Mahabharata - महाभारतम्
1. आदिपर्व अध्याय 006
॥ श्रीः ॥
1.6. अध्यायः 006
Mahabharata - Adi Parva - Chapter Topics
च्यवनोत्पत्ती रक्षोविनाशश्च॥ 1 ॥ अग्नेर्भृगुशापः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
1-6-0(937)
सौतिरुवाच। 1-6-0x(33)
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्।
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा॥ 1-6-1(938)
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह।
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्॥ 1-6-2(939)
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्।
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्॥ 1-6-3(940)
सा तमादाय सुश्रोणी ससार भृगुनन्दनम्।
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता॥ 1-6-4(941)
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः।
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्॥ 1-6-5(942)
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः।
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी॥ 1-6-6(943)
आवर्तन्ती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः।
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा॥ 1-6-7(944)
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः।
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति॥ 1-6-8(945)
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्।
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः॥ 1-6-9(946)
भृगुरुवाच। 1-6-10x(34)
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे।
न हि त्वा वेद तद्रक्षो मद्भार्यां चारुहासिनीम्॥ 1-6-10(947)
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा।
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः॥ 1-6-11(948)
पुलोमोवाच। 1-6-12x(35)
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता।
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव॥ 1-6-12(949)
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता।
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै॥ 1-6-13(950)
सौतिरुवाच। 1-6-14x(36)
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्।
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि॥ ॥ 1-6-14(951)
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि षष्ठोऽध्यायः॥ 6 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-6-2 तेन च्युतत्वेन हेतुना॥ 2 ॥ 1-6-7 आवर्तन्ती सृतिं तस्याः। सृतिं मार्गं। अनुवर्त्म सृता तस्या इति पाठान्तरं॥ 7 ॥ षष्ठोऽध्यायः॥ 6 ॥

0 Comments