरुणाभासं जपाकुसुम सन्निभम् ।पूजितासि महादेवि प्रसीद परमेश्वरी ॥कज्जलम्चक्षुभ्यां कज्जलं रम्यं सुभगे शान्तिकारिके ।कर्पूर ज्योतिरुत्पन्नं ग्रहाण परमेश्वरि ॥सौभाग्यसूत्रम्सौभाग्यसूत्रं वरदे सुवर्णमणि संयुते ।कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा ॥गन्धम्चन्दनागरु कर्पूरं कंकुमं रोचनं तथा ।कस्तूर्यादि सुगन्धांश्च सर्वाङ्नेषु विलेपये ॥अक्षतम्रञ्जिता कुंकुमौघेन अक्षताश्चापि शोभना: ।ममैषां देवि दानेन प्रसन्नाभवमीश्वरी ।पुष्पम्मंदार पारिजातादि पाटली केतकानि च ।जाती चम्पक पुष्पाणि गृहाण परमेश्वरी ॥बिल्वपत्रम्अमृतोद्भव श्रीवृक्षो महादेवि प्रिय: सदा ।बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ।धूपम्दशांग गुग्गुलं धूपं चन्दनागरु संयुतम् ।समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥दीपम्घृतवर्ति समायुक्त महातेजो महोज्ज्वलम् ।दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ॥नैवेद्यम्अन्नं चतुर्विधिं स्वादु रसै: षड्भि समन्वितम् ।नैवेद्यं गृह्यतां देवि भक्ति मे ह्यचलां कुरु ॥ऋतुफलम्द्रक्षाखर्जूर कदली पनसाम्र कपित्थकम् ।नारिकेलेक्षुजम्ब्वादि फलानि प्रतिगृह्यताम् ॥आचमनीयम्कामारिवल्लभे देवि कुर्वाचमनर्माम्बके ।निरन्तर महं वन्दे चरणौ तव चण्डिके ॥अखण्ड ऋतुफलम्नारिकेलं च नारंगं कलिगमचिरं तथा ।ऊर्वारुकं च देवेशि फलान्येतानि गृह्यताम् ॥ताम्बूलम्एलालवंग कस्तूरी कर्पूरै: सुष्ठुवासिताम् ।वीटिकां मुखवासार्थ समर्पयामि सुरेश्वरि ॥दक्षिणाम्पूजाफल समृद्ध्यर्थं तवाग्रे स्वर्गमीश्वरि ।स्थापितं तेन मे प्रीता पूर्णान् कुरु मनोरथान् ॥नीराजनम्नीराजनं सुमंगल्यं कर्पूंरेण समन्वितम् ।चन्द्रार्क वह्नि सदृशं महादेवि नमोऽस्तुते ॥प्रदक्षिणाम्नमस्ते देवि देवेशि नमस्ते ईप्सितप्रदे ।नमस्ते जगतां धात्रि नमस्ते भक्तवत्सले ॥नमस्कारम्नमः सर्वहितार्थायै जगदाधार हेतवे ।साष्टांगो अयं प्रणामस्तु प्रयत्नेन मयाकृत: ॥विसर्जनम्इमां पूजां मया देवि यथाशक्त्युप पादिताम् ।रक्षार्थं त्वं समादाय ब्रजस्थानमनुत्तमम् ॥
0 टिप्पणियाँ