Ad Code

महाभारत आदिपर्वम भाग _5

 


९३ शन्तनुरुवाच|| आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् | यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ||१|| अनेन च कुमारेण गङ्गादत्तेन किं कृतम् | यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ||२|| ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् | मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ||३|| वैशम्पायन उवाच|| सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् | भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ||४|| यं लेभे वरुणः पुत्रं पुरा भरतसत्तम | वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ||५|| तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् | मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ||६|| स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम | वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ||७|| दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता | गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ||८|| अनुग्रहार्थं जगतः सर्वकामदुघां वराम् | तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ||९|| सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते | चचार रम्ये धर्म्ये च गौरपेतभया तदा ||१०|| अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ | पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ||११|| ते सदारा वनं तच्च व्यचरन्त समन्ततः | रेमिरे रमणीयेषु पर्वतेषु वनेषु च ||१२|| तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम | सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ||१३|| या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ||१३|| सा विस्मयसमाविष्टा शीलद्रविणसम्पदा | दिवे वै दर्शयामास तां गां गोवृषभेक्षण ||१४|| स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् | उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ||१५|| एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी | दर्शयामास राजेन्द्र पुरा पौरवनन्दन ||१६|| द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम | उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ||१७|| एषा गौरुत्तमा देवि वारुणेरसितेक्षणे | ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ||१८|| अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे | दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ||१९|| एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा | तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ||२०|| अस्ति मे मानुषे लोके नरदेवात्मजा सखी | नाम्ना जिनवती नाम रूपयौवनशालिनी ||२१|| उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः | दुहिता प्रथिता लोके मानुषे रूपसम्पदा ||२२|| तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् | आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ||२३|| यावदस्याः पयः पीत्वा सा सखी मम मानद | मानुषेषु भवत्वेका जरारोगविवर्जिता ||२४|| एतन्मम महाभाग कर्तुमर्हस्यनिन्दित | प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ||२५|| एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया | पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ||२६|| तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप | ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ||२७|| हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ||२७|| अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः | न चापश्यत गां तत्र सवत्सां काननोत्तमे ||२८|| ततः स मृगयामास वने तस्मिंस्तपोधनः | नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ||२९|| ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः | ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ||३०|| यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् | तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ||३१|| एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः | वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ||३२|| शप्त्वा च तान्महाभागस्तपस्येव मनो दधे | एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ||३३|| महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ||३३|| अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः | शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ||३४|| प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ | न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ||३५|| आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ||३५|| उवाच च स धर्मात्मा सप्त यूयं धरादयः | अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ||३६|| अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति | द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ||३७|| नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् | न प्रजास्यति चाप्येष मानुषेषु महामनाः ||३८|| भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः | पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ||३९|| एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ||३९|| ततो मामुपजग्मुस्ते समस्ता वसवस्तदा | अयाचन्त च मां राजन्वरं स च मया कृतः ||४०|| जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ||४०|| एवं तेषामहं सम्यक्षप्तानां राजसत्तम | मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ||४१|| अयं शापादृषेस्तस्य एक एव नृपोत्तम | द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ||४२|| एतदाख्याय सा देवी तत्रैवान्तरधीयत | आदाय च कुमारं तं जगामाथ यथेप्सितम् ||४३|| स तु देवव्रतो नाम गाङ्गेय इति चाभवत् | द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ||४४|| शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः | तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ||४५|| महाभाग्यं च नृपतेर्भारतस्य यशस्विनः | यस्येतिहासो द्युतिमान्महाभारतमुच्यते ||४६||

९४ वैशम्पायन उवाच|| स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः | धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ||१|| दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् | नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ||२|| एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः | आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ||३|| कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः | धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ||४|| एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ | न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ||५|| वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् | तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ||६|| वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः | प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ||७|| शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा | नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ||८|| ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः | ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ||९|| स हास्तिनपुरे रम्ये कुरूणां पुटभेदने | वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ||१०|| स देवराजसदृशो धर्मज्ञः सत्यवागृजुः | दानधर्मतपोयोगाच्छ्रिया परमया युतः ||११|| अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः | तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ||१२|| अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ||१२|| वधः पशुवराहाणां तथैव मृगपक्षिणाम् | शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ||१३|| धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् | समं शशास भूतानि कामरागविवर्जितः ||१४|| देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः | न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ||१५|| असुखानामनाथानां तिर्यग्योनिषु वर्तताम् | स एव राजा भूतानां सर्वेषामभवत्पिता ||१६|| तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति | श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ||१७|| स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः | रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ||१८|| तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः | गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ||१९|| सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च | महाबलो महासत्त्वो महावीर्यो महारथः ||२०|| स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् | भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ||२१|| तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः | स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ||२२|| ततो निमित्तमन्विच्छन्ददर्श स महामनाः | कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ||२३|| दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् | कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ||२४|| तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके | अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ||२५|| जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा | नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ||२६|| स तु तं पितरं दृष्ट्वा मोहयामास मायया | संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ||२७|| तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः | शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ||२८|| दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् | गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ||२९|| अलङ्कृतामाभरणैररजोम्बरधारिणीम् | दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः ||३०|| गङ्गोवाच|| यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः | स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ||३१|| वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् | कृतास्त्रः परमेष्वासो देवराजसमो युधि ||३२|| सुराणां संमतो नित्यमसुराणां च भारत | उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ||३३|| तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः | यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ||३४|| तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ||३४|| ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् | यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ||३५|| महेष्वासमिमं राजन्राजधर्मार्थकोविदम् | मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ||३६|| वैशम्पायन उवाच|| तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः | भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ||३७|| पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् | सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ||३८|| पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ||३८|| पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः | राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ||३९|| स तथा सह पुत्रेण रममाणो महीपतिः | वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ||४०|| स कदाचिद्वनं यातो यमुनामभितो नदीम् | महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ||४१|| तस्य प्रभवमन्विच्छन्विचचार समन्ततः | स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ||४२|| तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् | कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ||४३|| साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् | पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ||४४|| रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् | समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ||४५|| स गत्वा पितरं तस्या वरयामास तां तदा | पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ||४६|| स च तं प्रत्युवाचेदं दाशराजो महीपतिम् | जातमात्रैव मे देया वराय वरवर्णिनी ||४७|| हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ||४७|| यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ | सत्यवागसि सत्येन समयं कुरु मे ततः ||४८|| समयेन प्रदद्यां ते कन्यामहमिमां नृप | न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ||४९|| शन्तनुरुवाच|| श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा | दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ||५०|| दाश उवाच|| अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः | त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ||५१|| वैशम्पायन उवाच|| नाकामयत तं दातुं वरं दाशाय शन्तनुः | शरीरजेन तीव्रेण दह्यमानोऽपि भारत ||५२|| स चिन्तयन्नेव तदा दाशकन्यां महीपतिः | प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ||५३|| ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् | पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ||५४|| सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः | तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ||५५|| ध्यायन्निव च किं राजन्नाभिभाषसि किञ्चन ||५५|| एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत | असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ||५६|| अपत्यं नस्त्वमेवैकः कुले महति भारत | अनित्यता च मर्त्यानामतः शोचामि पुत्रक ||५७|| कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् | असंशयं त्वमेवैकः शतादपि वरः सुतः ||५८|| न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे | सन्तानस्याविनाशाय कामये भद्रमस्तु ते ||५९|| अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ||५९|| अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः | सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ||६०|| एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि | यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ||६१|| एषा त्रयी पुराणानामुत्तमानां च शाश्वती ||६१|| त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत | नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ||६२|| सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् | इति ते कारणं तात दुःखस्योक्तमशेषतः ||६३|| ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः | देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ||६४|| अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् | तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ||६५|| तस्मै स कुरुमुख्याय यथावत्परिपृच्छते | वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ||६६|| ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा | अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ||६७|| तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च | अब्रवीच्चैनमासीनं राजसंसदि भारत ||६८|| त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ | पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ||६९|| को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् | अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ||७०|| अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः | यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ||७१|| तेन मे बहुशस्तात पिता ते परिकीर्तितः | अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ||७२|| असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया | सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ||७३|| कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ | बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ||७४|| यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा | न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप ||७५|| एतावानत्र दोषो हि नान्यः कश्चन पार्थिव | एतज्जानीहि भद्रं ते दानादाने परन्तप ||७६|| एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत | शृण्वतां भूमिपालानां पितुरर्थाय भारत ||७७|| इदं मे मतमादत्स्व सत्यं सत्यवतां वर | नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ||७८|| एवमेतत्करिष्यामि यथा त्वमनुभाषसे | योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ||७९|| इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत | चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ||८०|| त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः | कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ||८१|| इदं तु वचनं सौम्य कार्यं चैव निबोध मे | कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ||८२|| यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण | राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ||८३|| नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन | तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ||८४|| तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः | प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ||८५|| देवव्रत उवाच|| दाशराज निबोधेदं वचनं मे नृपोत्तम | शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ||८६|| राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप | अपत्यहेतोरपि च करोम्येष विनिश्चयम् ||८७|| अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति | अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ||८८|| वैशम्पायन उवाच|| तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः | ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ||८९|| ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा | अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ||९०|| ततः स पितुरर्थाय तामुवाच यशस्विनीम् | अधिरोह रथं मातर्गच्छावः स्वगृहानिति ||९१|| एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् | आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ||९२|| तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः | समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ||९३|| तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः | स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ||९४||

९५ वैशम्पायन उवाच|| ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः | तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ||१|| ततः शान्तनवो धीमान्सत्यवत्यामजायत | वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ||२|| अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः | विचित्रवीर्यं राजानं जनयामास वीर्यवान् ||३|| अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ | स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ||४|| स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम् | स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ||५|| स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् | मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ||६|| तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा | गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ||७|| तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ||७|| तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः | नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ||८|| तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले | मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ||९|| चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् | अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ||१०|| तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि | भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ||११|| विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् | कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ||१२|| विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः | अन्वशासन्महाराज पितृपैतामहं पदम् ||१३|| स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः | पूजयामास धर्मेण स चैनं प्रत्यपालयत् ||१४||

९६ वैशम्पायन उवाच|| हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ | पालयामास तद्राज्यं सत्यवत्या मते स्थितः ||१|| सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् | भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ||२|| अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः | शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ||३|| ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् | जगामानुमते मातुः पुरीं वाराणसीं प्रति ||४|| तत्र राज्ञः समुदितान्सर्वतः समुपागतान् | ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ||५|| कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः | भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ||६|| उवाच च महीपालान्राजञ्जलदनिःस्वनः | रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ||७|| आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः | अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ||८|| प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि | वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ||९|| प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते | अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ||१०|| स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च | प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ||११|| ता इमाः पृथिवीपाला जिहीर्षामि बलादितः | ते यतध्वं परं शक्त्या विजयायेतराय वा ||१२|| स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ||१२|| एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् | सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ||१३|| आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ||१३|| ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः | संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ||१४|| तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् | आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ||१५|| ताराणामिव सम्पातो बभूव जनमेजय | भूषणानां च शुभ्राणां कवचानां च सर्वशः ||१६|| सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः | सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ||१७|| सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् | रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ||१८|| प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ||१८|| ततः समभवद्युद्धं तेषां तस्य च भारत | एकस्य च बहूनां च तुमुलं लोमहर्षणम् ||१९|| ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् | अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ||२०|| ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् | ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ||२१|| स तद्बाणमयं वर्षं शरैरावार्य सर्वतः | ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ||२२|| तस्याति पुरुषानन्याँल्लाघवं रथचारिणः | रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ||२३|| तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः | कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ||२४|| ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः | अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ||२५|| वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा | वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ||२६|| स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः | शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ||२७|| ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः | तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ||२८|| क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः | निवर्तयामास रथं शाल्वं प्रति महारथः ||२९|| निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते | प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ||३०|| तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे | अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ||३१|| ततो भीष्मं शान्तनवं शरैः शतसहस्रशः | शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ||३२|| पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः | विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ||३३|| लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः | अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ||३४|| क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः | क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ||३५|| सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः | यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ||३६|| ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः | तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ||३७|| अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः | भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ||३८|| अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ||३८|| कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा | जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ||३९|| ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ||३९|| राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः | स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ||४०|| एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः | प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ||४१|| सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप | वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ||४२|| अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः | आनयामास काश्यस्य सुताः सागरगासुतः ||४३|| स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः | यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ||४४|| ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे | भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ||४५|| सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् | भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ||४६|| सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ||४६|| विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता | ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ||४७|| मया सौभपतिः पूर्वं मनसाभिवृतः पतिः | तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ||४८|| मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे | एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ||४९|| एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि | चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ||५०|| स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः | अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ||५१|| अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे | भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ||५२|| तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः | विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ||५३|| ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे | रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ||५४|| आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते | विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ||५५|| स चाश्विरूपसदृशो देवसत्त्वपराक्रमः | सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ||५६|| ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः | विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ||५७|| सुहृदां यतमानानामाप्तैः सह चिकित्सकैः | जगामास्तमिवादित्यः कौरव्यो यमसादनम् ||५८|| प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् | राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ||५९|| ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ||५९||

९७ वैशम्पायन उवाच|| ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी | पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ||१|| धर्मं च पितृवंशं च मातृवंशं च मानिनी | प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ||२|| शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः | त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ||३|| यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् | यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ||४|| वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च | विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ||५|| व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये | प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ||६|| तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर | कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ||७|| मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते | बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ||८|| इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे | रूपयौवनसम्पन्ने पुत्रकामे च भारत ||९|| तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः | मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ||१०|| राज्ये चैवाभिषिच्यस्व भारताननुशाधि च | दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ||११|| तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः | प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ||१२|| असंशयं परो धर्मस्त्वया मातरुदाहृतः | त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ||१३|| जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे | स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ||१४|| परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः | यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ||१५|| त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः | ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ||१६|| प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् | त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ||१७|| विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् | न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ||१८|| एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा | माता सत्यवती भीष्ममुवाच तदनन्तरम् ||१९|| जानामि ते स्थितिं सत्ये परां सत्यपराक्रम | इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ||२०|| जानामि चैव सत्यं तन्मदर्थं यदभाषथाः | आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ||२१|| यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् | सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ||२२|| लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् | धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ||२३|| राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः | सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ||२४|| शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि | तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ||२५|| श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः | आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ||२६||

९८ भीष्म उवाच|| जामदग्न्येन रामेण पितुर्वधममृष्यता | क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ||१|| शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ||१|| पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता | निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ||२|| एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना | त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ||३|| ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः | उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ||४|| पाणिग्राहस्य तनय इति वेदेषु निश्चितम् | धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ||५|| लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ||५|| अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा | ममता नाम तस्यासीद्भार्या परमसंमता ||६|| उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् | बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ||७|| उवाच ममता तं तु देवरं वदतां वरम् | अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ||८|| अयं च मे महाभाग कुक्षावेव बृहस्पते | औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ||९|| अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि | तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ||१०|| एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः | कामात्मानं तदात्मानं न शशाक नियच्छितुम् ||११|| सम्बभूव ततः कामी तया सार्धमकामया | उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ||१२|| भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः | अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ||१३|| शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः | उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ||१४|| यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति | एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ||१५|| स वै दीर्घतमा नाम शापादृषिरजायत | बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ||१६|| स पुत्राञ्जनयामास गौतमादीन्महायशाः | ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ||१७|| लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः | काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ||१८|| न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते | चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ||१९|| सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः | जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ||२०|| तं तु राजा बलिर्नाम सर्वधर्मविशारदः | अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ||२१|| जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः | ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ||२२|| सन्तानार्थं महाभाग भार्यासु मम मानद | पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ||२३|| एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः | तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ||२४|| अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह | स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ||२५|| तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी | जनयामास धर्मात्मा पुत्रानेकादशैव तु ||२६|| काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः | उवाच तमृषिं राजा ममैत इति वीर्यवान् ||२७|| नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् | शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ||२८|| अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव | अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ||२९|| ततः प्रसादयामास पुनस्तमृषिसत्तमम् | बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ||३०|| तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् | भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ||३१|| तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत | एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ||३२|| जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः | एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ||३३||

९९ भीष्म उवाच|| पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये | वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ||१|| ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् | विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ||२|| वैशम्पायन उवाच|| ततः सत्यवती भीष्मं वाचा संसज्जमानया | विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ||३|| सत्यमेतन्महाबाहो यथा वदसि भारत | विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च ||४|| न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ||४|| त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः | तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ||५|| धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम | सा कदाचिदहं तत्र गता प्रथमयौवने ||६|| अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः | आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ||७|| स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा | सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ||८|| तमहं शापभीता च पितुर्भीता च भारत | वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ||९|| अभिभूय स मां बालां तेजसा वशमानयत् | तमसा लोकमावृत्य नौगतामेव भारत ||१०|| मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः | तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ||११|| ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् | द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ||१२|| पाराशर्यो महायोगी स बभूव महानृषिः | कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ||१३|| यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः | लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ||१४|| सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः | स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ||१५|| भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ||१५|| स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति | तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ||१६|| तव ह्यनुमते भीष्म नियतं स महातपाः | विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ||१७|| महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् | धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ||१८|| अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् | कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ||१९|| यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ||१९|| तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः | उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ||२०|| ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन | कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ||२१|| स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् | प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ||२२|| तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् | परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ||२३|| मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ||२३|| तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च | मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ||२४|| भवत्या यदभिप्रेतं तदहं कर्तुमागतः | शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ||२५|| तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये | स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ||२६|| तमासनगतं माता पृष्ट्वा कुशलमव्ययम् | सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ||२७|| मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे | तेषां पिता यथा स्वामी तथा माता न संशयः ||२८|| विधातृविहितः स त्वं यथा मे प्रथमः सुतः | विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ||२९|| यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः | भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ||३०|| अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः | बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ||३१|| स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च | भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ||३२|| अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च | आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ||३३|| यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे | रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ||३४|| तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक | अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ||३५|| व्यास उवाच|| वेत्थ धर्मं सत्यवति परं चापरमेव च | यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ||३६|| तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् | ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ||३७|| भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् | व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ||३८|| संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः | न हि मामव्रतोपेता उपेयात्काचिदङ्गना ||३९|| सत्यवत्युवाच|| यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु | अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ||४०|| कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो | तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ||४१|| व्यास उवाच|| यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् | विरूपतां मे सहतामेतदस्याः परं व्रतम् ||४२|| यदि मे सहते गन्धं रूपं वेषं तथा वपुः | अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ||४३|| वैशम्पायन उवाच|| समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः | ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् ||४४|| धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ||४४|| कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे | भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ||४५|| व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् | भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ||४६|| सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह | नष्टं च भारतं वंशं पुनरेव समुद्धर ||४७|| पुत्रं जनय सुश्रोणि देवराजसमप्रभम् | स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ||४८|| सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् | भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ||४९||

१०० वैशम्पायन उवाच|| ततः सत्यवती काले वधूं स्नातामृतौ तदा | संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ||१|| कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति | अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ||२|| श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे | साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ||३|| ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः | दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ||४|| तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने | बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ||५|| सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया | भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ||६|| ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् | अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ||७|| निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् | प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ||८|| नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः | महाभागो महावीर्यो महाबुद्धिर्भविष्यति ||९|| तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः | किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ||१०|| तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् | नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ||११|| ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् | द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ||१२|| स तथेति प्रतिज्ञाय निश्चक्राम महातपाः | सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ||१३|| पुनरेव तु सा देवी परिभाष्य स्नुषां ततः | ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ||१४|| ततस्तेनैव विधिना महर्षिस्तामपद्यत | अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ||१५|| विषण्णा पाण्डुसङ्काशा समपद्यत भारत ||१५|| तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव | व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ||१६|| यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि | तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ||१७|| नाम चास्य तदेवेह भविष्यति शुभानने | इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ||१८|| ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत | शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ||१९|| तं माता पुनरेवान्यमेकं पुत्रमयाचत | तथेति च महर्षिस्तां मातरं प्रत्यभाषत ||२०|| ततः कुमारं सा देवी प्राप्तकालमजीजनत् | पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया ||२१|| तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ||२१|| ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् | सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ||२२|| नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ||२२|| ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् | प्रेषयामास कृष्णाय ततः काशिपतेः सुता ||२३|| दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च | संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ||२४|| कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः | तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ||२५|| उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि | अयं च ते शुभे गर्भः श्रीमानुदरमागतः ||२६|| धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ||२६|| स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः | धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ||२७|| धर्मो विदुररूपेण शापात्तस्य महात्मनः | माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ||२८|| स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च | तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ||२९|| एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि | जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ||३०||

१०१ जनमेजय उवाच|| किं कृतं कर्म धर्मेण येन शापमुपेयिवान् | कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ||१|| वैशम्पायन उवाच|| बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः | धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ||२|| स आश्रमपदद्वारि वृक्षमूले महातपाः | ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ||३|| तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः | तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ||४|| अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ||४|| ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम | निधाय च भयाल्लीनास्तत्रैवान्वागते बले ||५|| तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् | आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ||६|| तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् | कतरेण पथा याता दस्यवो द्विजसत्तम ||७|| तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ||७|| तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः | न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ||८|| ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् | ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ||९|| ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति | संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ||१०|| तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति | स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ||११|| ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा | प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ||१२|| शूलस्थः स तु धर्मात्मा कालेन महता ततः | निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ||१३|| धारयामास च प्राणानृषींश्च समुपानयत् ||१३|| शूलाग्रे तप्यमानेन तपस्तेन महात्मना | सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ||१४|| ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः | दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ||१५|| श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ||१५|| ततः स मुनिशार्दूलस्तानुवाच तपोधनान् | दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ||१६|| राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः | प्रसादयामास तदा शूलस्थमृषिसत्तमम् ||१७|| यन्मयापकृतं मोहादज्ञानादृषिसत्तम | प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ||१८|| एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः | कृतप्रसादो राजा तं ततः समवतारयत् ||१९|| अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह | अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ||२०|| स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः | स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ||२१|| अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ||२१|| स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् | आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ||२२|| किं नु तद्दुष्कृतं कर्म मया कृतमजानता | यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ||२३|| शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ||२३|| धर्म उवाच|| पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता | कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ||२४|| अणीमाण्डव्य उवाच|| अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः | शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ||२५|| मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् | आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ||२६|| परेण कुर्वतामेवं दोष एव भविष्यति ||२६|| वैशम्पायन उवाच|| एतेन त्वपराधेन शापात्तस्य महात्मनः | धर्मो विदुररूपेण शूद्रयोनावजायत ||२७|| धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः | दीर्घदर्शी शमपरः कुरूणां च हिते रतः ||२८||

१०२ वैशम्पायन उवाच|| तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् | कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ||१|| ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च | यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ||२|| वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः | गन्धवन्ति च माल्यानि रसवन्ति फलानि च ||३|| वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः | शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ||४|| नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः | प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ||५|| दानक्रियाधर्मशीला यज्ञव्रतपरायणाः | अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ||६|| मानक्रोधविहीनाश्च जना लोभविवर्जिताः | अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ||७|| तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत | द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ||८|| प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ||८|| नदीषु वनखण्डेषु वापीपल्वलसानुषु | काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ||९|| उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा | विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ||१०|| नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ||१०|| तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः | कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ||११|| भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ||११|| बभूव रमणीयश्च चैत्ययूपशताङ्कितः | स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ||१२|| भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ||१२|| क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् | पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ||१३|| गृहेषु कुरुमुख्यानां पौराणां च नराधिप | दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ||१४|| धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः | जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ||१५|| संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः | श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ||१६|| धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि | तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ||१७|| इतिहासपुराणेषु नानाशिक्षासु चाभिभो | वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ||१८|| पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् | अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ||१९|| त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः | धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ||२०|| प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् | ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ||२१|| वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् | सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ||२२|| धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत | करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ||२३||

१०३ भीष्म उवाच|| गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् | अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ||१|| रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः | नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ||२|| मया च सत्यवत्या च कृष्णेन च महात्मना | समवस्थापितं भूयो युष्मासु कुलतन्तुषु ||३|| वर्धते तदिदं पुत्र कुलं सागरवद्यथा | तथा मया विधातव्यं त्वया चैव विशेषतः ||४|| श्रूयते यादवी कन्या अनुरूपा कुलस्य नः | सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ||५|| कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः | उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ||६|| मन्ये वरयितव्यास्ता इत्यहं धीमतां वर | सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ||७|| विदुर उवाच|| भवान्पिता भवान्माता भवान्नः परमो गुरुः | तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ||८|| वैशम्पायन उवाच|| अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् | आराध्य वरदं देवं भगनेत्रहरं हरम् ||९|| गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ||९|| इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः | ततो गान्धारराजस्य प्रेषयामास भारत ||१०|| अचक्षुरिति तत्रासीत्सुबलस्य विचारणा | कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ||११|| ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ||११|| गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् | आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ||१२|| ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा | बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ||१३|| नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ||१३|| ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् | स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ||१४|| दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् | पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ||१५|| गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः | तुष्टिं कुरूणां सर्वेषां जनयामास भारत ||१६|| वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा | वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ||१७||

१०४ वैशम्पायन उवाच|| शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् | तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ||१|| पैतृष्वसेयाय स तामनपत्याय वीर्यवान् | अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ||२|| अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे | प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ||३|| सा नियुक्ता पितुर्गेहे देवतातिथिपूजने | उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ||४|| निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः | तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ||५|| तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया | अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ||६|| यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि | तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ||७|| तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा | कन्या सती देवमर्कमाजुहाव यशस्विनी ||८|| सा ददर्श तमायान्तं भास्करं लोकभावनम् | विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ||९|| प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः | अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ||१०|| आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ||१०|| सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः | अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ||११|| प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः | दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ||१२|| गूहमानापचारं तं बन्धुपक्षभयात्तदा | उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ||१३|| तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः | पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ||१४|| नामधेयं च चक्राते तस्य बालस्य तावुभौ | वसुना सह जातोऽयं वसुषेणो भवत्विति ||१५|| स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् | आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ||१६|| यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः | नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ||१७|| तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः | कुण्डले प्रार्थयामास कवचं च महाद्युतिः ||१८|| उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् | कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ||१९|| शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् | देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ||२०|| यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ||२०|| पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् | ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ||२१||

१०५ वैशम्पायन उवाच|| रूपसत्त्वगुणोपेता धर्मारामा महाव्रता | दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ||१|| सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् | भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ||२|| स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः | युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ||३|| यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् | विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ||४|| सर्वराजसु विख्याता रूपेणासदृशी भुवि | पाण्डोरर्थे परिक्रीता धनेन महता तदा ||५|| विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ||५|| सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् | पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ||६|| कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः | जिगीषमाणो वसुधां ययौ शत्रूननेकशः ||७|| पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः | पाण्डुना नरसिंहेन कौरवाणां यशोभृता ||८|| ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् | प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ||९|| आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् | गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ||१०|| ततः कोशं समादाय वाहनानि बलानि च | पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ||११|| तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ | स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ||१२|| तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् | पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ||१३|| ते ससेनाः ससेनेन विध्वंसितबला नृपाः | पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ||१४|| तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः | तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ||१५|| तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः | उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ||१६|| मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा | गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ||१७|| खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् | तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ||१८|| तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः | हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ||१९|| शन्तनो राजसिंहस्य भरतस्य च धीमतः | प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ||२०|| ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च | ते नागपुरसिंहेन पाण्डुना करदाः कृताः ||२१|| इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः | प्रतीतमनसो हृष्टाः पौरजानपदैः सह ||२२|| प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः | ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ||२३|| आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ||२३|| नानायानसमानीतै रत्नैरुच्चावचैस्तथा | हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ||२४|| नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ||२४|| सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः | यथार्हं मानयामास पौरजानपदानपि ||२५|| प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् | पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ||२६|| स तूर्यशतसङ्घानां भेरीणां च महास्वनैः | हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ||२७||

१०६ वैशम्पायन उवाच|| धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् | भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ||१|| विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् | सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ||२|| ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् | शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ||३|| ननन्द माता कौसल्या तमप्रतिमतेजसम् | जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ||४|| तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः | अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ||५|| सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ | जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ||६|| हित्वा प्रासादनिलयं शुभानि शयनानि च | अरण्यनित्यः सततं बभूव मृगयापरः ||७|| स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः | उवास गिरिपृष्ठेषु महाशालवनेषु च ||८|| रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् | करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ||९|| भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् | विचित्रकवचं वीरं परमास्त्रविदं नृपम् ||१०|| देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ||१०|| तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः | उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ||११|| अथ पारशवीं कन्यां देवकस्य महीपतेः | रूपयौवनसम्पन्नां स शुश्रावापगासुतः ||१२|| ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः | विवाहं कारयामास विदुरस्य महामतेः ||१३|| तस्यां चोत्पादयामास विदुरः कुरुनन्दनः | पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ||१४||

१०७ वैशम्पायन उवाच|| ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय | धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ||१|| पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः | देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ||२|| जनमेजय उवाच|| कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम | कियता चैव कालेन तेषामायुश्च किं परम् ||३|| कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् | कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ||४|| आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ||४|| कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना | समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ||५|| एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन | कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ||६|| वैशम्पायन उवाच|| क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् | तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ||७|| सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः | ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ||८|| संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् | अप्रजा धारयामास ततस्तां दुःखमाविशत् ||९|| श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् | उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ||१०|| अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः | सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ||११|| ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता | द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ||१२|| अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् | तां स मांसमयीं पेशीं ददर्श जपतां वरः ||१३|| ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् | सा चात्मनो मतं सत्यं शशंस परमर्षये ||१४|| ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् | दुःखेन परमेणेदमुदरं पातितं मया ||१५|| शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा | इयं च मे मांसपेशी जाता पुत्रशताय वै ||१६|| व्यास उवाच|| एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् | वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||१७|| घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् | शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ||१८|| वैशम्पायन उवाच|| सा सिच्यमाना अष्ठीला अभवच्छतधा तदा | अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ||१९|| एकाधिकशतं पूर्णं यथायोगं विशां पते | मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ||२०|| ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा | स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ||२१|| शशास चैव भगवान्कालेनैतावता पुनः | विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ||२२|| इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च | जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ||२३|| जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः | जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ||२४|| जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् | समानीय बहून्विप्रान्भीष्मं विदुरमेव च ||२५|| युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः | प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ||२६|| अयं त्वनन्तरस्तस्मादपि राजा भविष्यति | एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ||२७|| वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत | क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ||२८|| लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः | तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ||२९|| व्यक्तं कुलान्तकरणो भवितैष सुतस्तव | तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ||३०|| शतमेकोनमप्यस्तु पुत्राणां ते महीपते | एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ||३१|| त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् | ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||३२|| स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः | न चकार तथा राजा पुत्रस्नेहसमन्वितः ||३३|| ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव | मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ||३४|| गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता | धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ||३५|| तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः | जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ||३६|| एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः | महारथानां वीराणां कन्या चैकाथ दुःशला ||३७||

१०८ जनमेजय उवाच|| ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो | धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ||१|| वैशम्पायन उवाच|| दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा | दुःसहो दुःशलश्चैव जलसन्धः समः सहः ||२|| विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः | दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ||३|| विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः | चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ||४|| दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः | ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ||५|| सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ | चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ||६|| अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः | भीमवेगो भीमबलो बलाकी बलवर्धनः ||७|| उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः | दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ||८|| दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् | उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ||९|| अपराजितः पण्डितको विशालाक्षो दुरावरः | दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ||१०|| आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ | कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ||११|| उग्रो भीमरथो वीरो वीरबाहुरलोलुपः | अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ||१२|| अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः | दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ||१३|| कुण्डाशी विरजाश्चैव दुःशला च शताधिका | एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ||१४|| नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप | सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ||१५|| सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः | सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ||१६|| सर्वेषामनुरूपाश्च कृता दारा महीपते | धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ||१७|| दुःशलां समये राजा सिन्धुराजाय भारत | जयद्रथाय प्रददौ सौबलानुमते तदा ||१८||

१०९ जनमेजय उवाच|| कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः | अमानुषो मानुषाणां भवता ब्रह्मवित्तम ||१|| नामधेयानि चाप्येषां कथ्यमानानि भागशः | त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ||२|| ते हि सर्वे महात्मानो देवराजपराक्रमाः | त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ||३|| तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् | तेषामाजननं सर्वं वैशम्पायन कीर्तय ||४|| वैशम्पायन उवाच|| राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते | वने मैथुनकालस्थं ददर्श मृगयूथपम् ||५|| ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः | निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ||६|| स च राजन्महातेजा ऋषिपुत्रस्तपोधनः | भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ||७|| संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् | क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ||८|| मृग उवाच|| काममन्युपरीतापि बुद्ध्यङ्गरहितापि च | वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ||९|| न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः | विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ||१०|| शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत | कामलोभाभिभूतस्य कथं ते चलिता मतिः ||११|| पाण्डुरुवाच|| शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता | राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ||१२|| अच्छद्मनामायया च मृगाणां वध इष्यते | स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ||१३|| अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः | आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ||१४|| प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे | अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ||१५|| मृग उवाच|| न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् | रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ||१६|| पाण्डुरुवाच|| प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा | उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ||१७|| मृग उवाच|| नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् | मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ||१८|| सर्वभूतहिते काले सर्वभूतेप्सिते तथा | को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ||१९|| पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ||१९|| पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् | वंशे जातस्य कौरव्य नानुरूपमिदं तव ||२०|| नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् | अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ||२१|| स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् | नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ||२२|| त्वया नृशंसकर्तारः पापाचाराश्च मानवाः | निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ||२३|| किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् | मुनिं मूलफलाहारं मृगवेषधरं नृप ||२४|| वसमानमरण्येषु नित्यं शमपरायणम् ||२४|| त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् | द्वयोर्नृशंसकर्तारमवशं काममोहितम् ||२५|| जीवितान्तकरो भाव एवमेवागमिष्यति ||२५|| अहं हि किंदमो नाम तपसाप्रतिमो मुनिः | व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ||२६|| मृगो भूत्वा मृगैः सार्धं चरामि गहने वने | न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ||२७|| मृगरूपधरं हत्वा मामेवं काममोहितम् ||२७|| अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि | प्रियया सह संवासं प्राप्य कामविमोहितः ||२८|| त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ||२८|| अन्तकाले च संवासं यया गन्तासि कान्तया | प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ||२९|| भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ||२९|| वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया | तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ||३०|| वैशम्पायन उवाच|| एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत | मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ||३१||

११० वैशम्पायन उवाच|| तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् | सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ||१|| पाण्डुरुवाच|| सतामपि कुले जाताः कर्मणा बत दुर्गतिम् | प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ||२|| शश्वद्धर्मात्मना जातो बाल एव पिता मम | जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ||३|| तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः | कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ||४|| तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा | त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ||५|| मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् | सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||६|| अतीव तपसात्मानं योजयिष्याम्यसंशयम् ||६|| तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ | चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ||७|| पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः | वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ||८|| न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः | निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ||९|| न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् | प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ||१०|| जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् | स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ||११|| एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च | असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ||१२|| अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् | नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ||१३|| वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः | नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ||१४|| न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् | मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ||१५|| याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः | ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ||१६|| तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः | सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ||१७|| निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः | न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||१८|| एतया सततं वृत्त्या चरन्नेवम्प्रकारया | देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ||१९|| नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते | स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ||२०|| सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा | उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ||२१|| वैशम्पायन उवाच|| एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः | अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ||२२|| कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः | आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ||२३|| ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः | पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ||२४|| प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ||२४|| निशम्य वचनं भर्तुर्वनवासे धृतात्मनः | तत्समं वचनं कुन्ती माद्री च समभाषताम् ||२५|| अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ | आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ||२६|| त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ||२६|| प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे | त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ||२७|| यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते | अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ||२८|| पाण्डुरुवाच|| यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् | स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||२९|| त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः | वल्कली फलमूलाशी चरिष्यामि महावने ||३०|| अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् | कृशः परिमिताहारश्चीरचर्मजटाधरः ||३१|| शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः | तपसा दुश्चरेणेदं शरीरमुपशोषयन् ||३२|| एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् | पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ||३३|| वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् | नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ||३४|| एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् | काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ||३५|| वैशम्पायन उवाच|| इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः | ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ||३६|| वासांसि च महार्हाणि स्त्रीणामाभरणानि च ||३६|| प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत | गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ||३७|| अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् | प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ||३८|| ततस्तस्यानुयात्राणि ते चैव परिचारकाः | श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ||३९|| भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ||३९|| उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् | ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ||४०|| श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने | धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ||४१|| राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः | जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ||४२|| स चैत्ररथमासाद्य वारिषेणमतीत्य च | हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ||४३|| रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः | उवास स तदा राजा समेषु विषमेषु च ||४४|| इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च | शतशृङ्गे महाराज तापसः समपद्यत ||४५||

१११ वैशम्पायन उवाच|| तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् | सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ||१|| शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः | स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ||२|| केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा | ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ||३|| स तु कालेन महता प्राप्य निष्कल्मषं तपः | ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ||४|| स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः | प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ||५|| उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ||५|| दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् | आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ||६|| उद्यानानि कुबेरस्य समानि विषमाणि च | महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ||७|| सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः | सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ||८|| अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः | वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ||९|| गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे | न सीदेतामदुःखार्हे मा गमो भरतर्षभ ||१०|| पाण्डुरुवाच|| अप्रजस्य महाभागा न द्वारं परिचक्षते | स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ||११|| ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि | पितृदेवर्षिमनुजदेयैः शतसहस्रशः ||१२|| एतानि तु यथाकालं यो न बुध्यति मानवः | न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ||१३|| यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् | पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ||१४|| ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः | पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ||१५|| देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः | इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ||१६|| यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना | तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ||१७|| तापसा ऊचुः|| अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् | अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ||१८|| दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय | अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ||१९|| तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि | अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ||२०|| वैशम्पायन उवाच|| तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् | आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ||२१|| सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् | अपत्योत्पादने योगमापदि प्रसमर्थयन् ||२२|| अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता | इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ||२३|| इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः | सर्वमेवानपत्यस्य न पावनमिहोच्यते ||२४|| सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते | अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ||२५|| मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः | नृशंसकारिणो भीरु यथैवोपहतं तथा ||२६|| इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने | षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ||२७|| स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः | पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ||२८|| दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः | सहोढो जातरेताश्च हीनयोनिधृतश्च यः ||२९|| पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् | उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ||३०|| अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः | आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ||३१|| तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् | सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ||३२|| शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति | या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ||३३|| पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे | वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ||३४|| कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् | तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ||३५|| तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् | मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ||३६||

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code