गुरुवार, 27 फ़रवरी 2025

आदिपर्व - अध्याय 013

  


Mahabharata - महाभारतम्

1. आदिपर्व - अध्याय 013

॥ श्रीः ॥

1.13. अध्यायः 013

(अथास्तीकपर्व ॥ 5 ॥)

Mahabharata - Adi Parva - Chapter Topics

आस्तीकजरत्कार्वोराख्यानं॥ 1 ॥ जरत्कारोस्तत्पितॄणां च संवादः॥ 2 ॥

Mahabharata - Adi Parva - Chapter Text

1-13-0(1079)

शौनक उवाच। 1-13-0x(59)

किमर्थं राजशार्दूलः स राजा जनमेजयः।

सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥ 1-13-1(1080)

निखिलेन यथातत्त्वं सौते सर्वमशेषतः।

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥ 1-13-2(1081)

मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः।

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्॥ 1-13-3(1082)

स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे। 1-13-4(1083)

सौतिरुवाच।

महदाक्यानमास्तीकं यथैतत्प्रोच्यते द्विज॥ 1-13-4x(60)

सर्वमेतदशेषेण शृणु मे वदतां वर। 1-13-5(1084)

शौनक उवाच।

श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्॥ 1-13-5x(61)

आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः। 1-13-6(1085)

सौतिरुवाच।

इतिहासमिमं विप्राः पुराणं परिचक्षते॥ 1-13-6x(62)

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु।

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः॥ 1-13-7(1086)

शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्।

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्॥ 1-13-8(1087)

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते।

कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्॥ 1-13-9(1088)

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः।

ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा॥ 1-13-10(1089)

जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः।

यायावराणां प्रवरो धर्मज्ञः संशितव्रतः॥ 1-13-11(1090)

स कदाचिन्महाभागस्तपोबलसमन्वितः।

चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः॥ 1-13-12(1091)

तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः।

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः॥ 1-13-13(1092)

वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः।

इतस्ततः परिचरन्दीप्तपावकसप्रभः॥ 1-13-14(1093)

अटमानः कदाचित्स्वान्स ददर्श पितामहान्।

लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्॥ 1-13-15(1094)

तानब्रवीत्स दृष्ट्वै जरत्कारुः पितामहान्।

के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः॥ 1-13-16(1095)

वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते।

मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥ 1-13-17(1096)

पितर ऊचुः। 1-13-18x(63)

यायावरा नाम वयमृषयः संशितव्रताः।

संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥ 1-13-18(1097)

अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः।

मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥ 1-13-19(1098)

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति।

तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥ 1-13-20(1099)

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा।

`येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा॥ 1-13-21(1100)

न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि।'

कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ 1-13-22(1101)

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः।

किमर्थं चैव नः शोच्याननुशोचसि सत्तम॥ 1-13-23(1102)

जरत्कारुरुवाच। 1-13-24x(64)

मम पूर्वे भवन्तो वै पितरः सपितामहाः।

ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ 1-13-24(1103)

पितर ऊचुः। 1-13-25x(65)

यतस्व यत्नवांस्तात संतानाय कुलस्य नः।

आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥ 1-13-25(1104)

न हि धर्मफलैस्तात न तपोऽभिः सुसंचितैः।

तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ 1-13-26(1105)

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु।

पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ 1-13-27(1106)

जरत्कारुरुवाच। 1-13-28x(66)

न दारान्वै करिष्येऽहं न धनं जीवितार्थतः।

भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ 1-13-28(1107)

समयेन च कर्ताऽहमनेन विधिपूर्वकम्।

तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ 1-13-29(1108)

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः।

भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ 1-13-30(1109)

दरिद्राय हि मे भार्यां को दास्यति विशेषतः।

प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ 1-13-31(1110)

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः।

अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥ 1-13-32(1111)

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।

शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥ ॥ 1-13-33(1112)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोदशोऽध्यायः॥ 13 ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-13-11 यायावराणां ग्रामैकरात्रवासिनां गृहस्थानां॥ 1-13-12 सायंकालस्तत्रैव गृहमस्येति यत्रसायंगृहः॥ 1-13-30 उपयंस्येपरिणेष्ये॥ 30 ॥ त्रयोदशोऽध्यायः॥ 13 ॥


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know