Ad Code

यो वा एतामेवं वेदापहत्य



यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥

॥ लिप्यन्तरणम् ॥

yo vā etāmevaṁ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati ||

॥ अन्वयः ॥

यः वै एताम् एवं वेद सः पाप्मानम् अपहत्य अनन्ते ज्येये स्वर्गे लोके प्रतितिष्ठति ॥

॥ अन्वयलिप्यन्तरणम् ॥

anvayaḥ-yaḥ vai etām evaṁ veda ( saḥ ) pāpmānam apahatya anante jyeye svarge loke pratitiṣṭhati ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ब्रह्मविद्याफलम् ]

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके

ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥९॥

यो वा एताम् - उक्तां ब्रह्मविद्याम् एवम् - तपः प्रभृत्युपायसहिताम्, वेद । स पाप्मानमपहत्य - सर्वाणि पापान्यवधूय, अनन्ते - कालपरिच्छेदशून्ये, ज्येये - ज्यायसि, सर्वतः श्रेष्ठ इत्यर्थः, स्वर्गे लोके दुःखासंभिन्नसुखे, भगवल्लोके, अक्षरधाम्नीति यावत्, प्रतितिष्ठति प्रतिष्ठितो भवति । न च पुनरावर्तत इति भाव: । आवृत्तिरुपनिषत्समाप्त्यर्था । अनन्ते ज्येय इति पदद्वयसमभिव्याहारात् योगपौष्कल्यात् स्वर्गशब्दो भगवद्धामपरः ॥९॥

॥ इति केनोपनिषद्भाष्ये चतुर्थः खण्डः ॥

॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंसवर्य्ययोगिराज श्रीगोपालानन्दस्वामिविरचितं केनोपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥

॥ आङ्गल-अर्थः ॥

He who knows this knowledge, smites evil away from him and in that vaster world and infinite heaven finds his foundation, yea, he finds his foundation.

॥ हिन्दी-अर्थः ॥

जो इस अन्तरज्ञान को जानता है वह अपने पाप का उच्छेदन करके उस बृहत्तर लोक एवं अनन्त स्वर्ग में प्रतिष्ठित हो जाता है, अवश्यमेव वह प्रतिष्ठित हो जाता है।

॥ शब्दावली ॥

यः - yaḥ - who

वै - vai - indeed

एताम् - etām - this knowledge

एवम् - evam - thus

वेद - veda - knows

सः - saḥ - he

पाप्मानम् - pāpmānam - evil

अपहत्य - apahatya - smiting away

अनन्ते - anante - in that infinite, yea, he finds his foundation

ज्येये - jyeye - in that vaster

स्वर्गे - svarge - heaven

लोके - loke - world

प्रतितिष्ठति - pratitiṣṭhati - finds his foundation


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code