Mahabharata - महाभारतम्
1. आदिपर्व- अध्याय 022
॥ श्रीः ॥
1.22. अध्यायः 022
Mahabharata - Adi Parva - Chapter Topics
सर्पौर्मातृवचनादुच्चैःश्रवःपुच्छवेष्टनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
1-22-0(1307)
सौतिरुवाच। 1-22-0x(88)
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः।
निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा॥ 1-22-1(1308)
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी।
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥ 1-22-2(1309)
`इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः।'
एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥ 1-22-3(1310)
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम।
जग्मतुः परया प्रीत्या परं पारं महोदधेः॥ 1-22-4(1311)
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा।
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्॥ 1-22-5(1312)
वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम्।
तिमिंगिलसमाकीर्णं मकरैरावृतं तथा॥ 1-22-6(1313)
संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि।
घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम्॥ 1-22-7(1314)
आकरं सर्वरत्नानामालयं वरुणस्य च।
नागानामालयं चापि सुरम्यं सरितां पतिम्॥ 1-22-8(1315)
पातालज्वलनावासमसुराणां तथालयम्।
भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥ 1-22-9(1316)
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्।
अप्रमेयमचिन्त्यं च सुपुम्यजलसंमितम्॥ 1-22-10(1317)
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः।
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥ 1-22-11(1318)
इत्येवं तरलतरोर्मिसंकुलं ते
गम्भीरं विकसितमम्बरप्रकाशम्।
पातालज्वलनशिखाविदीपिताङ्गं
गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥ ॥ 1-22-12(1319)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वाविंशोऽध्यायः॥ 22 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-22-1 संविदं मिथ आलोचनम्॥ 1-22-3 पणिते पणं कृत वत्यौ॥ 3 ॥ द्वाविंशोऽध्यायः॥ 22 ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know