Ad Code

महाभारत आदिपर्वम भाग_2

 


२१


सूत उवाच||

ततः कामगमः पक्षी महावीर्यो महाबलः |

मातुरन्तिकमागच्छत्परं तीरं महोदधेः ||१||

यत्र सा विनता तस्मिन्पणितेन पराजिता |

अतीव दुःखसन्तप्ता दासीभावमुपागता ||२||

ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ |

काल आहूय वचनं कद्रूरिदमभाषत ||३||

नागानामालयं भद्रे सुरम्यं रमणीयकम् |

समुद्रकुक्षावेकान्ते तत्र मां विनते वह ||४||

ततः सुपर्णमाता तामवहत्सर्पमातरम् |

पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ||५||

स सूर्यस्याभितो याति वैनतेयो विहङ्गमः |

सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ||६||

तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ||६||

नमस्ते देवदेवेश नमस्ते बलसूदन |

नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ||७||

सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव |

त्वमेव परमं त्राणमस्माकममरोत्तम ||८||

ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर |

त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ||९||

त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् |

त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ||१०||

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः |

त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ||११||

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः |

त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ||१२||

त्वं सर्वममृतं देव त्वं सोमः परमार्चितः |

त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ||१३||

शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा |

संवत्सरर्तवो मासा रजन्यश्च दिनानि च ||१४||

त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा |

महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ||१५||

महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः |

अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ||१६||

त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च |

त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ||१७||


                  २२


सूत उवाच||

एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः |

नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ||१||

ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः |

परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ||२||

सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः |

सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ||३||

सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः |

मेघस्तनितनिर्घोषमम्बरं समपद्यत ||४||

नागानामुत्तमो हर्शस्तदा वर्षति वासवे |

आपूर्यत मही चापि सलिलेन समन्ततः ||५||

                  २३


सूत उवाच||

सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै |

सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ||१||

विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् |

भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ||२||

प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् |

दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ||३||

उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि |

शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ||४||

किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः |

मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ||५||

नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ||५||

तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा |

अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ||६||

वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् |

त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ||७||

स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा |

किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ||८||


विनतोवाच||

दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम |

पणं वितथमास्थाय सर्पैरुपधिना कृतम् ||९||


सूत उवाच||

तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः |

उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ||१०||

किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् |

दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ||११||

श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा |

ततो दास्याद्विप्रमोक्षो भविता तव खेचर ||१२||

                  २४



सूत उवाच||

इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् |

गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ||१||


विनतोवाच||

समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् |

सहस्राणामनेकानां तान्भुक्त्वामृतमानय ||२||

न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन |

अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ||३||

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः |

भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ||४||


गरुड उवाच||

यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः |

तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ||५||


विनतोवाच||

यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा |

दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ||६||


सूत उवाच||

प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः |

जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ||७||

पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक |

शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ||८||

अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा |

अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ||९||

ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात |

ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ||१०||

स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् |

समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ||११||

ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् |

ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ||१२||

तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः |

सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ||१३||

ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः |

निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ||१४||

                २५


सूत उवाच||

तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया |

दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ||१||

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् |

न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ||२||

ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत |

निषादी मम भार्येयं निर्गच्छतु मया सह ||३||


गरुड उवाच||

एतामपि निषादीं त्वं परिगृह्याशु निष्पत |

तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ||४||


सूत उवाच||

ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा |

वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ||५||

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् |

वितत्य पक्षावाकाशमुत्पपात मनोजवः ||६||

ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः |

अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ||७||

मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ||७||

मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै |

न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ||८||

तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे |

यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ||९||


कश्यप उवाच||

आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् |

भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ||१०||

स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः |

विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ||११||

अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः |

विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ||१२||

ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ||१२||

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः |

विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ||१३||

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ |

भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ||१४||

तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः |

गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ||१५||

नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि |

यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ||१६||

शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् |

त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ||१७||

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू |

गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ||१८||

रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि |

परस्परद्वेषरतौ प्रमाणबलदर्पितौ ||१९||

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ |

तयोरेकतरः श्रीमान्समुपैति महागजः ||२०||

तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः |

उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ||२१||

तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् |

दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ||२२||

तं विक्षोभयमाणं तु सरो बहुझषाकुलम् |

कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ||२३||

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः |

कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ||२४||

तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ |

उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ||२५||


सूत उवाच||

स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः |

नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ||२६||

समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः |

सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ||२७||

ते भीताः समकम्पन्त तस्य पक्षानिलाहताः |

न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ||२८||

प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् |

अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ||२९||

काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः |

सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ||३०||

तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः |

अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ||३१||

यैषा मम महाशाखा शतयोजनमायता |

एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ||३२||

ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् |

खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ||३३||

                  २६


सूत उवाच||

स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा |

अभज्यत तरोः शाखा भग्नां चैनामधारयत् ||१||

तां भग्नां स महाशाखां स्मयन्समवलोकयन् |

अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ||२||

स तद्विनाशसन्त्रासादनुपत्य खगाधिपः |

शाखामास्येन जग्राह तेषामेवान्ववेक्षया ||३||

शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ||३||

एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः |

दयार्थं वालखिल्यानां न च स्थानमविन्दत ||४||

स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् |

ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ||५||

ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् |

तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ||६||

शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् |

अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ||७||

मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् |

अप्रधृष्यमजेयं च देवदानवराक्षसैः ||८||

भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् |

लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ||९||

तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा |

विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ||१०||

पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् |

मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ||११||

प्रसादयामास स तान्कश्यपः पुत्रकारणात् |

वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ||१२||

प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः |

चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ||१३||

एवमुक्ता भगवता मुनयस्ते समभ्ययुः |

मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ||१४||

ततस्तेष्वपयातेषु पितरं विनतात्मजः |

शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ||१५||

भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् |

वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ||१६||

ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् |

अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ||१७||

तं पर्वतमहाकुक्षिमाविश्य मनसा खगः |

जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ||१८||

न तां वध्रः परिणहेच्छतचर्मा महानणुः |

शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ||१९||

ततः स शतसाहस्रं योजनान्तरमागतः |

कालेन नातिमहता गरुडः पततां वरः ||२०||

स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः |

अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ||२१||

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् |

मुमोच पुष्पवर्षं च समागलितपादपः ||२२||

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः |

मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ||२३||

शाखिनो बहवश्चापि शाखयाभिहतास्तया |

काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ||२४||

ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः |

व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ||२५||

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः |

भक्षयामास गरुडस्तावुभौ गजकच्छपौ ||२६||

ततः पर्वतकूटाग्रादुत्पपात मनोजवः |

प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ||२७||

इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् |

सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ||२८||

तथा वसूनां रुद्राणामादित्यानां च सर्वशः |

साध्यानां मरुतां चैव ये चान्ये देवतागणाः ||२९||

स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ||२९|

अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च |

ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ||३०||

निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् |

देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ||३१||

मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि |

उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ||३२||

रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ||३२||

ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः |

उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ||३३||

किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः |

न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ||३४||


बृहस्पतिरुवाच||

तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो |

तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ||३५||

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः |

हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ||३६||

समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः |

सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ||३७||


सूत उवाच||

श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः |

महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ||३८||

युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् |

अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ||३९||

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः |

परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ||४०||

धारयन्तो महार्हाणि कवचानि मनस्विनः |

काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ||४१||

विविधानि च शस्त्राणि घोररूपाण्यनेकशः |

शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ||४२||

सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः |

चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ||४३||

शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् |

स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ||४४||

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः |

भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ||४५||

अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य |

असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ||४६||

इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् |

विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ||४७||

                  २७


शौनक उवाच||

कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज |

तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ||१||

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः |

अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ||२||

कथं च कामचारी स कामवीर्यश्च खेचरः |

एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ||३||


सूत उवाच||

विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि |

शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ||४||

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः |

साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ||५||

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह |

मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ||६||

शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् |

समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ||७||

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः |

पलाशवृन्तिकामेकां सहितान्वहतः पथि ||८||

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् |

क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ||९||

तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः |

अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ||१०||

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः |

आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ||११||

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् |

मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ||१२||

कामवीर्यः कामगमो देवराजभयप्रदः |

इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ||१३||

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः |

तपसो नः फलेनाद्य दारुणः सम्भवत्विति ||१४||

तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः |

जगाम शरणं तत्र कश्यपं संशितव्रतम् ||१५||

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः |

वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ||१६||

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः |

तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ||१७||

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः |

इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ||१८||

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः |

भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ||१९||

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् |

प्रसादः क्रियतां चैव देवराजस्य याचतः ||२०||

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः |

प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ||२१||

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते |

अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ||२२||

तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् |

तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ||२३||

एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा |

विनता नाम कल्याणी पुत्रकामा यशस्विनी ||२४||

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः |

उपचक्राम भर्तारं तामुवाचाथ कश्यपः ||२५||

आरम्भः सफलो देवि भवितायं तवेप्सितः |

जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ||२६||

तपसा वालखिल्यानां मम सङ्कल्पजौ तथा |

भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ||२७||

उवाच चैनां भगवान्मारीचः पुनरेव ह |

धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ||२८||

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति |

लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ||२९||

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः |

त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ||३०||

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर |

व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ||३१||

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः |

न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ||३२||

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् |

विनता चापि सिद्धार्था बभूव मुदिता तदा ||३३||

जनयामास पुत्रौ द्वावरुणं गरुडं तथा |

अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ||३४||

पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत |

तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ||३५||

                  २८

सूत उवाच||

ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे |

गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ||१||

तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः |

परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ||२||

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः |

भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ||३||

स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः |

मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ||४||

रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः |

कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ||५||

तेनावकीर्णा रजसा देवा मोहमुपागमन् |

न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ||६||

एवं संलोडयामास गरुडस्त्रिदिवालयम् |

पक्षतुण्डप्रहारैश्च देवान्स विददार ह ||७||

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् |

विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ||८||

अथ वायुरपोवाह तद्रजस्तरसा बली |

ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ||९||

ननाद चोच्चैर्बलवान्महामेघरवः खगः |

वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ||१०||

उत्पपात महावीर्यः पक्षिराट्परवीरहा ||१०||

तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् |

वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ||११||

पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः |

क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ||१२||

नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः |

कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ||१३||

विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् |

पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ||१४||

ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः |

नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ||१५||

साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् |

प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ||१६||

दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् |

मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ||१७||

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा |

क्रथनेन च शूरेण तपनेन च खेचरः ||१८||

उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा |

प्ररुजेन च संयुद्धं चकार प्रलिहेन च ||१९||

तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः |

युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ||२०||

महावीर्या महोत्साहास्तेन ते बहुधा क्षताः |

रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ||२१||

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् |

अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ||२२||

आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् |

दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ||२३||

ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा |

नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ||२४||

ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः |

ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ||२५||

                  २९


सूत उवाच||

जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः |

प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ||१||

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके |

परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ||२||

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् |

घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ||३||

तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः |

अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ||४||

अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती |

विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ||५||

चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ |

रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ||६||

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ |

तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ||७||

तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् |

अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ||८||

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः |

आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ||९||

समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली |

उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ||१०||

अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् |

अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ||११||

विष्णुना तु तदाकाशे वैनतेयः समेयिवान् |

तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ||१२||

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् |

स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ||१३||

उवाच चैनं भूयोऽपि नारायणमिदं वचः |

अजरश्चामरश्च स्याममृतेन विनाप्यहम् ||१४||

प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् |

भवतेऽपि वरं दद्मि वृणीतां भगवानपि ||१५||

तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् |

ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ||१६||

अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् |

विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ||१७||

तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः |

प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ||१८||

ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् |

वज्रस्य च करिष्यामि तव चैव शतक्रतो ||१९||

एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे |

न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ||२०||

तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा |

सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ||२१||

दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः |

खगो महदिदं भूतमिति मत्वाभ्यभाषत ||२२||

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् |

सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ||२३||

                  ३०

गरुड उवाच||

सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर |

बलं तु मम जानीहि महच्चासह्यमेव च ||१||

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् |

गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ||२||

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया |

न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ||३||

सपर्वतवनामुर्वीं ससागरवनामिमाम् |

पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ||४||

सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् |

वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ||५||


सूत उवाच||

इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः |

आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ||६||

प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् |

न कार्यं तव सोमेन मम सोमः प्रदीयताम् ||७||

अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ||७||


गरुड उवाच||

किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया |

न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ||८||

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् |

त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ||९||


शक्र उवाच||

वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज |

यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ||१०||


सूत उवाच||

इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् |

स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ||११||

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् |

भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ||१२||

तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः |

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ||१३||

आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् |

अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ||१४||

इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः |

स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ||१५||

अदासी चैव मातेयमद्यप्रभृति चास्तु मे |

यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ||१६||

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत |

शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ||१७||

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा |

स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ||१८||

तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् |

सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ||१९||

ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा |

अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ||२०||

ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने |

भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ||२१||

इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि |

असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ||२२||

                  ३१

शौनक उवाच||

भुजङ्गमानां शापस्य मात्रा चैव सुतेन च |

विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ||१||

वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा |

नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ||२||

पन्नगानां तु नामानि न कीर्तयसि सूतज |

प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ||३||


सूत उवाच||

बहुत्वान्नामधेयानि भुजगानां तपोधन |

न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ||४||

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् |

ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ||५||

कालियो मणिनागश्च नागश्चापूरणस्तथा |

नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ||६||

नीलानीलौ तथा नागौ कल्माषशबलौ तथा |

आर्यकश्चादिकश्चैव नागश्च शलपोतकः ||७||

सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः |

आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ||८||

निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा |

बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ||९||

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा |

वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ||१०||

नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः |

क्षेमकश्च महानागो नागः पिण्डारकस्तथा ||११||

करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः |

मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ||१२||

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा |

कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ||१३||

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् |

हस्तिभद्रः पिठरको मुखरः कोणवासनः ||१४||

कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः |

कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ||१५||

कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ||१५||

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम |

बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ||१६||

एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः |

असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ||१७||

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च |

अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ||१८||

                  ३२

शौनक उवाच||

जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः |

शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ||१||


सूत उवाच||

तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः |

तपो विपुलमातस्थे वायुभक्षो यतव्रतः ||२||

गन्धमादनमासाद्य बदर्यां च तपोरतः |

गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ||३||

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च |

एकान्तशीली नियतः सततं विजितेन्द्रियः ||४||

तप्यमानं तपो घोरं तं ददर्श पितामहः |

परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ||५||

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः |

किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ||६||

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ |

ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ||७||


शेष उवाच||

सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः |

सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ||८||

अभ्यसूयन्ति सततं परस्परममित्रवत् |

ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ||९||

न मर्षयन्ति सततं विनतां ससुतां च ते |

अस्माकं चापरो भ्राता वैनतेयः पितामह ||१०||

तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः |

वरप्रदानात्स पितुः कश्यपस्य महात्मनः ||११||

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् |

कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ||१२||


ब्रह्मोवाच||

जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् |

मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ||१३||

कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम |

भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ||१४||

वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् |

दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ||१५||

दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम |

अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ||१६||


शेष उवाच||

एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह |

धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ||१७||


ब्रह्मोवाच||

प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च |

त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ||१८||

इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च |

त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ||१९||


शेष उवाच||

यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः |

तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ||२०||


ब्रह्मोवाच||

अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति |

इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ||२१||


सूत उवाच||

तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः |

बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ||२२||


ब्रह्मोवाच||

शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः |

अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ||२३||


सूत उवाच||

अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् |

धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ||२४||

सुपर्णं च सखायं वै भगवानमरोत्तमः |

प्रादादनन्ताय तदा वैनतेयं पितामहः ||२५||

                  ३३

सूत उवाच||

मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः |

वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ||१||

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः |

ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ||२||


वासुकिरुवाच||

अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः |

तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ||३||

सर्वेषामेव शापानां प्रतिघातो हि विद्यते |

न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ||४||

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः |

शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ||५||

नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः |

न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ||६||

तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् |

यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ||७||

अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे |

यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ||८||

यथा स यज्ञो न भवेद्यथा वापि पराभवेत् |

जनमेजयस्य सर्पाणां विनाशकरणाय हि ||९||


सूत उवाच||

तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः |

समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ||१०||

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः |

जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ||११||

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः |

मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ||१२||

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् |

तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ||१३||

स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः |

यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ||१४||

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् |

हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ||१५||

अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति |

सर्पसत्रविधानज्ञो राजकार्यहिते रतः ||१६||

तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति |

तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ||१७||

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः |

तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ||१८||

तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः |

अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ||१९||

सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा |

अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ||२०||

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् |

वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ||२१||

स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः |

प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ||२२||

यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः |

जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ||२३||

अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः |

स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ||२४||

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे |

यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ||२५||

वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ||२५||

अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् |

गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ||२६||

अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः |

दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ||२७||

छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ||२७||

एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता |

यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ||२८||

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् |

वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ||२९||

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः |

सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ||३०||

किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् |

अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ||३१||

                  ३४

सूत उवाच||


श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च |

वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ||१||

न स यज्ञो न भविता न स राजा तथाविधः |

जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ||२||

दैवेनोपहतो राजन्यो भवेदिह पूरुषः |

स दैवमेवाश्रयते नान्यत्तत्र परायणम् ||३||

तदिदं दैवमस्माकं भयं पन्नगसत्तमाः |

दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ||४||

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा |

मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ||५||

देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो |

पितामहमुपागम्य दुःखार्तानां महाद्युते ||६||


देवा ऊचुः||

का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह |

ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ||७||

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह |

एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ||८||


ब्रह्मोवाच||

बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः |

प्रजानां हितकामोऽहं न निवारितवांस्तदा ||९||

ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः |

तेषां विनाशो भविता न तु ये धर्मचारिणः ||१०||

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् |

पन्नगानां निबोधध्वं तस्मिन्काले तथागते ||११||

यायावरकुले धीमान्भविष्यति महानृषिः |

जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ||१२||

तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः |

आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ||१३||

तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ||१३||


देवा ऊचुः||

स मुनिप्रवरो देव जरत्कारुर्महातपाः |

कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ||१४||


ब्रह्मोवाच||

सनामायां सनामा स कन्यायां द्विजसत्तमः |

अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ||१५||


एलापत्र उवाच||

एवमस्त्विति तं देवाः पितामहमथाब्रुवन् |

उक्त्वा चैवं गता देवाः स च देवः पितामहः ||१६||

सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव |

जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ||१७||

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये |

ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ||१८||

                  ३५



सूत उवाच||

एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम |

सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ||१||

ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत |

जरत्कारुं स्वसारं वै परं हर्षमवाप च ||२||

ततो नातिमहान्कालः समतीत इवाभवत् |

अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ||३||

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः |

समाप्यैव च तत्कर्म पितामहमुपागमन् ||४||

देवा वासुकिना सार्धं पितामहमथाब्रुवन् |

भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ||५||

तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि |

जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ||६||

हितो ह्ययं सदास्माकं प्रियकारी च नागराट् |

कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ||७||


ब्रह्मोवाच||

मयैवैतद्वितीर्णं वै वचनं मनसामराः |

एलापत्रेण नागेन यदस्याभिहितं पुरा ||८||

तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा |

विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ||९||

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः |

तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ||१०||

यदेलापत्रेण वचस्तदोक्तं भुजगेन ह |

पन्नगानां हितं देवास्तत्तथा न तदन्यथा ||११||


सूत उवाच||

एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा |

सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ||१२||

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः |

शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ||१३||

              

    ३६

शौनक उवाच||

जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन |

इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ||१||

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि |

जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ||२||


सूत उवाच||

जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् |

शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ||३||

क्षपयामास तीव्रेण तपसेत्यत उच्यते |

जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ||४||

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा |

उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ||५||


सूत उवाच||

अथ कालस्य महतः स मुनिः संशितव्रतः |

तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ||६||

स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् |

चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ||७||

ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु |

परिक्षिदिति विख्यातो राजा कौरववंशभृत् ||८||

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि |

बभूव मृगयाशीलः पुरास्य प्रपितामहः ||९||

मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा |

अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ||१०||

स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा |

पृष्ठतो धनुरादाय ससार गहने वने ||११||

यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि |

अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ||१२||

न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् |

पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ||१३||

परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ||१३||

दूरं चापहृतस्तेन मृगेण स महीपतिः |

परिश्रान्तः पिपासार्त आससाद मुनिं वने ||१४||

गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् |

भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ||१५||

तमभिद्रुत्य वेगेन स राजा संशितव्रतम् |

अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ||१६||

भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः |

मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ||१७||

स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः |

तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ||१८||

धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत |

न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ||१९||

स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् |

दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ||२०||

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः |

शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ||२१||

स देवं परमीशानं सर्वभूतहिते रतम् |

ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ||२२||

स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ||२२||

सख्योक्तः क्रीडमानेन स तत्र हसता किल |

संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ||२३||

ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ||२३||

तेजस्विनस्तव पिता तथैव च तपस्विनः |

शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ||२४||

व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः |

अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ||२५||

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः |

दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ||२६||

               

   ३७

सूत उवाच||

एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः |

मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ||१||

स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् |

अपृच्छत कथं तातः स मेऽद्य मृतधारकः ||२||


कृश उवाच||

राज्ञा परिक्षिता तात मृगयां परिधावता |

अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ||३||


शृङ्ग्युवाच||

किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः |

ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ||४||


कृश उवाच||

स राजा मृगयां यातः परिक्षिदभिमन्युजः |

ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ||५||

न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने |

पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ||६||

तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः |

पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ||७||

स च मौनव्रतोपेतो नैव तं प्रत्यभाषत |

तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ||८||

शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः |

सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ||९||


सूत उवाच||

श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः |

कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ||१०||

आविष्टः स तु कोपेन शशाप नृपतिं तदा |

वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ||११||


शृङ्ग्युवाच||

योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च |

स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ||१२||

तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः |

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ||१३||

सप्तरात्रादितो नेता यमस्य सदनं प्रति |

द्विजानामवमन्तारं कुरूणामयशस्करम् ||१४||


सूत उवाच||

इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् |

आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ||१५||

स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै |

शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ||१६||

दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् |

श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ||१७||

राज्ञा परिक्षिता कोपादशपं तमहं नृपम् |

यथार्हति स एवोग्रं शापं कुरुकुलाधमः ||१८||

सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः |

वैवस्वतस्य भवनं नेता परमदारुणम् ||१९||

तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् |

न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ||२०||

वयं तस्य नरेन्द्रस्य विषये निवसामहे |

न्यायतो रक्षितास्तेन तस्य पापं न रोचये ||२१||

सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा |

क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ||२२||

यदि राजा न रक्षेत पीडा वै नः परा भवेत् |

न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ||२३||

रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः |

चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ||२४||

परिक्षित्तु विशेषेण यथास्य प्रपितामहः |

रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ||२५||

तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना |

अजानता व्रतमिदं कृतमेतदसंशयम् ||२६||

तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् |

न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ||२७||

                  ३८

शृङ्ग्युवाच||

यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् |

प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ||१||

नैवान्यथेदं भविता पितरेष ब्रवीमि ते |

नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ||२||


शमीक उवाच||

जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा |

नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ||३||

पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु |

यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ||४||

किं पुनर्बाल एव त्वं तपसा भावितः प्रभो |

वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ||५||

सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर |

पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ||६||

स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् |

चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ||७||

क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् |

ततो धर्मविहीनानां गतिरिष्टा न विद्यते ||८||

शम एव यतीनां हि क्षमिणां सिद्धिकारकः |

क्षमावतामयं लोकः परश्चैव क्षमावताम् ||९||

तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः |

क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ||१०||

मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै |

तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ||११||

मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना |

ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ||१२||


सूत उवाच||

एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः |

परिक्षिते नृपतये दयापन्नो महातपाः ||१३||

संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च |

शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ||१४||

सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् |

विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ||१५||

पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः |

आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ||१६||

शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ||१६||

शमीको नाम राजेन्द्र विषये वर्तते तव |

ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ||१७||

तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः |

अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ||१८||

क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ||१८||

तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै |

तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ||१९||

तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् |

तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ||२०||

न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् |

ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ||२१||

इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः |

पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ||२२||

तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा |

भूय एवाभवद्राजा शोकसन्तप्तमानसः ||२३||

अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु |

पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ||२४||

न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत |

अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ||२५||

ततस्तं प्रेषयामास राजा गौरमुखं तदा |

भूयः प्रसादं भगवान्करोत्विति ममेति वै ||२६||

तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा |

मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ||२७||

निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् |

प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ||२८||

रक्षां च विदधे तत्र भिषजश्चौषधानि च |

ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ||२९||

राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः |

मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ||३०||

प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम |

काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ||३१||

श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् |

तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ||३२||

तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् |

तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ||३३||

तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि |

गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ||३४||

तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् |

क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ||३५||


काश्यप उवाच||

नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् |

तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ||३६||

तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा |

पाण्डवानां कुलकरं राजानममितौजसम् ||३७||

गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ||३७||


तक्षक उवाच||

अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् |

निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ||३८||


काश्यप उवाच||

अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् |

करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ||३९||

                  ३९

तक्षक उवाच||

दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् |

ततो वृक्षं मया दष्टमिमं जीवय काश्यप ||१||

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च |

न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ||२||


काश्यप उवाच||

दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे |

अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ||३||


सूत उवाच||

एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना |

अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ||४||

स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते |

आशीविषविषोपेतः प्रजज्वाल समन्ततः ||५||

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् |

कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ||६||

भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा |

भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ||७||

विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ |

अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ||८||

ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः |

भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ||९||

अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् |

पलाशिनं शाखिनं च तथा विटपिनं पुनः ||१०||

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना |

उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ||११||

विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा |

कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ||१२||

यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् |

अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ||१३||

विप्रशापाभिभूते च क्षीणायुषि नराधिपे |

घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ||१४||

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् |

विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ||१५||


काश्यप उवाच||

धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम |

ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ||१६||


तक्षक उवाच||

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् |

अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ||१७||


सूत उवाच||

तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः |

प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ||१८||

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा |

क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ||१९||

लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ||१९||

निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि |

जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ||२०||

अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् |

मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ||२१||

स चिन्तयामास तदा मायायोगेन पार्थिवः |

मया वञ्चयितव्योऽसौ क उपायो भवेदिति ||२२||

ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् |

फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ||२३||


तक्षक उवाच||

गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया |

फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ||२४||


सूत उवाच||

ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः |

उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ||२५||

तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् |

कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ||२६||

गतेषु तेषु नागेषु तापसच्छद्मरूपिषु |

अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ||२७||

भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः |

तापसैरुपनीतानि फलानि सहिता मया ||२८||

ततो राजा ससचिवः फलान्यादातुमैच्छत |

यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ||२९||

ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ||२९||

स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् |

अस्तमभ्येति सविता विषादद्य न मे भयम् ||३०||

सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् |

तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ||३१||

ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः |

एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ||३२||

कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ||३२||

हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः |

तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ||३३||


                  ४०

सूत उवाच||

तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् |

विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ||१||

तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः |

अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ||२||

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् |

तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ||३||

ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः |

भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ||४||

ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः |

शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ||५||

नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः |

नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ||६||

स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा |

शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ||७||

ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः |

सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ||८||

ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः |

स चापि तां प्राप्य मुदा युतोऽभव; न्न चान्यनारीषु मनो दधे क्वचित् ||९||

सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् |

तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ||१०||

वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् |

भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ||११||

                  ४१


सूत उवाच||

एतस्मिन्नेव काले तु जरत्कारुर्महातपाः |

चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ||१||

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः |

तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ||२||

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः |

स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ||३||

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् |

तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ||४||

निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः |

उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ||५||

के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः |

दुर्बलं खादितैर्मूलैराखुना बिलवासिना ||६||

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् |

तदप्ययं शनैराखुरादत्ते दशनैः शितैः ||७||

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव |

ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ||८||

ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् |

कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ||९||

तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः |

अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ||१०||

अथवापि समग्रेण तरन्तु तपसा मम |

भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ||११||


पितर ऊचुः||

ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति |

न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ||१२||

अस्ति नस्तात तपसः फलं प्रवदतां वर |

सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ||१३||

लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै |

येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ||१४||

ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् |

शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ||१५||

यायावरा नाम वयमृषयः संशितव्रताः |

लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ||१६||

प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै |

अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ||१७||

मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले |

जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ||१८||

नियतात्मा महात्मा च सुव्रतः सुमहातपाः ||१८||

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् |

न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ||१९||

तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् |

स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ||२०||

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः |

साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ||२१||

कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ||२१||

यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् |

एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ||२२||

यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः |

एते नस्तन्तवस्तात कालेन परिभक्षिताः ||२३||

यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् |

तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ||२४||

यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः |

स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ||२५||

जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ||२५||

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम |

छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ||२६||

नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ||२६||

अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः |

छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ||२७||

तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् |

तत्सर्वं न समं तात सन्तत्येति सतां मतम् ||२८||

स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् |

यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ||२९||

यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा |

तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ||३०||




Post a Comment

0 Comments

Ad Code