गुरुवार, 27 फ़रवरी 2025

आदिपर्व - अध्याय 018



Mahabharata - महाभारतम्

1. आदिपर्व - अध्याय 018

॥ श्रीः ॥

1.18. अध्यायः 018

Mahabharata - Adi Parva - Chapter Topics

मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम्॥ 1 ॥

Mahabharata - Adi Parva - Chapter Text

1-18-0(1175)

सौतिरुवाच। 1-18-0x(77)

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।

मन्दरं पर्वतवरं लताजालसमाकुलम्॥ 1-18-1(1176)

नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम्।

किंनरैरप्सरोभिश्च देवैरपि च सेवितम्॥ 1-18-2(1177)

एकादश सहस्राणि योजनानां समुच्छ्रितम्।

अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥ 1-18-3(1178)

तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।

विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥ 1-18-4(1179)

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्।

मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः॥ 1-18-5(1180)

सौतिरुवाच। 1-18-6x(78)

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।

अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥ 1-18-6(1181)

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।

नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्॥ 1-18-7(1182)

अथ पर्वतराजानं तमनन्तो महाबलः।

उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्॥ 1-18-8(1183)

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।

तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्॥ 1-18-9(1184)

अपांपतिरथोवाच ममाप्यंशो भवेत्ततः।

सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति॥ 1-18-10(1185)

ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।

अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति॥ 1-18-11(1186)

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।

तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्॥ 1-18-12(1187)

मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम्।

देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्।

अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः॥ 1-18-13(1188)

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः॥ 1-18-14(1189)

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।

अनन्तो भगवान्देवो यतो नारायणः स्थितः॥ 1-18-15(1190)

`वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।'

शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्॥ 1-18-16(1191)

वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।

सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥ 1-18-17(1192)

`वासुकेर्मथ्यमानस्य निःसृतेन विषेण च।

अभवन्मिश्रितं तोयं तदा भार्गवनन्दन॥ 1-18-18(1193)

मथनान्मन्दरेणाथ देवदानवबाहुभिः।

विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्॥ 1-18-19(1194)

देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह।

अपाक्रामंस्ततो भीता विषादमगमंस्तदा॥ 1-18-20(1195)

ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः।

मथ्यमानेऽमृते जातं विषं कालानलप्रभम्॥ 1-18-21(1196)

तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह।

एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्॥ 1-18-22(1197)

त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम्।

तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ॥ 1-18-23(1198)

तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः।

तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया॥ 1-18-24(1199)

अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।

कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया॥ 1-18-25(1200)

यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।

पीतमात्रे विषे तत्र रुद्रेणामिततेजसा॥ 1-18-26(1201)

देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा।

मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः॥ 1-18-27(1202)

वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।

सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥' 1-18-28(1203)

ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः।

अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्॥ 1-18-29(1204)

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः।

सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्॥ 1-18-30(1205)

बभूवात्र महान्नादो महामेघरवोपमः।

उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः॥ 1-18-31(1206)

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा।

विलयं समुपाजग्मुः शतशो लवणाम्भसि॥ 1-18-32(1207)

वारुणानि च भूतानि विविधानि महीधरः।

पातालतलवासीनि विलयं समुपानयत्॥ 1-18-33(1208)

तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्।

न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः॥ 1-18-34(1209)

तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः।

विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्॥ 1-18-35(1210)

ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्।

विगतासूनि सर्वाणि सत्त्वानि विविधानि च॥ 1-18-36(1211)

तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।

वारिणा मेघजेनेन्द्रः शमयामास सर्वशः॥ 1-18-37(1212)

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि।

महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः॥ 1-18-38(1213)

तेषाममृतवीर्याणां रसानां पयसैव च।

अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्॥ 1-18-39(1214)

ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः।

रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्॥ 1-18-40(1215)

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्।

श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्॥ 1-18-41(1216)

ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः।

चिरारब्धमिदं चापि सागरस्यापि मन्थनम्॥ 1-18-42(1217)

`ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम्। 1-18-43(1218)

सौतिरुवाच।

देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः'॥ 1-18-43x(79)

ततो नारायणं देवं वचनं चेदमब्रवीत्।

विधत्स्वैषां बलं विष्णो भवानत्र परायणम्॥ 1-18-44(1219)

विष्णुरुवाच। 1-18-45x(80)

बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।

क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम्॥ 1-18-45(1220)

सौतिरुवाच। 1-18-46x(81)

नारायणवचः श्रुत्वा बलिनस्ते महोदधेः।

तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्॥ 1-18-46(1221)

`तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।

प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।

कृष्णरूपधरा देवी सर्वाभरणभूषिता॥' 1-18-47(1222)

ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्।

प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः॥ 1-18-48(1223)

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी।

सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा॥ 1-18-49(1224)

कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः।

मरीचिविकचः श्रीमान्नारायणउरोगतः॥ 1-18-50(1225)

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः।

`पारिजातश्च तत्रैव सुरभिश्च महामुने।

जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ॥ 1-18-51(1226)

ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।

कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।'

यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः॥ 1-18-52(1227)

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत।

श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति॥ 1-18-53(1228)

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः।

अमृतार्थे महान्नादो ममेदमिति जल्पताम्॥ 1-18-54(1229)

ततो नारायणो मायां मोहिनीं समुपाश्रितः।

स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः॥ 1-18-55(1230)

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।

स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः॥ 1-18-56(1231)

`सा तु नारायणी माया धारयन्ती कमण्डलुम्।

आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः॥ 1-18-57(1232)

देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः॥ ॥ 1-18-58(1233)

इति श्रीमन्महाबारते आदिपर्वणि आस्तीकपर्वणि अष्टादशोऽध्यायः॥ 18 ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-18-11 अकूपारे समुद्रसमीपे। अधिष्ठानं आधारः॥ 1-18-12 तु तथेत्युक्ते पृष्ठे त्वस्य समर्पितः। सशैलस्तस्य चाग्रं वै वज्रेणेन्द्रोऽभ्यपीडयत्। इति पाठान्तरं॥ 1-18-13 योक्त्रं मन्थनरज्जुम्॥ 1-18-14 एकमन्तं एकं प्रदेशं मुखभागम्॥ 1-18-33 वारुणानि वरुणलोकस्थानि आप्यांशप्रधानशरीराणि॥ 1-18-40 लवणाम्भसि कुतो दुग्धमित्यत आह। तत इति। ततः तेषां निःस्रवं प्राप्य। समुद्रस्य तत्क्षारं उदकं पयः क्षीरं जातम्॥ 1-18-50 मरीचिविकचः रश्मिभिरुज्ज्वलः। नारायणउरोगत इत्यसन्धिरार्षः॥ 1-18-55 अभिसंश्रितः संमुखः स्थितः मोहनार्थमिति शेषः॥ अष्टादशोऽध्यायः॥ 18 ॥



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know