१.१.४
सूत्राणि:॥ न धातुलोप आर्धधातुके ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - न अव्ययपदम् । धातुलोपे ७।१। आर्धधातुके ७।१।
समासः - धातुं लोपयतीति धातुलोप:, तस्मिन् धातुलोपे (उपपदसमासः) धातोरवयवस्य लोप इति धातुलोपः तस्मिन् धातुलोपे (मध्यपदलोपी समासः) ।
अनुवृत्तिः - 'इको गुणवृद्धी' इत्यनुवर्तते ।
अन्वयः - धातुलोप आर्धधातुक इको गुणवृद्धी न ।
अर्थ: - धातुलोपे आर्धधातुके प्रत्यये परत इक: स्थाने गुणवृद्धी न भवतः ।
उदाहरणम् - गुण: - (इ) चेचियः । (उ) लोलुवः । पोपुवः । वृद्धि: - (ऋ) मरीमृजः ।
आर्यभाषार्थ - (धातुलोपे) यदि धातु के अवयव का लोप करनेवाला (आर्धधातुके) आर्धधातुक प्रत्यय परे हो तो (इक:) इक् के स्थान में (गुणवृद्धी) गुण और वृद्धि (न) नहीं होती है ।
उदाहरणम् - गुण - (इ) चेचियः । अधिक चुननेवाला । लोलुवः । अधिक काटनेवाला । पोपुवः । अधिक पवित्र करनेवाला । वृद्धि: - (ऋ) मरीमृजः । अधिक शुद्ध करनेवाला ।
सिद्धिः - (१) चेचियः । चेचिय + अच् । चेचिय + अ । चेचिय + सु । चेचियः । यहां यङन्त चिञ् चयने (स्वा.उ.) धातु से 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' (३.१.१३४) से अच् प्रत्यय करने पर 'यङझेऽचि च' (२.४.७४) से यङ् का लुक् हो जाता है । यङ् का लोप धातु के एक अवयव का लोप है और उसका लोप करनेवाला 'अच्' प्रत्यय आर्धधातुक है । यङ् का लोप होने के पश्चात् आर्धधातुक अच् प्रत्यय के परे रहने पर 'चेचि' धातु के इक् 'को 'सार्वधातुकार्धधातुकयो:' (७.३.८४) से गुण प्राप्त होता है । उसका इस सूत्र से प्रतिषेध किया गया है । तत्पश्चात् 'अचि श्नुधातुभ्रुवां..' (६.४.७७) से इयङ् आदेश हो जाता है ।
(२) लोलुवः । लोलूय + अच् । लोलू + अ । लोलू उवङ् + अ । लोलुव्+अ । लोलुवः । यहां यडन्त लूञ् लवने (क्रया.उ.) धातु से पूर्ववत् अच् प्रत्यय और यङ् का लुक् हो जाने पर 'सार्वधातुकार्धधातुकयो:' (७.३.८४) से गुण प्राप्त होता है । उसका इस सूत्र से प्रतिषेध किया गया है । तत्पश्चात् 'अचि श्नुधातुभ्रुवां..' (६.४.७७) से उवङ् आदेश हो जाता है ! इसी प्रकार पूरा पवने (क्रया.उ.) धातु से 'पोपुव:' शब्द सिद्ध होता है ।
(३) मरीमृजः । मरीमृज् + अच् । मरीमृज् + अ । मरीमृज + सु । मरीमृजः । यहां यङन्त मृजूष् शुद्धौ (अदा.प.) धातु से पूर्ववत् अच् प्रत्यय 'मृजेर्वृद्धि:' (७.२.११४) से धातुस्थ इक् (ऋ) को वृद्धि प्राप्त होती है, उसका इस सूत्र से प्रतिषेध किया गया है ।
॥ काशिका ॥
धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्द्धधातुके तदार्धधातुकं धातुलोपं तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः । लोलुवः पोपुवः, मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि (३.१.१३४/२८९६) विहिते “यङोऽचि च” (२.४.७४/२६५०) इति यङो लुकि कृते तमेवाचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः । धातुग्रहणं किम् ? लूञ् - लविता । रेडसि । पर्ण नयेः । अनुबन्धप्रत्ययलोपे मा भूत् । रिषेहिंसार्थस्य विच्प्रत्ययलोप उदाहरणं रेडिति ।आर्धधातुक इति किम् ? त्रिधा बद्धो वृषभो रोरवीति । सार्वधातुके मा भूत् । इक इत्येव अभाजि, रागः ॥ बहुव्रीहिसमाश्रयणं किम् ? क्नोपयति, प्रेद्धम् ।
॥ न्यासः ॥
उक्तपरिमाणस्य शब्दस्य धातुसञ्ज्ञा कृता । तस्य सर्वस्य लोपे कृते यत्र गुणवृद्धी प्राप्नुतस्तदार्धधातुकेन सम्भवत्येव तत् किं प्रतिषेधेन ? तस्मात् प्रतिषेधविधानसामर्थ्याद्धात्वेकदेशे धातुशब्दो वर्तत इति मत्वाह - ‘धात्वेकदेशो धातुः’ इति । ‘धातुलोपे’ इति । यद्ययं धातोर्लोपो धातुलोप इति तत्पुरूषः, तत आर्धधातुकग्रहणं गुणवृद्धिविशेषणं वा स्यात् - ‘धातुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः’ इति । लोपविशेषणं वा स्यात् - ‘आर्धधातुकनिमित्ते धातुलोपे सति गुणवृद्धी न भवतः’ इति ? पूर्वस्मिन् ‘क्नोपयति ‘इत्यत्र प्रतिषेधः प्राप्नो - तत्र प्रतिविधानं कर्तव्यम् । द्वितीये तु न भवत्येष दोषः । न हि ‘क्नोपयति’ इत्यत्रार्धधातुकनिमित्तलोपः, किं तर्हि, कतवनिमित्तकः । किन्तु द्वितीये पक्षे प्रेद्धमित्यत्र प्राप्नोति - अस्ति ह्यत्रार्धधातुकनिमित्तो लोपः । ननु चेग्लक्षणयोर्गुणवृद्धयोरयं प्रतिषेधः न चात्रेग्लक्षणो गुणः ? नैतदस्ति; अत्रापीग्लक्षण एव गुणो यो ह्युभयोः स्थाने भवति, लभते सोऽन्तयतरव्यपदेशम् । तथा हि - ‘मातुः पितुः’ इत्यत्रोभयोः स्थाने भवन् रपरोऽण् भव - तस्माल्लोपविशेषणपक्षेऽपि तत्पुरुषे प्रतिविधानं कर्त्तव्यमेव । बहुव्रीहौ तु न किञ्चित् प्रतिविधेयमिति मन्यमानो बहुव्रीहिरयमिति दर्शयन्नाह - ‘तस्य’ इत्यादि । एतेन लोपविशेषणमार्धधातुकमित्येतद्दर्शितं भव - एवं चार्धधातुके सम्भवति यदि तत्तस्य निमित्तं भवति, ततश्च क्नोपयतीत्यत्रातिप्रसङ्गो नावतरति । ‘तत्र’ इत्यादि । नापि गुणवृद्ध्योरार्धधातुकं निमित्त्वेन विशेषणमित्याख्यातम् । ततश्च प्रेद्धमित्यत्राप्यतिप्रसङ्गो न भवति, न ह्याद्गुण आर्धधातुकनिमित्तः । ‘ये ते’ इति । स्त्रीलिङ्गनिर्देशः ‘गुणवृद्धी’ इत्यनेन स्त्रीलिङ्गेन सामानाधिकरण्यात् । अस्य तु स्त्रीलिङ्गता ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ (२.४.२६) इत्यतिदेशात् । अर्थस्य च सोऽतिदेश इति यत्तदोरपि तत्रार्थे वर्तमानयोः स्त्रीलिङ्गता भव - ननु च नियमस्य प्रकृतत्वात् तस्यैवायं प्रतिषेधो युक्तः, तत् किमित्येवमाह -तत्र ‘गुणवृद्धी प्राप्नुतस्ते न भवतः’ इति । तयोः प्राधान्यात् । तत् पुनर्नियमेनोपक्रियमाणत्वात्, नियमस्य तु तादर्थ्यादप्राधान्यम् । तस्माद्गुणवृद्धयोरेवायं प्रतिषेधो न्याय्यः । ‘लोलुवः, पोपुवः’ इति । ‘लूञ् छेदने’ (धा.पा. १४८३), ‘पूञ् पवने (धा.पा. १४८२) इत्येताभ्यां धातोरेकाचः’ (३.१.२२) इत्यादिना यङ्, ‘सन्यडो’ (६.१.९) इति द्विर्वचनम्, ‘गुणोयङलुको:’ (७.४.८२) इत्यभ्यासस्य गुण:, यङन्तात् पचाद्यचि ‘यडोऽचि च’ (२.४.७४) इति लुकि तन्निमित्तगुणप्रतिषेधः, तस्मिन् सति ‘अचि श्नुधातुकभ्रुवाम्’ (६.४.७७) इत्यादिनोवङ । ‘मरीमृजः’ इति । ‘मृजू शुद्धौ’ (धा.पा. १०६६), पूर्ववद्यङ, द्विर्वचनम्, उरदत्त्वम्, (७.४.६६) ‘हलादिः शेष:’ (७.४.६०) ‘रीगृदुपधस्य च’ (७.४.९०) इति रीगागमः । लोलूयादिभ्य इत्यादिशब्देन ‘पोपूय, मरीमृज्य’ इत्येतयोर्ग्रहणम् । ‘लूञ्-लविता’ इति । यावदेव धातुसञ्ज्ञा न भवति तावदेव ‘सर्वविधिभ्यो लोपविधिर्बलीयात्’ (व्या.प.७०) इति ञकारस्य लोपो भवति, पश्चाल्लू इत्येतस्य धातुसञ्ज्ञा, तेन ञकारलोपो धातुलोपो न भवतीति भवति प्रत्युदाहरणम् । ‘रेड्’ इति । रिष रुष हिंसायाम्’ (धा.पा.१२३२,१२३०), ‘अन्येभ्योऽपि दृश्यन्ते (३.२.७५) इति विच्, इकारचकारी ‘वेरपृक्तस्य (६.१.६७) इत्यत्र सामान्यग्रहणाविघातार्थो, वकारस्य चानेनैव लोप:, ‘पुगन्तलघूपधुस्य च’ (७.३.८६) इति गुणः । ‘झलां जशोऽन्ते’ (८.२.३९) इति षकारस्य डकारः । ननु च द्वयङ्गविकले द्वे अपि एते प्रत्युदाहरणे, तथैव ह्यत्र धातुलोपो न भवति, एवमार्धधातुकनिमित्तोऽपि न भवति, नैतदस्ति सति हि धातुग्रहणे पदद्वयसान्निध्याद्द्बहुव्रीहिर्लभ्यते । तस्मिंश्च सत्यार्धधातुकनिमत्तत्वं लोपस्य । असति हि धातुग्रहणे ‘न लोप आर्धधातुके’ इत्युच्यमाने ‘आर्धधातुकाश्रये ये गुणवृद्धी प्रतिषेधः स्यात् । ‘रोरवीति’ इति । रुशब्दे’ (धा.पा. १०३४) इत्यस्माद्यङ, ‘बहुलं छन्दसि’ (२.४.७३) इति यङो लुक्, लट्, तिप्, शप् । अदादित्वाच्छपो लुक् (२.४.७२(‘यडो वा’)(७.३.९४) इतीट् । अत्र सार्वधातुकनिमित्तो गुणो न प्रतिषिध्यते । ननु च द्वयङ्गविकलमेवेदम्, यथैव ह्यार्धधातुकनिमित्तो गुणो न भवत्येवं लोपोऽपि ? नैतदस्ति; सति ह्यार्धधातुकग्रहणेऽन्यपदार्थत्वे न तस्याश्रयणात् तन्निमित्तो लोपो लभ्यते, तस्मिंश्च सति न धातुलोपे’ इतीयत्युच्यमाने ‘ये केचन गुणवृद्धी ते च लोपे सति भवतः’ इत्येष वाक्यार्थः स्यात् । ततश्चाविशेषितत्वाल्लोपस्य लोपमात्रे प्रतिषेधो विज्ञायते । ‘अभाजि’ इति । ‘भञ्जो आमर्द्दने’ (धा.पा. १४५३),लुङ्, च्लिः, ‘चिण् भावकर्मणोः’ (३.१.६६) इति चिण्, ‘इणो लुक्’ (६.४.१०४) इति तशब्दस्य लुक्, ‘भञ्जेश्च चिणि’ (६.४.३३) इत्यनुनासिकलोपः । ‘रागः’ इति । अत्रापि ‘घञि च भावकरणयोः’ (६.४.२७) इति नलोपः । ‘रञ्ज रागे’ (धा.पा. ११६७), भावे घञ् । यद्यप्यत्र स्रवमस्ति तथापीक इत्यत्रानुवृत्तेरिह चेकोऽसम्भवात् ‘अत उपधायाः’ (७.२.११६) इति वृद्धेः प्राप्तायाः प्रतिषेधो न भव - ‘क्नोपयति’ इति । ‘ क्नूयी शब्दे’ (धा.पा. ४८५), ‘हेतुमति च’ (३.१.२६) इति णिच्, ‘अर्त्तिह्री’ गुणः । ‘प्रेद्धम्’ इति । ‘ञिइन्धी दीप्ती’ (धा.पा. १४४८), क्तः, ‘अनिदिताम्’ (६.४.२४) इत्या दिनानुनासिकलोपः झषस्तर्थोर्घोऽधः’ (८.२.४०) इति तकारस्य धत्वम् । ‘झलां जश् झशि (८.४.५३) इति धातुधकारस्य दकारः, प्रगतमिद्धमिति ‘कुगतिप्रादयः’ (२.२.१८) इति समासः ।
॥ पदपञ्जरी ॥
“दुरीणो लोपश्च” दुःशब्द उपपदे इणो धातोरप्रत्ययो भवति, धातोश्च लोपः । दुःखेन ईयते = प्राप्यते दूरमित्यत्र यद्यपि कृत्स्नस्य धातोर्लोपः संभवति, तथाप्येवंविषये गुणवृद्ध्योः प्राप्त्यभावादेकदेशे धातुशब्दो वर्त्तत इत्याह - धात्वेकदेश इति । “धातुलोप” इति तत्पुरुषे सति आर्द्धधातुकग्रहणं लोपविशेषणम्, गुणवृद्धिविशेषणम्, उभयविषेषणं वा इति त्रयः कल्पाः । तत्र यदि लोपविशेषणम् - आर्द्धधातुकनिमित्ते धातुलोपे सति यत्किञ्चिद् निमित्ते गुणवृद्धी न भवत इत्यर्थः स्यात् । ततश्च प्रेद्धम् इत्यत्र प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमित्ते नलोपे सति प्राप्नुवत आद्गुणस्यापि निषेधः स्यात् । यद्यपीक इत्यनुवर्तते, तथापि द्वयोः षष्ठीनिर्द्दिष्टयोः स्थाने भवन्नन्यतरव्यपदेशं लभत इति स्यादेव । न चेह सूत्रे “इक” इत्यस्य रूपपरत्वे प्रमाणमस्ति । उत्तरसूत्रे तु प्रमाणं वक्ष्यामः । ननु “पूर्वं धातुः साधनेन युज्यते” इत्यस्मिन् दर्शने प्रथमोपनतक्तप्रत्ययापेक्षत्वादुपधालोपोऽन्तरङ्ग इति तदपेक्षः प्रतिषेधोऽप्यन्तरङ्गः, “पूर्वं धातुरुपसर्गेण युज्यते” इति तु दर्शने प्रथमोपनतोपसर्गापेक्षत्वाद् गुणोऽन्तरङ्गः, ततश्च “ असिद्धं बहिरङ्गमन्तरङ्गे” इति प्रतिषेधो न भविष्यति ? नैतदस्ति; “नाजानन्तर्ये” इति निषेधात् । अथ गुणवृद्धिविशेषणमार्द्धधातुकग्रहणम्, ततोऽयमर्थः स्यात् - यत्किञ्चन निमित्ते धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न भवत इति; तदा प्रेद्धमित्यत्र दोषो न, गुणस्यातन्निमित्तत्वात्; किन्तु क्नोपयतीत्यत्र “ क्नूयी शब्दे” इत्यस्माण्णिचि पुकि च यलोपे पुगन्तलक्षणस्य गुणस्य निषेधः स्याद् । अत उभयविशेषणम् - आर्द्धधातुकनिमित्ते धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न भवत इति ।
तत्र सकृच्छ्रुतस्योभयविशेषणत्वमेव तावद् दुर्लभम् ? अथापि स्याद्, एवमपि लोपगुणवृद्धीनामेकार्द्धधातुकनिमित्तत्वं न लभ्यते । ततश्च विभज्यान्वाख्यानपक्षे भेद्यत इत्यत्र भिदेर्ण्यन्तात्कर्मणि यकि’भिद्+इ+य’ इति स्थिते नित्यत्वात्पूर्व णिलोपे कृते यकमपेक्ष्य प्रवृत्ते ? प्रत्ययलक्षणेन णिचमपेक्ष्य प्राप्नुवतो गुणस्य निषेधः स्याद्, द्वयोरप्यार्द्धधातुकनिमित्तत्वादिति तत्पुरुषे सति सर्वथा दोषं दृष्ट्वाऽऽह - तस्य लोपो यस्मिन्निति । अस्मिन्पक्षे धातोर्लोपो यस्मिन्निति अन्यपदार्थभूतेनार्द्धधातुकेन लोपो विशेष्यते, साक्षाच्च गुणवृद्धी, धातोर्लोपो यस्मिन् तस्मिन्निति । एकार्द्धधातुकनिमित्तत्वं च लोपगुणवृद्धीनां लभ्यत इति न कश्चिद् दोषः । “ते न भवत इति । अनेन गुणवृद्ध्योरयं निषेधः, न पूर्वसूत्रव्यापारस्येति दर्शयति । पदोपस्थापनं हि पूर्वसूत्रव्यापारः । न चैवम्भूत आर्द्धधातुके तस्य प्रसङ्गः, “दीधीवेवीटाम्” इति चासम्बद्धं स्यादुपस्थाननिषेधे । “लोलुव” इत्यादि । लूपभ्यां यङ्, द्विर्वचनम्, “गुणो यङ्लुकोः” गुणे निषिद्धे उवङ् । “मरीमृज” इति । “रीगृदुपधस्य च “ । लोलूयादिभ्य इत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति । ननु च यङकारस्यातो लोपे कृते तस्या स्थानिवत्त्वादेव गुणवृद्धी न भविष्यतः, यथा - पापचक इति “अत उपधायाः” इति वृद्धिः, न ह्यत्रानेन निषेधः सिध्यति, किं कारणम् ? अनिग्लक्षणत्वात् । नालोपो लभ्यते, “यडोऽचि च” इति समुदायलुका प्रतिपदविहितेन बाधितत्वात् । योगविभागात्सिद्धम् - अतो लोपो भवत्यार्द्धधातुके, ततो “यस्य” य इत्यस्य समुदायस्य योऽकारस्तस्यापि लोपो भवति । किमर्थमिदम् ? विशेषविहितेन समुदायलुकाऽतो लोपो मा बाधीति । तेन स्थानिवत्त्वादेव गुणवृद्धी न भविष्यतः । यथैव तर्हि गुणवृद्धी न भवत एवं चेक्षियः, चेक्रियः, लोलुवः, तोष्टुवः, सुश्रुव इतीयङ्ङुवङावप्यच्प्रत्ययमपेक्ष्य न स्याताम् । मा भूतामचि, य एव त्वसौ स्थान्यकारस्तदाश्रयौ भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः । ननु क्षेत्रियः तोष्टुव इत्यत्रान्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधत इति अकृत्सार्वधातुकयोर्दीर्घात् प्रागेव यङो लुकि कृते स्थानिवद्भावे सत्यपि चेक्षि अ अ, तोष्टु अ अ इति स्थिते स्थान्यकारेण सह लघूपधमङ्गं संजातमिति अच्प्रत्यये गुणः स्यादेव; न अन्तरङ्गावियङुवङौ भविष्यतः, अशिश्रियद् अदुद्रुवद् इति यथा । अतः स्थानिवत्त्वादेव सिद्धम्, नार्थोऽनेन ? उच्यते; सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयङुवङोः कृतयोः पुनर्लघूपधलक्षणो गुणः प्राप्नोति । न च पुनरपि स्थानिवद्भावः, आदिष्टादचः पूर्वत्वात् । किञ्च यद्यतो लोपः क्रियेत, जङ्गम इत्यत्र “गमहन्” इत्युपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र “ऋदृशोः” इति गुणः स्याद्; देद्य इत्यत्र “दीडो युडचि” इति युट् स्यात्; सनीस्रंसः, दनीध्वंस इत्यत्र “अनिदिताम्” इत्युपधालोपः स्यात्; यायावर इत्यादिष्वाकारलोपः स्यात् । यदा पुनर्योगविभागमकृत्वा विशेषविहितः समुदायलुक् क्रियते, तदा हलचोरादेशस्य स्थानिवत्त्वाभावादुपधालोपादयो न भवन्तीत्यवश्यं समुदायस्य लुगेषितव्यः । एवं च लोलुव इत्यादावपि गुणवृद्धी स्यातामिति सूत्रमपि कर्त्तव्यम् ॥ “लूञ् लविते”ति । प्रागेव धातुसंज्ञाया भवन्ननुबन्धलोपो धातुलोपो न भवति । “रेडसी” ति “रुष रिष हिंसायाम्” । “अन्येभ्योऽपि दृश्यन्ते “ इति विच्, वेरपृक्तस्य लोपः - न धातुलोपो भवति ।
नन्वसत्यपि धातुग्रहणे लुप्यतेऽस्मिन्नित्यधिकरणसाधनलोपशब्दस्याश्रयणादनैमित्तिकेऽनुबन्धप्रत्ययलोपे न भविष्यति । तत्र लोपशब्दो हि संज्ञाशब्दः, कथमस्याधिकरणसाधनता लभ्यते । “रोरवीतीति । “रु शब्दे” यङ्लुकि तिपि रूपम् । नन्वसत्यप्यार्धधातुकग्रहणे धातोर्लोपो यस्मिन्निति बहुव्रीहिर्विज्ञास्यते, रोरवीतीत्यत्र च यङ्लुगनैमित्तिकः । न ह्यार्द्धधातुकग्रहणं बहुव्रीहित्वे प्रमाणम्, सत्यपि तस्मिंस्तत्पुरुषसम्भवात् । इदं तर्हि प्रयोजनम् - “तुर्वी थुर्वी धुर्वी हिंसार्थाः”, मुर्छा मोहसमुच्छ्राययोः, तेभ्यो यङ्लुगन्तेभ्यस्तिबादी सार्वधातुके परतो राल्लोपे तोतोर्ति मोमोर्तीत्यादौ छ्रुवोर्लोपस्य गुणस्य चैकनिमित्तत्वान्निषेधः स्यादेव । “इक इत्येवे”ति । इक इत्यस्यानुवृत्ति प्रति न शङ्का कार्येत्येवशब्दस्यार्थः । अतः अभाजि, राग इति “भञ्जेश्च चिणि”, “घञि च भावकरणयोः” इत्युपधालोपः ॥
प्रक्रियातर्कगहनप्रविष्टो हृष्टमानसः । हरदत्तहरः स्वैरं विहरन् केन वार्यते ॥
॥ शब्दकौस्तुभः ॥
धात्वंशलोपनिमित्ते आर्द्धधातुके परे तन्निमित्तिके गुणवृद्धी इको न स्तः । ‘लोलुवः’ ‘पोपुवः’ ‘मरीमृकजः’ । लोलूयादिब्यो यङन्तेभ्यः पचाद्यचि कृते यङोऽचि च(२.४.७४) इति यङ्लुकि लुङ्निमित्तभूतमचमेवाश्रित्य प्राप्ते गुणवृद्धी निषिध्यते । यद्यपि कृत्स्नस्य धातोरपि क्वचिल्लोपोऽस्ति । तद्यथा, दुरीणो लोपश्च(१.२.१८७) दुःशब्दे उपपदे इणो धातो रक् प्रत्ययो भवति धातोश्च लोपः, दुःखेन ईयते प्राप्यते दूरामिति; तथाप्येवंविधे विषये गुणवृद्ध्योःक प्राप्तिविरहान्निषेधवैयर्थ्यम् । अतोऽत्र दातुशब्देन तदेकदेशो लक्ष्यते ।
धातुलोप इति च यदि षष्ठीतत्पूरुषः स्यात्तदार्द्धधातुकग्रहणं लोपविशेषणं वा गुणवृद्ध्योर्विशेषणं वा तन्त्रावृत्त्यादिभिरुभयविशेषणं वेतित्रयः कल्पाः। तत्राद्ये पक्षे आर्द्धधातुकनिमित्तके धातुलोपे सति यत्किञ्चिन्नित्तिके गुणवृद्धी न भवत इति सूत्रार्थः स्यात् । ततश्च प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमित्तके नलोपे च सति ‘प्रेद्धः’ इत्यत्र प्राप्नुवन्नाद्गुणोऽपि निषिध्येत । यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते ऽसावन्यतरतो व्यपदेशमितीक्स्थानिकत्वस्यापि सत्त्वात् । न चैवमपीग्लक्षणत्वविरहान्न निषेधः लैगवायने ओर्गुणस्येवेति वाच्यम् । नह्यस्मिन्सूत्रे इक इत्यस्य स्वरूपपरतायां प्रमाणमस्त्युत्त रसूत्रे तु चकार इतिशब्दार्थकः प्रमाणमित्याहुः ।
अस्तु वाऽर्थाधिकाराश्रयणबलेनेहापीक इति स्वरूपपरं तथापि ‘भेद्यते’ इत्यादौ गुणो न स्यादिति तृतीयपक्षे वक्ष्यमाणो दोष आद्यपक्षद्वयेऽप्यस्त्येवेति बोध्यम् । ननु ‘उपेद्धः’ ‘प्रेद्धः’ इत्युदाहरणस्येहोक्तिसम्भव एव नास्ति । तथाहि, पूर्वं धातुः साधनेन युज्यते इति मते ‘इद्धम्’ इत्यत्र नलोपोऽन्तरङ्गः प्रथमोपनतक्तप्रत्ययापेक्षत्वात् । पूर्वं धातुरुपसर्गेण इति दर्शने तु गुणोऽन्तरङ्ग, उभयथाऽपि गुणो भविष्यति बहिरङ्गस्य गुणस्यासिद्धतया निषेधायोगात् बहिरङ्गस्य निषेधस्यासिद्धौ गुणप्रवृत्तेर्निर्बात्वाच्च । सत्यम्, असिद्धं बाहेरङ्गमन्तरङ्गे (पा.भा.५०) इति परिभाषा नेह प्रवर्त्तते नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः (प.भा.५१) इति निषेधात् । यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्यमाश्रीयते तत्रेषा परिभाषा नेति व्याख्यानादिति हरदत्तानुयायिनः । किन्त्वस्मिन्पक्षे एत ऐ (३.४.९३) इति सूत्रे ‘पचावेदं’ ‘पचामेदम्’ इत्यादौ एत ऐत्वं कुतो नेत्याशङ्क्य बहिरङ्गत्वेन गुणस्यासिद्धत्वादिति हरदत्तेन वक्ष्यमाणं विरुध्यते, तथाच बहिरङ्गस्यासिद्धताबलेन ‘प्रेद्धम्’ इत्यादिसिद्धिरिति प्रतिपादनपरमिहत्यं भाष्यमपि विरुध्येत । तस्माद्यत्रोत्तरकालप्रवृत्तिके अच आनन्तर्यं तत्र बहिरङ्गपरिभाषा न स्यादिति कैयटसम्मत एव नाजाननतर्ये(पा.भा.५१) इत्यस्यार्थः साधुः । ‘पचावेदम्’ इत्यादौ हि पूर्वं गुणप्रवृत्तिः । तत्र चाजानन्तर्याश्रयणेऽपि गुणोत्तरप्रवृत्तिके अच नाजान्न्तर्ये (पा.भा.५१) इत्यस्यार्थः साधुः । ‘पचावेदम्’ इत्यादौ हि पूर्वं गुणप्रवृत्तिः । तत्र चाजानन्तर्याश्रयणेऽपि गुणोत्तरप्रवृत्तिके एत ऐ (३.४.९३) इत्यत्र तदनाश्रयणाद्युक्त एव बहिरङ्गतयोद्धारः । ‘उपेद्धः’ ‘प्रेद्धः’ इत्यादौ तु गुणं प्रापय्य निषेधः कार्य इत्युत्तरकालप्रवृत्तिको निषेधः । तत्राजानन्तर्याश्रयणाभावाद्बहिरङ्गपरिभाषया सिद्धमेवैतत् । अतोऽत्रत्यं भाष्यमपि सङ्गच्छते ।
ननु षत्वतुकोरसिद्धः (६.१.९६) इति सूत्रे एषा परिभाषा ज्ञापयिष्यते । तत्र च ‘कोऽसिचत्’ ‘कोऽस्य’ इत्यादौप्रथमप्रवृत्तिके एङः पदान्ताद् (६.१.१०९) इत्यस्मिन्नजानन्तर्यं न तूत्तरकालप्रवृत्ते षत्वेऽपीति कथं कैयटमतं समर्थनीयम् । तस्माद्यत्रान्तरङ्गे बहिरङ्गे वा अचोरानन्तर्यमिति हरदत्तोक्तरीतिरेव शरणीकर्त्तव्येति चेत् ? न, कैयटमते अचोरिति द्वित्वस्याविवक्षया सर्वसामञअजस्यात् । अस्ति ह्युत्तरकालप्रवृत्तिके षत्वे अच आनन्तर्याश्रयणम्, इणः परस्य सस्येत्युक्तेः । एवञअच प्रथमपक्षे ‘प्रेद्धः’ इत्यादौ दोषाभावेऽपि ‘भेद्यते’ इत्याद्यासिद्धिरेव दूषणमिति दिक् ।
द्वितीयपक्षे तु यत्किञ्चिनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । ततश्च क्नूयी शब्दे इत्यस्माण्णिचि पुकि यलोपे कृते पुगन्तलक्षमो गुणो निषिध्येत । तथाच ‘क्नोपयति’ इति न सिध्येत् । यदि तु चेले क्रोपेः (३.४.३३) इति निर्द्देशाद् गुणस्तर्हीहापि ‘भेद्यते’ इत्यस्यासिद्धिरेव दोषः । तृतीयपक्षे त्वार्द्धधातुकनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । तत्र तन्त्रावृत्त्याद्याश्रयणप्रयुक्तं गौरवं तावत्स्पष्टमेव लोपेन सह गुणवृद्ध्येरैकनिमित्तकत्वं च न लभ्येत । ततश्च ‘भेद्यते’ इत्यत्र भिदेर्ण्यन्तात्कर्माणि यकि भिद् इय इति स्थिते नित्यत्वाण्णिलोपे कृते प्रत्ययलक्षणेन णिचमाश्रित्य क्रियमाणोऽपि गुणो निषिध्येत । न च णिलोपात्प्रगेवान्तरह्गत्वाद् गुणोऽस्त्विति वाच्यम्, विभज्यान्वाख्यानपक्षे तदसम्भवात् उपसंजनिष्यमाणनिमित्तोप्यपवाद उपसंजातनिमित्तमप्युत्सर्गं बाधते (पा.भा.६५) इति न्यायाच्च । अन्यता ‘दधति’ इत्यादावन्तरङ्गत्वात् झोन्तः (७.१.३) इत्यन्तादेशः प्रवर्त्तेत । न च श्लौ द्वित्वे चैवंकृते अन्तादेशस्य स्थानिवद्भावेन अदब्यस्तात्(७.१.४) इत्यस्य प्रवृत्तिरस्त्विति वाच्यम्, अल्विधौ स्थानिवद्भावासम्भवात् । किञ्च, समर्थानां प्रथमाद्वा (४.१.८२) इति सूत्रे अकृतव्यूहाः पाणिनीयाः (पा.भा.५६) कृतमपि शास्त्रं निवर्त्तयन्ति इति ज्ञापयितुं समर्थग्रहणमिति वक्ष्यते । द्वे एते परिभाषे समानफले इति च तत्रैव स्फुटीकरिष्यते । तथा चेहापि पूर्वं गुणो न क्रियेत, कृतोऽपि वा निवर्त्तेत ‘जग्मुषः’ इत्यादाविडादिवत् । तस्माद्धातोर्लोपो यस्मिन्निति बहुव्रीहिरेव साधुः । एवं हि सति लोपस्य गुणवृद्धोश्चैकनिमित्तकत्वं लभ्यते इति न कश्चित्पूर्वोक्तदोषः ।
स्यादेतत्, आरभ्यमाणेऽप्यस्मिन्सूत्रे ‘लोलुवः’ इत्यादौ गुणो दुर्वारः । तथाहि, इह सूत्रे ङ्कितिच (१.१.५) इति सूत्रे च निषेध्यं किमित्याकाङ्क्षायां पूर्वत्र निर्णिता इक्पदोपस्थितिरेव सम्बध्येत धात्वंशलोपनिमित्ते आर्द्धदातुके इक्पदं नोपतिष्ठते । ततश्च ‘बेभिदः’ ‘मरीमृजः’ ‘भिन्नः’ ‘मृष्टः’ इत्यादौ व्यञ्जनस्य गुणवृद्दिप्राप्तिः परमेतस्य प्रघट्टकस्य फलं स्यात् । लोलुवादौ तु स्यादेव गुणः । न च परिभाषां प्रतिशेषिभूततयाऽर्थतः प्रधानयोर्गुणवृद्ध्योरेव निषेधोऽस्त्विति वाच्यम्, शाब्दबोधे शाब्दप्राधान्यस्यैवान्वयनियामकताया उचितत्वात् । नहि ‘राजपुरुषमानय’ इत्यादावर्थतः प्रधानभूतोऽपि राजा आनयनेनाऽन्वेति, अपि तु पुरुष एव । प्रकृते च शाब्दं प्राधान्यं वाक्यार्थभूतायाः पदोपस्थितेरेव, कारकविशिष्टा क्रिया वाक्यार्थ इति सिद्धान्तात । आह च साकाङ्क्षावयवं भेदं परानाकाङ्क्षशब्दकम् । कर्मप्रधानं गुणवदेकार्थं वाक्यमुच्यते ॥ इति ॥
किञ्च सिद्धान्ते प्रसज्यप्रतिषेधे सर्वत्र क्रिययैव सह नञोऽन्वयो न तु नामार्थेन । तदुक्तम् प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् । इति । अत एव पुरुषवचनयोरसङ्करः । अन्यथा हि ‘घटो नास्ति’ ‘त्वं नासि’ ‘अहं नास्मि’ इति पुरुषव्यवस्ता न स्यात् । घकटाभावस्त्वदभावो मदभावश्चास्तीतिवत्सर्वत्र प्रथमपुरुषाप्त्तेः न हि परमते ‘त्वं नासि’ ‘त्वदभावोऽस्ति’ इत्यनयोरर्थे कश्चिद्विशेषः, नञर्थं प्रति प्रथमान्तपदोपस्थापितस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन संसर्गेण प्रकारताभ्युपगमेऽपि युष्मत्सामानाधिकरण्यविरहस्याविशिष्टत्वात् । एवं वायौ रूपाणामबावोऽस्तीतिवद्रपाणि न सन्तीत्यत्राप्यस्तीत्येकवचनं स्यादित्यन्यत्र विस्तरः ।
एवं कारकविभक्तेरपि क्रियायोगे सत्येव साधुत्वं न त्वन्यथाऽपीति कारके (१.४.२३) इति सूत्रे वक्ष्यमाणत्वाद् ‘भूतले घटो नास्ति’ इत्यादावधिकरणत्वं क्रियान्वय्येव न तु नञर्थान्वयि । तथाचसकलकारकविशिष्टक्रियायां नञर्थान्वयः । नञो द्योतकतेति निष्कृष्टपक्षे तु क्रियापदस्यैव तद्विरहपरतेति सिद्धान्तः । उभयताऽपीह गुणवृद्ध्योः प्रतिषेघो दुर्लभ एवेति ।
अत्राहः क्रिययैव सह विधेरिव निषेधस्यान्वयः शाब्द इति सत्यमेव, किन्तु क्रियैव केति संशये त्वदुक्तरीत्या सन्निहितापीक्पदोपस्थितिरिह न सम्बध्यते । तथाहि सति दीधीवेवीटाम् (१.१.६) इति सूत्रस्य व्यर्थतापत्तेः । न हि तत्रेक्परिभाषाऽलोन्त्यपरिभाषयोः फले विशेषोऽस्ति । एवं स्थिते अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति इति प्रातिपदिकार्थसूत्रे वक्ष्यमाणरीत्या ‘भवतः’ इत्यस्योपस्थितस्यगुणवृद्धी इत्यादिभिरन्वितस्य निषेधान्वये सति गुणवृद्ध्योरभावः फलि तो भवतीत्येतावता गुणवृद्ध्योर्निषेध इत्युच्यते । यथाऽऽघाराग्निहोत्रा धिकरणे (जै.न्या.२.२.५) सर्वोऽपि विशिष्टविधिरेव, तात्पर्यतस्तु कश्चिद् गुणविधिरिति सिद्धान्तितं, तद्वन्निषेधेऽपि बोध्यं न्यायसाम्यात् । अत एव हि विधिनिषेधयोर्वाक्यार्थगोचरतेत्यभियुक्ताः । तस्मात् ‘लोलुवः’ ‘पोपुवः’ ‘मरीमृजः’ इत्युदाहरणं सिद्धम् । प्रत्युदाहरणं तूच्यते धातुलोप इति किम् ? आर्द्धदातुके विधिनिषेधाभ्यां षोडशिग्रहणाग्रहणयोरिव गुणवृद्ध्योर्विकल्पो मा भूत् । आर्द्धधातुक इति किम् ? तुर्वी थुर्वी दुर्वी धुर्वी हिंसाया (धा.सू.५७२।५७२।५७३।५७४।) मुर्छा मोहसमुच्छ्राययोः (धा.सू. २१२) एभ्यो यङ्लुगन्तेब्यस्तिबादौ सार्वधातुके पिति परे ‘तोतोर्त्ति’ ‘मोमोर्त्ति’ इत्यादौ निषेधो मा भूत् राल्लोपः (६.४.२१) इति च्छ्वोर्लोपस्य गुणस्य चैकनिमित्तकत्वात् । इदं च राल्लोपे क्ङिद्ग्रहणाननुवृत्तिपक्षमाश्रित्योक्तम् । तदनुवृत्तिपक्षे तु ‘तोतीर्मि’ इत्याद्युत्तमपुरुषैकवचनउदाहरणं बोध्यम् । अनुनासिकादिप्रत्ययत्वेन तत्र राल्लोपप्रवृत्तेः । ननु ‘तोतेर्ति’ इत्यादि प्रागुक्तमप्युदाहरणमस्तु । राल्लोपस्याप्रवृत्तावपि लोपो व्योः (६.१.६६) इति लोपादिति चेत् ? न, तस्य वर्णमात्रनिमित्तकतया गुणेन सहैकनिमित्तकत्वाभावात् । न हि तत्र प्रत्ययग्रहणं तदाक्षेपकं वा किञ्चिदस्ति । अत एव गौधेरादिषु प्रत्ययपरतां विनाऽपि यलोप इति दिक् ।
इक इति किम् ? ‘अभाजि’ ‘रागाः’ । भञ्जेश्च चिणि (६.४.३३) घञि च भावकरणयोः (६.४.२७) इत्युपधालोपे कृते वृद्धिर्यथा स्यात् । कथं तर्हि ‘पापचकः’ इत्यत्र वृद्धिप्रतिषेध इति चेत् ? शृणु, पापच्यतेर्ण्वुलि यस्य हलः (कपा.सू. ६.४.४९) इत्यत्र ‘अहर्यात्’ ‘अमव्यीत्’ इत्यादिवारणाय यस्येति संदातग्रहणेऽकपि आदेःपरस्य (१.१.५४) इति हल्मात्रलोपे कृते अतो लोपः (६.४.४८) इति पृथगल्लोपे तस्य स्थानिवद्भावेन पापचकादौ न वृद्धिः । न त्विह न धातुलोपे (१.१.४) इति सूत्रस्य कश्चिदपि व्यापारः । यङ्लुगन्ताण्ण्वुलि ‘पापाचकः’ इति भवत्येव वृद्दिः ‘नोनाव’ इतिवत् । एतेन न दातुलोप (१.१.४) इत्यत्रेक इत्यनुवृत्तेः ‘पापाचकः’ इतिवन्नधातुसूत्रे ‘बेभिदिता’ ‘मरीमृजिता’ इत्युदाहरंश्च कौमुदीकारः परास्तः, पृथगल्लोपस्य न्याय्यत्वे भाष्यादिसम्मतत्वे च सति वृद्धेरसम्भवात् । अत एव वृत्तिकारादयोऽप्यत्र सूत्रे ऽच्प्रत्ययान्तान्येव लोलुवादीन्युदाजर्हुः । भिदिमृज्योस्तु यदि यङ्लुक् तर्हि तस्यानैमित्तिकत्वाद् गुणवृद्धी स्त एव, ‘बेभेदिता’ ‘मरीमार्जिता’ इति यथा । यदि तु यस्य हलः (३.४.४९) इत्यवयवलोपस्तर्हि स्थानिवद्भावादेव गुणाद्यप्रसङ्ग इत्युभयथापि नैतत्सूत्रोदाहरणत्त्वमित्यवधेयम् । भाष्यकारस्तु यस्य (६.४.१४८) इति लोप इवाचि लुक्यपि पृथगल्लोपमाश्रित्यैतत्सूत्रं प्रत्याचख्यौ । न च येननाप्राप्तिन्यायेनाचि यङो लुगतोलोपं बाधेतेति वाच्यम्, यस्य हलः (६.४.४९) इत्यत्र यस्येति योगं विभज्यातो लोप इति चानुवर्त्त्य यशब्दस्यातो लोपविधानेन लुग्बाधनात् । अवशिष्टं व्यञ्कजनमात्रं लुकोऽवकाशः । ततश्चाल्लोपस्य स्थानिवत्त्वादेव ‘बेभिदिता’ ‘मरीमृजिता’ ‘पापचकः’ इत्यादावपि पृथगल्लोपापत्तिः, चकारानुकृष्टबहुलग्रहणाज्जायमानस्यानैमित्तकस्य लुकोऽन्तरङ्गतया लकारोत्पत्तेः प्रागेव समुदाये प्रवृत्तेः । नन्वेवं ‘चेक्रियः’ ‘लोलुवः’ ‘तोष्टुवः’ इत्यादावल्लोपस्य स्थानिवत्त्वाद्यथा गुणो न, एवमियङुवङावपि न स्यातामिति चेत् ? सत्यम् अचमाश्रित्य न भवत एव, उक्तयुक्तेः; किन्तु स्थानिवद्भावलब्धमकारमाश्रित्य भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः ।
स्यादेतत्, लोलुवादिष्वकारे लुप्ते यलुगिति क्रमः । तत्र यकारावस्तानकाले अकारेण प्रत्ययत्वं न लब्धमेव । लुप्तेऽपि तस्मिन्नकारो नास्त्येव ततः प्रागेव लोपात् । सोयमसत्कयं प्रत्ययतां लभेत ? तल्लोपस्य स्थानिवद्भावेन प्रत्ययत्वमिति चेत् ? स्थानिनि दृष्टं हि कार्यं तद्वद तिदेशेन लभ्यते, न तु तत्रादृष्टमपि ।
अत्राहुः तत्र सम्भावितमात्रमतिदिश्यते । यदि हि लोपस्य स्थानिभूतो ऽकार इह लुप्तेऽपि यकारे तिष्ठेत्तर्हि प्रत्ययतां लभेतोवलङादिकं च प्रवर्त्तयेदिति कथं नातिदेशः । वरोनिषेधश्चेह लिङ्गम् । स हि यातेर्यङन्ताद्वरच्यल्लोपयलोपयोः कृतयोः स्थानिवद्भावेन आतो लोप इटि च (६.४.६४) इत्यालोपो मा भूदित्येतदर्थं क्रियते । स्थानिनिदृष्टस्यैवातिदेशे तु किन्तेन ? न हि ‘या या य’ इत्यस्यामवस्तायामातो लोपस्य प्राप्तिः अनजादित्वादिति दिक् ।
नन्वेवं ‘चेक्षियः’ ‘तोष्टुवः’ इत्यत्र अन्तरह्गानपि (पा.भा.५२) इति न्यायेनाकृते एव अकृत्सार्वधातुकयोः (७.४.२५) इति दीर्घे यङो लुक् । ततोऽल्लोपस्य स्थानिवद्भावे सत्यपि चेक्षि अ अ तोष्टुं अ अ इति स्तान्यकारेण सह लघूपधमङ्गमच्प्रत्ययपरं जातमिति लघूपधगुणः स्यादेव । सत्यम्, अन्तरङ्गीवियङुवङौ भविष्यतः । यथाह वार्त्तिककारः शचङन्तस्यान्तरङ्गलक्षणत्वात् (का.वा.) इति । तताच रिपि गतौ (धा.सू.१२४।१२५)”धि धारणे (धा.सू. १२६) इत्येषां तुदादित्वाच्छे कृते ‘रियति’ ‘पियति’ ‘धियति’ इति भवति । ‘अशिश्रियत्’ ‘प्रादुद्रुवत्’ इति च णिश्रि (३.१.४८) इति चङीयङुवङो भवतः । तस्मात्पृथगल्लोपेनैव सकलनिर्वाहात् न धातुलोपे (१.१.४) इति सूत्रन्नारम्भणीयम् । न चैवं ‘मरिमृजः’ इत्यत्र मजेरजादौ संक्रमः (का.वा.) इति पाक्षिकवृद्धिप्रसङ्गः, हरदत्तादिमते मुख्याजादावेव तत्प्रवृत्तेः, निष्कर्षे तु यथोत्तरं मुनीनाम्प्रामाण्यात् इष्टापत्तेः । व्यवस्तितविबाषा वाऽस्तु । अत्र वदन्तिगुणोपदालोपयुटां न लोपाल्लोपयोरपि प्रसङ्गात्पृतगल्लोपो लुकि वक्तुं न शक्यते । तथाहि, सर्वक्षत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयङुवङोः कृतयोर्लगूपधलक्षणो गुणः प्राप्नोति । न चेह स्थानिवद्भावः आदिष्टादचः पूर्वत्वात् । किञअच ‘जङ्गमः’ इत्यत्र गमहन (६.४.९७) इत्युपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि ‘दरीदृशः’ इत्यत्र ऋदृशोऽङि (६.४.६३) इति युट् स्यात् । किञ्च ‘सनीस्रंसः’ ‘दनीध्वंसः’ अनिदिताम् (पा.सू.६.४.२४) इत्युपधालोपः स्यात् । अपि च ‘यायाः’ ‘वावाः’ इत्यादिष्वाकास्यात् । तस्मात्समुदायलुगेवैष्टव्यो लोलुवादिसिद्धये च सूत्रमारम्बणीयमिति । अत्रोच्यते, लोलुवादिषु गुणस्तावन्न भवति स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्त्वेन स्थानिवद्बावात् । अत एव हि न पदान्त (१.१.५८) इति सूत्रे सवर्णग्रहणं कृतम् । ‘शिण्ढि’ इत्यादावनुस्वारस्य स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्य तस्य सवर्णे कर्त्तव्ये श्नसोरल्लोपस्य स्थानिवद्भावो मम भूदिति । नन्वनादिष्टादचः पूर्वत्वस्य शास्त्रीयकार्यत्वाभावात्कथमतिदेस इति चेत् ? अनादिष्टादचः पूर्वत्वापेक्षे अचः परस्मिन् (१.१.५७) इत्यतिदेशे कर्त्तव्ये स्थानिवदादेश (१.१.५६) इत्यस्य प्रवत्तिसम्भवात् सवर्णग्रहणव्याख्यावसरे सर्वैरित्थमेवोपपादितत्वाच्च । ननु योत्रादेश उवङ्सोनादिष्टादचः पूर्वतां स्थानिद्वारा कथञ्चिल्लभतां न तु तस्येह किञ्चित्कार्यं विधीयते येनाल्लोपः स्थानिवत्स्यात् । यस्य च कार्यं विधीयते उकारस्य नासावादेशः येन स्थानिद्वाराऽपि पूर्वतां लभेत । सत्यम्, ‘सर्वे सर्वपदादेशाः’ इत्याश्रयणात्स्थान्यादेशिभावस्तावदर्थवति विश्राम्यति । अत एव एरु (३.४.८६) इत्यस्य तेस्तुरिति पर्यवसितार्थमाश्रित्य स्थानिवत्सूत्रेणैव सिद्धत्वादेकदेशविकृतस्योपसङ्ख्यानं नारब्धव्यमिति वक्ष्यते । अत एव च स्थानिवदित्युक्तौ सम्बन्धिशब्दत्वादेवादेश इत्यस्य लाभे सिद्धे पुनरादेशग्रहणमानुमानिकस्याप्यादेशस्य परिग्रहार्थमिति वक्ष्यते । एवञ्चेहापि लोलू इत्यस्य लोलुघ् इत्यादेशः, स चानादिष्टादचःक पूर्वः स्थानिवद्भावात् । तस्य च लोलोव इत्यादेशे कार्येऽल्लोपः स्थानिवदिति युक्तमेव । किञ्च, ज्ञाजनोर्जा (७.३.७९) इति रीङ् ऋतः (७.४.२७) इति च सूत्रे दीर्घोच्चारणेन अङ्गवृत्ते पुनर्वत्तावविधिर्निष्ठितस्य (प.भा.९३) इति परिभाषा ज्ञापयिष्यते । तेनोवङि कृते गुणो न भविष्यति । ‘दरीदृशः’ इत्यत्र गुणो न भवति प्रतिपदोक्तस्याङो ग्रहणात् । ‘अदर्शत्’ इति यता । यङस्त्वकार उपदेशवेलायां न प्रत्त्ययः किन्तु तदवयवः, यकारे लुप्ते तु नासौ ङकारविशिष्टो न वाश्रूयते । किन्तु तर्कैकगोचरत्वाल्लाक्षणिकवद्विलम्बितोपस्थितिकः । नन्वेवमनङीति पर्युदासेऽकप्यस्याग्रहणात् ‘जङ्गमः’ इत्यत्राल्लोपः स्यादिति चेत् ? न, अनङीति पर्युदासेनाङ्सदृशे औपदेशिके अजादौ श्रूयमाणाजादौ वोपधालोपविधानात् । अर्थवानेवाङ्गुणविधौ गृह्यते इति तु न सम्यक् विकरणानामनर्थकत्वात् । यत्तु ‘देद्यः’ इत्यत्र युट् स्यादिति । तन्न, अनुबन्धनिर्द्देशात् । तदुक्तम् -
श्तिपा शपानुबन्धेन निर्द्दिष्टं यद् गणेन च । यत्रैकाकज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ (पा.भा.१३१) इति ।
दीङो युडचि (६.४.६३) इति सूत्रे दीङ इत्यनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थ इति त्वयैवोक्तत्वाच्च । अत्र च ज्ञापकम् एकाच उपदेशे (१.३.२) इति सूत्रे यङ्लुङ्निवृत्तिमुद्दिश्य क्रियमाणमेकाज्ग्रहणम् । न हि तस्मिन्कृतेऽप्युक्तपरिभाषां विना ‘बेभेदिता’ इत्यादि सिद्ध्यति । ‘बिभेत्सति’ इत्यादिसिद्धये तन्त्रावृत्त्याद्याश्रयमेनोपदेशग्रहणस्योभयविशेषणतायाः सिद्धान्तयिष्यमाणत्वात् । न चैवम पिश्तिपाशपेत्याद्यंशान्तरे कथं ज्ञापकमिति वाच्यम्, एकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाज्ञापनस्य गतिकारकोपपदानाम् (पा.भा.७६) इत्यादौ बहुशो दृष्टत्वात् । न चैवमेकाच इति विधीयमानं द्वित्वमपि यङ्लुकि न स्यादिति वाच्यम् गुणो यङ्लुकोः (७.४.८२) इति ज्ञापकेन तत्प्रवृत्तेः । यङ्लुकि ‘बेभेदिता’ इत्यादाविडागमे तूदाहृतपरिभाषैव शरमम् । द्विःप्रयोगो द्विर्वचनं षाष्ठम् (भा.इ.) इति वक्ष्यमाणतया धात्त्वन्तरत्वस्य वक्तुमशक्यत्वात् ‘बेभेदिता’ इति यङ्न्ते तु पृथगल्लोपाभ्युपगमात्तस्य च स्थानिवद्भावान्नेण्निषेधः पूर्वस्मादपि विधौ स्थानिवद्भावस्य वक्ष्यमाणत्वात् । किञ्च, यस्य (६.४.१४८) इति लोपस्य त्वयाऽप्यवयवलोपत्वं स्वीकृतम् । तत्र यद्यपि ‘देद्यकः’ इत्यत्र युट् स्यादिति नापादनार्हम्, हलः परत्वाभावेनेह यलोपाप्रवृत्त्या ‘देदीयकः ‘ इति रूपाभ्युपगमात् । ‘सनीस्रसकः’ इत्यादौनलोपोपि सर्वसम्मतत्वादेव नापाद्यः, ‘यायायकः’ ‘वावायकः’ इत्यादावाल्लोपोऽप्यनापाद्यः, यलोपविरहेणाजादिक्ङिदार्द्धधातुकपरत्वाभावा त्; तथापि गमर्यङन्ताण्ण्वुलि ‘जङ्गमकः’ इत्यात्राल्लोपस्य स्थानिवद्भावाद् वृद्ध्यभाव इवोपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि ‘दरीदृशकः’ इत्यत्र ऋदृशोऽङि (७.४.१६) इति गुणः स्यात् । अथ यदीहाङ्गवृत्तपरिभाषया संज्ञापूर्वको विधिरनित्यः(पा.भा.९४) इति वा समाधीयते तर्हि यङ्लुक्यपि ‘सनीस्रंसः’ इत्यत्र नलोपो ‘यायाः’ ‘वावाः’ इत्यालोपश्च न शङ्क्यः, समाधानस्य तुल्यत्वादिति दिक् ।
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
धात्ववयवलोपप्रयोजकमार्द्धधातुकं निमित्तीकृत्य प्राप्ते इको गुणवृद्धी न स्तः । लोलुवः पोपुवः मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यच् । यङोऽचि च इति यङो लुक् । तत्र सनाद्यन्ता धातवः इति यङन्तस्य धातुसंज्ञतया तदवयवयकारलोपनिमित्तमच्प्रत्ययं निमित्तीकृत्य सार्वधातुकार्द्धधातुकयोः इति गुणः ‘प्राप्तः स एतद्वचनेन निषिध्यते । ऐक्यं चात्र निमित्तीभूतव्यक्तेरेव, न तु निमित्ततावच्छेदकस्यापि । अन्यथा धात्ववयवलोपेऽच्त्वं गुणे त्वार्द्धधातुकत्वमच्प्रत्ययस्य निमित्तातावच्छेदकमिति निषेधाप्रवृत्तिप्रसङ्गात् ।
इह धातुपदं तदवयवे लाक्षणिकम् । यद्यपि दुःखेन ईयते गम्यते इति दुरीणो लोपश्च इति दुःशब्दे उपपदे इण् गतावित्यस्माद्रप्रत्ययः, घातोश्च लोपः, ततः रो रि इति उपसर्गान्त्यरेफलोपे ढुलोपे इति दीर्धे च दूरमित्यत्र समस्तस्यापि धातोलोंपोऽस्ति, तथाऽपि तत्र गुणादिप्राप्तिविरहेण तन्निषेधवैयर्थ्यात् ॥ घातुलोप इत्यत्र षष्ठीतत्पुरुषपक्षे त्रयः कल्पाः सम्भवन्ति । आर्द्धधातुकग्रहणस्य लोपविशेषणत्वं निषेध्यविशेषणत्वमुभयविशेषणत्वं वेति । तत्राद्ये आर्द्धधातुकनिमित्ते धात्ववयवस्य लोपे गुणवृद्धी न स्त इत्यर्थः । तत्रान्यनिमित्तयोरपि गुणवृद्ध्योर्निषधापत्त्या प्रपूर्वादिन्धः क्तप्रत्यये अनिदिताम् इति नलोपस्य क्तप्रत्ययरूपार्द्धधातुकत्वेन प्र इद्ध इति आद्गुणो न स्यात् । तस्योभय स्थानिकत्वेऽपि इक्स्थानिकत्वानपायात् । न च इक इति शब्दमुच्चार्य विहितत्वाभावान्न निषेधः । उत्तरत्र च शब्दबलात्तथात्वेऽपि इह शब्दस्वरूपपरत्वे मानाभावात् । इक इत्यस्यार्थमात्रपरत्वात् । अन्यथा तु तृतीयपक्षीयमेव दूषणं योज्यम् ।
नन्वत्र पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण इति पक्षे प्रथमोपनत क्तप्रत्ययापेक्षो नलोप एवान्तरङ्गः, पूर्वमुपसर्गेण पश्चात् साधनेनेति पक्षे तु गुण एव तथा, सर्वथाऽपि गुणो निरपवादः, असिद्धं बहिरङ्गमन्तरङ्गे इति न्यायेन गुणस्यासिद्धतया निषेधानर्हत्वात्, बहिरङ्गतया निषेधस्यासिद्धत्वे गुणस्य निरपवादत्वात्, सत्यम्, नास्त्येवायं प्रकृते दोषः, किन्तु भेद्यते इत्यादि तृतीयपक्षे वक्ष्यमाणमेव दूषणमत्रापि बोध्यम् इति कैयटानुसारिणः ।
हरदत्तानुयायिनस्तु नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः इति निषेधाद् असिद्धं बहिरङ्गम् इत्यस्य नेह प्रवृत्तिः । द्वयोर्मध्ये एकत्र अजानन्तयपिक्षायाम् असिद्धम् इति न प्रवर्तत इति तदर्थात् । अत्र च आद्गुणे पौर्वापर्यस्य अज्घटितत्वेन अजानन्तयपिक्षणात् । अतः प्रेद्धमित्यस्यासिद्धिरप्यत्र दूषणमित्याहुः । इदं च अचः परस्मिन् इति सूत्रे विवेचयिष्यामः ।
आर्द्धधातुकस्य निषेध्यविशेषणत्वे तु यत्किञ्चिन्निमित्तके धातुलोपे सति आर्द्धधातुकनिमित्तके गुणवृद्धी न स्त इति स्यात् । ततश्च क्रूयी शब्दे इत्यस्माण्णिचि पुकि लोपो व्योः इति यलोपे च पुगन्तलक्षणो गुणोऽपि न स्यात् । चेले क्नोपेः इत्यादि ज्ञापकेन निषेधवारणे तु गौरवम् वक्ष्यमाणदोषश्च । तन्त्रादिनोभयविशेषणत्वे तु तदेवगौरवम् । आर्द्धघातुकनिमित्ते धातुलोपे आर्द्धधातुकनिमित्ते गुणवृद्धी न स्त इत्यर्थे कृतेऽपि यत्रार्द्धधातुकसंज्ञ व्यक्तिद्वयं लोपस्य गुणादेश्च निमित्तं तत्रापि निषेधः स्यात् । ततश्च भिदेर्ण्यन्तात् कर्मणि यकि भिद् इ य इति स्थिते नित्यत्वाद् णेरनिटि इति यकं निमित्तीकृत्य णिलोपे कृते प्रत्ययलक्षणेन लुप्तं णिचमाश्रित्य क्रियमाणो लघूपधगुणोऽपि न प्रवर्तेतेति भेद्यत इति न स्यात् । णेर्यकश्चोभयोरार्द्धधातुकत्वात् ।
न च प्रत्ययमात्रसापेक्षस्य गुणस्य तद्विशेषार्द्धधातुकसापेक्षणिलोपापेक्षयाऽन्तरङ्गत्वात् प्रागेव गुणः स्यादिति वाच्यम् । अकृतव्यूहपरिभाषया तदप्रवृत्तेः । णिलोपस्य जनिष्यमाणतया गुणनिमित्तस्यार्द्धधातुकस्य विनाशोन्मुखत्वात् । उपसञ्जातनिमित्तोऽप्युत्सर्ग उपसञ्जनिष्यमाणनिमित्तेनाप्यपवादेन बाध्यते इति न्यायाच्च । णिलोपे सति धात्ववयवलोपसम्पत्त्या एतन्निषेधस्य प्रवर्त्तिष्यमाणत्वात् । केचित्तु उक्तन्यायोऽप्यकृतव्यूहन्याय एवान्तर्भूतः । अपवादविषयाभावस्यापि निमित्तकोटिप्रवेशादित्याहुः ।
तस्माद्धातोलोंपो यस्मिन्नार्द्धधातुके तन्निमित्ते गुणवृद्धी न स्त इत्येवार्थः । लोपगुणाद्योंरेकार्द्धधातुकव्यक्तिनिमित्तकत्वलाभादिति सिद्धमिष्टम् । अत्र यद्यपि पदोपस्थितेः पूर्ववाक्यार्थत्वेनात्र निषेधप्रतियोग्याकाङ्क्षायां तस्या एवान्वयापत्त्या उक्तस्थले इक्पदं नोपतिष्ठत इति सूत्रार्थः स्यात्, तथा च लोलुवादौ गुणनिषेधो न स्यात्, प्रत्युत भेद्यत इत्यादी व्यञ्जनस्य गुण एव प्रसज्येत, तथाऽपि दीधीवेवीटाम् इति सूत्रस्य तत्र इक्पदोपस्थितिनिषेधकत्वे इक्परिभाषाऽलोऽन्त्यपरिभाषयोः फले विशेषाभावेन पदोपस्थितिनिषेधस्य वैयर्थ्यापत्त्याऽत्रापि पदोपस्थितेर्न निषेध्यत्वम् । किन्त्वौत्सर्गिकतया भवत इत्यस्योपस्थितौ गुणवृद्धी न भवत इति वाक्यार्थः । धातुलोप इति किम् ? आर्द्धधातुक एव विहितप्रतिषिद्धत्वादगत्या विकल्पो मा भूत् । आर्द्धधातुक इति किम् ? तोतोर्त्ति मोमोर्तीत्यादौ सार्वधातुकसंज्ञे तिपि परे राल्लोपः इति छ्वोर्लोपात्तत्र तिबाश्रयस्य लघूपधगुणस्य निषेधो मा भूत् । रेफात्परयोश्छकारवकारयोलर्लोपः स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये परे इत्यर्थे इदमुदाहरणम् । यदा तु तत्र झलादावित्यस्य विक्ङतीति विशेषणमिति पक्षः, तदा तोतोमर्मीत्यादि । तत्रानुनासिकादि प्रत्ययपरत्वेन तत्प्रवृत्तेः । इक इति स्थानिविशेषनिर्देशः किम् ? अभाजि रागः इत्यत्र भञ्जिरञ्जिभ्यां चिण्घञोः कृतयोः भञ्जेश्च चिणि, घञि च भावकरणयोः इति च नकारलोपे कृते अत उपधायाः इति वृद्धिनिषेधो मा भूत् ।
इदन्त्ववधेयम् - यङन्तात् पचतेः पापच्य इत्यस्माद् ण्वुलि यस्य हलः इत्यनेन हलः परस्य यस्य लोपविधाने आदेः परस्य इति परिभाषया परस्य यद्विहितं तत्तस्यादेबर्बोध्यमित्यर्थिकया व्यञ्जनमात्रस्य लोपे अतो लोपः इत्यकारस्य पृथग्लोपे अचः परस्मिन् इति अकारलोपस्य स्थानिवद्भावे धात्वकारस्योपधात्वव्याघाताद् वृद्ध्यभावे पापचक इति रूपम् । यङ्लुकि तु समुदायलोपस्वीकारेण अज्झलादेशस्य स्थानिवत्त्वाभावाद्भवत्येव वृद्धिः पापाचक इति । इग्लक्षणत्वाभावात् प्रकृतनिषेधस्यापि तत्राप्रवृत्तेः । यथा नोनावेत्यत्रेति ।
अत्र भाष्यकृतः - इदं सूत्रं नारभ्यमेव । यङ्लुक्यपि पृथगल्लोपं स्वीकृत्य स्थानिवद्भावे अङ्गस्य इगन्तत्वाभावादेव गुणवृद्धिविरहसिद्धेः । न च यङोऽचि च इति लुकु येन नाप्राप्तिन्यायेन अतोलोपस्य बाधकः स्यादिति वाच्यम् । यस्य हलः इत्यत्र यस्येति योगं विभज्य अतोलोप इति चानुवर्त्य यशब्दाकारस्य लोपविधानेन व्यञ्जनमात्रलोपस्य यङोऽचि च इत्येतद्विधेयत्वात् । ततश्च अकारस्य लोपः यकारस्य लुगिति विषयभेदेन येन नाप्राप्तिन्यायाभावात् । एवं चाल्लोपस्य स्थानिवत्त्वेनैव निर्वाह इति सूत्रं व्यर्थमेव ।
न चैवं कृष्णो नोनाव वृषभमित्यत्र नोनावेत्यस्य वृद्धिर्न स्यात्, एवं पापाचक इत्यपि न स्यात्, अल्लोपस्य स्थानिवद्भावादिति वाच्यम् । अज्निमित्तकस्यैव लुको व्यञ्जनमात्रप्रतियोगिकत्वस्वीकारात् । यस्तु चकाराद्बहुलग्रहणेन अच्प्रत्ययव्यतिरेकेणापि यङो लुक् स त्वनैमित्तिकत्वात् प्रत्ययोत्पत्तेः प्रागेव प्रवत्तते । प्रत्ययापेक्षप्रवृत्तिकेभ्यो बहिस्ङ्गेभ्योऽतोलोपादिभ्योऽन्तरङ्गत्वात् । स तु समुदायप्रतियोगिक एव । तस्य च न स्थानिवद्भावः । अज्झलादेशत्वात् । अज्मात्रस्थानिकस्यैवादेशस्य स्थानिवद्भावविधानात् ।
अथैवं गुणवदुवडादयोऽपि न स्युः । अकारस्य स्थानिवत्त्वे अच्प्रत्ययस्याव्यवहितपरत्वाभावादिति चेदत्र कैयटादयः स्थानिवद्भूतमकारमेवाश्रित्य तत्र उवङादयः, न तु पचाद्यचं निमित्तीकृत्य, उक्तयुक्तेः । न च यङवयवस्य केवलाकारस्य प्रत्ययत्वं नास्तीति वाच्यम् । यकारलोपोत्तरं तस्यापि प्रत्ययत्वात् । न च यकारस्थितिकाले अकारस्य प्रत्ययत्वाभावाद्यकारापेक्षया प्रागेव लुप्ततया यकारलोपोत्तरमपि प्रत्ययत्वानन्वयात् कथं तस्य प्रत्ययत्वम्, स्थानिनिष्ठात्यन्ताभावप्रतियोगिनो धर्मस्यातिदेशेनाप्यलाभादिति वाच्यम् । सम्भवमात्रेणाप्यतिदेशस्वीकारात् । यकारलोपोत्तरं यद्यकारस्य लोपो न स्यात्तदा तस्य स्यादेव प्रत्ययत्वमिति योग्यतया लुप्तेऽपि तत्र सम्भावितस्य प्रत्ययत्वस्यातिदेशे बाधकाभावात् । वरे निषेधश्लेह लिङ्गम् । यङन्ताद्यातेर्वरचि अतो लोपः इति लोपो व्योर्वलि इति अल्लोपयलोपयोः कृतयोरल्लोपस्य स्थानिवद्भावेनाकारं निमित्तीकृत्य प्राप्तः आतो लोप इटि च इत्याकारलोपो मा भूदित्यतस्तत्र स्थानिवद्भावनिषेधारम्भात् । स्थानिनि दृष्टस्यैवातिदेशे तु अकारस्य स्थानिवद्भावेऽपि प्रत्ययत्वाभावे सुतरामार्द्धधातुकत्वाभावात् वरप्रत्ययस्य चानजादित्वादकारेण व्यवधानाच्च आतोलोपस्यैवाप्रसक्त्या तद्वैयर्थ्यापत्तेः ।
अत्र हरदत्तादयः - ह्रस्वदीर्घान्तेषु इयडुवङो कृतयोर्लघूपधगुणो दुर्वारः । न चाल्लोपस्य स्थानिवद्भावेन उकोरस्योपधात्वव्याघात इति वाच्यम् । उकारस्यानादिष्टादचः पूर्वत्वाभावात् । अल्लोपानन्तरमेवोवङः प्रवृत्तेः । तथा जङ्गम इत्यत्र गमहन इत्युपधालोपः स्यात् । यदि त्वनङीति निषेधः, तर्हि दरीदृश इत्यत्र ऋदृशोऽङि इति गुणः स्यात् । देद्य इत्यत्र दीङो युडचि इति युट् स्यात् । सनीसंसो दनीध्वंसः । अनिदिताम् इति लोपः स्यात् । याया वावा इत्यादौ आतो लोप इत्याकारलोपः स्यात् । तस्मात् समुदायलोपस्वीकारस्यावश्यकतया लोलुवादिसिद्धये सूत्रमारभ्यमिति ।
यत्तु स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्त्वात्स्थानिवद्भावान गुणप्रसङ्ग इति तन्त्र, स्थानिद्वारा उवङोऽनादिष्टादचः पूर्वत्वेऽप्युकारस्यातथात्वात् । लोलूय इत्यस्यामवस्थायामुकारे दृष्टस्य अकारात्पूर्वत्वस्योवङि सम्भवेऽपि तस्यात्र कस्यचिद्विधेरप्रवर्तनीयत्वात् । उकारमात्रस्य त्वादेशत्वपर्याप्त्यनधिकरणतया ऊकारनिष्ठस्यानादिष्टादचः पूर्वत्वस्य तस्मिन्नतिदेशायोगात् ।
यदप्युक्तम् - सर्वे सर्वपदादेशाः इति न्यायेनार्थवत्येव स्थान्यादेशभावविश्रामादुवङ्ङ्कारा लोलू इत्यस्य स्थाने लोलुव् इत्यादेशः, स च स्थानिवद्भावादनादिष्टादचः पूर्वः, तस्य गुणद्वारा लोलोव् इत्यादेशे कर्तव्ये अल्लोपः स्थानिवदिति युक्तमेवेति तदप्यसत्, तथा सति लोलूय इत्यस्य स्थाने यलोपाल्लोपद्वारा लोलू इत्यादेशपर्यवसाने विशिष्टस्यैव स्थानिकोटिप्रवेशाद् अकारापेक्षया स्थानिद्वारकस्यापि पूर्वत्वस्य दुर्लभत्वात् ।
वस्तुतस्तु स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्य स्थानिवद्भावो निर्बीज इति तत्रैव वक्ष्यामः । यदप्याहुः - अङ्गवृत्ते पुनर्वृत्तावविधिः इति परिभाषया उवङि कृते न गुणप्रवृत्तिरिति तदप्यसत्, चेक्षियः तोष्टुवः इत्यादेस्तथाऽप्यसिद्धेः । तथाहि अन्तरङ्गानपि इति न्यायेन अकृत्सार्वधातुकयोः इति दीर्घ बाधित्वा यडो लुक् । ततोऽल्लोपस्य स्थानिवत्त्वेऽपि चेक्षि अ अ, तोष्ठ अ अ इति स्थान्यकारमन्त्यं कृत्वा लघूपधमङ्गमच्प्रत्ययपरं जातमिति लघूपधगुणः स्यादित्याशङ्क्य अन्तरङ्गत्वेन इयडुवङोः प्रवृत्तिरिति स्वयमप्युक्तम् । यस्मिन्त्रङ्गकार्ये सत्येवाङ्गकार्यमन्यत् प्राप्नोति तत्र कृते तन्न भवतीति चोक्तपरिभाषाऽर्थः । न चात्र लघूपधगुण उवङि सत्येव प्राप्नोति । पूर्वमपि तत्प्राप्तेः ।
यदपि जङ्गम इत्यत्रोपधालोपो नापादनीयः । अनडीति पर्युदासेनाङ्सदृशे श्रूयमाणाजादौ तद्विधानादिति, तन्न, तत्र प्रसज्यप्रतिषेधस्यैवावश्यकत्वात् । न त्वङीति स्वयमेव व्याख्यातत्वाच्च । अन्यथा श्रूयमाणत्वस्येवानर्थकत्वस्यापि तत्त्वावच्छिन्नप्रतियोगिताकभेदानुयोगितावच्छेदकत्वस्वीकारापत्त्या जग्मेत्यादौ मध्यमपुरुषबहुवचनादावप्युपधालोपानापत्तेः । स्वाभाविकाजादित्वस्यापि तथात्वापत्त्या जग्मुष इत्यादावपि तदनापत्तेश्च । भेदप्रतियोगिवृत्तीनान्तत्प्रतियोगितावच्छेदकातिरिक्तानां धर्माणां मध्ये श्रूयमाणत्वस्यैव भेदानुयोगितावच्छेदकत्वमित्यत्र नियामकाभावात् ।
यदप्युक्तम् - देद्य इत्यत्र दीङः इत्यनुबन्धनिर्देशान्त्र युडागमापत्तिः । तदुक्तम् - श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥
इति तदप्यसत्, अत्र यडो लोपप्रतियोगित्वेन निर्देशात् तद्भिन्नस्य कार्य न भवतीत्यर्थप्रतीतेः । निमित्तकोटिप्रविष्टस्य कार्यानन्वयात् । प्रवेशश्च साक्षादन्यथा वेत्यन्यदेतत् । अत एव सुप्तिङन्तम् इति सूत्रे कृत्तद्धितेत्यत्र तदन्तग्रहणाभावे केवलानामेव कृत्तद्धितानां संज्ञापत्त्या भिदित्यादीनां संज्ञा न स्यात्, अधातुरिति निषेधाद् अर्थवत्सूत्राप्रवृत्तेः । नापि विवबादीनाम्, अश्रूयमाणत्वात् इत्यनन्तरं कैयटेनोक्तम्नापि प्रत्ययलक्षणेन प्राप्नोति, प्रत्ययनिमित्तमन्यस्य यत् कार्य विधीयते तत् - प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत् कार्यं तदपि, न ह्यसत् कार्यित्वेन वचनशतेनापि शक्यमाश्रयितुमिति ।
तत्र विधिरत्र निषेध इति परं विशेषः । श्तियेत्यादि ज्ञापकस्यापि यद्भिन्नकार्यविषयकत्वात् । तच्च एकाचः इत्येकग्रहणं तत्तदंशे तत्तन्त्रिर्देशो वेत्यन्यदेतत् । एतेन दीङः इत्यनुबन्धनिर्देशो यङ्लुङ् निवृत्त्यर्थ इति तत्रत्य हरदत्तोक्तेरत्रत्य तदुक्तिविरोधोद्भावनमप्यपास्तम् । प्रत्ययान्तरसम्बन्धियुडागमवारणार्थतायास्तत्रोक्तत्वात् । यङवयवमकारमाश्रित्यात्र तदापादनस्याविरुद्धत्वात् ।
नन्वेवमपि यङकारमाश्रित्य युडापत्तिरसङ्गतैव, दीङः परस्याजादेः ङ्कित आर्द्धधातुकस्य युटो विधानादस्यापि यङ्कार्यत्वानपायात्, स्वविधौ स्थानिवत्त्वाभावाच्च इति चेत् सत्यम्, भवदीयस्य श्तिया शपा इत्यादिवचनोपन्यासस्वाप्यसङ्गतितादवस्थ्यात् । मिश्राणां त्वयमाशयः अल्लोपानन्तरं यलोप इत्यत्र मानाभावः । लुकः सवपिक्षया बलवत्त्वमिति स्वीकारात् । अत एव गोमत्प्रिय इत्यादौ सुपो धातुप्रातिपदिकयोः इति सोलुगेव, न तु हल्ड्यादिलोपः । प्रत्ययलक्षणेन नुमादिप्रसङ्गादिति सिद्धान्तः ।
न च अच्प्रत्ययस्य यङकारेण व्यवधानात् कथं पूर्व यस्य लुगिति वाच्यम् । निर्देश्यतावच्छेदकयत्वावच्छिन्नापेक्षस्याव्यवधानस्य सत्त्वात् । योगविभागसामर्थ्यात्तु यलोपो व्यञ्जनमात्रे पर्यवस्यतीत्यन्यदेतत् । वस्तुगत्या यत्र कार्यविश्रामस्तदपेक्षस्यैवाव्यवधानस्योपादाने तु क्विङति च इति सूत्रस्थकैयटग्रन्थविरोधात् । स्थानिवद्भूतेनाकारेण व्यवधानात् पश्चादपि कथमिति तुल्यत्वाच्च । श्रुतिकृतमेवाव्यवधानं वचनप्रामाण्यादाश्रीयत इति चेत्, तर्हि यलोपस्य परनिमित्तकत्वं कुतो निर्णीतम् । अचीतिसप्तम्याः सतिसप्तमीत्वेनैवोपपत्तेः । अल्लोपस्य तु स्थानिवद्भावार्थ परनिमित्तकत्वस्वीकार इति वैषम्यम् । प्रयोजनं विनाऽपि परसप्तमीत्वस्वीकारे प्रमाणाभावात् । लोलूयत इत्यादावपि यकारलोपापत्तिवारणार्थमचः सत्तामात्रस्वीकारात् ।
न च तथाऽपि निर्दिष्टपरिभाषोपस्थानं दुर्वारमिति वाच्यम् । श्रान्नलोपः इति सूत्रे विक्ङतीत्यनुवृत्तिपक्षे हिनस्तीत्यत्र नलोपो न स्यादित्यापत्तेः सति सप्तम्या भाष्ये समाधानात् । ननु तत् पूर्वपक्षाभिप्रायवर्णनमात्रम्, परत्वाभिमतसप्तमीस्थलेऽपि सप्तम्या भावलक्षणत्वात्, परत्वार्थकसप्तम्या विशिष्य विध्यभावात् इको यणचि इत्यादावपि निर्दिष्टपरिभाषाऽनुपस्थानप्रसङ्गात् । सत्यम्, तथाऽपि विषयसप्तमीत्वस्वीकारात् तत्र तदनुपस्थानस्य सिद्धान्तसिद्धत्वात् । तथा च श्रूयमाणतादशायामेव युडापत्तिः ।
न च तदपेक्षया लोपस्यैव पूर्व प्रवृत्तिरिति वाच्यम् । ङिदुद्देशेन विहितस्य युडागमस्यानवकाशतया बलवत्त्वात् । दोङः परस्याजादेर्जित आर्द्धधातुकस्यान्यस्य दुर्लभत्वात् । न च डिदित्यंश उत्तरार्थ एवेति वाच्यम् । सति सम्भवे केवलोत्तरार्थत्वस्य दुर्वचत्वात् । अत एवाकृतव्यूहपरिभाषाया अपि नावतारः । कार्यिणो निमित्तत्वाभावाच्च ।
नन्वेवं चेक्षिय इत्यादौ गुणोऽपि श्रूयमाणतादशायामेवापाद्यताम्, किं स्थानिवद्भूतमकारमाश्रित्य तदापादनेनेतिचेत् सत्यम्, सार्वधातुकेत्यादि गुणस्य विक्ङति च इति निषेधात्, लघूपधगुणस्य च तमाश्रित्यापादयितुमशक्यत्वात् । तमादायैव लघूपधत्वसम्पत्तेः । अनयोरन्यत्र चरितार्थतया तत्र लोपस्यैव प्राथम्याच्चेति वैषम्यात् ।
प्रकृतमनुसरामः - यत्तु वदन्ति यस्य हलः इति लोपस्य त्वयाऽप्यवयवमात्रप्रतियोगिकत्वं स्वीकृतम् । तत्र यद्यपि देद्यक इत्यत्र युट् स्यादिति नापादनार्हम्, हलः परत्वाभावेन यलोपानुपपत्त्या देदीयक इति रूपाभ्युपगमात्, सनीस्स्रसक इत्यादी नलोपोऽपि सर्वसम्मतत्वादेव नापाद्यः, यायायकः, वावायकः, इत्यादावातो लोपोऽपि नापाद्यः । यलोपविरहेणाजादिविक्ङदार्द्धधातुकपरत्वाभावात्, तथाऽपि गमेर्यङन्तात् ण्वुलि जङ्गमक इत्यत्राल्लोपस्य स्थानिवद्भावाद् वृद्ध्यभावो यथा तथा उपधालोपोऽपि स्यात् । अथात्र अनङि इति प्रतिषेधः, तर्हि दरीदृशक इत्यत्र ऋदृशोऽङि इति गुणः स्यात् । अथात्राङ्गवृत्तपरिभाषया संज्ञापूर्वको विधिरनित्यः इति वा समाधानम्, तर्हि यङ्लुक्यपि सनीस्त्रंस इत्यत्र नलोपो वाया वावा इत्यादावातो लोपश्च न शङ्क्यः । समाधानस्य तुल्यत्वादिति । तदपि चिन्त्यम् यस्य हल: इति लोपेऽपि सङ्घातप्रतियोगिकत्वस्यैव स्वीकर्तव्यत्वात् । न च हलः परस्य यस्य लोपः स्यादार्द्धधातुके इत्यस्य आदेः परस्य इति परिभाषया व्यञ्जनमात्रे व्यवस्थापितत्वात् कथं समुदायलोप इति वाच्यम् । येन नाप्राप्तिन्यायेन यङोऽचि च इति लोपस्यातोलोपापवादत्वात् तवापि तत्र कथमवयवलोप इत्यस्य तुल्यत्वात् । न चोक्तयोगविभागेन निर्वाहः । अत्रापि अतो लोपः इत्यस्मादत इत्यनुवर्त्य अकारान्तस्य यस्येति व्याख्याने विशेषणसामर्थ्याद् आदेः परस्य इति न प्रवर्तत इति समाधेरुक्तत्वात् । व्यञ्जनाकारयोः समाहारद्वन्द्वं कृत्वा द्वयोर्लोपविधानसामर्थ्यात्तदप्रवृत्तेरपि च सुवचत्वात् । यस्येतिसङ्घातग्रहणमिति वामनग्रन्थदर्शनाच्च । बेभिदिता मरीमृजिता इत्येतत्सूत्रोदाहरणतया प्राचीनलेखनस्वारस्याच्च । प्रकृतनिषेधे इक इत्यनुवृत्त्या पापाचक इत्यत्र अत उपधायाः इति वृद्धेर्नायं निषेध इत्युक्तत्वाच्च । यङ्लोपस्य सङ्घातप्रतियोगिकत्वं विना तत्रोक्तवृद्धिप्रसङ्गस्य दुरुपपादत्वात् ।
यत्तु यकाराकारसमुदायान्तर्गतस्यैव यकारस्य लोपो न तु अहर्योद् अमव्यीदित्यादौ केवलस्यापीति वामनवाक्यव्याख्यानम् तच्चिन्त्यम्, निर्देशे तादृशत्वस्य वारणीयत्वाभिमतेऽपि सत्त्वात् । लोपप्रवृत्तिवेलायां तथात्वस्य सङ्ङ्ग्राह्येऽप्यभावात् । तन्मतेऽप्यतोलोपस्य प्रागेवोपगमात् ।
हरदत्तीय तथाव्याख्यानस्य च परकीयव्याख्यानानुवादमात्रतया तत्सम्मतत्वाभावात् । अत एव प्रकाशकारैः यस्य इति लोपस्यावयवलोपत्वे यङ्लुकोऽवयवलोपपक्षे हरदत्तोक्तदोषानतिदिश्योपसंहृतम् । तस्मात् सूत्रं स्थापयितुं प्रवृत्तैर्लकीव लोपेऽपि समुदायनिवृत्तिरेवैष्टव्या । उक्तयुक्तीर्वामनवाक्यं चोपष्टभ्य हरदत्तादिग्रन्थोपमदर्थिमेव प्रवृत्तत्वादिति । तेषां ह्ययमभिप्रायः हरदत्तांशे ग्रन्थोपमदों यस्य इति लोपस्यावयवलोपत्वे तात्पर्याभाव इति व्याख्यानम्, उभयत्राप्यवयवलोपवादिनां तु दूषणमेवोपमर्द इति । एतेन पापाचक इति यङन्ताण्ण्वुलि वृद्धिर्भाष्यविरुद्धेत्यपास्तम् । एतत्सूत्रप्रत्याख्याने भाष्यतात्पर्यविरहे यस्य इति संघातलोपे अज्झलादेशस्य स्थानिवत्त्वविरहाद् अत उपधाया इति वृद्धेः सुस्थत्वात् । एतन्निषेधस्तु इग्लक्षणत्वाभावान्न प्रवर्तत इत्युक्तम् ।
किञ्ज अचः परस्मिन् इति सूत्रेऽनाश्रीयमाणायां प्रकृतौ स्थानिवद्भाव इति पक्षे न पदान्तसूत्रे द्विर्वचनवरेयलोपानां ग्रहणं कर्तव्यमिति भाष्ये वक्ष्यते । आश्रीयमाणायां प्रकृताविति पक्षे हि द्विर्वचनेऽनचीतिपर्युदासेन तत्सदृशस्य हल एवाश्रयणम्, न त्वचः । वरे त्वाकारलोपे विधीयमाने प्रकृतिराश्रितैवाचि विक्ङतीति, तत् कथं वरेशब्दग्रहणमापाद्यते इत्याशङ्क्य कैयटेनोक्तम् ।
यङ एव समुदायस्य प्रत्ययत्वं न तदवयवस्याकारस्येति । अजादौ प्रत्यये परे आकारलोपस्य विधानादत्राप्रसङ्ग एवेति । तथा चात्र कथं तदाश्रय उवङ्, कथं वा सम्भावितस्याप्यतिदेश इत्यत्र भाष्यकारादीनां तात्पर्यम् ।
अपि च जङ्गम इत्यादावुपधालोपादीनां ङित्त्वोपजीविनामापादनमुभयेषामप्यनुपपन्नम् । डकारस्य यङि समुदायानुबन्धत्वात् । अकारमात्रस्य स्थानिवद्भावेऽपि तस्य यरूपताया दुर्लभत्वात् । अत एव रमायै इत्यादौ वृद्धिरेचि इत्येव वृद्धिर्न तु आटश्च इति दीक्षितैरेवोक्तमित्यवहितैर्विभावनीयमिति दिक्
१.१.४
सूत्राणि:॥ न धातुलोप आर्धधातुके ॥
॥ व्याख्या: ॥॥ सिद्धान्तकौमुदी ॥
धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । हलि च इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मुर्छा । मोमूर्च्छीति । मोमोर्ति । मोमूर्तः । मोमूर्छतीत्यादि । आर्धधातुक इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेः ॥
॥ बालमनोरमा ॥
न धातुलोपे । 'इको गुणवृद्धी' इत्यनुवर्तते । तत्र धातुलोपे सति इको गुणवृद्धी न स्तआर्द्धदातुके परत इत्यर्थे लूञ्धातोर्यङन्तात्पचाद्यचि यङो लुकि, लोलुव इत्यत्र गुणनिषेधाऽभावप्रसङ्गात् । अत्र धात्ववयवस्य यङो लोपेऽपि धातोर्लोपाऽबावात् । 'धात्वययवलोपे सती'त्यर्थे तु शीङ्धातोस्तृचि शयितेत्यत्र गुणो न स्यात्, तत्र धात्ववयवङकारलोपसत्त्वत् 'आर्द्धधातुके परे यो धात्ववयवलोपस्तस्मिन् सती'त्यर्थे क्नोपयतीत्यत्रापि गुणनिषेधः स्यात्, तत्र धात्वयकारलोपस्य आर्द्धदातुकपरकत्वादित्यतो व्याचष्टे - धात्वंशलोपनिमित्ते इति । धातुं लोपयतीति धातुलोपः । कर्मण्यण् । धातुलोपनिमित्ते आर्द्धधातुके परे इति यावत् । 'लोलुव' इत्याद्युदाहरणम् । लूञ्धातोर्यङन्तात् पचाद्यचि 'यङोऽचि चे'त्यच्प्रत्ययमाश्रित्य यङो लुकि, अच्प्रत्ययमाश्रित्य प्राप्तो गुणोऽनेन निषिध्यते । 'मरीमृज' इति तु वृद्धिनिषेधोदाहरमम् । धात्विति किम् ? । शीङ्-शयिता । इह 'उत्सृष्टानुबन्धस्य धातुत्वं, नतु सानुबन्धस्ये'ति कैयटादिमते तु धातुग्रहणं स्पष्टार्थम् । इदं सूत्रं भाष्ये प्रत्याख्यातम् । हरदत्तेन पुनरुद्धृतम् । कौस्तुभे तु तदपि दूषयित्वा प्रत्याख्यातमेव । इति नेहेति । तोतोर्तीत्यत्राऽयं गुणनिषेधो नेत्यर्थः । हलि चेति । तोतुर्व् तस् इति स्थिते 'लोपो व्यरिति वकारस्य लोपं बाधित्वा 'च्छ्वोः शू'डित्यूठि प्राप्ते, वकारस्याऽनेन लोपे, 'हलि चे'ति दीर्ग इत्यर्थः । यद्यपितोतर्तीत्यत्र 'च्छ्वो'रित्यूठोऽप्रवृत्तेर्वकारस्य 'लोपो व्यो'रिति लोपः सिध्यति तथापि तोतूर्त इत्यादौ ऊठो बाधनाय आवश्यकोऽयं लोपो न्याय्यत्वात्तोतोर्तीत्यत्रोपन्यस्त इति बोध्यम् । तोतूर्वतीति । 'अदभ्यस्ता'दित्यत् । 'उपधायां चे'ति दीर्घः । तोतूर्वीषि-तोतोर्षि तोतूर्थः तोतूर्थ । तोतूर्वीम तोतोर्मि तोतूर्वः तोतूर्मः । तोतर्वांचकार । तोतूर्विता । तोतूर्विष्यति । तोतूर्वीतु तोतोर्तु तोतूर्तात् तोतूर्ताम् तोतूर्वतु । तोतूर्हि । तोतूर्वाणि । लङि अतोतूर्वीत् अतोतोः अतोतूर्ताम् अतोतूर्वुः । अतोतूर्वीः - अतोतोः अतोतूर्तम् अतोतूर्त । अतोतूर्वम् अतोतूर्व अतोतूर्म । तोतूर्व्यात् । लुङि 'अस्तिसिचः' इति नित्यमीट् । अतोतूर्वीत् । अतोतूर्विष्यत् । थुर्वीधातोरुदाहरति - तोथोर्तीति । तुर्वीवद्रूपाणि । दोदोर्तीति । दुर्वीधातो रूपम् । दोदोर्तीति । धुर्वीधातो रूपम् । मुर्च्छाधातोर्मोमूर्च्छीतीति सिद्धवत्कृत्य ईडभावे आह - मोमोर्तीति । 'राल्लोप' इति छस्य लोपः । इत्यादीति । मोमूर्च्छीषि मोमोर्षि । मोमूर्च्छीमि - मोमोर्मि । मोमूच्छवः । मोमूर्हि । अमोमूर्च्छीत् - अमोमूः । सिप्यवप्येवम् । लुङि - 'अस्तिसिचः'इति नित्यमीट् । अमोमूर्च्छीत् । अमोमूर्च्छिष्यत् । विषयसप्तमीति । 'अजर्व्यघञपो'रिति वीभावविधावार्द्धधातुके इत्यनुवृत्तं विषयसप्तम्यन्तमाश्रीयते, नतु परसप्तम्यन्तमित्यर्थः । ततः किमित्यतआह - तेनेति । विषयसप्तम्याश्रयणेनेत्यर्थः । विवक्षिते इति । यङि विवक्षिते ततः प्रागेव अजेर्वीभाव इत्यर्थः । एवं च कृते वीभावे हलादित्वाद्यङ् लभ्यते इति मत्वाह - वेवीयते इति । ननु अजेर्वीभावानन्तरं यङि सति तस्य 'यङोऽची'ति पाक्षिको लुक् कुतो नोदाह्रियते इत्यत आह - अस्य यङ्लुङ् नास्तीति । विषयत्वेति । लुका लुप्तयहो भाविज्ञानविषयत्वाऽभावेनेत्यर्थः । इति यङ्लुगन्तप्रक्रिया ॥
॥ तत्त्वबोधिनी ॥
ज्वर रोगे । ञित्वरा संभ्रमे । अत्र वृत्तौ 'झलादौ क्ङिती' त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह - क्ङितीति नानुवर्तत इति । अवतेस्तुनीति । 'ज्वरत्वरे' त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं क्विपि जूः । जुरौ । जुरः । झलादौ तु - जूर्तिः । जूर्णः । जूर्णवान् । त्वर - तूः । तुरौ । तुरः । तूर्तिः । तूर्णः । तूर्णवान् । रिउआविस्रूः । रुआउवौ । रुआउवः । रुआऊतिः । अवि - ऊः । उवौ । उवः ।ऊतिः । मव- मूः । मुवौ । मूतः । मूतिः । मामोषीत्यादि । ईट्पक्षे मामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति बोध्यम् । राल्लोपः । 'च्छ्वोः शू' डित्तश्च्छ्वोरित्यनुवर्तते । क्वावुदाहरणं - तूः । तुरौ तुरः । धुर्वी- धूः । धुरौ । धुरः । मुच्र्छा - मूः । मुरौ । मुरः ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
सूत्रगतशब्दानां सिद्धिः
न ‘ नह्यति ’ इति विग्रहे ‘ णह बन्धने ’ धातोर्बाहुलकात् डप्रत्यये अनुबन्धटिलोपे विभक्तिकार्ये च कृते सति निष्पन्नो रूपो भवति ‘ न ’ इति ।
धातुः ‘ दधाति बहून् अर्थान् ’ इति व्युत्पत्त्या ‘ धा धातोः ’ “ सितिनिगमिमसिसच्यविद्याञ्कुशिभ्यस्तुन् ” इति औणादिकसूत्रेण कर्त्रर्थे तुन्प्रत्ययेन निष्पन्नो रूपो भवति ‘ धातुः ’ इति ।
लोपः ‘ लोपनम् ’ इति विग्रहे ‘ लुप् विलोपने (तिरोधाने) ’ इत्यस्मात् धातोर्भावे घञ्प्रत्यये कृते निष्पद्यते । पारिभाषिकोऽयं लोपशब्दो व्याकरणशास्त्रेऽदर्शनार्थे प्रयुज्यते । “ अदर्शनं लोपः ” इति सूत्रेण लोपस्य स्वरूपं प्रतिपादयता सूत्रकारेणोक्तम् - यत् तद् अदर्शनं लोपसंज्ञं भवति । काशिकाकारो व्याख्याति - अदर्शनं चक्षते श्रवणमनुच्चारणमनुपलब्धिरभावो वर्णविनाश इत्यर्थान्तरम् । एतैः शब्दैर्योऽर्थोऽभिधीयते तस्य लोप इतीयं संज्ञा भवति । अर्थस्येयं संज्ञा विहिता, न तु शब्दस्येत्यर्थः । न्यासकारेणोक्तम् - लोपः इति महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत । प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् । लोपः सर्वापकर्षणात् । शास्त्रतः शब्दस्य कस्यचिच्छब्दप्रसङ्गे सति यदश्रवणम्, तल्लोपसंज्ञं भवतीत्यर्थः । यथा - ‘ दधि, मधु ’ इत्यादिशब्दे विद्यमानं क्विप्प्रत्ययम् अश्रवणं भवति । लोपशब्दः पारिभाषिकशब्दरूपेण प्रथमो निरुक्ते उपलभ्यते । ऋग्वेदप्रातिशाख्ये तैत्तिरीयप्रातिशाख्ये च लोपशब्दः प्रयुज्यते । “ समानः सवर्णे दीर्घीभवति परश्च लोपम् ” इति कातन्त्रव्याकरणे । “ अनो लोपः ” इति चान्द्रव्याकरणे च लोपसंज्ञा विधीयते । “ नाशः स्वम् ” इति सूत्रेण जैनेन्द्रव्याकरणे लोपस्य स्थाने स्वसंज्ञा विधीयते । “ वर्णादर्शनं लोपः ” इति सारस्वतव्याकरणे लोपसंज्ञा विधीयते ।
धातुलोपः धातोर्लोपो यस्मिन्निति तदिदं धातुलोपम्, तस्मिन् धातुलोपे बहुव्रीहिसमासः । यद्वा ‘ धातुं लोपयति ’ इति विग्रहे “ कर्मण्यण् ” इति सूत्रेण अण्प्रत्यये अनुबन्धलोपे उपपदसमासे विभक्तिकार्ये च कृते निष्पन्नो रूपो भवति ‘ धातुलोपः ’ इति । तस्मिन् धातुलोपे ।
आर्धधातुकम् इति अव्युत्पन्नसंज्ञावाचिशब्दः । तस्मिन् इति आर्धधातुके । आपिशलिना ‘ आर्धधातुका ’ इत्येवंभूतस्य स्त्रीलिङ्गशब्दस्य प्रयोगः कृतः । टाबन्तं तत्र संज्ञात्वेन प्रयुक्तम् । कैयटेनोक्तम् - ‘ तत्रार्धधातुकं विद्यते यासु ता भव्यादय आर्धधातुकावयवाः शब्दसंहतय आर्धधातुकशब्देनार्शआदित्वादच् प्रत्ययान्तेनोच्यन्ते ’ । ‘ आर्धधातुकम् ’ इति नपुंसकं लोकतः सिद्धम् । अतो भगवता पाणिनिना ‘ आर्धधातुकम् ’ इति नपंसकलिङ्गत्वेनास्य पदस्य विधानं कृतम् । “ आर्धधातुकं शेषः ” इति सूत्रेण पाणिनिना आर्धधातुकसंज्ञाया निर्देशः कृतः ।
अस्यायं भावः - सार्वधातुकार्धधातुकसंज्ञासूत्रेषु “ धातोः ” इति अधिकारसूत्रं भवति । “ तिङ्शित्सार्वधातुकम् ” इति सूत्रेण विधीयमानं सार्वधातुकसंज्ञां विहाय “ आर्धधातुकं शेषः ” इति सूत्रेण अन्या आर्धधातुकसंज्ञा भवन्ति । अस्य सूत्रस्यार्थो भवति सार्वधातुकप्रत्ययान् विहाय सर्वे आर्धधातुका इति प्रकृतसूत्रे शेषशब्दो बोधयति । अर्थात् ‘ तृच् ’ आदिप्रत्यया आर्धधातुकाः । “ लिट् च ” इति पाणिनीयसूत्रेणापि आर्धधातुकसंज्ञा विधीयते । तिङ्शिच्च सार्वधातुकसंज्ञां विधित्वात्तत्र विद्यमानानां लिट् स्थाने आगतानां तिङां आर्धधातुकसंज्ञा भवति । एतत्सार्वधातुकसंज्ञाया अपवादः । “ लिङाशिषि ” इति सूत्रेणापि आर्धधातुकसंज्ञा विधीयते । आशिषि लिङ्स्थाने आगतः तिङ्प्रत्ययोऽनेन सूत्रेण आर्धधातुकसंज्ञा भवति । एतत्सूत्रं सार्वधातुकसंज्ञापवादो भवति अतः सार्वधातुकसंज्ञायाः कार्यः शबादिर्न भवति । “ छन्दस्युभयथा ” इति सूत्रेण छन्दसि सार्वधातुकार्धधातुकसंज्ञाद्वयोरुपयोगः “ धातोः ” इत्यधिकारे कृतः ।
अस्मिन् सूत्रे ‘ न ’ इति शब्देन निषेधार्थकम् अव्ययम् इति बोध्यम् । एवञ्चात्र ‘ धातु ’ इति शब्देन क्रियावाचको भ्वादिगणपठितः शब्दविशेषो ज्ञातव्यः । इयं संज्ञा अन्वर्थसंज्ञा धातुरिति । धातुशब्दः पारिभाषिकशब्दरूपेण प्रथमं प्रतिपादनं गोपथब्राह्मणे भवति । ‘ धातुर्दधातोः ’ इति निरुक्ते धातोः प्रतिपादनं क्रियते । गतिपूर्वा यदा धातुः क्वचित् स्यात् तद्धितोदयः, ‘ समस्यते गतिस्तत्र आगमिष्ठा इति निदर्शनम् ’ इति अथर्ववेदप्रातिशाख्ये प्रतिपादितम् ।
तत्र किंकृते धातुत्वमिति जिज्ञासायां धातुसंज्ञामुपस्थापयता वार्तिककारेणोक्तम् - क्रियावचनो धातुः । क्रियावचनो धातुः इति वचनेन इदं प्रतीयते यत् क्रियाप्रतिपादकानां शब्दानां धातुसंज्ञा क्रियते । अथवा यः शब्दः क्रियां भावयति प्रतिपादयति स धातुसंज्ञः प्रतिज्ञायते अथवा येन सर्वाणि क्रियारूपाणि सम्यक्तया संधार्यन्ते स धातुसंज्ञो भवति । न्यासकारेणापि प्रोक्तम् - क्रियावचनानामेव धातुसंज्ञा विधीयते । “ भूवादयो धातवः ”, “ सनाद्यन्ता धातवः ” इति सूत्रद्वयेन सूत्रकारेण पाणिनिना धातुसंज्ञा विधीयते । किन्तु धातोः निर्वर्चनं तेन न देयम् । कातन्त्रव्याकरणे “ क्रियाभावो धातुः ”, “ ते धातवः ” इति सूत्रद्वयेन । “ धातूक्तौ अयदि वा ” इति चान्द्रव्याकरणे । जैनेन्द्रव्याकरणे धातोः स्थाने “ भूवादयो घुः ” इति सूत्रेण घुसंज्ञा प्रयुज्यते । “ क्रियार्थो धातुः ” इति शाकटायनव्याकरणे । सारस्वतव्याकरणे “ भ्वादिः ” इति सूत्रेण च धातुसंज्ञा विधीयते ।
सूत्रस्य निष्पन्नोऽर्थः
त्रिपदमिदं परिभाषासूत्रं निषेधसूत्रञ्च । ‘ न ’ इति अव्ययपदम् । ‘ धातुलोपे ’ इति सप्तम्यन्तपदम् । ‘ आर्धधातुके ’ इति सप्तम्यन्तपदम् । “ इको गुणवृद्धी ” इति सूत्रमत्र संपूर्णमनुवर्तते । अतः सूत्रस्यास्यार्थो भवति यस्मिन्नार्धधातुके धातोरवयवस्य लोपो भवति, तस्मिन्नेवार्धधातुके इकः स्थाने ये गुणवृद्धी प्राप्नुतस्ते न भवतः ।
अत्र धातुपदं धात्ववयवे लाक्षणिकम् । यद्यपि ‘ दुःखेन ईयते गम्यते ’ इति ‘ दुरिणो लोपश्च ’ इत्युणादिसूत्रेण दुःशब्दे उपपदे इण् गतावित्यस्माद् रक्प्रत्ययः, धातोश्च लोपः, ततः “ रो रि ” इति सूत्रेण उपसर्गान्त्यरेफलोपे “ ढ्रलोपे पूर्वस्य दीर्घोऽणः ” इति सूत्रेण दीर्घे सति च दूरमित्यत्र समस्तस्यापि धातोर्लोपोऽस्ति, तथापि तत्र गुणवृद्धिप्रसङ्गाभावात् तन्निषेधवैर्थ्याद् धातुशब्दोऽत्र तदेकदेशे विद्यते ।
प्रदीपे कैयटेनापि प्रोक्तम् - ‘ कृत्स्नस्य धातोर्लोपे गुणवृद्धिप्रसङ्गाभावादनर्थको निषेधः स्यादिति सामार्थ्याद्धात्वेकदेशलोपोऽत्र धातुलोपोऽभिमतोऽवयवक्रिययापि समुदायस्य व्यपदेशदर्शनात् । पटैकदेशे दग्धे ‘ पटो दग्धः ’ इतिवत् । अथवा समुदायशब्दोऽवयवे समुदायरूपारोपाद् वर्तते ’ ।
परिभाषासाधनत्वम्
‘ निषेधेऽपि परिभाषासादृश्यात् परिभाषात्वम् । सादृश्यं च निषेध्याकांक्षतया तदेकवाक्यतामात्रेणेति बोध्यम् ’ इति उद्द्योते नागेशभट्टाभिप्रायः । ‘ यत्र गुणवृद्धी विधीयेते, तत्र क्ङिति नेत्युपतिष्ठते इत्येवमियं परिभाषा भवति ’ इति कैयटानामाशयः । अत एव नागेशभट्टोऽपि प्रोक्तवानुद्योते ‘ यत्रेदं तत्र न धात्वित्युपतिष्ठते इत्यर्थेनास्यापि परिभाषात्वाङ्गीकार इति भावात् । यद्वा यत्रेदं तद्विहिते गुणवृद्धी नेत्यर्थः । तद्वक्ष्यति यत्रेक् परिभाषा व्याप्रियते यत्रायं निषेध इति ’ ।
आर्धधातुकग्रहणस्य प्रयोजनम्
स्वयं भाष्यकार आर्धधातुकग्रहणस्य प्रयोजनमाह - ‘ आर्धधातुके इति किम् ? त्रिधा बद्धो वृषभो रोरवीति ’ । अत्रेदमेव हृदयं यत् - आर्धधातुकग्रहणे सति अन्यपदार्थलाभाद् बहुव्रीहिरसंदिग्धो भवति, आर्धधातुकग्रहणेऽसति ततोऽन्तरङ्गत्वात्तत्पुरुष एव स्यात् । तदभावे धात्ववयवलोपे सति गुणवृद्धी न स्त इति सूत्रार्थसत्त्वे रुधातोर्यङि अनैमित्तिकत्वेनान्तरङ्गत्वाद् यङो लुकि अन्तरङ्गत्वाद्द्वित्वेऽभ्यासकार्ये “ सनाद्यन्ता धातवः ” इति सूत्रेण धातुत्वाल्लटि तिपि शपि ‘ चर्करीतम् ’ इत्यस्य अदादिगणे पाठाच्छपो लुकि “ यङो वा ” इत्यनेन सूत्रेण तस्येटि सार्वधातुकतिप्निमित्तकगुणस्यापि निषेध आपद्येतेति बहुव्रीहिलाभाय आर्धधातुकग्रहणस्यावश्यकता वर्तते ।
काशिकाव्याख्याकारस्य हरदत्तस्य मते - आर्धधातुकपदग्रहणेऽपि ‘ धातुलोपे ’ इति पदे तत्पुरुषसम्भवाद् आर्धधातुकग्रहणं न बहुव्रीहौ प्रमाणम् । ततश्च तदभावेऽपि - धातोर्लोपो यस्मिन् तस्मिन् ये गुणवृद्धी प्राप्नुतस्ते न भवत इति सूत्रार्थाल्लोपगुणवृद्धीनामेकप्रत्ययनिमित्तकत्वे लब्धे ‘ रोरवीति ’ इत्यत्र यलोपस्य अनैमित्तकत्वान्न दोषः । अत आर्धधातुकग्रहणप्रयोजनम् - ‘ तोतोर्ति ’, ‘ मोमोर्ति ’ इति । तत्र यङ्लुङन्तात् ‘ तुर्वी ’,‘ मुर्छा ’ धातोर्लटि तिपि शपि तल्लुकि च राल्लोपे छ्वोर्लोपनिमित्तस्य तिप एव गुणनिमित्तत्वाद् गुणस्य प्रतिषेधः प्राप्नुयात्, अतस्तन्निवृत्त्यर्थमार्धधातुकग्रहणम् । कृते तु तस्मिन् न दोषः । धात्ववयवलोपस्य गुणस्य च एकनिमित्तकत्वेऽपि न आर्धधातुकनिमित्तकत्वम्, किन्तु सार्वधातुकनिमित्तकत्वमेव, अतो न गुणनिषेधः ।
आर्धधातुकपदं कस्य विशेषणम्
तत्पुरुषपक्षे आर्धधातुकग्रहणं लोपविशेषणं वा गुणवृद्ध्योर्विशेषणं वा, बहुव्रीहिपक्षे तूभयविशषणं वेत्यत्र त्रयः पक्षाः सम्भवन्ति ।
तत्राद्ये पक्षे - सूत्रस्थार्धधातुकपदे सप्तम्येकवचनं मत्वा ‘ धातुलोपे ’ इत्यस्य सप्तम्येकवचनस्य विशेषणं वा स्यात् - आर्धधातुकनिमित्तके धातुलोपे सति यत्किञ्चिन्निमित्तके गुणवृद्धी न भवत इति सूत्रार्थः स्यात् । तत्रान्यनिमित्तयोरपि गुणवृद्ध्योर्निषेधापत्त्या प्रपूर्वत इन्धेः आर्धधातुकक्तप्रत्यये तन्निमित्तके “ अनिदितां हल उपधायाः क्ङिति ” इति सूत्रेण इन्धिधात्ववयवनकारलोपे च सति ‘ प्रेद्धः ’ इत्यत्र प्राप्नुवन्नाद्गुणोऽपि निषिध्येत । यद्यपि “ न धातुलोप आर्धधातुके ” इति सूत्रे “ इको गुणवृद्धी ” इति परिभाषाऽनुवृत्त्या यत्र सा परिभाषा प्रवर्तते, तथा च ये इग्लक्षणे गुणवृद्धी तत्रैवायं निषेध इति स्वीकारात् ‘ प्रेद्धः ’ इत्यादौ न गुणनिषेधापत्तिः, “ आद्गुणः ” इत्यादेरनिग्लक्षणत्वात् । ‘ प्रेद्धः ’ इत्यादौ दोषाभावेऽपि ‘ भेद्यते ’ इत्यत्र भिदेर्ण्यन्तात् कर्मणि यकि ‘ भिद् + इ + य ’ इति स्थिते नित्यत्वाण्णिलोपे कृते प्रत्ययलक्षणेन णिचमाश्रित्य क्रियमाणोऽपि गुणो निषिध्येत । अत्र लोपेन सह गुणवृद्ध्योरेकनिमित्तकत्वं च न लभ्येत ।
द्वितीयपक्षे - तु सूत्रस्थार्धातुकपदे प्रथमाद्विवचनं सम्मन्य ‘ गुणवृद्धी ’ इत्यस्य प्रथमाद्विवचनस्यार्धधातुकपदं विशेषणं वा स्यात् - यत्किञ्चिन्निमित्तके धातुलोपे सत्यार्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । ततश्च ‘ क्नूयी शब्दे ’ इत्यस्माद्धातोः णिचि पुकि “ लोपो व्योर्वलि ” इति सूत्रेण धात्ववयवयकारलोपे कृते आर्धधातुकणिच्प्रत्ययनिमित्तः पुगन्तलक्षणो गुणोऽनेन निषिध्येत । तथा च ‘ क्नोपयति ’ इति न सिद्ध्येत । यदि तु “ चेले क्नोपेः ” इति सूत्रज्ञापकाद् गुणस्स्यात्तर्हीहापि ‘ भेद्यते ’ इत्यस्यासिद्धिरेव दोषः ।
तृतीयपक्षे - उभयविशेषणत्वे तु न कुत्रापि दोषः । तथा सति ‘ आर्धधातुकनिमित्ते धातुलोपे सति आर्धधातुकनिमित्ते गुणवृद्धी न स्याताम् ’ इत्यर्थलाभात् ‘ प्रेद्धः ’ इत्यादौ गुणस्य आर्धधातुकनिमित्तत्वाभावान्न निषेधापत्तिः ।
ननु सकृदुच्चारितमार्धधातुकपदं कथमुभयविशेषणं स्यादिति चेत्, आर्धधातुकेऽन्यपदार्थे धातुलोपपदे बहुव्रीहिस्वीकारात् । अत एव च धातुग्रहणसार्थक्यम्, धातुपदं विना बहुव्रीह्यसम्भवात् । तस्य शब्दतो गुणवृद्धिविशेषणत्वम्, बहुव्रीहिद्वारा च लोपविशेषणत्वम् । किञ्च धातुपदाभावे कथञ्चिदावृत्त्योभयविशेषणत्वे स्वीकृतेऽपि लोपगुणवृद्धीनामेकार्धधातुकनिमित्तत्वन्तु न लभ्येत, तत्तु बहुव्रीहिमात्रलभ्यम्, तच्च धातुपदोपादानसाध्यम् । सति बहुव्रीहौ तु धातोर्लोपोऽस्मिन् तद्धातुलोपमार्धधातुकम्, तस्मिन् = तन्निमित्ते गुणवृद्धी न स्यातामित्यर्थाल्लोपस्य गुणवृध्योश्चैकार्धधातुकनिमित्तत्वं लभ्यते । तथा च ‘ भेद्यते ’ इत्यादौ न कश्चित्पूर्वोक्तदोषः । तत्र धात्ववयवणिलोपस्य गुणस्य चार्धधातुनिमित्तकत्वेऽप्येकार्धधातुकनिमित्तत्वाभावात्, गुणस्य णिज्रूपार्धधातुकनिमित्तकत्वात्, णिलोपस्य च यक्रूपार्धधातुकनिमित्तकत्वात् । अत एव वृत्तिकृता महाभाष्यव्याख्यानमनुसृत्यैव स्वग्रन्थे तत्रत्यमर्थजातं संक्षिप्तरूपेण संगृह्य वृत्तिः लिखिता । यथा - यस्मिन्नार्धधातुके धातोरवयवस्य लोपो भवति, तस्मिन्नेवार्धधातुके इकः स्थाने ये गुणवृद्धी प्राप्नुतस्ते न भवतः । अतश्चैतद्वृत्तिसमालोचनेन स्पष्टं प्रतिभाति यदेषा वृत्तिः महाभाष्याक्षरार्थानुगुणा ।
अस्य सूत्रस्यास्ति प्रयोजनं न वा
इदं सूत्रं भाष्ये प्रत्याख्यातम् । तथाहि - ‘ पापचकः ’ इत्यत्र यथा यङन्तात् ‘ पचतेः पापच्य ’ इत्यस्माद् “ ण्वुल्तृचौ ” इति सूत्रेण ण्वुलि “ यस्य हलः ” इत्यनेन हलः परस्य लोपविधाने “ आदेः परस्य ” इति परिभाषया परस्य यद्विहितं तत्तस्यादेर्बोध्यमित्यनेन व्यञ्जनमात्रस्य लोपे “ अतो लोपः ” इति सूत्रेण अकारस्य पृथक्लोपे “ अचः परस्मिन् पूर्वविधौ ” इति सूत्रेण अकारलोपस्य स्थानिवद्भावेनाकारस्योपधात्वाभावाद् वृद्ध्यप्रवृत्तिः । तथैव एतदुदाहरणान्यपि ‘ लोलुवः, मरीमृजः ’ इत्यादीनि । “ यङोऽचि च ” इत्यज्निमित्तकमनैमित्तिकं वा समुदायलोपं बाधित्वा “ अतो लोपः ” ‘ यस्य ’ इति योगविभागसामर्थ्यात् पूर्वमकारलोपे कृते ततो यङो यकारलोपे सर्वत्राल्लोपस्य स्थानिवत्त्वादेव गुणवृद्ध्यप्रवृत्त्येष्टरूपसिद्धौ सूत्रस्य न किंचित्प्रयोजनमिति चेत् । सत्यम्, अत एव भाष्ये भाष्यकारेण प्रत्याख्यातमिदमिति ।
न च “ यङोऽचि च ” इति लुक् ‘ येन नाप्राप्ति ’ इति न्यायेनातो लोपस्य बाधकः स्यादिति वाच्यम् । “ यस्य हलः ” इत्यत्र यस्येति योगं विभज्य “ अतो लोपः ” इति चानुवृत्य यशब्दाकारस्य लोपविधानेन व्यञ्जनमात्रलोपस्य “ यङोऽचि च ” इत्येतद्विधेयत्वात् । ततश्च अकारस्य लोपो यकारस्य लुगिति विषयभेदेन येन नाप्राप्तिन्यायाभावात् ।
न चैवं ‘ कृष्णो नोनाव वृषभो तदीदम् ’ इत्यत्र ‘ नोनूयतेर्नोनाव ’ इत्यस्य “ अचो ञ्णिति ” इत्यनेन वृद्धिर्न स्यादल्लोपस्य स्थानिवद्भावादिति वाच्यम् । अज्निमित्तकस्यैव लुको व्यञ्जनमात्रप्रतियोगिकत्वस्वीकारात् ।
यस्तु चकारादनुकृष्टबहुलग्रहणेन जायमानस्य लुकोऽन्तरङ्गतया लकारोत्पत्तेः प्रागेवाकारविशिष्टस्य यङः समुदाये प्रवृत्तेः । तस्य न स्थानिवद्भावोऽज्झलादेशत्वात् । अज्मात्रस्थानिकस्यैवादेशस्य स्थानिवद्भावाविधानात् ।
अथैवं ‘ लोलुवः ’ इत्यत्र गुणवदुवङादयोऽपि न स्युः । अकारस्य स्थानिवत्त्वे अच्प्रत्ययस्याव्यवहितपरत्वाभावादिति चेदत्र कैयटादयः -
स्थानिवद्भूतमकारमेवाश्रित्य तत्र उवङादयः, न तु पचाद्यचं निमित्तीकृत्य, उक्तयुक्तेः ।
न च यङवयवस्य केवलाकारस्य प्रत्ययत्वं नास्तीति वाच्यम् । यकारलोपोत्तरं ह्यवशिष्टाकारस्यापि प्रत्ययत्वात् ।
न च यकारस्थितिकालेऽकारस्य प्रत्ययत्वाभावाद् यकारापेक्षया प्रागेव लुप्ततया यकारलोपोत्तरमपि प्रत्ययत्वानन्वयात् कथं तस्य प्रत्ययत्वम्, स्थानिनिष्ठात्यन्ताभावप्रतियोगिनो धर्मस्यातिदेशेनाप्यलाभादिति वाच्यम् ।
सम्भवमात्रेणाप्यतिदेशस्वीकारात् । यकारलोपोत्तरं यद्यकारस्य लोपो न स्यात्तदा तस्य स्यादेव प्रत्ययत्वमिति योग्यतया लुप्तेऽपि तत्र सम्भावितस्य प्रत्ययत्वस्यातिदेशे बाधकाभावात् ।
वरे निषेधश्चेह लिङ्गम् । यङन्ताद् यातेर्वरचि “ अतो लोपः ” इति “ लोपो व्योर्वलि ” इति अल्लोपयलोपयोः कृतयोरल्लोपस्य स्थानिवद्भावेनाकारं निमित्तीकृत्य प्राप्तः “ आतो लोप इटि च ” इत्याकारलोपो मा भूदित्यतस्तत्र स्थानिवद्भावनिषेधारम्भात् । स्थानिनि दृष्टस्यैवातिदेशे तु अकारस्य स्थानिवद्भावेऽपि प्रत्ययत्वाभावे सुतरामार्धधातुकत्वाभावाद् वरप्रत्ययस्य चानजादित्वादकारेण व्यवधानाच्चातो लोपस्यैवाप्रसक्त्या तद्वैयर्थ्यापत्तेः ।
न चैवमपि ‘ लोलुवः’ इत्यादावुवङि कृते लघूपधगुणः स्यात् तद्वारणाय निषेधोऽयमावश्यकः । उवङ आदिष्टादचः पूर्वत्वेन लघूपधगुणे कर्तव्ये स्थानिवत्त्वाभावादिति वाच्यम्, स्थानिद्वारानादिष्टादचः पूर्वत्वेन उवङो दृष्टत्वात् । स्थानिद्वारा दृष्टत्वेऽपि स्थानिवद्भवतीत्येतद् “ न पदान्त...... ” इति सूत्रे सवर्णग्रहणेन ज्ञापितम् । न हि ‘ शिण्ढि ’ इत्यत्र स्थानिभूतादचः पूर्वत्वेनानुस्वारो दृष्टः, किं तु स्थानिद्वारा । तथा चानुस्वारस्य परसवर्णे कर्तव्ये श्नमः अल्लोपस्य स्थानिवत्त्वनिषेधाय तत्र सवर्णग्रहणं कृतमितीह स्थानिवद्भावः सिद्धः ।
अत्र हरदत्तादयः - ह्रस्वदीर्घान्तेषु इयङुवङोः कृतयोर्लघूपधगुणो दुर्वारः । न चाल्लोपस्य स्थानिवद्भावेन उकारस्योपधात्वाभावादिति वाच्यम् । उकारस्यानादिष्टादचः पूर्वत्वाभावात् । अल्लोपानन्तरमेवोवङः प्रवृत्तेः । तथा ‘ जङ्गमः ’ इत्यत्र “ गमहनजनखनघसां लोपः क्ङित्यनङि ” इति सूत्रेण उपधालोपः स्यात् । यदि त्वनङीति निषेधः, तर्हि ‘ दरीदृशः ’ इत्यत्र “ ऋदृशोऽङि गुणः ” इति सूत्रेण गुणः स्यात् । ‘ देद्यः ’ इत्यत्र “ दीङो युडचि क्ङिति ” इति सूत्रेण युडागमः स्यात् । ‘ सनीस्रंसः ’, ‘ दनीध्वंसः ’ इत्यादौ “ अनिदितां हल उपधायाः क्ङिति ” इति सूत्रेणोपधालोपः स्यात् । ‘ यायावरः ’ इत्यादौ “ आतो लोप इटि च ” इति सूत्रेण आकारलोपः स्यात् । अतो योगविभागद्वाराल्लोपो विधातुमशक्यः । समुदायलुकि तु तस्य हलचोरादेशस्य स्थानिवद्भावाभावात् उपर्युक्तस्थलेषु न दोषः । तस्मात् समुदायलोपस्वीकारस्यावश्यकतया ‘ लोलुवः ’ इत्यादौ गुणवृद्धी स्याताम्, अतस्तन्निषेधाय सूत्रमिदमवश्यं कर्तव्यम् । इदं सूत्रं भाष्ये प्रत्याख्यातमेव । हरदत्तेन पुनरुद्धृतं पुनः भट्टोजिदीक्षितेन शब्दकौस्तुभे तु तदपि दूषयित्वा प्रत्याख्यातमेव । अत एव शब्दरत्नकार आह ‘ एतदेवाभिप्रेत्य “ धिन्विकृण्व्योरच ” इति सूत्रे किमर्थमत्वं विधीयते वलोप एवास्तु इत्याशङ्क्यात्वेऽल्लोपे तस्य स्थानिवत्त्वेन गुणाभावाय तत् । न च वलोपेऽपि न “ धातुलोप आर्धधातुके ” इति गुणनिषेधः सिद्ध इति वाच्यम् । तत्प्रत्याख्यान पक्षे गुणप्राप्तेरित्युक्तम् । अनेन सूत्रमतात् प्रत्याख्यानवादिमतं प्रबलमिति प्रत्याख्यानवादिसंमतलक्ष्यमेव कथञ्चित् सूत्रमतेऽपि साध्यम् । ....... प्रत्याख्यानं सूत्रसंमतमिति च ध्वनितम् ’ । प्रत्याख्यानं सूत्रसंमतमिति मन्तव्यमपि शास्त्रीयदृष्ट्या नोचितम् । आचार्यचन्द्रगोमिनादयः प्रमुखा अर्वाचीनवैयाकरणाः स्वस्वग्रन्थेऽस्य सूत्रस्य स्थानं प्रदत्तवन्तः । यथा -
1. चान्द्रव्याकरणे - अतिङ्याच्च तल्लोपे ।
2. जैमिनीयव्याकरणे - न घुरवेऽगे ।
3. शाकटायनव्याकरणे - अविङल्लुग्धातौ ।
4. सारस्वतव्याकरणे - यङ् यक् क्यलोपे वृद्धिश्चातिङि ।
5. हैमव्याकरणे - न वृद्धिश्चाविति विङाल्लोपे ।
यदि सूत्रस्यास्य पूर्णतः प्रत्याख्यानं योग्यं संभवेत् तर्हि एतेषु व्याकरणग्रन्थेषु सूत्रमिदं नोल्लेखितं पूर्वाचार्यैः ।
अतोऽत्रेदं समालोच्यते - अल्लोपस्य स्थानिवद्भावेन ‘ लोलुवः, चेक्षियः ’ इत्यादौ गुणवारणसम्भवेऽप्यकारसहितस्य लघूपधाङ्गस्य च प्राप्तगुणस्यान्तरङ्गत्वाद् इयङुवङद्वारा बाधेनेष्टे सिद्धेऽपि ‘ मरीमृजः ’ इत्यादौ वृद्धिवारणसम्भवमेव । तत्र स्थानिवद्भावोज्जीवितस्य अकारसहितस्याकारान्ताङ्गस्य इकः “ मृजेर्वृद्धिः ” इति वृद्धिसम्भवात्, तत्र उपधाभूतस्यैव मृज्यवयवर्कारस्य वृद्धिरिति तु नार्थोऽस्ति, मृज्यवयवस्येको वृद्धिरित्येव हि तस्यार्थः । अतो योगविभागकल्पिताकारलोपस्य स्थानिवद्भावद्वारापि तत्र वृद्धिवारणासम्भवात् तदर्थं सूत्रमावश्यकमिति मन्तव्यम् । यद्यप्यत्रेत्थं समाधानं गुरुवर्याः भोलाझामहाशयाः स्वग्रन्थे कृतवन्तः तदेवात्र सूक्ष्मसूक्ष्मतरपरिष्काराविष्कारेण स्वीकार्यमिति । अधीतव्याकरणशास्त्रस्य पुरुषस्येतोऽधिकानन्दप्रदं समाधानं नापरं स्यादिति मन्यामहे वयम् ।
अपि च ‘ जङ्गमः ’ इत्यादावुपधालोपादीनां ङित्त्वोपजीविनामापादनमुभयेषामपि ह्यनुपपन्नं स्यात् । ङकारस्य यङि समुदायानुबन्धत्वात् । अकारमात्रस्य स्थानिवद्भावेऽपि तस्य यङात्मकताया दुर्लभत्वात् । अत एव ‘ रमा + याड् + ए ’ इत्यत्र याडवयव आड् इति मत्वा “ आटश्च ” इति सूत्रेण वृद्धौ प्राप्तायां याट्स्याटोः टकारस्य समुदायानुबन्धत्वेनेह आटोऽभावात् ‘ रमायै ’ इत्यादौ “ वृद्धिरेचि ” इति सूत्रेणैव वृद्धिर्न तु “ आटश्च ” इति प्रोक्तं वैयाकरणसिद्धान्तकौमुद्यां भट्टोजिदीक्षितेनैव ।
उदाहरणम्
लोलुवः इत्यत्र ‘ लूञ् छेदने ’ इति धातोः “ धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ” इत्यनेन यङ्प्रत्यये अनुबन्धलोपे च कृते, ‘ लू + य ’ इति जाते, “ सन्यङोः ” इत्यनेन द्वित्वे ‘ लूय् लूय् + अ ’ इति जाते, “ हलादिः शेषः ” इति सूत्रेण हलादिशेषे कृते, “ गुणो यङ्लुकोः ” इत्यनेन अभ्यासे गुणे, संयोगे कृते ‘ लोलूय ’ इत्यस्य “ सनाद्यन्ता धातवः ” इत्यनेन धातुसंज्ञायाम्, “ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ” इत्यनेन अच्प्रत्यये, अनुबन्धलोपे, ‘ लोलूय + अ ’ इति जाते, “ यङोऽचि च ” इति सूत्रेण यकारलोपे, ‘ लोलू + अ ’ इति स्थिते, प्रत्ययलक्षणं मत्वा “ सार्वधातुकार्धधातुकयोः ” इत्यनेन गुणे प्राप्ते, “ न धातुलोप आर्धधातुके ” इत्यनेन निषेधे कृते, “ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ” इत्यनेन उवङादेशे, संयोगे कृते, ‘ लोलुव ’ इत्यस्य प्रातिपदिकसंज्ञायाम्, सुबुत्पत्तौ, रुत्वे, विसर्गे च कृते ‘ लोलुवः ’ इति सिद्धम् ।
॥ महाभाष्यम् ॥
(३. परिभाषासूत्रम् १.१.४ आ. १)
न धातुलोप आर्धधातुके १.१.४
॥ पदकृत्याधिकरणम् ॥
आक्षेपभाष्यम् - धातुग्रहणं किमर्थम् ?
समाधानभाष्यम् - इह मा भूत् - लूञ् लविता - लवितुम्, पूञ् पविता - पवितुम् ।
आक्षेपभाष्यम् - आर्धधातुक इति किमर्थम् ?
समाधानभाष्यम् - ' त्रिर्धा बुद्धो वृषभो रौरवीति ' (ऋ.सं. - ४.५८.३) ।
॥ आर्धधातुकपदार्थान्वयाधिकरणम् ॥
फक्षद्वयोपस्थापकभाष्यम् - किं पुनरिदमार्धधातुकग्रहणं लोपविशेषणम् - ' आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतस्ते न भवतः ' इति । आहोस्वित् गुणवृद्धिविशेषणमार्धधातुकग्रहणम् - ' धातुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः ' इति ? किं चातः ?
पक्षद्वये दोषदर्शकं भाष्यम् - यदि लोपविशेषणम्, ' उपेद्धः, प्रेद्धः ' अत्रापि प्राप्नोति । अथ गुणवृद्धिविशेषणम्, ' क्नोपयति ' अत्रापि प्राप्नोति ।
उभयेष्टापत्तिभाष्यम् - यथेच्छसि तथास्तु ।
प्रथमपक्षाङ्गीकारभाष्यम् - अस्तु लोपविशेषणम् ।
पूर्वोक्तदोषस्मारकभाष्यम् - कथम् - ' उपेद्धः, प्रेद्धः ' इति ?
दोषोद्धारकं भाष्यम् - बहिरङ्गो गुणोऽन्तरङ्गः प्रतिषेधः । ' असिद्धं बहिरङ्गमन्तरङ्गे ' ।
लाघवभाष्यम् - यद्येवं, नाथों धातुग्रहणेन ।
धातुग्रहणाभावे दोषस्मारकभाष्यम् - इह कस्मान्न भवति - लूञ् - लविता, लवितुम्, लवितव्यम् इति ? लोपः । इति ।
समाधानभाष्यम् - आर्धधातुकनिमित्ते लोपे प्रतिषेधः । न चैष आर्धधातुकनिमित्तो लोपः ।
द्वितीयपक्षस्वीकारभाष्यम् - अथवा पुनरस्तु गुणवृद्धिविशेषणम् ।
आक्षेपस्मारणभाष्यम् - ननु चोक्तम् - क्नोपयतीत्यत्रापि प्राप्नोतीति ।
समाधानभाष्यम् - नैष दोषः, निपातनात्सिद्धम् । किं निपातनम् ? ' चेले वनोपेः '
॥ परिगणनाधिकरणम् ॥
वार्तिकावतरणभाष्यम् - परिगणनं कर्तव्यम् -
(८९. परिगणनपूर्वपक्षिवार्त्तिकम् - १) * यङ्यक्क्यवलोपे प्रतिषेधः *
भाष्यम् - यङ् - यक् - क्य - वलोपे प्रतिषेधो वक्तव्यः । यङ् - बेभिदिता, मरीमृजः । यक् - कुषुभिता, मगधकः । क्य - समिधिता, दृषदकः । वलोपे - जीरदानुः । किं प्रयोजनम् ।
(९०. परिगणनप्रयोजनवार्तिकम् - २) * नुम्लोपे स्त्रिव्यनुबन्धलोपेऽ प्रतिषेधार्थम् *
भाष्यम् - नुम्लोपे स्त्रिवि अनुबन्धलोपे च प्रतिषेधो मा भूदिति । नुम्लोपे - अभाजि, रागः, उपबर्हणम् । स्त्रिवेः - आस्त्रेमाणम् । अनुबन्धलोपे - लूञ् - लविता, लवितुम् ।
आक्षेपभाष्यम् - यदि परिगणनं क्रियते, ' स्यदः, प्रश्रथः, हिमश्रथः ' इत्यत्रापि प्राप्नोति ।
समाधानभाष्यम् - वक्ष्यत्येतत् - ' निपातनात्स्यदादिषु ' इति ।
आक्षेपभाष्यम् - तत्तर्हि परिगणनं कर्तव्यम् ।
परिगणनप्रत्याख्यानभाष्यम् - न कर्तव्यम् ।
आक्षेपभाष्यम् - नुम्लोपे कस्मान्न भवति ?
(सिद्धान्तसमाधान भाष्यवार्त्तिकम्) * इक्प्रकरणान्नुम्लोपे वृद्धिः *
भाष्यम् - इग्लक्षणयोर्गुणवृद्धयोः प्रतिषेधः । न चैषेग्लक्षणा वृद्धिः ।
आक्षेपभाष्यम् - यदीग्लक्षणयोर्गुणवृद्धयोः प्रतिषेधः 'स्यदः, प्रश्रथः, हिमश्रथः' इत्यत्र न प्राप्नोति । इह च प्राप्नोति - ' अवोदः, एधः, ओद्यः ' इति ।
(९१. सिद्धान्तसमाधानवार्त्तिकम् - ३) * निपातनात्स्यदादिषु *
भाष्यम् - निपातनात्स्यदादिषु प्रतिषेधो भविष्यति, न च भविष्यति ।
आक्षेपभाष्यम् - यदीग्लक्षणयोर्गुणवृद्धयोः प्रतिषेधः, स्त्रिव्यनुबन्धलोपे कथम् ? त्रिवेः - आस्त्रेमाणम्, लूञ् - लविता ।
(सिद्धान्तसमाधानभाष्यवार्त्तिकम्) * प्रत्ययाश्रयत्वादन्यत्र सिद्धम् *
भाष्यम् - आर्धधातुकनिमित्ते लोपे प्रतिषेधः । न चैष आर्धधातुकनिमित्तो लोपः ।
आक्षेपभाष्यम् - यद्यार्धधातुकनिमित्ते लोपे प्रतिषेधः, ' जीरदानुः ' (ऋ.सं. - ५.८३.१) अत्र न प्राप्नोति ।
(९२. सिद्धान्तसमाधानवार्त्तिकम् - ४) * रकि ज्यः सम्प्रसारणम् *
भाष्यम् - नैतज्जीवे रूपम्, रक्येतज्ज्यः सम्प्रसारणं भवति ।
एकदेशिभाष्यम् - यावता चेदानीं रकि, जीवेरपि सिद्धं भवति । कथमुपबर्हणम् ?
सिद्धान्तिभाष्यम् - बृहिः प्रकृत्यन्तरम् ।
आक्षेपभाष्यम् - कथं ज्ञायते - बृहिः प्रकृत्यन्तरमिति ?
सिद्धान्तिभाष्यम् - अचीति हि लोप उच्यते, अनजादावपि दृश्यते - निबृह्यते । अनिटीति चोच्यते, इडादावपि दृश्यते - निबर्हिता निबर्हितुमिति । अजादावपि न दृश्यते - बृहयति, बृंहकः ।
उपसंहारभाष्यम् - तस्मान्नार्थः परिगणनेन ।
आक्षेपभाष्यम् - यदि परिगणनं न क्रियते ' भेद्यते, छेद्यते ' अत्रापि प्राप्नोति ।
समाधानभाष्यम् - नैष दोषः । धातुलोप इति नैवं विज्ञायते - ' धातोर्लोपः धातुलोपः, धातुलोपे ' इति । कथं तर्हि ? ' धातोर्लोपो यस्मिंस्तदिदं धातुलोपं धातुलोपे ' इति ।
उपसंहारभाष्यम् - तस्मादिग्लक्षणा वृद्धिः । इग्लक्षणत्वे ।
॥ दोषनिराकरणाधिकरणम् ॥
आक्षेपभाष्यम् - यदि तहींग्लक्षणयोर्गुणवृद्धयोः प्रतिषेधः, ' पापचकः, पापठकः, मगधकः, दृषदकः ' अत्र न प्राप्नोति ।
(९३. सिद्धान्तिसमाधानवार्त्तिकम् - १) * अल्लोपस्य स्थानिवत्त्वात् *
भाष्यम् - अकारलोपे कृते तस्य स्थानिवत्त्वाद् गुणवृद्धी न भविष्यतः ।
॥ सूत्रप्रत्याख्यानाधिकरणम् ॥
(९४. सिद्धान्तवार्त्तिकम् - १) * अनारम्भो वा *
भाष्यम् - अनारम्भो वा पुनरस्य योगस्य न्याय्यः ।
आक्षेपभाष्यम् - कथं ' बेभिदिता - मरीमृजकः कुषुभिता - समिधिता ' इति ?
समाधानभाष्यम् - अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः ।
आक्षेपभाष्यम् - यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः । क्व च स्थानिवद्भावो नास्ति ? यत्र हलचोरादेशः - लोलुवः पोपुवः मरीमृजः सरीसृप इति ।
समाधानभाष्यम् - अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः ।
समाधानबाधकभाष्यम् - लुकि कृते न प्राप्नोति ।
समाधानसाधकभाष्यम् - इदमिह सम्प्रधार्यम् - लुक् क्रियतामल्लोप इति । किमत्र कर्तव्यम् ? परत्वादल्लोपः ।
समाधानबाधकभाष्यम् - नित्यो लुक् । कृतेऽप्यल्लोपे प्राप्नोति, अकृतेऽपि प्राप्नोति ।
समाधानसाधकभाष्यम् - लुगप्यनित्यः । कथम् ? अन्यस्य कृते लोपे प्राप्नोति,अन्यस्याकृते । ' शब्दान्तरस्य च प्राप्नुवन्बिधिरनित्यो भवति ' ।
समाधानबाधकभाष्यम् - अनवकाशस्तर्हि लुक् ।
समाधानसाधकभाष्यम् - सावकाशो लुक् । कोऽवकाशः ? अवशिष्टः ।
अभ्युपेत्य समाधानभाष्यम् - अथापि कथञ्चिदनवकाशो लुक् स्यात्, एवमपि न दोषः । अल्लोपे योगविभागः करिष्यते - ' अतो लोपः ' । ततः ' यस्य ' , यस्य च लोपो भवति । अत इत्येव । किमर्थमिदम् ? लुकं वक्ष्यति तद्वाधनार्थम् । ततः ' हलः ' हल उत्तरस्य यस्य च लोपो भवतीति ।
आक्षेपभाष्यम् - इहापि तर्हि परत्वाद्योगविभागाद्वा लोपो लुकं बाधेत - ' कृष्णो नौनाव वृषभो यदीदम् (ऋ. सं. - १.७९.२) ' नोनूयतेर्नोनाव ।
समाधानभाष्यम् - समानाश्रयो लुक् लोपेन बाध्यते । कश्च समानाश्रयः ? यः प्रत्ययाश्रयः । अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग्भवति ।
आक्षेपभाष्यम् - कथम् - स्यदः प्रश्रथः हिमश्रथः जीरदानुः (ऋ.सं. - ५.८३.१) - निकुचित इति ।
(समाधाने भाष्यवार्तिकम्) * उक्तं शेषे *
भाष्यम् - किमुक्तम् ? ' निपातनात्स्यदादिषु ' । ' रकि ज्यः सम्प्रसारणम् ' इति । निकुचितेऽप्युक्तम् । किम् ? सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति । न धातुलोप आर्धधातुके ॥ ४

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know