आदिपर्व- अध्याय 015

 


Mahabharata - महाभारतम्

1. आदिपर्व- अध्याय 015

॥ श्रीः ॥

1.15. अध्यायः 015

Mahabharata - Adi Parva - Chapter Topics

आस्तीकोत्पत्तिः॥ 1 ॥ संक्षेपेण सर्पमोचनवृत्तान्तश्च॥ 2 ॥

Mahabharata - Adi Parva - Chapter Text

1-15-0(1121)

सौतिरुवाच। 1-15-0x(70)

मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1(1122)

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।

स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2(1123)

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।

आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3(1124)

तपस्वी च महात्मा च वेदवेदाङ्गपारगः।

समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4(1125)

अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।

आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5(1126)

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।

मोचयामास ताञ्शापादास्तीकः सुमहातपाः॥ 1-15-6(1127)

भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।

पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7(1128)

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8(1129)

ऋषींश्च ब्रह्मचर्येम सन्तत्या च पितामहान्।

अपहृत्य गुरं भारं पितॄणां संशितव्रतः॥ 1-15-9(1130)

जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10(1131)

जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।

एतदाख्यानमास्तीकं यथावत्कथितं मया।

प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ ॥ 1-15-11(1132)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चदशोऽध्यायः॥ 15 ॥


एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने