Mahabharata - महाभारतम्
1. आदिपर्व - अध्याय 014
॥ श्रीः ॥
1.14. अध्यायः 014
Mahabharata - Adi Parva - Chapter Topics
वासुकिभगिन्या जरत्कारोर्विवाहः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
1-14-0(1113)
सौतिरुवाच। 1-14-0x(67)
ततो निवेशाय तदा स विप्रः संशितव्रतः।
महीं चचार दारार्थी न च दारानविन्दत॥ 1-14-1(1114)
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 1-14-2(1115)
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा।
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 1-14-3(1116)
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि।
मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 1-14-4(1117)
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 1-14-5(1118)
वासुकिरुवाच। 1-14-6x(68)
जरत्कारो जरत्कारुः स्वसेयमनुजा मम।
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्।
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम॥ 1-14-6(1119)
सौतिरुवाच। 1-14-7x(69)
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ ॥ 1-14-7(1120)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्दशोऽध्यायः॥ 14 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-14-1 निवेशाय दारसंग्रहाय॥ चतुर्दशोऽध्यायः॥ 14 ॥
0 टिप्पणियाँ