जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

आदिपर्व - अध्याय 003


 


Mahabharata - महाभारतम्

1. आदिपर्व

आदिपर्व - अध्याय 003

॥ श्रीः ॥

1.3. अध्यायः 003

(अथ पौष्यपर्व ॥ 3 ॥)

Mahabharata - Adi Parva - Chapter Topics

जनमेजयं प्रति सरमाख्यदवेशुनीशापः॥ 1 ॥ शापनिवारणार्थमृषेः सोमश्रवसः पौरोहित्येन वरणम्॥ 2 ॥ आरुण्युपमन्युबैदाख्यानां धौम्यशिष्याणामुपाख्यानम्॥ 3 ॥ बैदशिष्यस्योत्तङ्कस्योपाख्यानम्॥ 4 ॥ पौष्यस्य राज्ञ उपाख्यानम्॥ 5 ॥

Mahabharata - Adi Parva - Chapter Text


1-3-0(699)

सौतिरुवाच। 1-3-0x(16)

जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते।

तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति।

तेषु तत्सत्रमुपासीनेष्वभ्यागच्छत्सारमेयः॥ 1-3-1(700)

जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्॥ 1-3-2(701)

तं माता रोरूयमाणमुवाच।

किं रोदिषि केनास्यभिहत इति॥ 1-3-3(702)

स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति॥ 1-3-4(703)

तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति॥ 1-3-5(704)

स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति॥ 1-3-6(705)

तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते॥ 1-3-7(706)

स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति॥ 1-3-8(707)

न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति॥ 1-3-9(708)

जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत्॥ 1-3-10(709)

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति॥ 1-3-11(710)

स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत्॥ 1-3-12(711)

तत्र कश्चिदृपिरासाञ्चक्रे श्रुतश्रवा नाम।

तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम॥ 1-3-13(712)

तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे॥ 1-3-14(713)

स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति॥ 1-3-15(714)

स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्प्यां जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः॥ 1-3-16(715)

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्॥ 1-3-17(716)

अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति॥ 1-3-18(717)

तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति॥ 1-3-19(718)

स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच मयाऽयं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति।

तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः।

स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास॥ 1-3-20(719)

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामापोदस्तस्य शिष्यास्त्रयो बभूवुः॥ 1-3-21(720)

उपमन्युरारुणिर्बैदश्चेति स एकं शिष्यंमारुणिं पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति॥ 1-3-22(721)

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत्।

स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामीति॥ 1-3-23(722)

स तत्र संविवेश केदारखण्डे शयाने व तथा तस्मिंस्तदुदकं तस्थौ॥ 1-3-24(723)

ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यावपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति॥ 1-3-25(724)

तौ तं प्रत्यूचतुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति।

स एवमुक्तस्तौ शिष्यौ प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति॥ 1-3-26(725)

स तत्र गत्वा तस्याह्वानाय शब्दं चकारः।

भो आरुणे पाञ्चाल्य क्वासि वत्सैहीति॥ 1-3-27(726)

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थायतमुपाध्यायमुपतस्थे॥ 1-3-28(727)

प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः॥ 1-3-29(728)

तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति॥ 1-3-30(729)

स एवमुक्त उपाध्यायः प्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मादुद्दालक एवनाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः॥ 1-3-31(730)

यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि।

सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति॥ 1-3-32(731)

स एवमुक्त उपाध्यायेनेष्टं देशं जगाम॥ 1-3-33(732)

अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्योपमन्युर्नाम।

तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति॥ 1-3-34(733)

स उपाध्यायवचनादरक्षद्गाः स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ 1-3-35(734)

तमुपाध्यायः पीवानमपश्यदुवाच चैनं वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति॥ 1-3-36(735)

स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच॥ 1-3-37(736)

मय्यनिवेद्य बैक्ष्यं नीपयोक्तव्यमिति।

स तथेत्युक्तो भैक्ष्यं चरित्वोणध्यायन्यवेदयत्॥ 1-3-38(737)

स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात्।

स तथेत्युक्तः पुनररक्षद्गा अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतःस्थित्वा नमश्चक्रे॥ 1-3-39(738)

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच।

वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति॥ 1-3-40(739)

स एवमुक्त उपाध्यायं प्रत्युवाच।

भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच॥ 1-3-41(740)

नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति॥ 1-3-42(741)

स तथेत्युक्त्वा गा अरक्षद्रक्षित्वाच पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ 1-3-43(742)

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच।

वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति॥ 1-3-44(743)

स एवमुक्तस्तमुपाध्यायं प्रत्युवाच।

भो एतासां गवां पयसा वृत्तिं कल्पयामीति।

तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति॥ 1-3-45(744)

स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे॥ 1-3-46(745)

तमुपाध्यायः पीवानमेव दृष्ट्वोवाच।

वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति॥ 1-3-47(746)

स एवमुक्त उपाध्यायं प्रत्युवाच।

भोः फेनं पिबापि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति॥ 1-3-48(747)

तमुपाध्यायः प्रत्युवाच।

एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति।

तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः।

फेनमपि भवान्न पातुमर्हतीति स तथेति प्रतिश्रुत्य निराहारः पुनररक्षद्गाः॥ 1-3-49(748)

तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति नचान्यच्चरति पयो न पिबति फेनं नोपयुह्क्ते स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्॥ 1-3-50(749)

स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव।

ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत्॥ 1-3-51(750)

अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्॥ 1-3-52(751)

मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरगतस्त्विति।

ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैहीति॥ 1-3-53(752)

स उपाध्यायस्य आह्वानवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति।

तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति॥ 1-3-54(753)

स उपाध्यायं प्रत्युवाच अर्कपत्राणि भक्षयित्वान्धीभूतोस्म्यतश्चङ्क्रम्यमाणः कूपे पतित इति।

तमुपाध्यायः प्रत्युवाच॥ 1-3-55(754)

अश्विनौ स्तुहि तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति।

स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिर्ऋग्भिः॥ 1-3-56(755)

प्रपूर्वगौ पूर्वजौ चित्रभानू

गिरा वां शंसामि तपसा ह्यनन्तौ।

दिव्यौ सुपर्णौ विरजौ विमाना-

वधिक्षिपन्तौ भुवनानि विश्वा॥ 1-3-57(756)

हिरण्मयौ शकुनी सांपरायौ

नासत्यदस्रौ सुनसौ वैजयन्तौ।

शुक्लं वयन्तौ तरसा सुवेमा-

वधिव्ययन्तावसितं विवस्वतः॥ 1-3-58(757)

ग्रस्तां सुपर्णस्य बलेन वर्तिका-

ममुञ्चतामश्विनौ सौभगाय।

तावत्सुवृत्तावनमं तमाय या-

वसत्तमा गा अरुणा उदावहत्॥ 1-3-59(758)

षष्टिश्च गावस्त्रिशताश्च धेनव

एकं वत्सं सुवते तं दुहन्ति।

नानागोष्ठा विहिता एकदोहना-

स्तावश्विनौ दुहतो घर्ममुक्थ्यम्॥ 1-3-60(759)

एकां नाभिं सप्त सथा अराः श्रिताः

प्रधिष्वन्या विंशतिरर्पिता अराः।

अनेमि चक्रं परिवर्ततेऽजरं

मायाऽश्विनौ समनक्ति चर्षणी॥ 1-3-61(760)

एकं चक्रं वर्तते द्वादशारं

षण्णाभिमेकाक्षममृतस्य धारणम्।

यस्मिन्देवा अधि विश्वे विषक्ता-

स्तावश्विनौ मुञ्चतो मा विषीदतम्॥ 1-3-62(761)

अश्विनाविन्दुममृतं वृत्तभूयौ

तिरोधत्तामश्विनौ दासपत्नी।

हित्वा गिरिमश्विनौ गामुदाचरन्तौ

तद्वृष्टिमह्नात्प्रस्थितौ बलस्य॥ 1-3-63(762)

युवां दिशो जनयथो दशाग्रे

समानं मूर्ध्नि रथयानं वियन्ति।

तासां यातमृषयोऽनुप्रयान्ति

देवा मनुष्याः क्षितिमाचरन्ति॥ 1-3-64(763)

युवां वर्णान्विकुरुथो विश्वरूपां-

स्तेऽधिक्षियन्ते भुवनानि विश्वा।

ते भानवोऽप्यनुसृताश्चरन्ति

देवा मनुष्याः क्षितिमाचरन्ति॥ 1-3-65(764)

तौ नासत्यावश्विनौ वां महेऽहं

स्रजं च यां बिभृथः पुष्करस्य।

तौ नासत्वावमृतावृतावृधा-

वृते देवास्तत्प्रपदे न सूते॥ 1-3-66(765)

मुखेन गर्भं लभतां युवानौ

गतासुरेतत्प्रपदेन सूते।

सद्यो जातो मातरमत्ति गर्भ-

स्तावश्विनौ मुञ्चथौ जीवसे गाम्॥ 1-3-67(766)

स्तोतुं न शक्नोमि गुणैर्भवन्तौ

चक्षुर्विहीनः पथि संप्रमोहः।

दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे

युवां शरण्यौ शरणं प्रपद्ये॥ 1-3-68(767)

सौतिरुवाच। 1-3-69x(17)

एवमृग्भिश्चान्यैरस्तुवत्।

इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैं प्रीतौ स्व एष तेऽपूपोशानैनमिति॥ 1-3-69(768)

स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ नत्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति॥ 1-3-70(769)

ततस्तमश्विनावूचतुः।

आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपोदत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति॥ 1-3-71(770)

स एवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति॥ 1-3-72(771)

तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या।

उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसि श्रेयश्चावाप्स्यसीति॥ 1-3-73(772)

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत्॥ 1-3-74(773)

आचचक्षे च स चास्य प्रीतिमान्बभूव॥ 1-3-75(774)

आह चैनं यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति॥ 1-3-76(775)

सर्वे च ते वेदाःप्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति।

एषा तस्यापि परीक्षोपमन्न्योः॥ 1-3-77(776)

अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्य बैदो नाम तमुपाध्यायः समादिदेश वत्स बैद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति॥ 1-3-78(777)

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत्।

गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महतात्कालेन गुरुः परितोषं जगाम॥ 1-3-79(778)

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप।

एषा तस्यापि परीक्षा बैदस्य॥ 1-3-80(779)

स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत।

तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा वेति।

दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष॥ 1-3-81(780)

अथ कस्मिंश्चित्काले बैदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयाञ्चक्रतुः॥ 1-3-82(781)

स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास॥ 1-3-83(782)

भोयत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एवं प्रतिसंदिश्योत्तङ्कं बैदः प्रवासं जगाम॥ 1-3-84(783)

अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म।

स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः॥ 1-3-85(784)

उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाऽयमृतुर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति॥ 1-3-86(785)

एवमुक्तस्ताः स्त्रियः प्रत्युवाच।

न मया स्त्रीणां वचनादिदमकार्यं करणीयम्।

न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति॥ 1-3-87(786)

तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात्।

स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्॥ 1-3-88(787)

उवाच चैनं वत्सोत्तङ्कं किं ते प्रियं करवाणीति।

धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति॥ 1-3-89(788)

स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवं ह्याहुः॥ 1-3-90(789)

यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति।

तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति॥ 1-3-91(790)

सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति।

तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोत्तङ्क उष्यतां तावदिति॥ 1-3-92(791)

स कदाचित्तमुपाध्यायमाहोत्तङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति॥ 1-3-93(792)

तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति एषा यद्ब्रवीति तदुपाहरस्वेति॥ 1-3-94(793)

स एवमुक्त उपाध्यायेनोपाध्यायानीमपृच्छद्भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुं तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति॥ 1-3-95(794)

सैवमुक्तोपाध्यायानी तमुत्तङ्कं प्रत्युवाच गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे॥ 1-3-96(795)

आनयस्वेतश्चतुर्थेऽहनि पुण्यकर्म भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि।

तत्संपादयस्व एवं हि कुर्वतः श्रेयो भविताऽन्यथा कुतः श्रेय इति॥ 1-3-97(796)

स एवमुक्तस्तयोपाध्यायान्या प्रातिष्ठतोत्तङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उत्तङ्कमभ्यभाषत॥ 1-3-98(797)

भोउत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत्॥ 1-3-99(798)

तमाह पुरुषो भूयो भक्षयस्वोत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति॥ 1-3-100(799)

स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृपभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कः संभ्रमाढुत्थित एवापोऽनुस्पृश्य प्रतस्थे॥ 1-3-101(800)

यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः।

स उत्तङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच॥ 1-3-102(801)

अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच।

भगवन्पौष्यः खल्वहं किं करवाणीति॥ 1-3-103(802)

स तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मि।

ये वै ते क्षत्रिया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति॥ 1-3-104(803)

तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति।

स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥ 1-3-105(804)

स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि॥ 1-3-106(805)

स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच।

नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति॥ 1-3-107(806)

अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मया तु भक्षितं नोपस्पृष्टमागच्छतेति।

तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवति शीघ्रमागच्छतेति॥ 1-3-108(807)

अथोत्तङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपावेश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश॥ 1-3-109(808)

ततस्तां क्षत्रियामपश्यत्सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति॥ 1-3-110(809)

स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति।

सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छदाह चैनमेते कुण्डले तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति॥ 1-3-111(810)

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भवती सुनिर्वृता भवतु।

न मां शक्तस्तक्षको नागराजो धर्षयितुमिति॥ 1-3-112(811)

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्।

आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच॥ 1-3-113(812)

भगवंश्चिरेण पात्रमासाद्यते भवाश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति॥ 1-3-114(813)

तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास॥ 1-3-115(814)

अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच।

यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति॥ 1-3-116(815)

तं पौष्यः प्रत्युवाच।

यस्मात्त्वमदुष्टमन्नंदूषयसि तस्मादनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच॥ 1-3-117(816)

न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु।

ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास॥ 1-3-118(817)

अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तङ्कं प्रसादयामास॥ 1-3-119(818)

भघवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं च।

तत्क्षामये भवन्तं न भवेयमन्ध इति।

तमुत्तङ्कः प्रत्युवाच॥ 1-3-120(819)

न मृषा ब्रवीमि भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति।

ममापि शापो भवता दत्तो न भवेदिति॥ 1-3-121(820)

तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते।

यथा॥ 1-3-122(821)

नवनीतं हृदयं ब्राह्मणस्य

वाचि क्षुरो निहितस्तीक्ष्णधारः।

तदुभयमेतद्विपरीतं क्षत्रियस्य

वाङ्गवनीतं हृदयं तीक्ष्णधारम्॥ इति॥ 1-3-123(822)

तदेवंगते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथाकर्तुं गम्यतामिति।

तमुत्तङ्कः प्रत्युवाच॥ 1-3-124(823)

भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः।

प्राक् च तेऽभिहितं यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति।

दुष्टे चान्ने नैष मम शापो भविष्यतीति॥ 1-3-125(824)

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा।

सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च॥ 1-3-126(825)

अथोत्तङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे।

एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥ 1-3-127(826)

तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥ 1-3-128(827)

तस्य तक्षको दृढमासन्नः सतं जग्राह।

गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश॥ 1-3-129(828)

प्रविश्य च नागलोकं स्वभवनमगच्छत्।

अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत्॥ 1-3-130(829)

स तद्बिलं दण्डकाष्ठेन चखान न चाशकत्।

तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास।

गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति॥ 1-3-131(830)

अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत्॥ 1-3-132(831)

तमुत्तङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत्॥ 1-3-133(832)

स तत्र नागांस्तानस्तुवदेभिः श्लोकैः।

य ऐरावतराजानः सर्पाः समितिशोभाः।

क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः॥ 1-3-134(833)

सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः।

आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः॥ 1-3-135(834)

बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे।

तत्रस्थानपि संस्तौमि महतः पन्नगानहम्॥ 1-3-136(835)

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना।

शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः॥ 1-3-137(836)

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदैजति।

ये चैनमुपसर्पन्ति ये च दूरपथं गताः॥ 1-3-138(837)

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः।

यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा॥ 1-3-139(838)

तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम्।

तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ॥ 1-3-140(839)

कुरुक्षेत्रं च वसतां नदीमिक्षुमतीमनु।

जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः॥ 1-3-141(840)

अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम्।

करवाणि सदा चाहं नमस्तस्मै महात्मने॥ 1-3-142(841)

सौतिरुवाच। 1-3-143x(18)

एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान्।

नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत्॥ 1-3-143(842)

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ।

तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्॥ 1-3-144(843)

स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः॥ 1-3-145(844)

त्रीण्यर्पितान्यत्र शतानि मध्ये

षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्।

चक्रे चतुर्विंशतिपर्वयोगे

षड्वै कुमाराः परिवर्तयन्ति॥ 1-3-146(845)

तन्त्रं चेदं विश्वरूपे युवत्यौ

वयतस्तन्तून्सततं वर्तयन्त्यौ।

कृष्णान्सितांश्चैव विवर्तयन्त्यौ

भूतान्यजस्रं भुवनानि चैव॥ 1-3-147(846)

वज्रस्य भर्ता भुवनस्य गोप्ता

वृत्रस्य हन्ता नमुचेर्निहन्ता।

कृष्णे वसानो वसने महात्मा

सत्यानृते यो विविनक्ति लोके॥ 1-3-148(847)

यो वाजिनं गर्भमपां पुराणं

वैश्वानरं वाहनमभ्युपैति।

नमोऽस्तु तस्मै जगदीश्वराय

लोकत्रयेशाय पुरंदराय॥ 1-3-149(848)

ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहसनेन स्तोत्रेण किं ते प्रियं करवाणीति।

स तमुवाच नागा मे वशमीयुरिति॥ 1-3-150(849)

स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति॥ 1-3-151(850)

ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः॥ 1-3-152(851)

ताभिर्नागलोक उपधूपितेऽथ संभ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच॥ 1-3-153(852)

इमे कुण्डले गृह्णातु भवानिति।

स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत्॥ 1-3-154(853)

अद्य तत्पुण्यकमुपाध्यायान्या दूरं चाहमभ्यागतः स कथं संभावयेयमिति॥ 1-3-155(854)

तत एनं चिन्तयानमेव स पुरुष उवाच।

उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति॥ 1-3-156(855)

स तथेन्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलं।

उपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे॥ 1-3-157(856)

अथैतस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलं उपाध्यायानीमभ्यवादयत्ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच॥ 1-3-158(857)

उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स `इदानीं यद्यनागतोसि कोपितया मया शप्तो भविष्यसि' श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति॥ 1-3-159(858)

अथोत्तङ्क उपाध्यायमभ्यवादयत्।

तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति॥ 1-3-160(859)

तमुत्तङ्क उपाध्यायं प्रत्युवाच।

भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनास्मि नागलोकं गतः॥ 1-3-161(860)

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिंश्च कृष्णाः सिताश्च तन्तवः।

किं तत्॥ 1-3-162(861)

तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किं।

पुरुषश्चापि मया दृष्टः स चापि कः।

अश्वश्चातिप्रमाणो दृष्टः स चापि कः॥ 1-3-163(862)

पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनास्मि सोपचारमुक्त उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति॥ 1-3-164(863)

ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः।

तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति।

स तेनैवमुक्त उपाध्यायः प्रत्युवाच॥ 1-3-165(864)

ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी।

यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति तेपि षड्ऋतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम्॥ 1-3-166(865)

यः पुरुषःस पर्जन्यः योऽश्वः सोऽग्निः य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट्॥ 1-3-167(866)

यश्चैनमधिरूढः पुरुषः स चेन्द्रः यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम्॥ 1-3-168(867)

स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान्।

तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि॥ 1-3-169(868)

तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति।

स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥ 1-3-170(869)

स हास्तिनपुरं प्राप्य नचिराद्विप्रसत्तमः।

समागच्छत राजानमुत्तङ्को जनमेजयम्॥ 1-3-171(870)

पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्।

सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ 1-3-172(871)

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः।

उवाचैनं वचः काले शब्दसंपन्नया गिरा॥ 1-3-173(872)

उत्तङ्क उवाच। 1-3-174x(19)

अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम।

अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ 1-3-174(873)

सौतिरुवाच। 1-3-175x(20)

एवमुक्तस्तु विप्रेण स राजा जनमेजयः।

अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ 1-3-175(874)

जनमेजय उवाच। 1-3-176x(21)

आसां प्रजानां परिपालनेन

स्वं क्षत्रधर्मं परिपालयामि।

प्रव्रूहि मे किं करणीयमद्य

येनासि कार्येण समागतस्त्वम्॥ 1-3-176(875)

सौतिरुवाच। 1-3-177x(22)

स एवमुक्तस्तु नृपोत्तमेन

द्विजोत्तमः पुण्यकृतां वरिष्ठः।

उवाच राजानमदीनसत्वं

स्वमेव कार्यं नृपते कुरुष्व॥ 1-3-177(876)

उत्तङ्क उवाच। 1-3-178x(23)

तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता।

तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ 1-3-178(877)

कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः।

तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥ 1-3-179(878)

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना।

पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥ 1-3-180(879)

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः।

अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ 1-3-181(880)

राजर्षिवंशगोप्तारममरप्रतिमं नृपम्।

यियासुं काश्यपं चैव न्यवर्तयत पापकृत्॥ 1-3-182(881)

होतुमर्हसि तं पापं ज्वलिते हव्यवाहने।

सर्पसत्रे महाराज त्वरितं तद्विधीयताम्॥ 1-3-183(882)

एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि।

मम प्रियं च सुमहत्कृतं राजन् भविष्यति॥ 1-3-184(883)

कर्मणः पृथिवीपाल मम येन दुरात्मना।

विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ 1-3-185(884)

सौतिरुवाच। 1-3-186x(24)

एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह।

उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा॥ 1-3-186(885)

अपृच्छत्स तदा राजा मन्त्रिणः स्वान्सुदुःखितः।

उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति॥ 1-3-187(886)

तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्।

यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा॥ ॥ 1-3-188(887)


इति श्रीमन्महाभारते आदिपर्वणि पौष्यपर्वमि तृतीयोऽध्यायः॥ 3 ॥ ॥ समाप्तं च पौष्यपर्व ॥


Mahabharata - Adi Parva - Chapter Footnotes

1-3-1 परिक्षितोऽपत्य पुमान्पारिक्षितः। सरमायाः देवशुन्याः अपत्यं पुमान्सारमेयः॥ 1-3-9 अदृष्टं अतर्कितं॥ 1-3-10 संभ्रान्तः संतप्त इति पाठान्तरं॥ 1-3-11 पापकृत्यां शापरूपां बलायुः-प्राणनिकृन्तनीं देवतां। शमयेदक्रोधनां कुर्यात्। 1-3-18 उपांशुव्रतं गूढव्रतं॥ 1-3-20 तक्षशिलां देशविशेषं जेतुमिति शेषः॥ 1-3-21 अपोत्तीत्यपोदः अब्भक्षः तस्यापत्यमापोदः॥ 1-3-22 केदारो महाक्षेत्रान्तर्गतं चतुरस्रं तस्य खण्डो जलनिरोधभित्तिः तं॥ 1-3-36 पीवानं पुष्टं। वृत्तिं जीविकां॥ 1-3-42 वृत्त्युपरोधं वृत्तिप्रतिबन्धं॥ 1-3-44 चरसि भक्षयसि॥ 1-3-51 तीक्ष्णविपाकैः पाककाले उदरेऽग्निज्वालोत्थापकैः॥ 1-3-56 कर्ताराविति लुडन्तं॥ 1-3-57 प्रपूर्वगाविति। अस्य श्लोकस्यानन्वयादुत्तरश्लोकस्थं संबोधनमिह योज्यम्। हे नासत्यदस्रौ गिरा वाण्या। वां युवां शंसामि स्तौमि। व्यवहिताश्चेति गतिसंज्ञत्वात्प्रशंसामीति वाऽन्वयः। किंभूतौ वां। प्रपूर्वगौ प्रकर्षेणान्यदेवताभ्यः पूर्वं यज्ञं गच्छन्तौ। पूर्वजौ अश्वजात्यां हि पूर्वं मुखसंयोगः ततः संयोगाद्गर्भोत्पत्तिरिति तत्र गर्भोत्पत्तेः पूर्वं मुखयोहगमात्राज्जातौ। चित्रभानू अग्नितुल्यौ। तपसा सामर्थ्येन। अनन्तौ अनन्तरूपधरौ। दिव्यौ दिवः द्योतमानात्सूर्याद्भवौ। सुपर्णौ शोभनगमनौ। विरजौ विगतरजोगुणौ। विश्वा विश्वानि। भुवनानि अधि। विमानौ स्वविमानौ। क्षिपन्तौ प्रेरयन्तौ॥ 1-3-58 हिरण्मयाविति। किंभूतौ विमानौ। हिरण्मयौ सुवर्णमयौ। शकुनी। लुप्तोपममेतत्। शीघ्रगामित्वात्पक्षिणाविव। यद्वा पदद्वयमप्यश्विनोरेव विशेषणं। हिरण्मयौ सुवर्णालङ्कृतौ। शकुनी आरोग्यकरणेन शकुं शक्तिं नयतः प्रापयत इति शकुनी। सांपरायौ संपरायः परलोकस्तस्मै हितौ। यद्वा सांपरायामापदि अयः प्राप्तिर्ययोस्तौ। भक्तानामापदि तद्रक्षणायागच्छन्तौ। नासत्यदस्रौ। नासत्यौ असत्यरहितौ। नासापुटजातौ वा। दस्रौ दर्शनीयौ। सुसौ सुनासिकौ। विशेषेण जयन्तौ विजयन्तौ। विजयन्तावेव वैजयन्तौ। विवस्वतः सूर्यस्य तरसा बलेन असितं श्यामकुष्ठं अधिव्ययन्तौ निराकुर्वन्तौ। शुक्लं दीप्तियुक्तं वर्मं चक्षुर्वा। वयन्तौ कुर्वन्तौ। सूर्यस्य पितृत्वात् तद्बलेन युवयोरेतत्सामर्थ्यं युज्यत इति स्तुतिः। सुवेमौ। लुप्तोपममेतत्। यथा वेमधारिणौ तन्तुवायौ पटादसितकेशादि दूरीकुरुतः शुक्लं च तन्तुं वयतस्तथेत्यर्थः॥ 1-3-59 ग्रस्तामिति। हे अश्विनौ। सुपर्णस्य लुप्तोपममेतत्। सुपर्णतुल्यपराक्रमस्य गतेर्वा वृकस्य बलेन ग्रस्तां अभिभूतां। वर्तिकां वर्तिकाख्यां पक्षिणीं। तस्याः सौभगाय जीवनरूपसुखाय। अमुञ्चतां भवन्ताविति शेषः। आस्नो वृकस्येत्यस्यामृचि इयं कथा प्रसिद्धा। अहं तौ युवां तावत् कार्त्स्न्येन अनमं नमस्कृतवानस्मि। तौ कौ। यौ प्रति। सुष्टु वर्तत इति सुवृत् सोमयागकर्ता। तमाय तमु ग्लानाविति धातोः ग्लानये। असत्तमाः असमीचीना अपि गाः उदावहत् प्रार्थनाविषयत्वेन प्रापयामास। गोविषयप्रार्थनां कृतवानित्यर्थः। किंभूतौ यौ। अरुणा अरुणौ। डादेशश्छान्दसः। लुप्तोपममेतत्। सोमयागे हि प्रातरनुवाकादावश्विनोः स्तुतत्वात् यथा दिनारम्भे अरुणस्तथा सोमयागारम्भे युवामित्यर्थः। अत्रायमाशयः। सोमयागे इन्द्रादिषु देवताभूतेषु सत्स्वपि असमीचीनगोरक्षणस्यानन्यसाध्यत्वज्ञानेन यजमानेन भवन्तावेव प्रार्थितावित्यहमपि युवामेव स्तौमीति॥ 1-3-60 षष्टिश्च गाव इति। ज्योतिष्टोमे सन्त्युपसदस्तिस्रः। ताश्च सत्रेऽधिका भवन्ति। उपसत्सु च प्रवर्ग्य उक्तः। तत्र महावीराख्यपात्रेषु तप्ते घृते दुग्धं प्रक्षिप्यते तदर्था चास्ति धेनुः। ततो घृतं दुग्धं च मिश्रमश्विभ्यां हूयते। एवं सति यदा गवामयनादिसत्रेषु संवत्सरमुपसदः क्रियन्ते तत्र घर्मे सर्वोत्कृष्टे अश्विनावेव यष्टव्याविति स्तुतिरत्र क्रियते। तावश्विनावनममिति गतेन संबन्धः। तौ कौ यत्तदोर्नित्यसंबन्धाद्यौ तं घर्मं दुहतः साधयतः। प्रसिद्धोपि घर्मो भवतोर्भवति। भवतोरेव देवतात्वादित्याशयः। तं कं यत्तदोर्नित्यसंबन्धाद्यं घर्मं त्रिशताः षष्टिश्च धेनवो दुग्धदात्र्यो गावः। घर्मे दुग्धरहितानां गवामनुपयोगात्। एकं वत्सं वत्सरं। अत्यन्तसंयोगे द्वितीया। वत्सरावधीत्यर्थः। सुवते साधयन्ति। घृतेन। दुहन्ति दुग्धेन साधयन्ति। यज्ञादौ सावनः स्मृत इति वाक्यादत्र सावनवर्षग्रहणेन षष्ट्यधिकशतत्रयदिनानि भवन्ति। तेन तावत्य एव गावः घृतदुग्धाभ्यां घर्मं साधयन्तीत्यर्थः। कथंभूता गावः। नानागोष्ठाः लुप्तोपममेतत्। दिनानां गोष्ठोपमाया विवक्षितत्वात् नानागोष्ठनिष्ठा इत्यर्तः। एकदोहना विहिताः एकोऽध्वर्युर्दोहनकर्ता यासामेवंभूताः श्रुतावुक्ता इत्यर्थः। किंभूत घर्मं उक्थ्यं प्रशस्यम्॥ 1-3-61-62 एकां नाभिमिति। सूर्यरथचालकत्वेनाश्विनावत्र स्तूयेते। श्लोकद्वयस्यैकान्वयः। हे अश्विनौ युवां। विषीदतं विषीदन्तं। छान्दसो नुमभावः। मां मुञ्चतः। लकारव्यत्ययेन मुञ्चतमित्याशंसा। तौ कौ। यावश्विनौ। चर्षणी लुप्तोपमं चैतत्। चर्षणिशब्दो निघण्टुषु मनुष्यपर्यायः पठितः। मनुष्याविवेत्यर्थः। सूर्यरथचालकत्वेन अश्विनोः शोभां वक्तुं सूर्यरथसंबन्धिचक्रद्वयगतिं वर्णयति पादत्रिकद्वयेन। एकपदमावृत्य योज्यं। एकं चक्रं ईदृशं परिवर्तते भ्रमति। अन्यदेकं चक्रं ईदृशं वर्तते चलतीत्यर्थः। कीदृशमेकं चक्रं आद्यस्य एकां नाभिं सप्तशताः सप्तशतसङ्ख्याः अराः अन्याश्च विंशतिसङ्ख्या अराः श्रिताः संलग्नाः। चक्रमध्यस्थनाभौ विंशत्यधिकसप्तशतसंख्याः अराः तिर्यक् संलग्ना इत्यर्थः। किंभूता अराः। प्रधिषु बाह्यचक्रावयवेषु अर्पिता अधिनिवेशिता इत्यर्थः। कीदृशमन्यच्चक्रं द्वादशारं षण्णाभि। पुंरत्वं छान्दसम्। कीदृशं प्रथमचक्रं। अनेमि चलनेमिरहितमित्यर्थः। अजरं न जीर्यत इत्यजरम्। जीर्णं न भवतीत्यर्थः। एकं चक्रं मध्यशङ्कुनिहितपाशवत्स्वस्थल एव परिभ्रमत्। द्वितीयं तु समन्ततश्चरतीत्याशयः। द्वितीयचक्रविशेषणमेकाक्षमिति। एकं उत्कृष्टोऽक्षोऽस्य अतिदृढ इत्यर्थः। अमृतस्य स्वर्गस्य धारणं रक्षणसाधनम्। यस्मिन्स्वचक्रे विश्वे सवे देवाः अधिविषक्ताः। प्राधान्याद्देवग्रहणम्। तेन तदुपलक्षिताः सर्वे जीवा इत्यर्थः। सर्वेषां सूर्यचक्रनियोगोदितत्वादित्यर्थः। अत्र "पञ्चारे चक्रे" इत्यादिश्रुतयो मानम्॥ 1-3-63 अश्विनाविति। हे अश्विनौ दासपत्नी। सुपांसुलुगिति लुप्त सप्तमीबहुवचनत्वेन दासपत्नीषु अप्सु। इन्दुं अमृतं सोमाख्यममृतं। तिरोधत्तां कृतवन्तौ। किंभूतावश्विनौ वृत्तभूयौ भूयोवृत्तौ नानाकर्माणावित्यर्थः। हित्वेति। अश्विनौ यत् यदा गिरिं मे हित्वा त्यक्त्वा गां भुवं उदाचरन्तौ गच्छन्तौ। तत् तदा बलस्य प्राणिनां सामर्थ्यस्य संबन्धिनीं तज्जनिकां वृष्टिं प्रति। अह्नात शीघ्रम्। अह्नादिति सुबन्तप्रतिरूपकमव्ययं। प्रस्थितौ कृतप्रस्थानौ भवथः। सुमेरोः सकाशाद्भुवमागत्य प्राणिनामन्नादिद्वारेण बलजनिकां वृष्टिं कुरुथ इत्यर्थः॥ 1-3-64 युवामिति। हे अश्विनौ युवां अग्रे प्रथमं समानं सम्यक् आनः आगतं गमन यस्मिन्कर्मणि तथा। सोमयागे प्रथमं गच्छन्ताविति यावत् दश दिशो जनयथः। दिक्शब्देन इन्द्रादयो दिक्पाला लक्ष्यन्ते। जनिः प्रादुर्भावार्थः। सोमयागे प्रथमगामित्वेन इन्द्रादिदेवताप्रादुर्भावकत्वं। अथ तदनन्तरं याः दिशः दिग्देवता मूर्ध्नि यागस्य मूर्ध्नि प्रधाने वियन्ति संबन्ध्यन्ते। तासां दिग्देवतानां यातं यानमनु पश्चात् ऋषयः प्रयान्ति मूर्ध्नीति पूर्वेणान्वयः। अतएव युवयोः देवा मनुष्याश्च क्षितिमैश्वर्यं ऐश्वर्य युक्तां स्तुतिमाचरन्ति कुर्वन्ति॥ 1-3-65 युवां वर्णानिति त इति तच्छब्दात् यच्छब्दो द्रष्टव्यः। हे अश्विनौ युवां वर्णान्नानावर्णान् विश्वरूपान् सृष्ट्यादिहेतुत्वेन अनेकरूपान् यानभानून् विकुरुथः विशेषेण कुरुथः सूर्यरथप्रकाशयितृत्वादित्याशयः। ते भानवः सूर्यकिरणाः विश्वा विश्वानि सर्वाणि भुवनानि अधिक्षियन्ते आवृण्वन्ति। त एव भानवोऽनुसृताश्चरन्त्यपि विचरन्ति चेत्यर्थः। अतएव देवा मनुष्याश्च युवयोः क्षिति स्तुतिमाचरन्तीति पूर्ववदर्थः॥ 1-3-66 तौ नासत्याविति हे नासत्यावश्विनौ अहं तौ वां युवां महे पूजयामि। मनसा पूजयामीत्यर्थः। यां छान्दसत्वेन जात्यभिप्रायेणैकवचनम्। ये। पुष्करस्य जात्यभिप्रायैकवचनं। पुष्कराणां पद्मानां स्रजं जात्येकवचनेन स्रजौ माले बिभृथो धारयथः। तौ प्रसिद्धौ अमृतौ नास्ति मृतं मरणं ययोस्तौ तथोक्तौ ऋतावृधौ ऋतं सत्यं यज्ञमुदकं वा वर्धयत इति तथा तौ नासत्यौ ऋते विना देवा इन्द्रादयः पदे स्थाने सोमयागादौ तद्देवसंबन्धित्वेन प्रसिद्धं हविः न प्रसूते वचनव्यत्ययेन न प्राप्नुवन्ति। सोमयागे अश्विनोः प्रथमगामित्वेन तौ विना देवाः स्वांशं न स्वीकुर्वन्तीत्यर्थः॥ 1-3-67 मुखेन गर्भमिति। हे अश्विनौ तौ युवां जीवसे जीवितु। असेन्प्रत्ययान्तमेतत्। गां दृष्टिं मुञ्चथः लकारव्यत्ययेन मुञ्चतमित्याशंसा। तौ कौ यौ मुखेन कृत्वा युवानौ तरुणावेव गर्भं भावप्रधानो निर्देशः। गर्भत्वं लभतां अलभतां। बहुलं छन्दसीत्यडभावः। ननु नवमासगर्भधारणाभावे कथमाकस्मिकोत्पत्तिः कथं च स्तन्यपानाद्यभावे आकस्मिकं तारुण्यमित्यत आह। गतासुरित्यादि। गता असवः प्राणा यस्येति गतासुर्मनुष्यादिः। एतत् छान्दसो लिङ्गव्यत्ययः। एनं गर्भं। प्रपदेन प्रकृष्टेन पदेन गमनेन नवमासरूपेण प्रसूते जातः उत्पन्नः स गर्भः सद्यः तत्काले जननीं अत्ति पिबति। मनुष्यदेहे एतदुचितम्। अश्विनोस्तु मरणधर्मत्वाभावान्नैवमित्याशयः॥ 1-3-77 एषा तस्येति सूतवाक्यं॥ 1-3-79 गौर्बलीवर्दः॥ 1-3-81 नेयेष न कामितवान्॥ 1-3-83 नियोजयामास अग्निशुश्रूषादतविति शेषः॥ 1-3-84 परिहीयते न्यूनं भवति॥ 1-3-90 आहुः वृद्धा इति शेषः॥ 1-3-91 व्रूयात् अध्यायपयेत्। पृच्छति अधीते। अधर्मेण गुरुदक्षिणादिव्यतिरेकेण॥ 1-3-96 पिनद्धे धृते॥ 1-3-101 अनुपस्पृश्य अनाचम्य॥ 1-3-106 अनृतेनोपचरितुं वञ्चयितुं॥ 1-3-127 उदकार्थं शौचाचमनादि कर्तुं॥ 1-3-129 दृढमासन्नः अत्यन्तसन्निहितः॥ 1-3-135 कल्माषकुण्डलाः चित्रकुण्डलाः॥ 1-3-137 अर्कांशुसेनायां सेनावद्दुःसहरश्मिजाले॥ 1-3-142 महद्द्युग्नि तीर्थविशेषे॥ 1-3-145 मन्त्रवादश्लोकैः मन्त्रस्वरूपश्लोकैः॥ 1-3-146 त्रीण्यर्पितानीति। मन्त्रलिङ्गमात्रावगमात्तुष्टाव। विशेषशानं तु तस्य गुरुमुखादेव भविष्यति। अत्र चक्रे। नित्यं चरति भ्रमति। ध्रुवे प्रवाहरूपेण नित्ये कालरूपे। शतानि षष्टिश्च अहोरात्राणामिति शेषः। चतुर्विंशतिपर्वणां शुक्लकृष्णपक्षरूपाणां योगो युस्मिन्तथाभूते। मध्येऽर्पितानि। यच्च षट्कुमाराः ऋतवः परिवर्तयन्ति॥ 1-3-147 तन्त्रं चेदमिति। तन्त्रं आतानवितानरूपं तन्तुसमुदायं। विश्वरूपे समयभेदेन स्त्रीपुरुषादिरूपे। युवत्यौ धाताविघातारौ। वयतः रचनां कुरतः। संवत्सररूपं पटमितिशेषः। वर्तयन्त्यौ संचारयन्त्यौ। भूतानि च परिवर्तयन्त्यौ वयत इति पूर्वेणान्वयः॥ 1-3-148 भर्ता धारकः॥ 1-3-149 अपां गर्भं अद्भ्यो जातं। पुराणं आदिसर्गभवं। वैश्वानरं अग्निरूपमश्व। वाजिन वाहनं अभ्युपैति। तस्मै नम इत्यन्वयः॥ 1-3-152 स्नोतोभ्यः शरीररन्ध्रेभ्यः॥ 1-3-157 आवापयन्ती वेणीरूपेण केशानां संग्रथनं कारयन्ती॥ 1-3-159 त्वं मनागसि न शप्तः इति पाठे स्वलकालनिमित्तं न शप्तोसि। यदि क्षमं नागतः स्याः शप्तः स्या इत्यर्थः॥ 1-3-168 न व्यापन्नो न मृतः॥ 1-3-182 कश्यप इत्यपि पाठो दृश्यते॥ ॥ तृतीयोऽध्यायः॥ 3 ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ