आदिपर्व - अध्याय 012



 

Mahabharata - महाभारतम्

1. आदिपर्व - अध्याय 012

॥ श्रीः ॥

1.12. अध्यायः 012

Mahabharata - Adi Parva - Chapter Topics

जनमेजयसर्पसन्नप्रस्तावः॥ 1 ॥

Mahabharata - Adi Parva - Chapter Text

1-12-0(1069)

रुरुरुवाच। 1-12-0x(56)

कथं हिंसितवान्सर्पान्स राजा जनमेजयः।

सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1(1070)

किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।

आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2(1071)

ऋषिरुवाच। 1-12-3x(57)

श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।

ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम्॥ 1-12-3(1072)

सौतिरुवाच। 1-12-4x(58)

`इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ।

संभ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम्॥' 1-12-4(1073)

बलं परममास्थाय पर्यधावत्समन्ततः।

तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-5(1074)

स मोहे परमं गत्वा नष्टसंज्ञ इवाभवत्।

तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः॥ 1-12-6(1075)

लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।

`पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत्॥ 1-12-7(1076)

अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा।

आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम्॥ 1-12-8(1077)

तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः।'

पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ ॥ 1-12-9(1078)

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि द्वादशोऽध्यायः॥ 12 ॥

॥ समाप्तं पौलोमपर्व ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-12-5 नष्टं अन्तर्हितं॥ द्वादशोऽध्यायः॥ 12 ॥


एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने