Mahabharata - महाभारतम्
1. आदिपर्व- अध्याय 008
॥ श्रीः ॥
1.8. अध्यायः 008
Mahabharata - Adi Parva - Chapter Topics
रुरुचरितं॥ 1 ॥ मेन्कात्मजायाः प्रमद्वरायाः रुरुणा सह विवाहप्रसङ्गः॥ 2 ॥ प्रमद्वरायाः सर्पदंशेन रुरोर्दुःखम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Tex
1-8-0(982)
सौतिरुवाच। 1-8-0x(41)
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्।
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥ 1-8-1(983)
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्।
रुरुः प्रमद्वरायां तु शुनकं समजीजनम्॥ 1-8-2(984)
शुनकस्तु महासत्वः सर्वभार्गवनन्दनः।
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥ 1-8-3(985)
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः।
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥ 1-8-4(986)
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः।
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥ 1-8-5(987)
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्।
गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः॥ 1-8-6(988)
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन।
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥ 1-8-7(989)
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा।
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥ 1-8-8(990)
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया।
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥ 1-8-9(991)
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्।
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥ 1-8-10(992)
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च।
ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥ 1-8-11(993)
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्।
स्थूलकेशो महाभागश्चकार सुमहानृषिः॥ 1-8-12(994)
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता।
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः॥ 1-8-13(995)
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्।
बभूव किल धर्मात्मा मदनोपहतस्तदा॥ 1-8-14(996)
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्।
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥ 1-8-15(997)
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्।
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते॥ 1-8-16(998)
ततः कतिपयाहस्य विवाहे समुपस्थिते।
सखीभिः क्रीडती सार्धं सा कन्यावरवर्णिनी॥ 1-8-17(999)
नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम्।
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥ 1-8-18(1000)
स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा।
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥ 1-8-19(1001)
सा दष्टा तेन सर्पेण पपात सहसा भुवि।
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥ 1-8-20(1002)
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा।
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत्॥ 1-8-21(1003)
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता।
भूयो मनोहरतरा बभूव तनुमध्यमा॥ 1-8-22(1004)
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः।
विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥ 1-8-23(1005)
ततः सर्वे द्विजतराः समाजग्मुः कृपान्विताः।
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥ 1-8-24(1006)
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः।
भरद्वाजः कौणकृत्स्य आर्ष्टिषेणोऽथ गौतमः॥ 1-8-25(1007)
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः।
तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम्॥ 1-8-26(1008)
रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ।
ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा॥ ॥ 1-8-27(1009)
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि अष्टमोऽध्यायः॥ 8 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-8-3 शुनकस्तु शौनकस्त्वमिति पाठान्तरम्॥ 1-8-6 प्रजज्ञिवान् उत्पादितवान्॥ 1-8-17 कतिपयाहस्य कतिपयाहस्सु इति पाठान्तरं। कतिपयाहस्सु हतेष्वित्यर्थः॥ 1-8-19 कालधर्मणा मृत्युना॥ अष्टमोऽध्यायः॥ 8 ॥

0 Comments