Mahabharata - महाभारतम्
1. आदिपर्व- अध्याय 017
॥ श्रीः ॥
1.17. अध्यायः 017
Mahabharata - Adi Parva - Chapter Topics
अमृतमथनविषये भगवदाज्ञया देवानां विचारः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
1-17-0(1161)
सौतिरुवाच। 1-17-0x(74)
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात्॥ 1-17-1(1162)
यं तु देवगणाः सर्वे हृष्टरूपमपूजयन्।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2(1163)
अमोघबलमश्वानामुत्तमं जविनां वरम्।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3(1164)
शौनक उवाच। 1-17-4x(75)
कथं तदमृतं देवैर्मथितं क्व च शंस मे।
`कारणं चात्र मथने संजातममृतात्परम्॥'
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4(1165)
सौतिरुवाच। 1-17-5x(76)
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः॥ 1-17-5(1166)
कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6(1167)
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7(1168)
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8(1169)
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः॥ 1-17-9(1170)
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10(1171)
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11(1172)
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12(1173)
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः॥ ॥ 1-17-13(1174)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-17-9 अनन्तकल्पं अनन्तो विष्णुराकाशो वात तत ईषन्न्यूनम्॥ 1-17-13 वेत्स्यध्वं लप्स्यध्वम्॥ सप्तदशोऽध्यायः॥ 17 ॥
0 टिप्पणियाँ