आदिपर्व - अध्याय 014

  


Mahabharata - महाभारतम्

1. आदिपर्व - अध्याय 014

॥ श्रीः ॥

1.14. अध्यायः 014

Mahabharata - Adi Parva - Chapter Topics

वासुकिभगिन्या जरत्कारोर्विवाहः॥ 1 ॥

Mahabharata - Adi Parva - Chapter Text

1-14-0(1113)

सौतिरुवाच। 1-14-0x(67)

ततो निवेशाय तदा स विप्रः संशितव्रतः।

महीं चचार दारार्थी न च दारानविन्दत॥ 1-14-1(1114)

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।

चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 1-14-2(1115)

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा।

न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 1-14-3(1116)

सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि।

मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 1-14-4(1117)

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।

किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 1-14-5(1118)

वासुकिरुवाच। 1-14-6x(68)

जरत्कारो जरत्कारुः स्वसेयमनुजा मम।

प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्।

त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम॥ 1-14-6(1119)

सौतिरुवाच। 1-14-7x(69)

एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ ॥ 1-14-7(1120)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्दशोऽध्यायः॥ 14 ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-14-1 निवेशाय दारसंग्रहाय॥ चतुर्दशोऽध्यायः॥ 14 ॥


एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने