आदिपर्व- अध्याय 017 ॥ श्रीः ॥

 

 


Mahabharata - महाभारतम्

1. आदिपर्व- अध्याय 017

॥ श्रीः ॥

1.17. अध्यायः 017

Mahabharata - Adi Parva - Chapter Topics

अमृतमथनविषये भगवदाज्ञया देवानां विचारः॥ 1 ॥

Mahabharata - Adi Parva - Chapter Text

1-17-0(1161)

सौतिरुवाच। 1-17-0x(74)

एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।

अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात्॥ 1-17-1(1162)

यं तु देवगणाः सर्वे हृष्टरूपमपूजयन्।

मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2(1163)

अमोघबलमश्वानामुत्तमं जविनां वरम्।

श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3(1164)

शौनक उवाच। 1-17-4x(75)

कथं तदमृतं देवैर्मथितं क्व च शंस मे।

`कारणं चात्र मथने संजातममृतात्परम्॥'

यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4(1165)

सौतिरुवाच। 1-17-5x(76)

ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।

आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः॥ 1-17-5(1166)

कनकाभरणं चित्रं देवगन्धर्वसेवितम्।

अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6(1167)

व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।

नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7(1168)

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।

नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8(1169)

तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।

अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः॥ 1-17-9(1170)

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।

अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10(1171)

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।

चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11(1172)

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।

भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12(1173)

सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।

मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः॥ ॥ 1-17-13(1174)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तदशोऽध्यायः॥ 17 ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-17-9 अनन्तकल्पं अनन्तो विष्णुराकाशो वात तत ईषन्न्यूनम्॥ 1-17-13 वेत्स्यध्वं लप्स्यध्वम्॥ सप्तदशोऽध्यायः॥ 17 ॥


एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने