Mahabharata - महाभारतम्
1. आदिपर्व- अध्याय 007
॥ श्रीः ॥
1.7. अध्यायः 007
Mahabharata - Adi Parva - Chapter Topics
क्रोधेनाग्निकृत आत्मोपसंहारः॥ 1 ॥ ब्रह्मोक्तसान्त्ववचनेनाग्नेः संतोषः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
1-7-0(952)
सौतिरुवाच। 1-7-0x(37)
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्।
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥ 1-7-1(953)
धर्मे प्रयतमानस्य सत्यं च वदतः समम्।
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम॥ 1-7-2(954)
पृष्टो हिसाक्षीयः साक्ष्यं जानानोऽप्यन्यथा वदेत्।
स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान्॥ 1-7-3(955)
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥ 1-7-4(956)
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम।
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥ 1-7-5(957)
योगेन बहुधाऽऽत्मानं कृत्वा तिष्ठामि मूर्तिषु।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥ 1-7-6(958)
वेदोक्तेन विधानेन मयि यद्धूयते हविः।
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै॥ 1-7-7(959)
आपो देवगणाः सर्वे आपः पितृगणास्तथा।
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥ 1-7-8(960)
देवताः पितरस्तस्मात्पितरश्चापि देवताः।
एकीभूताश्च दृश्यन्ते पृथक्त्वेन च पर्वसु॥ 1-7-9(961)
देवताः पितरश्चैव भुञ्जते मयि यद्भुतम्।
देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥ 1-7-10(962)
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः।
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥ 1-7-11(963)
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्। 1-7-12(964)
सौतिरुवाच।
चिन्तयित्वा ततो वह्निश्चके संहारमात्मनः॥ 1-7-12x(38)
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च।
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः॥ 1-7-13(965)
विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः।
अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन्वचः॥ 1-7-14(966)
अग्निनाशात्क्रियाभ्रांशाद्भ्रान्ता लोकास्त्रयोऽनघाः।
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा॥ 1-7-15(967)
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु।
अग्नेरावेदयञ्शापं क्रियासंहारमेव च॥ 1-7-16(968)
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे।
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा॥ 1-7-17(969)
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति। 1-7-18(970)
सौतिरुवाच।
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्॥ 1-7-18x(39)
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्।
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च॥ 1-7-19(971)
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः।
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः॥ 1-7-20(972)
कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशेन।
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह॥ 1-7-21(973)
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि।
अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन्॥ 1-7-22(974)
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति।
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥ 1-7-23(975)
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति।
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्॥ 1-7-24(976)
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो।
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥ 1-7-25(977)
सौतिरुवाच। 1-7-26x(40)
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्।
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥ 1-7-26(978)
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम्।
ऋषयश्च यथा पूर्वं क्रियाः सर्वाः प्रचक्रिरे॥ 1-7-27(979)
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः।
अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥ 1-7-28(980)
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा।
एवमेष पुरा वृत्त हतिहासोऽग्निशापजः।
पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः॥ ॥ 1-7-29(981)
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि सप्तमोऽध्यायः॥ 7 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-7-2 समं पक्षपातहीनां। व्यभिचारः अपराधः॥ 2 ॥ 1-7-8 आपः सोमाज्य प्रभृतयोग्नौ हूयमाना देवपितृरूपाः। अग्नौ हुता आप एव देवताशरीररूपेण परिणमन्त इत्यर्थः॥ 1-7-9 देवादिभावस्यापि कर्मप्राप्यत्वाद्देवानां पितॄणां च मिथो भेदो नास्त्येव तुल्यहेतुकत्वादित्याह देवता इति॥ 1-7-11 अमावास्यां अमावास्यायां। हूयन्ते इज्यन्ते॥ 1-7-12 संहारं तिरोभावं॥ 1-7-22 भक्ष्यन्ति भक्षयिष्यन्ति॥ 1-7-23 क्रव्यादा मांसभक्षिणी॥ 1-7-24 स्वप्रभावात् अग्निप्रेरणया। तस्य वागधिष्ठातृत्वात्तत्प्रेरणयैव विनिर्गतं शापं॥ 24 ॥ सप्तमोऽध्यायः॥ 7 ॥

0 Comments