Ad Code

आदिपर्व - अध्याय 021

  


Mahabharata - महाभारतम्

1. आदिपर्व - अध्याय 021

॥ श्रीः ॥

1.21. अध्यायः 021

Mahabharata - Adi Parva - Chapter Topics

उच्चैःश्रवसो दर्शार्थं कद्रूविनतयोर्गमनम्॥ 1 ॥

Mahabharata - Adi Parva - Chapter Text

1-21-0(1288)

सौतिरुवाच। 1-21-0x(87)

ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ।

कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 1-21-1(1289)

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा।

`स्मगरस्य परं पारं वेलावनविभूषितम्।'

जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्॥ 1-21-2(1290)

ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्।

महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 1-21-3(1291)

तिमिंगिलझषाकीर्णं मकरैरावृतं तथा।

सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 1-21-4(1292)

भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा।

उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 1-21-5(1293)

आकरं सर्वरत्नानामालयं वरुणस्य च।

नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 1-21-6(1294)

पातालज्वलनावासमसुराणां च बान्धवम्।

भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 1-21-7(1295)

शुभं दिव्यममर्त्यानाममृतस्याकरं परम्।

अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 1-21-8(1296)

घोरं जलचरारावरौद्रं भैरवनिःस्वनम्।

गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 1-21-9(1297)

वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्।

वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 1-21-10(1298)

चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम्।

पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 1-21-11(1299)

गां विन्दता भगवता गोविन्देनामितौजसा।

वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 1-21-12(1300)

ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा।

अनासादितगाधं च पातालतलमव्ययम्॥ 1-21-13(1301)

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः।

युगादिकालशयनं विष्णोरमिततेजसः॥ 1-21-14(1302)

वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम्।

डिम्बाहवार्दितानां च असुराणां परायणम्॥ 1-21-15(1303)

बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्।

अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 1-21-16(1304)

महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः।

अभिसार्यमाणमनिशं ददृशाते महार्णवम्।

आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 1-21-17(1305)

गम्भीरं तिमिमकरोग्रसंकुलं तं

गर्जन्तं जलचररावरौद्रनादैः।

विस्तीर्णं ददृशतुरम्बरप्रकाशं

तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ ॥ 1-21-18(1306)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकविंशतितमोऽध्यायः॥ 21 ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-21-3 क्षोभ्यमाणं मकरादिभिः॥ 1-21-7 पातालज्वलनो बडवाग्निः॥ 1-21-12 गां पृथ्वीं विन्दता लम्बमानेन॥ 1-21-15 डिम्बो भयवतामाक्रन्दस्तद्वति आहवे॥ 1-21-18 ते कद्रूविनते॥ एकविंशतितमोऽध्यायः॥ 21 ॥



एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code