४२
सूत उवाच||
एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः |
उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ||१||
अहमेव जरत्कारुः किल्बिषी भवतां सुतः |
तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ||२||
पितर ऊचुः||
पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया |
किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ||३||
जरत्कारुरुवाच||
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते |
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ||४||
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः |
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ||५||
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः |
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ||६||
भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता |
प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ||७||
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि |
अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ||८||
सूत उवाच||
एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः |
न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ||९||
यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा |
तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ||१०||
यानि भूतानि सन्तीह स्थावराणि चराणि च |
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ||११||
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् |
निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ||१२||
निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः |
दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ||१३||
यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः |
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ||१४||
मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् |
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ||१५||
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः |
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ||१६||
तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् |
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ||१७||
तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने |
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ||१८||
असनामेति वै मत्वा भरणे चाविचारिते |
मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ||१९||
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन |
वासुके भरणं चास्या न कुर्यामित्युवाच ह ||२०||
४३
सूत उवाच||
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा |
सनामा तव कन्येयं स्वसा मे तपसान्विता ||१||
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम |
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ||२||
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति |
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ||३||
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः |
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ||४||
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् |
जगाम भार्यामादाय स्तूयमानो महर्षिभिः ||५||
शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् |
तत्र भार्यासहायः स जरत्कारुरुवास ह ||६||
स तत्र समयं चक्रे भार्यया सह सत्तमः |
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ||७||
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे |
एतद्गृहाण वचनं मया यत्समुदीरितम् ||८||
ततः परमसंविग्ना स्वसा नागपतेस्तु सा |
अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ||९||
तथैव सा च भर्तारं दुःखशीलमुपाचरत् |
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ||१०||
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा |
भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ||११||
तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः |
अतीव तपसा युक्तो वैश्वानरसमद्युतिः ||१२||
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ||१२||
ततः कतिपयाहस्य जरत्कारुर्महातपाः |
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ||१३||
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् |
अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ||१४||
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ||१४||
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा |
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ||१५||
कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः |
धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ||१६||
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति |
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ||१७||
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा |
तमृषिं दीप्ततपसं शयानमनलोपमम् ||१८||
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ||१८||
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति |
सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ||१९||
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः |
सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ||२०||
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः |
भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ||२१||
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे |
समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ||२२||
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः |
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ||२३||
न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् |
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ||२४||
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् |
अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ||२५||
नावमानात्कृतवती तवाहं प्रतिबोधनम् |
धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ||२६||
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः |
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ||२७||
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे |
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ||२८||
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे |
इतो मयि गते भीरु गतः स भगवानिति ||२९||
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ||२९||
इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा |
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ||३०||
बाष्पगद्गदया वाचा मुखेन परिशुष्यता |
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ||३१||
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ||३१||
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् |
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ||३२||
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम |
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ||३३||
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम |
अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ||३४||
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् |
सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ||३५||
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये |
इममव्यक्तरूपं मे गर्भमाधाय सत्तम ||३६||
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ||३६||
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् |
यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ||३७||
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः |
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ||३८||
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः |
उग्राय तपसे भूयो जगाम कृतनिश्चयः ||३९||
४४
सूत उवाच||
गतमात्रं तु भर्तारं जरत्कारुरवेदयत् |
भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ||१||
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् |
उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ||२||
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् |
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ||३||
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् |
एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ||४||
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् |
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ||५||
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् |
किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ||६||
दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः |
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ||७||
आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् |
शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ||८||
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत |
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ||९||
पृष्टो मयापत्यहेतोः स महात्मा महातपाः |
अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः ||१०||
स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित् |
उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ||११||
न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे |
उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ||१२||
इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् |
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ||१३||
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा |
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ||१४||
सान्त्वमानार्थदानैश्च पूजया चानुरूपया |
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ||१५||
ततः स ववृधे गर्भो महातेजा रविप्रभः |
यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ||१६||
यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा |
कुमारं देवगर्भाभं पितृमातृभयापहम् ||१७||
ववृधे स च तत्रैव नागराजनिवेशने |
वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ||१८||
चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः |
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ||१९||
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् |
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ||२०||
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् |
गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ||२१||
भगवानिव देवेशः शूलपाणिर्हिरण्यदः |
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ||२२||
४५
शौनक उवाच||
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः |
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ||१||
सूत उवाच||
शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा |
आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ||२||
जनमेजय उवाच||
जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम |
आसीद्यथा च निधनं गतः काले महायशाः ||३||
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः |
कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ||४||
सूत उवाच||
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना |
सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ||५||
धर्मात्मा च महात्मा च प्रजापालः पिता तव |
आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ||६||
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत |
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ||७||
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः |
द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन ||८||
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ||८||
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु |
स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ||९||
विधवानाथकृपणान्विकलांश्च बभार सः |
सुदर्शः सर्वभूतानामासीत्सोम इवापरः ||१०||
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः |
धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ||११||
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय |
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ||१२||
परिक्षीणेषु कुरुषु उत्तरायामजायत |
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ||१३||
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः |
जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ||१४||
षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः |
प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ||१५||
ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ||१५||
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् |
इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ||१६||
बाल एवाभिजातोऽसि सर्वभूतानुपालकः ||१६||
जनमेजय उवाच||
नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च |
विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ||१७||
कथं निधनमापन्नः पिता मम तथाविधः |
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ||१८||
सूत उवाच||
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् |
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ||१९||
बभूव मृगयाशीलस्तव राजन्पिता सदा |
यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ||२०||
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ||२०||
स कदाचिद्वनचरो मृगं विव्याध पत्रिणा |
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ||२१||
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् |
न चाससाद गहने मृगं नष्टं पिता तव ||२२||
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः |
क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ||२३||
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् |
न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ||२४||
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् |
मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ||२५||
न बुबोध हि तं राजा मौनव्रतधरं मुनिम् |
स तं मन्युसमाविष्टो धर्षयामास ते पिता ||२६||
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् |
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ||२७||
न चोवाच स मेधावी तमथो साध्वसाधु वा |
तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ||२८||
४६
मन्त्रिण ऊचुः||
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् |
मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ||१||
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः |
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ||२||
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह |
अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ||३||
सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ||३||
मृतं सर्पं समासक्तं पित्रा ते जनमेजय |
वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ||४||
तपस्विनमतीवाथ तं मुनिप्रवरं नृप |
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ||५||
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा |
शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ||६||
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् |
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ||७||
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः |
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ||८||
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह |
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ||९||
अनागसि गुरौ यो मे मृतं सर्पमवासृजत् |
तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ||१०||
सप्तरात्रादितः पापं पश्य मे तपसो बलम् ||१०||
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् |
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ||११||
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः |
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ||१२||
तक्षकस्त्वां महाराज तेजसा सादयिष्यति ||१२||
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय |
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ||१३||
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते |
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ||१४||
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा |
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ||१५||
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ||१५||
काश्यप उवाच||
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज |
तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ||१६||
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् |
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ||१७||
तक्षक उवाच||
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि |
ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ||१८||
मन्त्रिण ऊचुः||
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः |
तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ||१९||
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् |
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ||२०||
स एवमुक्तो नागेन काश्यपो द्विपदां वरः |
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ||२१||
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः |
तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ||२२||
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना |
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ||२३||
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम |
अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ||२४||
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् |
अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ||२५||
जनमेजय उवाच||
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने |
संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ||२६||
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् |
श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ||२७||
मन्त्रिण ऊचुः||
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा |
समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ||२८||
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव |
विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ||२९||
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ||२९||
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा |
द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ||३०||
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् |
यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ||३१||
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् |
श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ||३२||
सूत उवाच||
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः |
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ||३३||
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः |
मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ||३४||
उवाच च महीपालो दुःखशोकसमन्वितः ||३४||
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति |
निश्चितेयं मम मतिर्या वै तां मे निबोधत ||३५||
अनन्तरमहं मन्ये तक्षकाय दुरात्मने |
प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ||३६||
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् |
यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ||३७||
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः |
काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ||३८||
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् |
सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ||३९||
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः |
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ||४०||
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् |
भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ||४१||
४७
सूत उवाच||
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः |
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ||१||
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ||१||
पुरोहितमथाहूय ऋत्विजं वसुधाधिपः |
अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ||२||
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् |
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ||३||
अपि तत्कर्म विदितं भवतां येन पन्नगम् |
तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ||४||
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना |
तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ||५||
ऋत्विज ऊचुः||
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् |
सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ||६||
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप |
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ||७||
सूत उवाच||
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् |
हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ||८||
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा |
आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ||९||
ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम |
देशं तं मापयामासुर्यज्ञायतनकारणात् ||१०||
यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ||१०||
ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् |
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ||११||
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् |
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ||१२||
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति |
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ||१३||
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् |
स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ||१४||
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा |
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ||१५||
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ||१५||
एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् |
क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ||१६||
ततः कर्म प्रववृते सर्पसत्रे विधानतः |
पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ||१७||
परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः |
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ||१८||
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते |
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ||१९||
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने |
विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ||२०||
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे |
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ||२१||
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा |
रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ||२२||
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च |
अवशानि विनष्टानि पन्नगानां द्विजोत्तम ||२३||
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे |
मत्ता इव च मातङ्गा महाकाया महाबलाः ||२४||
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः |
घोराश्च परिघप्रख्या दन्दशूका महाबलाः ||२५||
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ||२५||
४८
शौनक उवाच||
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः |
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ||१||
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे |
विषादजननेऽत्यर्थं पन्नगानां महाभये ||२||
सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति |
सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ||३||
सूत उवाच||
हन्त ते कथयिष्यामि नामानीह मनीषिणाम् |
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ||४||
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः |
च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ||५||
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः |
ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ||६||
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् |
उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ||७||
असितो देवलश्चैव नारदः पर्वतस्तथा |
आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ||८||
वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् |
कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ||९||
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः |
सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ||१०||
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ |
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ||११||
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः |
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ||१२||
पततां चैव नागानां धिष्ठितानां तथाम्बरे |
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ||१३||
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् |
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ||१४||
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः |
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ||१५||
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक |
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन ||१६||
प्रसादितो मया पूर्वं तवार्थाय पितामहः |
तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ||१७||
एवमाश्वासितस्तेन ततः स भुजगोत्तमः |
उवास भवने तत्र शक्रस्य मुदितः सुखी ||१८||
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः |
अल्पशेषपरीवारो वासुकिः पर्यतप्यत ||१९||
कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् |
स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ||२०||
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च |
सीदामीव च संमोहाद्घूर्णतीव च मे मनः ||२१||
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च |
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ||२२||
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया |
व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ||२३||
अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः |
जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ||२४||
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे |
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ||२५||
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् |
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ||२६||
४९
सूत उवाच||
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा |
वासुकेर्नागराजस्य वचनादिदमब्रवीत् ||१||
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः |
कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ||२||
आस्तीक उवाच||
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे |
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ||३||
सूत उवाच||
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी |
भगिनी नागराजस्य जरत्कारुरविक्लवा ||४||
भुजगानामशेषाणां माता कद्रूरिति श्रुतिः |
तया शप्ता रुषितया सुता यस्मान्निबोध तत् ||५||
उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम |
विनतानिमित्तं पणिते दासभावाय पुत्रकाः ||६||
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः |
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ||७||
तां च शप्तवतीमेवं साक्षाल्लोकपितामहः |
एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ||८||
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा |
अमृते मथिते तात देवाञ्शरणमीयिवान् ||९||
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् |
भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ||१०||
ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् |
राज्ञा वासुकिना सार्धं स शापो न भवेदिति ||११||
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् |
अभिशापः स मात्रास्य भगवन्न भवेदिति ||१२||
ब्रह्मोवाच||
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति |
तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ||१३||
जरत्कारुरुवाच||
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः |
प्रादान्माममरप्रख्य तव पित्रे महात्मने ||१४||
प्रागेवानागते काले तत्र त्वं मय्यजायथाः ||१४||
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि |
भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ||१५||
अमोघं नः कृतं तत्स्याद्यदहं तव धीमते |
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ||१६||
सूत उवाच||
एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा |
अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ||१७||
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम |
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ||१८||
भव स्वस्थमना नाग न हि ते विद्यते भयम् |
प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ||१९||
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ||१९||
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् |
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ||२०||
यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ||२०||
स सम्भावय नागेन्द्र मयि सर्वं महामते |
न ते मयि मनो जातु मिथ्या भवितुमर्हति ||२१||
वासुकिरुवाच||
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते |
दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ||२२||
आस्तीक उवाच||
न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम |
दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ||२३||
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् |
नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन ||२४||
सूत उवाच||
ततः स वासुकेर्घोरमपनीय मनोज्वरम् |
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ||२५||
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः |
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ||२६||
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् |
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ||२७||
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः |
अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ||२८||
५०
आस्तीक उवाच||
सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे |
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||१||
शक्रस्य यज्ञः शतसङ्ख्य उक्त; स्तथापरस्तुल्यसङ्ख्यः शतं वै |
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||२||
यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः |
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||३||
गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः |
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||४||
नृगस्य यज्ञस्त्वजमीढस्य चासी; द्यथा यज्ञो दाशरथेश्च राज्ञः |
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||५||
यज्ञः श्रुतो नो दिवि देवसूनो; र्युधिष्ठिरस्याजमीढस्य राज्ञः |
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||६||
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र |
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||७||
इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा |
नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् ||८||
ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे |
एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ||९||
विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा |
प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः ||१०||
नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् |
धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा ||११||
शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् |
मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे ||१२||
खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः |
आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ||१३||
वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः |
प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति ||१४||
यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः |
श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् ||१५||
दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च |
और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा ||१६||
सूत उवाच||
एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः |
तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ ||१७||
५१
जनमेजय उवाच||
बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे |
इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः ||१||
सदस्या ऊचुः||
बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् |
सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ||२||
सूत उवाच||
व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच |
होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् ||३||
जनमेजय उवाच||
यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् |
तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ||४||
ऋत्विज ऊचुः||
यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः |
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ||५||
सूत उवाच||
यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् |
स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव ||६||
पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् |
वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति ||७||
एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले |
होता च यत्तः स जुहाव मन्त्रै; रथो इन्द्रः स्वयमेवाजगाम ||८||
विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः |
बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च ||९||
तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् |
ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ||१०||
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः |
तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ||११||
ऋत्विज ऊचुः||
अयमायाति वै तूर्णं तक्षकस्ते वशं नृप |
श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ||१२||
नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः |
घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ||१३||
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो |
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ||१४||
जनमेजय उवाच||
बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् |
वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् ||१५||
सूत उवाच||
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि |
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ||१६||
वरं ददासि चेन्मह्यं वृणोमि जनमेजय |
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ||१७||
एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा |
नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ||१८||
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो |
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ||१९||
आस्तीक उवाच||
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् |
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ||२०||
सूत उवाच||
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा |
पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ||२१||
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम |
अयाचत न चाप्यन्यं वरं स भृगुनन्दन ||२२||
ततो वेदविदस्तत्र सदस्याः सर्व एव तम् |
राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ||२३||
५२
शौनक उवाच||
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने |
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ||१||
सूत उवाच||
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च |
न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ||२||
यथास्मृति तु नामानि पन्नगानां निबोध मे |
उच्यमानानि मुख्यानां हुतानां जातवेदसि ||३||
वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे |
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ||४||
कोटिको मानसः पूर्णः सहः पैलो हलीसकः |
पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः ||५||
हिरण्यवाहः शरणः कक्षकः कालदन्तकः |
एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ||६||
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् |
पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ||७||
उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः |
शिलीशलकरो मूकः सुकुमारः प्रवेपनः ||८||
मुद्गरः शशरोमा च सुमना वेगवाहनः |
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ||९||
पारावतः पारियात्रः पाण्डरो हरिणः कृशः |
विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः ||१०||
ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम् |
कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम ||११||
ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः |
बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ ||१२||
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् |
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ||१३||
शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ |
पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ||१४||
आमाहठः कोमठकः श्वसनो मानवो वटः |
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ||१५||
ऋषभो वेगवान्नाम पिण्डारकमहाहनू |
रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ ||१६||
वराहको वारणकः सुमित्रश्चित्रवेदिकः |
पराशरस्तरुणको मणिस्कन्धस्तथारुणिः ||१७||
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः |
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ||१८||
एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः |
न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ||१९||
सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे |
कालानलविषा घोरा हुताः शतसहस्रशः ||२०||
महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः |
योजनायामविस्तारा द्वियोजनसमायताः ||२१||
कामरूपाः कामगमा दीप्तानलविषोल्बणाः |
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ||२२||
५३
सूत उवाच||
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः |
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ||१||
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत |
ततश्चिन्तापरो राजा बभूव जनमेजयः ||२||
हूयमाने भृशं दीप्ते विधिवत्पावके तदा |
न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ||३||
शौनक उवाच||
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् |
न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ||४||
सूत उवाच||
तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् |
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ||५||
वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता |
यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ||६||
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् |
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ||७||
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः |
प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ||८||
ततो हलहलाशब्दः प्रीतिजः समवर्तत |
आस्तीकस्य वरे दत्ते तथैवोपरराम च ||९||
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह |
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ||१०||
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः |
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ||११||
लोहिताक्षाय सूताय तथा स्थपतये विभुः |
येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ||१२||
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु |
ततश्चकारावभृथं विधिदृष्टेन कर्मणा ||१३||
आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् |
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ||१४||
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् |
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ||१५||
तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः |
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ||१६||
स गत्वा परमप्रीतो मातरं मातुलं च तम् |
अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ||१७||
एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः |
तेऽऽस्तीके वै प्रीतिमन्तो बभूवु; रूचुश्चैनं वरमिष्टं वृणीष्व ||१८||
भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् |
प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ||१९||
आस्तीक उवाच||
सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि |
धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् ||२०||
सूत उवाच||
तैश्चाप्युक्तो भागिनेयः प्रसन्नै; रेतत्सत्यं काममेवं चरन्तः |
प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ||२१||
जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः |
आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ||२२||
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् |
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ||२३||
सूत उवाच||
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः |
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ||२४||
इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव |
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ||२५||
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् |
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ||२६||
शौनक उवाच||
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् |
आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ||२७||
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन |
यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ||२८||
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् |
कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ||२९||
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् |
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ||३०||
सूत उवाच||
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः |
व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ||३१||
शौनक उवाच||
महाभारतमाख्यानं पाण्डवानां यशस्करम् |
जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ||३२||
श्रावयामास विधिवत्तदा कर्मान्तरेषु सः |
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ||३३||
मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः |
कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ||३४||
सूत उवाच||
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् |
कृष्णद्वैपायनमतं महाभारतमादितः ||३५||
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज |
शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ||३६||
आदिवंशावतरणपर्व
५४
सूत उवाच||
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् |
अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ||१||
जनयामास यं काली शक्तेः पुत्रात्पराशरात् |
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ||२||
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् |
वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ||३||
यं नातितपसा कश्चिन्न वेदाध्ययनेन च |
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ||४||
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः |
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ||५||
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् |
शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ||६||
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा |
विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ||७||
तत्र राजानमासीनं ददर्श जनमेजयम् |
वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ||८||
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः |
ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ||९||
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् |
सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ||१०||
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः |
आसनं कल्पयामास यथा शक्रो बृहस्पतेः ||११||
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् |
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ||१२||
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः |
पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ||१३||
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् |
गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ||१४||
तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् |
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ||१५||
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च |
सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ||१६||
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः |
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ||१७||
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् |
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ||१८||
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् |
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ||१९||
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् |
कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ||२०||
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा |
शशास शिष्यमासीनं वैशम्पायनमन्तिके ||२१||
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा |
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ||२२||
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा |
आचचक्षे ततः सर्वमितिहासं पुरातनम् ||२३||
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः |
भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ||२४||
५५
वैशम्पायन उवाच||
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः |
सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ||१||
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः |
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||२||
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् |
गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ||३||
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् |
राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ||४||
यथा च युद्धमभवत्पृथिवीक्षयकारकम् |
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ||५||
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् |
नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ||६||
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान् |
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ||७||
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः |
तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ||८||
ददावथ विषं पापो भीमाय धृतराष्ट्रजः |
जरयामास तद्वीरः सहान्नेन वृकोदरः ||९||
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् |
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ||१०||
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् |
उदतिष्ठन्महाराज भीमसेनो गतव्यथः ||११||
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् |
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ||१२||
तेषां तु विप्रकारेषु तेषु तेषु महामतिः |
मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ||१३||
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः |
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ||१४||
यदा तु विविधोपायैः संवृतैर्विवृतैरपि |
नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ||१५||
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः |
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ||१६||
तत्र तान्वासयामास पाण्डवानमितौजसः |
अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ||१७||
विदुरस्यैव वचनात्खनित्री विहिता ततः |
मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ||१८||
ततो महावने घोरे हिडिम्बं नाम राक्षसम् |
भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ||१९||
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा |
ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ||२०||
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् |
ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ||२१||
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः |
विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ||२२||
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च |
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ||२३||
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ||२३||
तस्माज्जनपदोपेतं सुविभक्तमहापथम् |
वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ||२४||
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः |
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ||२५||
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् |
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ||२६||
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः |
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ||२७||
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः |
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ||२८||
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा |
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ||२९||
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता |
षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ||३०||
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः |
वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ||३१||
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् |
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ||३२||
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् |
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ||३३||
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता |
सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ||३४||
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् |
बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ||३५||
नातिभारो हि पार्थस्य केशवेनाभवत्सह |
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ||३६||
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् |
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ||३७||
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् |
स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ||३८||
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः |
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ||३९||
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च |
अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ||४०||
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु |
नालभन्त महाराज ततो युद्धमवर्तत ||४१||
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् |
राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ||४२||
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् |
भेदो राज्यविनाशश्च जयश्च जयतां वर ||४३||
५६
जनमेजय उवाच||
कथितं वै समासेन त्वया सर्वं द्विजोत्तम |
महाभारतमाख्यानं कुरूणां चरितं महत् ||१||
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि |
विस्तरश्रवणे जातं कौतूहलमतीव मे ||२||
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति |
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||३||
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः |
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ||४||
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः |
प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ||५||
कथं नागायुतप्राणो बाहुशाली वृकोदरः |
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ||६||
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः |
शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ||७||
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा |
अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ||८||
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् |
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ||९||
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः |
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ||१०||
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन |
यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ||११||
वैशम्पायन उवाच||
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः |
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||१२||
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् |
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ||१३||
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः |
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ||१४||
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् |
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ||१५||
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते |
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ||१६||
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् |
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ||१७||
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् |
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ||१८||
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा |
महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ||१९||
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् |
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ||२०||
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् |
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ||२१||
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे |
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ||२२||
शरीरेण कृतं पापं वाचा च मनसैव च |
सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ||२३||
भारतानां महज्जन्म शृण्वतामनसूयताम् |
नास्ति व्याधिभयं तेषां परलोकभयं कुतः ||२४||
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च |
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ||२५||
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् |
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ||२६||
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः |
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ||२७||
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु |
धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ||२८||
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः |
अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ||२९||
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् |
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ||३०||
भारतानां महज्जन्म महाभारतमुच्यते |
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ||३१||
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः |
महाभारतमाख्यानं कृतवानिदमुत्तमम् ||३२||
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ |
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ||३३||
५७
वैशम्पायन उवाच||
राजोपरिचरो नाम धर्मनित्यो महीपतिः |
बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ||१||
स चेदिविषयं रम्यं वसुः पौरवनन्दनः |
इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ||२||
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् |
देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ||३||
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै |
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ||४||
इन्द्र उवाच||
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते |
तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ||५||
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः |
धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ||६||
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः |
ऊधः पृथिव्या यो देशस्तमावस नराधिप ||७||
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् |
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ||८||
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः |
वसुपूर्णा च वसुधा वस चेदिषु चेदिप ||९||
धर्मशीला जनपदाः सुसन्तोषाश्च साधवः |
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ||१०||
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः |
युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च ||११||
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद |
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ||१२||
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् |
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ||१३||
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः |
चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ||१४||
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् |
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ||१५||
लक्षणं चैतदेवेह भविता ते नराधिप |
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ||१६||
वैशम्पायन उवाच||
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः |
इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ||१७||
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा |
प्रवेशं कारयामास गते संवत्सरे तदा ||१८||
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः |
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ||१९||
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः |
अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ||२०||
माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ||२०||
भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः |
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ||२१||
एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् |
वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ||२२||
ये पूजयिष्यन्ति नरा राजानश्च महं मम |
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ||२३||
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति |
तथा स्फीतो जनपदो मुदितश्च भविष्यति ||२४||
एवं महात्मना तेन महेन्द्रेण नराधिप |
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ||२५||
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः |
भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ||२६||
वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ||२६||
सम्पूजितो मघवता वसुश्चेदिपतिस्तदा |
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ||२७||
इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ||२७||
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः |
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ||२८||
महारथो मगधराड्विश्रुतो यो बृहद्रथः |
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ||२९||
मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ||२९||
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः |
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ||३०||
वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ||३०||
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् |
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ||३१||
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ||३१||
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः |
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ||३२||
गिरिं कोलाहलं तं तु पदा वसुरताडयत् |
निश्चक्राम नदी तेन प्रहारविवरेण सा ||३३||
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् |
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ||३४||
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः |
वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ||३५||
चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ||३५||
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् |
ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ||३६||
तदहः पितरश्चैनमूचुर्जहि मृगानिति |
तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ||३७||
स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः |
चचार मृगयां कामी गिरिकामेव संस्मरन् ||३८||
अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ||३८||
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने |
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ||३९||
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत |
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ||४०||
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः |
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ||४१||
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः |
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ||४२||
सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ||४२||
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय |
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ||४३||
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् |
जवं परममास्थाय प्रदुद्राव विहङ्गमः ||४४||
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः |
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ||४५||
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः |
युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ||४६||
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः |
मीनभावमनुप्राप्ता बभूव यमुनाचरी ||४७||
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् |
जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ||४८||
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः |
मासे च दशमे प्राप्ते तदा भरतसत्तम ||४९||
उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ||४९||
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् |
काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ||५०||
तयोः पुमांसं जग्राह राजोपरिचरस्तदा |
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ||५१||
साप्सरा मुक्तशापा च क्षणेन समपद्यत |
पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ||५२||
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ||५२||
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना |
सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ||५३||
सिद्धर्षिचारणपथं जगामाथ वराप्सराः ||५३||
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी |
राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ||५४||
रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ||५४||
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् |
आसीन्मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता ||५५||
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले |
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ||५६||
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् |
दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ||५७||
विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः ||५७||
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् |
आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ||५८||
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः |
येन देशः स सर्वस्तु तमोभूत इवाभवत् ||५९||
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा |
विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ||६०||
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् |
त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ||६१||
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम |
गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ||६२||
एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ||६२||
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः |
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ||६३||
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि |
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ||६४||
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् |
स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ||६५||
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता |
जगाम सह संसर्गमृषिणाद्भुतकर्मणा ||६६||
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि |
तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ||६७||
ततो योजनगन्धेति तस्या नाम परिश्रुतम् |
पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ||६८||
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् |
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ||६९||
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ||६९||
स मातरमुपस्थाय तपस्येव मनो दधे |
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ||७०||
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् |
द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ||७१||
पादापसारिणं धर्मं विद्वान्स तु युगे युगे |
आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ||७२||
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया |
विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ||७३||
वेदानध्यापयामास महाभारतपञ्चमान् |
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ||७४||
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च |
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ||७५||
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः |
वसुवीर्यात्समभवन्महावीर्यो महायशाः ||७६||
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया |
अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ||७७||
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् |
इषीकया मया बाल्यादेका विद्धा शकुन्तिका ||७८||
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे |
तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ||७९||
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः |
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ||८०||
तेन शापेन धर्मोऽपि शूद्रयोनावजायत |
विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ||८१||
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् |
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ||८२||
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ||८२||
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः |
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ||८३||
अनादिनिधनो देवः स कर्ता जगतः प्रभुः |
अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ||८४||
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् |
पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ||८५||
अनन्तमचलं देवं हंसं नारायणं प्रभुम् |
धातारमजरं नित्यं तमाहुः परमव्ययम् ||८६||
पुरुषः स विभुः कर्ता सर्वभूतपितामहः |
धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ||८७||
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ |
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ||८८||
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ||८८||
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत |
महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ||८९||
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः |
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ||९०||
अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ||९०||
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः |
वैताने कर्मणि तते पावकात्समजायत ||९१||
वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ||९१||
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा |
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ||९२||
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः |
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ||९३||
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा |
दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ||९४||
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः |
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ||९५||
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् |
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ||९६||
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः |
इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ||९७||
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ |
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ||९८||
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः |
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ||९९||
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत |
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ||१००||
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे |
कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ||१०१||
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् |
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ||१०२||
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् |
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ||१०३||
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता |
यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ||१०४||
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ |
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ||१०५||
तेषामपरिमेयानि नामधेयानि सर्वशः |
न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि ||१०६||
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ||१०६||
५८
जनमेजय उवाच||
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः |
सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ||१||
यदर्थमिह सम्भूता देवकल्पा महारथाः |
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ||२||
वैशम्पायन उवाच||
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् |
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ||३||
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा |
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ||४||
तदा निःक्षत्रिये लोके भार्गवेण कृते सति |
ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ||५||
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः |
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ||६||
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः |
ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ||७||
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ||७||
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः |
जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ||८||
चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ||८||
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा |
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ||९||
ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ||९||
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः |
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ||१०||
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ||१०||
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् |
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ||११||
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् |
ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ||१२||
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः |
दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ||१३||
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः |
स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ||१४||
न बाल एव म्रियते तदा कश्चिन्नराधिप |
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ||१५||
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ |
इयं सागरपर्यन्ता समापूर्यत मेदिनी ||१६||
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः |
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ||१७||
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप |
न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ||१८||
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह |
न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ||१९||
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः |
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ||२०||
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः |
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ||२१||
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप |
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ||२२||
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ |
फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ||२३||
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप |
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ||२४||
ततः समुदिते लोके मानुषे भरतर्षभ |
असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ||२५||
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि |
ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह ||२६||
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः |
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ||२७||
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च |
क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ||२८||
जातैरिह महीपाल जायमानैश्च तैर्मही |
न शशाकात्मनात्मानमियं धारयितुं धरा ||२९||
अथ जाता महीपालाः केचिद्बलसमन्विताः |
दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ||३०||
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् |
इमां सागरपर्यन्तां परीयुररिमर्दनाः ||३१||
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् |
अन्यानि चैव भूतानि पीडयामासुरोजसा ||३२||
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते |
विचेरुः सर्वतो राजन्महीं शतसहस्रशः ||३३||
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः |
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ||३४||
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः |
पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ||३५||
न हीमां पवनो राजन्न नागा न नगा महीम् |
तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ||३६||
ततो मही महीपाल भारार्ता भयपीडिता |
जगाम शरणं देवं सर्वभूतपितामहम् ||३७||
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः |
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ||३८||
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः |
वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ||३९||
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी |
संनिधौ लोकपालानां सर्वेषामेव भारत ||४०||
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः |
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ||४१||
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत |
सुरासुराणां लोकानामशेषेण मनोगतम् ||४२||
तमुवाच महाराज भूमिं भूमिपतिर्विभुः |
प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ||४३||
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे |
तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ||४४||
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च |
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ||४५||
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् |
अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ||४६||
तथैव च समानीय गन्धर्वाप्सरसां गणान् |
उवाच भगवान्सर्वानिदं वचनमुत्तमम् ||४७||
स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति ||४७||
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः |
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ||४८||
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः |
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ||४९||
यः स चक्रगदापाणिः पीतवासासितप्रभः |
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ||५०||
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् |
अंशेनावतरस्वेति तथेत्याह च तं हरिः ||५१||
५९
वैशम्पायन उवाच||
अथ नारायणेनेन्द्रश्चकार सह संविदम् |
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ||१||
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः |
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ||२||
तेऽमरारिविनाशाय सर्वलोकहिताय च |
अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ||३||
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च |
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ||४||
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा |
पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ||५||
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा |
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ||६||
जनमेजय उवाच||
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा |
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ||७||
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः |
प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ||८||
वैशम्पायन उवाच||
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे |
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ||९||
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः |
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ||१०||
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः |
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ||११||
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः |
क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ||१२||
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत |
एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ||१३||
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः |
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ||१४||
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च |
भगो विवस्वान्पूषा च सविता दशमस्तथा ||१५||
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते |
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ||१६||
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः |
नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ||१७||
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् |
अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ||१८||
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत |
विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ||१९||
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् |
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ||२०||
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत |
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ||२१||
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः |
असिलोमा च केशी च दुर्जयश्चैव दानवः ||२२||
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् |
तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ||२३||
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा |
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ||२४||
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ |
निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ||२५||
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा |
इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ||२६||
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ||२६||
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः |
दनुपुत्रा महाराज दश दानवपुङ्गवाः ||२७||
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि |
वातापिः शत्रुतपनः शठश्चैव महासुरः ||२८||
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः |
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ||२९||
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् |
सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ||३०||
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् |
गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ||३१||
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः |
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ||३२||
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः |
भुवि ख्याता महावीर्या दानवेषु परन्तपाः ||३३||
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः |
क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ||३४||
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् |
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ||३५||
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ |
तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ||३६||
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् |
असुराणां सुराणां च पुराणे संश्रुतो मया ||३७||
एतेषां यदपत्यं तु न शक्यं तदशेषतः |
प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ||३८||
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ |
आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ||३९||
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः |
कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ||४०||
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा |
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ||४१||
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः |
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ||४२||
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः |
कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ||४३||
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ||४३||
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत |
अनवद्यामनुवशामनूनामरुणां प्रियाम् ||४४||
अनूपां सुभगां भासीमिति प्रावा व्यजायत ||४४||
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः |
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ||४५||
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा |
इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ||४६||
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् |
प्रावासूत महाभागा देवी देवर्षितः पुरा ||४७||
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा |
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ||४८||
असिता च सुबाहुश्च सुव्रता सुभुजा तथा |
सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ||४९||
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ||४९||
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा |
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ||५०||
इति ते सर्वभूतानां सम्भवः कथितो मया |
यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ||५१||
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा |
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ||५२||
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः |
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ||५३||
इमं तु वंशं नियमेन यः पठे; न्महात्मनां ब्राह्मणदेवसंनिधौ |
अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ||५४||
६०
वैशम्पायन उवाच||
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः |
एकादश सुताः स्थाणोः ख्याताः परममानसाः ||१||
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः |
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ||२||
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः |
स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ||३||
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः |
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ||४||
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः |
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ||५||
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप |
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ||६||
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा |
पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ||७||
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः |
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ||८||
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः |
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ||९||
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः |
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ||१०||
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः |
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ||११||
ददौ स दश धर्माय सप्तविंशतिमिन्दवे |
दिव्येन विधिना राजन्कश्यपाय त्रयोदश ||१२||
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे |
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ||१३||
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश |
द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ||१४||
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः |
कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ||१५||
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ||१५||
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः |
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ||१६||
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः |
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ||१७||
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा |
चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ||१८||
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः |
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ||१९||
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा |
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ||२०||
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते |
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ||२१||
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः |
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ||२२||
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः |
कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ||२३||
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः |
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ||२४||
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् |
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ||२५||
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी |
योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ||२६||
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ||२६||
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः |
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ||२७||
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः |
यो दिव्यानि विमानानि देवतानां चकार ह ||२८||
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः |
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ||२९||
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः |
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ||३०||
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः |
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ||३१||
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना |
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ||३२||
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः |
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ||३३||
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी |
असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ||३४||
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप |
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ||३५||
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव |
अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ||३६||
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा |
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ||३७||
वैनतेयस्तु गरुडो बलवानरुणस्तथा |
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ||३८||
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् |
एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ||३९||
यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ||३९||
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः |
भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ||४०||
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये |
स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ||४१||
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः |
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ||४२||
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे |
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ||४३||
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् |
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ||४४||
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः |
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ||४५||
महातपा महातेजा बाल एव गुणैर्युतः ||४५||
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् |
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ||४६||
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः |
सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ||४७||
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् |
तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ||४८||
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् |
लोके धाता विधाता च यौ स्थितौ मनुना सह ||४९||
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा |
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ||५०||
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत |
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ||५१||
प्रजानामन्नकामानामन्योन्यपरिभक्षणात् |
अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ||५२||
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः |
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ||५३||
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ||५३||
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् |
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ||५४||
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत |
भासी भासानजनयद्गृध्रांश्चैव जनाधिप ||५५||
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः |
चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ||५६||
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी |
कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ||५७||
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः |
मृगीं च मृगमन्दां च हरिं भद्रमनामपि ||५८||
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च |
सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ||५९||
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज |
ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ||६०||
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् |
ऐरावतः सुतस्तस्या देवनागो महागजः ||६१||
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः |
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ||६२||
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत |
द्वीपिनश्च महाभाग सर्वानेव न संशयः ||६३||
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप |
दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ||६४||
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत |
रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ||६५||
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ||६५||
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् |
सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ||६६||
अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ||६६||
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ |
सम्पातिं जनयामास तथैव च जटायुषम् ||६७||
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ||६७||
इत्येष सर्वभूतानां महतां मनुजाधिप |
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ||६८||
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः |
सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ||६९||
६१
जनमेजय उवाच||
देवानां दानवानां च यक्षाणामथ रक्षसाम् |
अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ||१||
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् |
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ||२||
वैशम्पायन उवाच||
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः |
प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ||३||
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः |
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ||४||
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः |
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ||५||
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः |
स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ||६||
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः |
धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ||७||
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः |
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ||८||
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः |
भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ||९||
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् |
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ||१०||
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः |
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ||११||
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् |
अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः ||१२||
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः |
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ||१३||
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः |
अशोको नाम राजासीन्महावीर्यपराक्रमः ||१४||
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः |
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ||१५||
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः |
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||१६||
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः |
स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ||१७||
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः |
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||१८||
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः |
बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ||१९||
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः |
सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ||२०||
इसृपा नाम यस्तेषामसुराणां बलाधिकः |
पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ||२१||
एकचक्र इति ख्यात आसीद्यस्तु महासुरः |
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ||२२||
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः |
चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ||२३||
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः |
सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ||२४||
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः |
बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ||२५||
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः |
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ||२६||
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत |
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ||२७||
शरभो नाम यस्तेषां दैतेयानां महासुरः |
पौरवो नाम राजर्षिः स बभूव नरेष्विह ||२८||
द्वितीयः शलभस्तेषामसुराणां बभूव यः |
प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ||२९||
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः |
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ||३०||
मृतपा इति विख्यातो य आसीदसुरोत्तमः |
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ||३१||
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः |
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||३२||
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः |
स विश्व इति विख्यातो बभूव पृथिवीपतिः ||३३||
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः |
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ||३४||
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः |
शुनको नाम राजर्षिः स बभूव नराधिपः ||३५||
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः |
जानकिर्नाम राजर्षिः स बभूव नराधिपः ||३६||
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः |
काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ||३७||
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् |
क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ||३८||
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः |
विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ||३९||
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः |
पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ||४०||
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः |
पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ||४१||
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः |
मणिमान्नाम राजर्षिः स बभूव नराधिपः ||४२||
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः |
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ||४३||
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः |
दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ||४४||
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः |
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ||४५||
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः |
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ||४६||
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः |
अपराजित इत्येव स बभूव नराधिपः ||४७||
तृतीयस्तु महाराज महाबाहुर्महासुरः |
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ||४८||
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः |
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ||४९||
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः |
महौजा इति विख्यातो बभूवेह परन्तपः ||५०||
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः |
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ||५१||
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् |
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ||५२||
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः |
बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ||५३||
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः |
ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ||५४||
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा |
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ||५५||
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः |
वीरधामा च कौरव्य भूमिपालश्च नामतः ||५६||
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः |
रुक्मी च नृपशार्दूलो राजा च जनमेजयः ||५७||
आषाढो वायुवेगश्च भूरितेजास्तथैव च |
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ||५८||
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च |
श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ||५९||
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः |
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ||६०||
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ |
जातः पुरा महाराज महाकीर्तिर्महाबलः ||६१||
यस्त्वासीद्देवको नाम देवराजसमद्युतिः |
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ||६२||
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत |
अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ||६३||
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः |
बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ||६४||
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः |
वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ||६५||
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत |
एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ||६६||
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः |
वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ||६७||
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः |
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ||६८||
तेषामवरजो भीष्मः कुरूणामभयङ्करः |
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ||६९||
जामदग्न्येन रामेण यः स सर्वविदां वरः |
अयुध्यत महातेजा भार्गवेण महात्मना ||७०||
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ |
रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ||७१||
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः |
द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ||७२||
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः |
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ||७३||
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् |
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ||७४||
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् |
जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ||७५||
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् |
विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ||७६||
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः |
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ||७७||
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि |
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ||७८||
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ||७८||
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् |
विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ||७९||
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः |
दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ||८०||
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः |
यः सर्वां घातयामास पृथिवीं पुरुषाधमः ||८१||
येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ||८१||
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह |
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ||८२||
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः |
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ||८३||
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् |
भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ||८४||
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि |
नकुलः सहदेवश्च सर्वलोकमनोहरौ ||८५||
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् |
अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ||८६||
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् |
शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ||८७||
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ |
विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ||८८||
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः |
दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ||८९||
यस्तु नारायणो नाम देवदेवः सनातनः |
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ||९०||
शेषस्यांशस्तु नागस्य बलदेवो महाबलः |
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ||९१||
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् |
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ||९२||
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः |
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ||९३||
तानि षोडश देवीनां सहस्राणि नराधिप |
बभूवुर्मानुषे लोके नारायणपरिग्रहः ||९४||
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले |
द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ||९५||
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी |
पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ||९६||
सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा |
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ||९७||
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते |
कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ||९८||
इति देवासुराणां ते गन्धर्वाप्सरसां तथा |
अंशावतरणं राजन्राक्षसानां च कीर्तितम् ||९९||
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः |
महात्मानो यदूनां च ये जाता विपुले कुले ||१००||
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् |
इदमंशावतरणं श्रोतव्यमनसूयता ||१०१||
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् |
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ||१०२||

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know