Mahabharata - महाभारतम्
1. आदिपर्व - अध्याय 019
॥ श्रीः ॥
1.19. अध्यायः 019
Mahabharata - Adi Parva - Chapter Topics
देवानाममृतपानं॥ 1 ॥ देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं॥ 2 ॥ देवदैत्ययोर्युद्धं। तत्र दैत्यपराजयः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
1-19-0(1234)
सौतिरुवाच। 1-19-0x(82)
अथावरणमुख्यानि नानाप्रहरणानि च।
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1(1235)
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2(1236)
ततो देवगणाः सर्वे पपुस्तदमृतं तदा।
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति॥ 1-19-3(1237)
`पाययत्यमृतं देवान्हरौ बाहुबलान्नरः।
निरोधयति चापेन दूरीकृत्य धनुर्धरान्।
ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;'॥ 1-19-4(1238)
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्।
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-5(1239)
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-6(1240)
ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-7(1241)
तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत्।
`चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्॥' 1-19-8(1242)
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्।
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले॥ 1-19-9(1243)
`त्रयोदश सहस्राणि चतुरश्रं समन्ततः।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-10(1244)
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-11(1245)
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।
नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत्॥ 1-19-12(1246)
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।
सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-13(1247)
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-14(1248)
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-15(1249)
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-16(1250)
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।
अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-17(1251)
आहाकारः समभवत्तत्र तत्र सहस्रशः।
अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-18(1252)
परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-19(1253)
छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च।
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-20(1254)
एवं सुतुमुले युद्धे वर्तमाने महाभये।
नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-21(1255)
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-22(1256)
ततोऽम्बराच्चिन्तितमात्रमागतं
महाप्रभं चक्रममित्रतापनम्।
विभावसोस्तुल्यमकुण्ठमण्डलं
सुदर्शनं संयति भीमदर्शनम्॥ 1-19-23(1257)
तदागतं ज्वलितहुताशनप्रभं
भयंकरं करिकरबाहुरच्युतः।
मुमोच वै प्रबलवदुग्रवेगवा-
न्महाप्रभं परनगरावदारणम्॥ 1-19-24(1258)
तदन्तकज्वलनसमानवर्चसं
पुनःपुनर्न्यपतत वेगवत्तदा।
विदारयद्दितिदनुजान्सहस्रशः
करेरितं पुरुषवरेण संयुगे॥ 1-19-25(1259)
दहत्क्वचिज्ज्वलन इवावलेलिह-
त्प्रसह्य तानसुरगणान्न्यकृन्तत।
प्रवेरितं वियति मुहुः क्षितौ तथा
पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-26(1260)
तथाऽसुरा गिरिभिरदीनचेतसो
मुहुर्मुहुः सुरगणमार्दयंस्तदा।
महाबला विगलितमेघवर्चसः
सहस्रशो गगनमभिप्रपद्यह॥ 1-19-27(1261)
अथाम्बराद्भयजननाः प्रपेदिरे
सपादपा बहुविधमेघरूपिणः।
महाद्रयः परिगलिताग्रसानवः
परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-28(1262)
ततो मही प्रविचलिता सकानना
महाद्रिपाताभिहता समन्ततः।
परस्परं भृशमभिगर्जतां मुहू
रणाजिरे भृशमभिसंप्रवर्तिते॥ 1-19-29(1263)
नरस्ततो वरकनकाग्रभूषणै-
र्महेषुभिर्गगनपथं समावृणोत्।
विदारयन्गिरिशिखराणि पत्रिभि-
र्महाभयेऽसुरगणविग्रहे तदा॥ 1-19-30(1264)
ततो महीं लवणजलं च सागरं
महासुराः प्रविविशुरर्दिताः सुरैः।
वियद्गतं ज्वलितहुताशनप्रभं
सुदर्शनं परिकुपितं निशाम्य ते॥ 1-19-31(1265)
ततः सुरैर्विजयमवाप्य मन्दरः
स्वमेव देशं गमितः सुपूजितः।
विनाद्य खं दिवमपि चैव सर्वश-
स्ततो गताः सलिलधरा यथागतम्॥ 1-19-32(1266)
ततोऽमृतं सुनिहितमेव चक्रिरे
सुराः पुरां मुदमभिगम्य पुष्कलाम्।
ददो च तं निधिममृतस्य रक्षितुं
किरीटिने बलभिदथामरैः सह॥ ॥ 1-19-33(1267)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनविंशोऽध्यायः॥ 19 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-19-1 आवरणमुख्यानि कवचाग्र्याणि॥ 1-19-3 संभ्रमे उभयेषाममृतादरे सति। सङ्ग्रामे इति पाठान्तरं॥ 1-19-26 प्रवेरितं प्रेरितं॥ 1-19-27 विगलितमेघाः रिक्तमेघाः॥ 1-19-32 सलिलधराः अमृतभृतो देवाः॥ 1-19-33 किरीटिने नराय॥ एकोनविंशोऽध्यायः॥ 19 ॥
0 टिप्पणियाँ