Mahabharata - महाभारतम्
आदिपर्व - अध्याय 002
॥ श्रीः ॥
1.2. अध्यायः 002
(अथ पर्वसंग्रहपर्व ॥ 2 ॥)
Mahabharata - Adi Parva - Chapter Topics
समन्तपञ्चकाख्यानं॥ 1 ॥ अक्षौहिण्यादिपरिमाण॥ 2 ॥ आदिपर्वादिसर्वपर्वणां संक्षेपेण वृत्तान्तकथनं॥ 3 ॥ नारतश्रवणफलकथनं॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
1-2-0(301)
ऋषय ऊचुः। 1-2-0x(11)
समन्तपञ्चकमिति यदुक्तं सूतनन्दन।
एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्॥ 1-2-1(302)
सौतिरुवाच। 1-2-2x(12)
शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः।
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥ 1-2-2(303)
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः।
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥ 1-2-3(304)
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्॥ 1-2-4(305)
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः।
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्॥ 1-2-5(306)
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्।
राम राम महाभाग प्रीताः स्म तव भार्गव॥ 1-2-6(307)
अनया पितृभक्त्या च विक्रमेण तव प्रभो।
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥ 1-2-7(308)
राम उवाच। 1-2-8x(13)
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥ 1-2-8(309)
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः।
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥ 1-2-9(310)
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्।
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥ 1-2-10(311)
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्।
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥ 1-2-11(312)
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते।
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥ 1-2-12(313)
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्।
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥ 1-2-13(314)
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते।
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया॥ 1-2-14(315)
समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः।
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥ 1-2-15(316)
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः।
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः॥
यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः॥ 1-2-16(317)
ऋषय ऊचुः। 1-2-17x(14)
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन।
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्॥ 1-2-17(318)
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्।
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव॥ 1-2-18(319)
सौतिरुवाच। 1-2-19x(15)
एको रथो गजश्चैको नराः पञ्च पदातयः।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते॥ 1-2-19(320)
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते॥ 1-2-20(321)
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः।
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः॥ 1-2-21(322)
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी।
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः॥ 1-2-22(323)
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः।
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः॥ 1-2-23(324)
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः।
गजानां च परीमाणमेतदेव विनिर्दिशेत्॥ 1-2-24(325)
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु।
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः॥ 1-2-25(326)
पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च।
दशोत्तराणि षट् प्राहुर्यथावदिह संख्यया॥ 1-2-26(327)
एतामक्षौहिणीं प्राहुः संख्यातत्त्वदितो जनाः।
यां वः कथितवानस्मि विस्तरेण तपोधनाः॥ 1-2-27(328)
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः।
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु॥ 1-2-28(329)
समेतास्तत्र वै देशे तत्रैव निधं गताः।
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा॥ 1-2-29(330)
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्।
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्॥ 1-2-30(331)
अहनी युयुधे द्वे तु कर्णः परबलार्दनः।
शल्योऽर्धदिवसं चैव गदायुद्धमतः परम्॥ 1-2-31(332)
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः।
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ 1-2-32(333)
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्।
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ 1-2-33(334)
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्।
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥ 1-2-34(335)
विचित्रार्थपदाख्यानमनेकसमयान्वितम्।
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ 1-2-35(336)
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्।
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ 1-2-36(337)
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते।
आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-37(338)
तदेतद्भारतं नाम कविभिस्तूपजीव्यते।
उदयतेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-38(339)
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा।
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ 1-2-39(340)
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥ 1-2-40(341)
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः।
पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः॥ 1-2-41(342)
पौष्यं पौलोममास्तीकमादिरंशावतारणम्।
ततः संभवपर्वोक्तमद्भुतं रोमहर्षणम्॥ 1-2-42(343)
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते।
ततो बकवधः पर्व पर्व चैत्ररथं ततः॥ 1-2-43(344)
ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते।
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्॥ 1-2-44(345)
विदुरागमनं पर्व राज्यलाभस्तथैव च।
अर्जुनस्य वने वासः सुभद्राहरणं ततः॥ 1-2-45(346)
सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका।
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्॥ 1-2-46(347)
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्।
जरासन्धवधः पर्व पर्व दिग्विजयं तथा॥ 1-2-47(348)
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते।
ततश्चार्घाभिहरणं शिशुपालवधस्ततः॥ 1-2-48(349)
द्यूतपर्व ततः प्रोक्तमनुद्यूतमः परम्।
तत आरण्यकं पर्व किर्मीरवध एवच॥ 1-2-49(350)
अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम्।
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्॥ 1-2-50(351)
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्।
नलोपाख्यानमपि च धार्मिकं करुणोदयम्॥ 1-2-51(352)
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः।
जटासुरवधः पर्व यक्षयुद्धमतः परम्॥ 1-2-52(353)
निवातकवचैर्युद्धं पर्व चाजगरं ततः।
मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते॥ 1-2-53(354)
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः।
घोषयात्रा ततः पर्व ततः प्रायोपवेशनेम्।
मन्त्रस्य निश्चयं चैव मृगस्वप्नोद्भवं ततः॥ 1-2-54(355)
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च।
द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्॥ 1-2-55(356)
रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्।
पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम्॥ 1-2-56(357)
कुण्डलाहरणं पर्व ततः परमिहोच्यते।
आरणेयं ततः पर्व वैराटं तदनन्तरम्॥
पाण्डवानां प्रवेशश्च समयस्य च पालनम्॥ 1-2-57(358)
कीचकानां वधः पर्व पर्व ग्रोग्रहणं ततः।
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्॥ 1-2-58(359)
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्।
ततः संजययानाख्यं पर्व ज्ञेयमतः परम्॥ 1-2-59(360)
प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया।
पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्॥ 1-2-60(361)
यानसन्धिस्ततः पर्व भगवद्यानमेव च।
मातलीयमुपाख्यानं चरितं गालवस्य च॥ 1-2-61(362)
सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च।
जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्॥ 1-2-62(363)
सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्।
उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च॥ 1-2-63(364)
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः।
`मन्त्रस्य निश्चयं कृत्वा कार्यस्य समनन्तरम्॥ 1-2-64(365)
श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम्।'
निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः॥ 1-2-65(366)
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्।
उलूकदूतागमनं पर्वामर्षविवर्धनम्॥ 1-2-66(367)
अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्॥
भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते॥ 1-2-67(368)
जम्बूखम्डविनिर्माणं पर्वोक्तं तदनन्तरम्॥
भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्॥ 1-2-68(369)
`दिव्यं चक्षुर्ददौ यत्र संजयाय महामुनिः।'
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः।
द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः॥ 1-2-69(370)
अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते।
जयद्रथवधः पर्व घटोत्कचवधस्ततः॥ 1-2-70(371)
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्।
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते॥ 1-2-71(372)
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्।
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्॥ 1-2-72(373)
सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्।
अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते॥ 1-2-73(374)
ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्।
जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्॥ 1-2-74(375)
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्।
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः॥ 1-2-75(376)
आभिषेचनिकं पर्व धर्मराजसर्य धीमतः।
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्॥ 1-2-76(377)
शान्तिपर्व ततो यत्र राजधर्मानुशासनम्।
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्॥ 1-2-77(378)
शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्।
प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया॥ 1-2-78(379)
ततः पर्व परिज्ञेयमानुशासनिकं परम्।
स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः॥ 1-2-79(380)
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्।
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्॥ 1-2-80(381)
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च।
नारदागमनं पर्व ततः परमिहोच्यते॥ 1-2-81(382)
मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्।
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः॥ 1-2-82(383)
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्।
विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा॥ 1-2-83(384)
भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्।
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना॥ 1-2-84(385)
यथावत्सूतपुत्रेण रौमहर्षणिना ततः।
उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु॥ 1-2-85(386)
समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः।
पौष्यं पौलोममास्तीकमादिरंशावतारणम्॥ 1-2-86(387)
संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः।
तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः॥ 1-2-87(388)
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्।
विदुरागमनं चैव राज्यलाभस्तथैव च॥ 1-2-88(389)
वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः।
हरणाहरणं चैव दहनं खाण्डवस्य च॥ 1-2-89(390)
मयस्य दर्शनं चैव आदिपर्वणि कथ्यते।
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्॥ 1-2-90(391)
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः।
आस्तीके सर्वनागानां गरुडस्य च संभवः॥ 1-2-91(392)
क्षीरोदमथं चैव जन्मोच्चैःश्रवसस्तथा।
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च॥ 1-2-92(393)
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्।
विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि॥ 1-2-93(394)
अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च।
अंशावतरणं चात्र देवानां परिकीर्तितम्॥ 1-2-94(395)
दैत्यानां दानवानां च यक्षाणां च महौजसाम्।
नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्॥ 1-2-95(396)
अन्येषां चैव भूतानां विविधानां समुद्भवः।
महर्षेराश्रमपदे कण्वस्य च तपस्विनः॥ 1-2-96(397)
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्।
यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्॥ 1-2-97(398)
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्।
शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि॥ 1-2-98(399)
तेजोंशानां च संपातो भीष्मस्याप्यत्र संभवः।
राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः॥ 1-2-99(400)
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च।
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः॥ 1-2-100(401)
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्।
धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा॥ 1-2-101(402)
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा।
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः॥ 1-2-102(403)
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च।
कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति॥ 1-2-103(404)
हितोपदेशश्च पथि धर्मराजस्य धीमतः।
विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया॥ 1-2-104(405)
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया।
निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि॥ 1-2-105(406)
पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम्।
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्॥ 1-2-106(407)
तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्।
घटोत्कचस्य चोत्पत्तिंरत्रैव परिकीर्तिता॥ 1-2-107(408)
महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः।
तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने॥ 1-2-108(409)
अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः।
बकस्य निधनं चैव नागराणां च विस्मयः॥ 1-2-109(410)
संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह।
ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः॥ 1-2-110(411)
द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया।
पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः॥ 1-2-111(412)
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा।
सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे॥ 1-2-112(413)
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्।
भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ॥ 1-2-113(414)
पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनञ्जयः।
द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम्॥ 1-2-114(415)
भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन्।
शल्यकर्णौ च तरसा जितवन्तौ महामृधे॥ 1-2-115(416)
दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्।
शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती॥ 1-2-116(417)
जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि।
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च॥ 1-2-117(418)
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते।
द्रौपद्या देवविहीतो विवाहश्चाप्यमानुषः॥ 1-2-118(419)
क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति।
विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च॥ 1-2-119(420)
खाण्डवप्रस्थवासश्च तथा राज्यार्धसर्जनम्।
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया॥ 1-2-120(421)
सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम्।
अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्॥ 1-2-121(422)
अनु प्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्।
मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः॥ 1-2-122(423)
समयं पालयन्वीरो वनं यत्र जगाम ह।
पार्थस्य वनवासे च उलूप्या पथि सङ्गमः॥ 1-2-123(424)
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च।
तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः॥ 1-2-124(425)
शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः।
प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः॥ 1-2-125(426)
द्वारकायां सुभद्रा च कामयानेन कामिनी।
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना॥ 1-2-126(427)
गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने।
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः॥ 1-2-127(428)
द्रौपद्यास्तनयानां च संभवोऽनुप्रकीर्तितः।
विहारार्थं च गतयोः कृष्णयोर्यमुनामनु॥ 1-2-128(429)
संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्।
मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्॥ 1-2-129(430)
महर्षेर्मन्दपालस्य शार्ङ्ग्या तनयसंभवः।
इत्येतदादिपर्वोक्तं प्रथमं बहु विस्तरम्॥ 1-2-130(431)
अध्यायानां शते द्वे तु संख्याते परमर्षिणा।
सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा॥ 1-2-131(432)
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च।
श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना॥ 1-2-132(433)
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते।
सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्। 1-2-133(434)
लोकपालसभाख्यानं नारदाद्देवदर्शिनः।
राजसूयस्य चारम्भो जरासन्धवधस्तथा॥ 1-2-134(435)
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्।
तथा दिग्विजयोऽत्रैव पाम्डवानां प्रकीर्तितः॥ 1-2-135(436)
राज्ञामागमनं चैव सार्हणानां महक्रतौ।
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा॥ 1-2-136(437)
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च।
दुर्योधनस्यावहासो भीमेन च सभातले॥ 1-2-137(438)
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्।
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्॥ 1-2-138(439)
यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्।
धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्॥ 1-2-139(440)
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः।
पुनरेव ततो द्यूते समाह्वयत पाण्डवान्॥ 1-2-140(441)
जित्वा स वनवासाय प्रेषयामास तांस्ततः।
एतत्सर्वं सभापर्व समाख्यातं महात्मना॥ 1-2-141(442)
अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया।
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च॥ 1-2-142(443)
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः।
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्॥ 1-2-143(444)
वनवासं प्रयातेषु पाण्डवेषु महात्मसु।
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः॥ 1-2-144(445)
अन्नौषधीनां च कृते पाण्डवेन महात्मना।
द्विजानां भरणार्थं च कृतमाराधनं रवेः॥ 1-2-145(446)
धौम्योपदेशात्तिग्मांशुप्रसादादन्नसंभः।
हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्॥ 1-2-146(447)
त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा।
पुनरागमनं चैव धृतराष्ट्रस्य शासनात्॥ 1-2-147(448)
कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः।
वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्यच॥ 1-2-148(449)
तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्।
निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च॥ 1-2-149(450)
मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्।
शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च॥ 1-2-150(451)
किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे।
वृष्णीनामागमश्चात्र पाञ्चालानां च सर्वशः॥ 1-2-151(452)
श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्।
क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना॥ 1-2-152(453)
परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ।
आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्॥ 1-2-153(454)
तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा।
सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्॥ 1-2-154(455)
नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह।
प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः॥ 1-2-155(456)
धर्मराजस्य चात्रैव संवादः कृष्णया सह।
संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः॥ 1-2-156(457)
समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा।
प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा॥ 1-2-157(458)
गमनं काम्यके चापि व्यासे प्रतिगते ततः।
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः॥ 1-2-158(459)
महादेवेन युद्धं च किरातवपुषा सह।
दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च॥ 1-2-159(460)
महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः।
यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी॥ 1-2-160(461)
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः।
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्॥ 1-2-161(462)
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्।
दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा॥ 1-2-162(463)
तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः।
लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति॥ 1-2-163(464)
वनवासगतानां च पाण्डवानां महात्मनाम्।
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै॥ 1-2-164(465)
संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया।
तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्॥ 1-2-165(466)
पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा।
तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनां॥ 1-2-166(467)
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता॥ 1-2-167(468)
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्।
लोपामुद्राभिपमनमपत्यार्थमृषेस्तथा॥ 1-2-168(469)
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः।
जामदग्न्यस्य रामस्य चरितं भूरितेजसः॥ 1-2-169(470)
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते।
प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः॥ 1-2-170(471)
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः।
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ॥ 1-2-171(472)
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः।
मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैवप्रकीर्तितं॥ 1-2-172(473)
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः।
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः॥ 1-2-173(474)
ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्।
इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासञ्शिबिं नृपम्॥ 1-2-174(475)
अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना।
अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्॥ 1-2-175(476)
नैयायिकानां मुख्येन वरुणस्यात्मजेन च।
पराजितो यत्र बन्दी विवादेन महात्मना॥ 1-2-176(477)
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः।
यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः।
गन्धमादनयात्रा च वासो नारायणाश्रमे॥ 1-2-177(478)
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने।
व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्॥ 1-2-178(479)
कदलीषण्डमध्यस्थं हनूमन्तं महाबलम्।
यत्र मन्दारपुष्पार्थे नलिनीं तामधर्षयत्॥ 1-2-179(480)
यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह।
यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा॥ 1-2-180(481)
जटासुरस्य च वधो राक्षसस्य वृकोदरात्।
वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम्॥ 1-2-181(482)
आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च।
प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः॥ 1-2-182(483)
कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः।
युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह॥ 1-2-183(484)
समागमश्च पाण्डूनां यत्र वैश्रवणेन च।
समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह॥ 1-2-184(485)
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना।
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः॥ 1-2-185(486)
निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः।
पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः॥ 1-2-186(487)
वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता।
अस्त्रसंदर्शनारम्भो धर्मराजस्य सन्निधौ॥ 1-2-187(488)
पार्थस्य प्रतिषेधश्छ नारदेन सुरर्षिणा।
अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्॥ 1-2-188(489)
भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा।
भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने॥ 1-2-189(490)
अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः।
काम्यकागमनं चैव पुनस्तेषां महात्मनाम्॥ 1-2-190(491)
तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्परुषर्षभान्।
वासुदेवस्यागमनमत्रैव परिकीर्तितम्॥ 1-2-191(492)
मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः।
पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा॥ 1-2-192(493)
संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः।
मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्॥ 1-2-193(494)
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते।
ऐन्द्रद्युम्नामुपाख्यानं तथैवाङ्गिरसं स्मृतम्॥ 1-2-194(495)
पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्।
द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया॥ 1-2-195(496)
पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः।
घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः॥ 1-2-196(497)
ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना।
धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात्॥ 1-2-197(498)
काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते।
व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्॥ 1-2-198(499)
दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्।
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्॥ 1-2-199(500)
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे।
चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः॥ 1-2-200(501)
रामायणमुपाख्यानमत्रैव बहुविस्तरम्।
यत्र रामेण विक्रम्य निहतो रावणो युधि॥ 1-2-201(502)
सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम्।
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरंदरात्॥ 1-2-202(503)
यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च।
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्॥ 1-2-203(504)
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्।
एतदारण्यकं पर्व तृतीयं परिकीर्तितम्॥ 1-2-204(505)
अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते।
एकोनसप्ततिश्चैव तथाऽध्यायाः प्रकीर्तिताः॥ 1-2-205(506)
एकादश सहस्राणि श्लोकानां षट् शतानि च।
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः॥ 1-2-206(507)
अतः परं निबोधेदं वैराटं पर्व विस्तरम्।
विराटनगरे गत्वा श्मशाने विपुलां शमीम्॥ 1-2-207(508)
दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत।
यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते॥ 1-2-208(509)
पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः।
दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्॥ 1-2-209(510)
पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च।
चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशं॥ 1-2-210(511)
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्।
गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः॥ 1-2-211(512)
यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम्।
ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः॥ 1-2-212(513)
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः।
अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्॥ 1-2-213(514)
समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि।
प्रत्याहृतं गोधनं च विक्रमेण किरीटिना॥ 1-2-214(515)
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः।
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्॥ 1-2-215(516)
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्।
अत्रापि परिसंख्याता अध्यायाः परमर्षिणा॥ 1-2-216(517)
सप्तषष्टिरथो पूर्णाः श्लोकानामपि मे शृणु।
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु॥ 1-2-217(518)
उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा।
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्॥ 1-2-218(519)
उपप्लाव्ये निविष्टेषु पाण्डवेषु जिगीषया।
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ॥ 1-2-219(520)
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति।
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः॥ 1-2-220(521)
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ।
अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम्॥ 1-2-221(522)
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः।
अयुध्यभानं सचिवं वव्रे कृष्मं धनंजयः॥ 1-2-222(523)
मद्रराजं व राजानमायान्तं पाण्डवान्प्रति।
उपहारैर्वञ्चायत्वा वर्त्मन्येव सुयोधनः॥ 1-2-223(524)
वरदं तं वरं वव्रे साहाय्यं क्रियतां मम।
शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्॥ 1-2-224(525)
शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः।
पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति॥ 1-2-225(526)
वैचित्रवीर्यस्य वचः समादाय पुरोधसः।
तथेन्द्रविजयं चापि यानं चैव पुरोधसः॥ 1-2-226(527)
संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति।
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्॥ 1-2-227(528)
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्।
प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया॥ 1-2-228(529)
विदुरो यत्र वाक्यानि विचित्राणि हितानि च।
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्॥ 1-2-229(530)
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्।
मनस्तापान्वितो राजा श्रावितः शोकलालसः॥ 1-2-230(531)
प्रभाते राजसमितौ संजयो यत्र वा विभो।
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च॥ 1-2-231(532)
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः।
स्वयमागाच्छणं कर्तुं नगरं नागसाह्वयम्॥ 1-2-232(533)
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै।
शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्॥ 1-2-233(534)
दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्।
वरान्वेषणमत्रैव मातलेश्च महात्मनः॥ 1-2-234(535)
महर्षेश्चापि चरितं कथितं गालवस्य वै।
विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्॥ 1-2-235(536)
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्।
योगेश्वरत्पं कृष्णेन यत्र राज्ञां प्रदर्शितम्॥ 1-2-236(537)
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः।
उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः॥ 1-2-237(538)
आगम्य हास्तिनपुरादुपप्लाव्यमरिंदमः।
पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः॥ 1-2-238(539)
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्।
साङ्ग्रामिकं ततः सर्वं सञ्जं चक्रुः परंतपाः॥ 1-2-239(540)
ततो युद्धाय निर्याता नराश्वरथदन्तिनः।
नगराद्धास्तिनपुराद्वलसंख्यानमेवच॥ 1-2-240(541)
यत्र राज्ञा ह्युलूकस्य प्रेषणं पाम्डवान्प्रति।
श्वोभाविनि महायुद्धे दौत्येन कृतवान्प्रभुः॥ 1-2-241(542)
रथातिरथसंख्यानमम्बोपाख्यानमेव च।
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते॥ 1-2-242(543)
उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम्।
अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा॥ 1-2-243(544)
श्लोकानां षट् सहस्राणि तावन्त्येव शतानि च।
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना॥ 1-2-244(545)
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः।
अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते॥ 1-2-245(546)
जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह।
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्॥ 1-2-246(547)
यत्र युद्धमभूद्धोरं दसाहानि सुदारुणम्।
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः॥ 1-2-247(548)
मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः।
समीक्ष्यादोक्षजः क्षिप्रं युधिष्ठिरहिते रतः॥ 1-2-248(549)
रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः।
प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः॥ 1-2-249(550)
वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः।
गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः॥ 1-2-250(551)
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः।
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्॥ 1-2-251(552)
शरतल्पगतश्चैव भीष्मो यत्र बभूव ह।
षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम्॥ 1-2-252(553)
अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे।
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च॥ 1-2-253(554)
श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः।
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि॥ 1-2-254(555)
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते।
सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्॥ 1-2-255(556)
दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्।
ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः॥ 1-2-256(557)
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्।
भगदत्तो महाराजो यत्र शक्रसमो युधि॥ 1-2-257(558)
सुप्रतीकेन नागेन स हि शान्तः किरीटिना।
यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः॥ 1-2-258(559)
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्।
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे॥ 1-2-259(560)
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः।
यत्र भीमो महाबाहुः सात्यकिश्च महारथः॥ 1-2-260(561)
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया।
प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि॥ 1-2-261(562)
संशप्तकावशेषं च कृतं निःशेषमाहवे।
संशप्तकानां वीराणां कोट्यो नव महात्मनाम्॥ 1-2-262(563)
किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्।
धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः॥ 1-2-263(564)
नारायणाश्च गोपालाः समरे चित्रयोधिनः।
अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्॥ 1-2-264(565)
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः।
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि॥ 1-2-265(566)
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते।
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः॥ 1-2-266(567)
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्।
व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः॥ 1-2-267(568)
सप्तमं भारते पर्व महदेतदुदाहृतम्।
यत्र ते पृथिवीपालाः प्रायशो निधनं गताः॥ 1-2-268(569)
द्रोणपर्वणि ये शऊरा निर्दिष्टाः पुरुषर्षभाः।
अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः॥ 1-2-269(570)
अष्टौ श्लोकसहस्राणि तथा नव शतानि च।
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना॥ 1-2-270(571)
पाराशर्येण मुनिनां संचिन्त्य द्रोणपर्वणि।
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्॥ 1-2-271(572)
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः।
आख्यातं यत्र पौरामं त्रिपुरस्य निपातनम्॥ 1-2-272(573)
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः।
हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्॥ 1-2-273(574)
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना।
दण्डसेनस्य च ततो दण्डस्य च वधस्तथा॥ 1-2-274(575)
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः।
संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्॥ 1-2-275(576)
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः।
यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि॥ 1-2-276(577)
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च।
भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे॥ 1-2-277(578)
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः।
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः॥ 1-2-278(579)
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि।
चत्वार्येव सहस्राणि नव श्लोकशतानि च॥ 1-2-279(580)
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः।
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्॥ 1-2-280(581)
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्।
यत्र कौमारमाख्यानमभिषेकस्य कर्म च॥ 1-2-281(582)
वृत्तानि चाथ युद्धानि कीर्त्यन्ते यत्र भागशः।
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते॥ 1-2-282(583)
शल्यस्य निधनं चात्र धर्मराजान्महात्मनः।
शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे॥ 1-2-283(584)
सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः।
ह्रदं प्रविश्य यत्रासौ संस्तभ्यापोव्यवस्थितः॥ 1-2-284(585)
प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः।
क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः॥ 1-2-285(586)
ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः।
भीमेन गदया युद्धं यत्रासौ कृतवान्सह॥ 1-2-286(587)
समवाये च युद्धस्य रामस्यागमनं स्मृतम्।
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता॥ 1-2-287(588)
गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्।
दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे॥ 1-2-288(589)
ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया।
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्॥ 1-2-289(590)
एकोनपष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः।
संख्याता बहुवृत्तान्ताः श्लोकसंख्याऽत्र कथ्यते॥ 1-2-290(591)
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा।
मुनिना संप्रणीतानि कौरवाणां यशोभृता॥ 1-2-291(592)
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्।
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्॥ 1-2-292(593)
अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः।
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्॥ 1-2-293(594)
समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि।
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः॥ 1-2-294(595)
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्।
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनं॥ 1-2-295(596)
यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः।
सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्॥ 1-2-296(597)
न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः।
ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान्॥ 1-2-297(598)
द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्।
पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे॥ 1-2-298(599)
गत्वा च शिबिरद्वारि दुर्दर्शं तत्र राक्षसम्।
घोररूपमपश्यत्स दिवामावृत्य धिष्ठिरम्॥ 1-2-299(600)
तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च।
द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः॥ 1-2-300(601)
प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान्।
पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः॥ 1-2-301(602)
कृतवर्मणा च सहितः कृपेण च निजघ्निवान्।
यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्॥ 1-2-302(603)
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः।
पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः॥ 1-2-303(604)
धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः।
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता॥ 1-2-304(605)
कृतानशनसंकल्पा यत्र भर्तृनुपाविशत्।
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः॥ 1-2-305(606)
प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान्।
अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्॥ 1-2-306(607)
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः।
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासडदत्॥ 1-2-307(608)
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः।
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः॥ 1-2-308(609)
द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा।
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः॥ 1-2-309(610)
मणिं तथा समादाय द्रोणपुत्रान्महारथात्।
पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः॥ 1-2-310(611)
एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम्।
अष्टादशास्मिन्नद्यायाः पर्वम्युक्ता महात्मना॥ 1-2-311(612)
श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया।
श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना॥ 1-2-312(613)
सौप्तिकैषीकसंबन्धे पर्वण्युत्तमतेजसी।
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्॥ 1-2-313(614)
पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः।
कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढां॥ 1-2-314(615)
भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्जह।
तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः॥ 1-2-315(616)
संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः।
विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्॥ 1-2-316(617)
धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा।
सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्॥ 1-2-317(618)
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः।
क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः॥ 1-2-318(619)
यत्र तान्क्षत्रियाः शूरान्सङ्ग्रामेष्वनिवर्तिनः।
पुत्रान्भ्रातृन्पितॄंश्चैव ददृशुर्निहतान्रणे॥ 1-2-319(620)
पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता।
गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया॥ 1-2-320(621)
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः।
राज्ञांतानि शरीराणि दाहयामास शास्त्रतः॥ 1-2-321(622)
तोयकर्मणि चारब्धे राज्ञामुदकदानिके।
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः॥ 1-2-322(623)
सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा।
एतदेकादशं पर्व शोकवैक्लव्यकारणम्॥ 1-2-323(624)
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्।
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः॥ 1-2-324(625)
श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता।
संख्यया भारताख्यानमुक्तं व्यासेन धीमता॥ 1-2-325(626)
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्।
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः॥ 1-2-326(627)
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिमातुलान्।
शान्तिपर्वणि धर्माश्च व्याख्याताःशारतल्पिकाः॥ 1-2-327(628)
राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः।
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः॥ 1-2-328(629)
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्।
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः॥ 1-2-329(630)
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्।
अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्॥ 1-2-330(631)
विंशच्चैव तथाध्याया नव चैव तपोधाः।
चतुर्दशसहस्राणि तथा सप्तशतानि च॥ 1-2-331(632)
सप्तश्लोकास्तथैवात्र पञ्चविंशतिसंख्यया।
अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्॥ 1-2-332(633)
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्।
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः॥ 1-2-333(634)
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयः प्रकीर्तितः।
विविधानां च दानानां फलयोगाः प्रकीर्तिताः॥ 1-2-334(635)
तथा पात्रविशेषाश्च दानानां च परो विधिः।
आचारविधियोगश्च सत्यस्य च परा गतिः॥ 1-2-335(636)
महाभाग्यं गवां चैव ब्राह्मणानां तथैव च।
रहस्यं चैव धर्माणां देशकालोपसंहितम्॥ 1-2-336(637)
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्।
भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता॥ 1-2-337(638)
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्।
अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु॥ 1-2-338(639)
श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया।
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्॥ 1-2-339(640)
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्।
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः॥ 1-2-340(641)
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः।
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः॥ 1-2-341(642)
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः।
चित्राङ्गदायाः पुत्रेण स्वपुत्रेण धनंजयः॥ 1-2-342(643)
सङ्ग्रामे बभ्रुवाहेन संशयं चात्र जग्मिवान्।
सुदर्शनं तथाऽऽख्यानं वैष्णवं धर्ममेव च।
अश्वमेधे महायज्ञे नकुलाख्यानमेव च॥ 1-2-343(644)
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्।
अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः॥ 1-2-344(645)
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च।
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥ 1-2-345(646)
ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्।
यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः॥ 1-2-346(647)
धृतराष्ट्रोश्रमपदं विदुरश्च जगाम ह।
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा॥ 1-2-347(648)
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता।
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्॥ 1-2-348(649)
लाकान्तरगतान्वीरानपश्यत्पुनरागतान्।
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्॥ 1-2-349(650)
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः।
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः॥ 1-2-350(651)
संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी।
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः॥ 1-2-351(652)
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्।
एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्॥ 1-2-352(653)
द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया।
सहस्रमेकं श्लोकानां पञ्चश्लोकशतानि च॥ 1-2-353(654)
षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना।
अतः परं निबोधेदं मौसलं पर्व दारुणम्॥ 1-2-354(655)
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि।
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः॥ 1-2-355(656)
आपाने पानकलिता दैवेनाभिप्रचोदिताः।
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्॥ 1-2-356(657)
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ।
नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्॥ 1-2-357(658)
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्।
दृष्ट्वा विपादमगमत्परां चार्तिं नरर्षभः॥ 1-2-358(659)
स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः।
ददर्श यदुवीराणामापाने वैशसं महत्॥ 1-2-359(660)
शरीरं वासुदेवस्य रामस्य च महात्मनः।
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः॥ 1-2-360(661)
सवृद्धबालमादाय द्वारवत्यास्ततो जनम्।
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्॥ 1-2-361(662)
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्।
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्॥ 1-2-362(663)
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः।
धर्मराजं समासाद्य संन्यासं समरोचयत्॥ 1-2-363(664)
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्।
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्॥ 1-2-364(665)
श्लोकानां विंशतिश्चव संख्याता तत्त्वदर्शिना।
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्॥ 1-2-365(666)
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः।
द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः॥ 1-2-366(667)
यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्।
यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने॥ 1-2-367(668)
ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्।
यत्र भ्रातृन्निपतितान्द्रौपदीं च युधिष्ठिरः॥ 1-2-368(669)
दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्।
एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्॥ 1-2-369(670)
यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्।
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥ 1-2-370(671)
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्।
प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्॥ 1-2-371(672)
आरोदुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना।
तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः॥ 1-2-372(673)
श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः।
स्वर्गं प्राप्तःसच तथा यातनाविपुला भृशम्॥ 1-2-373(674)
देवदूतेन नरकं यत्र व्याजेन दर्शितम्।
शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणागिरः॥ 1-2-374(675)
निदेशे वर्तमानानां देशे तत्रैव वर्तताम्।
अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः॥ 1-2-375(676)
आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्।
स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्॥ 1-2-376(677)
मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह।
एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता॥ 1-2-377(678)
अध्यायाः पञ्च संख्याताः पर्वम्यस्मिन्महात्मना।
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधाः॥ 1-2-378(679)
नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा।
अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः॥ 1-2-379(680)
खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्।
दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च॥ 1-2-380(681)
खिलेषु हरिवंशे च संख्यातानि महर्षिणा।
एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः॥ 1-2-381(682)
अष्टादश समाजग्मुरक्षौहिण्यो ययुत्सया।
तन्महादारुणं युद्धमहान्यष्टादशाभवत्॥ 1-2-382(683)
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः।
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥ 1-2-383(684)
अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्।
कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥ 1-2-384(685)
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते।
पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव॥ 1-2-385(686)
इतिहासोत्तमादस्माञ्जायन्ते कविबुद्धयः।
पञ्चभ्य इव् भूतेभ्यो लोकसंविधयस्त्रयः॥ 1-2-386(687)
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः।
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः॥ 1-2-387(688)
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः।
इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः॥ 1-2-388(689)
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते।
आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-389(690)
इदं कविवरैः सर्वैराख्यानमुपजीव्यते।
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-390(691)
अस्य काव्यस्य कवयो न समर्था विशेषणे।
साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ 1-2-391(692)
धर्मे मतिर्भवतु वः सततोत्थितानां
स ह्येक एव परलोकगतस्य बन्धुः।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना
नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥ 1-2-392(693)
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं
पुण्यं पवित्रमथ पापहरं शिवं च।
यो भारतं समधिगच्छति वाच्यमानं
किं तस्य पुष्करजलैरभिषेचनेन॥ 1-2-393(694)
यदह्ना कुरुते पाप ब्राह्मणस्त्विन्द्रियैश्चरन्।
महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम्॥ 1-2-394(695)
यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते॥ 1-2-395(696)
यो गोशतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे च बहुश्रुताय।
पुण्यां च भारतकथां शृणुयाच्च नित्यं
तुल्यं फलं भवति तस्य च तस्य चैव॥ 1-2-396(697)
आख्यानं तदिदमनुत्तमं महार्थं
विज्ञेयं महदिह पर्वसंग्रहेण।
श्रुत्वादौ भवति नृणां सुखावगाहं
विस्तीर्णं लवणजलं यथा प्लवेन॥ 1-2-397(698)
इति श्रीमन्महाभारते आदिपर्वणि पर्वसंग्रहपर्वणि द्वितीयोऽध्यायः॥ 2 ॥ ॥ समाप्तं पर्वसंग्रहपर्व ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-2-3 क्षत्र क्षत्रियजातिं। अमर्षः स्वपितुः क्षत्रियेण हतत्वाज्जातस्य क्रोधस्यासहनं तेन चोदितः प्रेरितः॥ 1-2-10 निषिषिधुः निषिद्धवन्तः। अक्षराधिक्यमार्ष॥ 1-2-14 भूदोषाः निम्नोन्नतत्वकण्टकित्वादयः॥ 1-2-19 पदातय इति रथादिगतानां नराण व्युदासः॥ 1-2-23-26 अक्षौहिण्याः 21870 रथाः। 21871 गजाः। 109350 पदातयः। 65610 हयाः॥ 1-2-28 पिण्डिता एकीभूताः॥ 1-2-32 हार्दिक्यः कृतवर्मा गौतमः कृपः॥ 1-2-33 ते तव सत्रे यद्भारताख्यानं मत्तः प्रवृत्तं तज्जनमेजयस्य सत्रे व्यासशिष्येण कथितमित्युत्तरेण संबन्धः॥ 1-2-34 तत्र भारते॥ 1-2-35 प्रतिपन्नं शरणीकृतं॥ 1-2-38 अभिजातः कुलीनः॥ 1-2-46 हरणं दायः पारिबर्हमिति यावत् तस्य हारिका समानयनं॥ 1-2-49 अनुद्यूतं पुनर्द्यूतं॥ 1-2-50 अभिगमनं तपसे गमनं॥ 1-2-53 समास्या सहावस्थानं॥ 1-2-57 प्रवेशः विराटनगरे। समयस्य संकेतस्य नियमस्य वा॥ 1-2-70 प्रतिज्ञा जयद्रथवधार्थं॥ 1-2-72 ह्रदप्रवेशनं दुर्योधनस्य॥ 1-2-83 अन्यत्र कथितस्यावशिष्टं यत्पुनः प्रक्रम्य कथ्यते तत् खिलं प्रोच्यते। हरिवंशश्च तादृशः॥ 1-2-90 माहात्म्यमुत्तङ्कस्य उदङ्कस्येत्यपि पाठः॥ 1-2-117 भार्गवः कुलालः॥ 1-2-138 कितवो द्यूतकारकः॥ 1-2-150 शत्रुस्तव ऊरू भेत्स्यतीतिशापोत्सर्गः॥ 1-2-220 नौ आवयोर्मध्ये ममैव साहाय्यं कर्तुमर्हतीति प्रत्येकं प्रार्थना ज्ञेया॥ 1-2-231 ऐकात्म्यं एकचित्तत्वं॥ 1-2-237 शौटीर्यात् गर्वात्॥ 1-2-255 आचार्यः द्रोणाचार्यः॥ 1-2-287 समवाये समये॥ 1-2-316 संसारदहनं निरूप्येतिशेषः॥ 1-2-317 आयोधनं युद्धस्थानं॥ 1-2-319 क्षत्रियाः क्षत्रियस्त्रियः॥ 1-2-327 शराएव तल्पो यस्य सः शरतल्पो भीष्मः तेन प्रोक्ताः। शरतल्पे भवा वा तत्रस्थेन व्याख्यातत्वात्॥ 1-2-343 सुदर्शनं तथाख्यानमित्यत्र मृगदर्श तथाचैवेति-मणिदर्शनं तथाचैवेत्यपि पाठो दृश्यते॥ 1-2-347 धृतराष्ट्रः आश्रमपदमिति च्छेदः सन्धिरार्षः॥ 1-2-355 ब्रह्मदण्डः ब्राह्मणशापः॥ 1-2-356 आपाने पानगोष्ठ्यां पानेन कलिताः विवशीकृताः। एरकाः तृणविशेषाः॥ 1-2-357 नातिचक्रामतुः कालं समर्थावपि मर्यादां नोल्लङ्घितवन्तावित्यर्थः॥ 1-2-359 वैशसं परस्परं विशसनं॥ 1-2-372 अस्य अविचलामितिच्छेदः॥ 1-2-387 विषये देशे अन्तरित्यर्थः। पुराणं अष्टादशभेदं पाद्मादि॥ 1-2-394 संध्यां संध्यायां॥ द्वितीयोऽध्यायः॥ 2 ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know