आदिपर्व - अध्याय 009

  


Mahabharata - महाभारतम्

1. आदिपर्व - अध्याय 009

॥ श्रीः ॥

1.9. अध्यायः 009

Mahabharata - Adi Parva - Chapter Topics

देवदूतवचनेन रुरुकृतस्वार्धायुः प्रदानेन प्रमद्वराजीवनं तया सह रुरोर्विवाहश्च॥ 1 ॥

Mahabharata - Adi Parva - Chapter Text

1-9-0(1010)

सौतिरुवाच। 1-9-0x(42)

तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु।

रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः॥ 1-9-1(1011)

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु।

अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥ 1-9-2(1012)

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी।

`प्राणानपहरन्तीव पूर्णचन्द्रनिभानना॥ 1-9-3(1013)

यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा।

मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति॥ 1-9-4(1014)

पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे।'

बान्धवानां च सर्वेषां किं नु दुःखमतःपरम्॥ 1-9-5(1015)

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि।

सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ 1-9-6(1016)

यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः।

प्रमद्वरा तथाद्यैषा समुत्तिष्ठतु भामिनी॥ 1-9-7(1017)

[एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च।

देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने॥] 1-9-8(1018)

`कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि।

यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया॥ 1-9-9(1019)

विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः।

दूतं प्रस्थापयामासुः संदिश्यास्य हितं वचः॥ 1-9-10(1020)

स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः।

उवाच देववचनं रुरुमाभाष्य दुःखितम्॥ 1-9-11(1021)

देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम्।

त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम॥' 1-9-12(1022)

अभिधत्से ह यद्वाचा रुरो दुःखान्न तन्मृषा।

न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ 1-9-13(1023)

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता।

तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ 1-9-14(1024)

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः।

तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ 1-9-15(1025)

रुरुरुवाच। 1-9-16x(43)

क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर।

करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ 1-9-16(1026)

देवेदूत उवाच। 1-9-17x(44)

आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन।

एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा॥ 1-9-17(1027)

रुरुरुवाच। 1-9-18x(45)

आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम।

शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ 1-9-18(1028)

सौतिरुवाच। 1-9-19x(46)

ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ।

धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ 1-9-19(1029)

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा।

समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ 1-9-20(1030)

धर्मराज उवाच। 1-9-21x(47)

प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि।

उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ 1-9-21(1031)

सौतिरुवाच। 1-9-22x(48)

एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा।

रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ 1-9-22(1032)

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः।

आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ 1-9-23(1033)

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा।

विवाहं तौ च रेमाते परस्परहितैषिणौ॥ 1-9-24(1034)

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्।

व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ 1-9-25(1035)

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः।

अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा॥ 1-9-26(1036)

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्।

शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम्॥ 1-9-27(1037)

तत उद्यम्य दम्डं स कालदण्डोपमं तदा।

जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः॥ 1-9-28(1038)

नापराध्यामि ते किंचिदहमद्य तपोधन।

संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥ ॥ 1-9-29(1039)

इति श्रीमन्महाभारते आदिपर्वाणि पौलोमपर्वणि नवमोऽध्यायः॥ 9 ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-9-13 गतायुषः आयुर्नास्ति पुनर्न भवतीत्यर्थः॥ 1-9-23 भविष्ये जातके॥ 1-9-25 जिह्मगानां सर्पाणां॥ 1-9-27 डुण्डुभं जलसर्पं॥ नवमोऽध्यायः॥ 9 ॥


एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने