आदिपर्व - अध्याय 019

 


Mahabharata - महाभारतम्

1. आदिपर्व - अध्याय 019

॥ श्रीः ॥

1.19. अध्यायः 019

Mahabharata - Adi Parva - Chapter Topics

देवानाममृतपानं॥ 1 ॥ देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं॥ 2 ॥ देवदैत्ययोर्युद्धं। तत्र दैत्यपराजयः॥ 3 ॥

Mahabharata - Adi Parva - Chapter Text

1-19-0(1234)

सौतिरुवाच। 1-19-0x(82)

अथावरणमुख्यानि नानाप्रहरणानि च।

प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1(1235)

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।

जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2(1236)

ततो देवगणाः सर्वे पपुस्तदमृतं तदा।

विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति॥ 1-19-3(1237)

`पाययत्यमृतं देवान्हरौ बाहुबलान्नरः।

निरोधयति चापेन दूरीकृत्य धनुर्धरान्।

ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;'॥ 1-19-4(1238)

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्।

राहुर्विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-5(1239)

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।

आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-6(1240)

ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।

चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-7(1241)

तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत्।

`चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्॥' 1-19-8(1242)

चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्।

तत्कबन्धं पपातास्य विस्फुरद्धरणीतले॥ 1-19-9(1243)

`त्रयोदश सहस्राणि चतुरश्रं समन्ततः।

सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-10(1244)

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।

शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-11(1245)

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।

नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत्॥ 1-19-12(1246)

ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।

सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-13(1247)

प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।

तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-14(1248)

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।

असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-15(1249)

छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः।

तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-16(1250)

रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।

अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-17(1251)

आहाकारः समभवत्तत्र तत्र सहस्रशः।

अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-18(1252)

परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः।

निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-19(1253)

छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च।

व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-20(1254)

एवं सुतुमुले युद्धे वर्तमाने महाभये।

नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-21(1255)

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।

चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-22(1256)

ततोऽम्बराच्चिन्तितमात्रमागतं

महाप्रभं चक्रममित्रतापनम्।

विभावसोस्तुल्यमकुण्ठमण्डलं

सुदर्शनं संयति भीमदर्शनम्॥ 1-19-23(1257)

तदागतं ज्वलितहुताशनप्रभं

भयंकरं करिकरबाहुरच्युतः।

मुमोच वै प्रबलवदुग्रवेगवा-

न्महाप्रभं परनगरावदारणम्॥ 1-19-24(1258)

तदन्तकज्वलनसमानवर्चसं

पुनःपुनर्न्यपतत वेगवत्तदा।

विदारयद्दितिदनुजान्सहस्रशः

करेरितं पुरुषवरेण संयुगे॥ 1-19-25(1259)

दहत्क्वचिज्ज्वलन इवावलेलिह-

त्प्रसह्य तानसुरगणान्न्यकृन्तत।

प्रवेरितं वियति मुहुः क्षितौ तथा

पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-26(1260)

तथाऽसुरा गिरिभिरदीनचेतसो

मुहुर्मुहुः सुरगणमार्दयंस्तदा।

महाबला विगलितमेघवर्चसः

सहस्रशो गगनमभिप्रपद्यह॥ 1-19-27(1261)

अथाम्बराद्भयजननाः प्रपेदिरे

सपादपा बहुविधमेघरूपिणः।

महाद्रयः परिगलिताग्रसानवः

परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-28(1262)

ततो मही प्रविचलिता सकानना

महाद्रिपाताभिहता समन्ततः।

परस्परं भृशमभिगर्जतां मुहू

रणाजिरे भृशमभिसंप्रवर्तिते॥ 1-19-29(1263)

नरस्ततो वरकनकाग्रभूषणै-

र्महेषुभिर्गगनपथं समावृणोत्।

विदारयन्गिरिशिखराणि पत्रिभि-

र्महाभयेऽसुरगणविग्रहे तदा॥ 1-19-30(1264)

ततो महीं लवणजलं च सागरं

महासुराः प्रविविशुरर्दिताः सुरैः।

वियद्गतं ज्वलितहुताशनप्रभं

सुदर्शनं परिकुपितं निशाम्य ते॥ 1-19-31(1265)

ततः सुरैर्विजयमवाप्य मन्दरः

स्वमेव देशं गमितः सुपूजितः।

विनाद्य खं दिवमपि चैव सर्वश-

स्ततो गताः सलिलधरा यथागतम्॥ 1-19-32(1266)

ततोऽमृतं सुनिहितमेव चक्रिरे

सुराः पुरां मुदमभिगम्य पुष्कलाम्।

ददो च तं निधिममृतस्य रक्षितुं

किरीटिने बलभिदथामरैः सह॥ ॥ 1-19-33(1267)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनविंशोऽध्यायः॥ 19 ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-19-1 आवरणमुख्यानि कवचाग्र्याणि॥ 1-19-3 संभ्रमे उभयेषाममृतादरे सति। सङ्ग्रामे इति पाठान्तरं॥ 1-19-26 प्रवेरितं प्रेरितं॥ 1-19-27 विगलितमेघाः रिक्तमेघाः॥ 1-19-32 सलिलधराः अमृतभृतो देवाः॥ 1-19-33 किरीटिने नराय॥ एकोनविंशोऽध्यायः॥ 19 ॥


एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने