यजुर्वेद ३१ अध्याय मंत्रा


ओ३म    स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।

स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । १

पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚।

उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति । २

ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः ।

पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । ३

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ।

ततो॒ विश्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । ४

तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।

स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः । ५

यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत ।

व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः । ६

स॒प्तास्या॑सन्परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।

दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पु॑रुषं प॒शुम् । ७

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।

तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । ८

तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । सम्भृ॑तं पृषदा॒ज्यम् ।

प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये । ९

तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।

छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत । १०

तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।

गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ । ११

यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।

मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । १२

ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।

ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत । १३

च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।  प्रा॒णाद्वा॒युर॑जायत । १४

नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।

प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन् । १५

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु॒ पा॒रे ।

सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ । १६

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।

तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते । १७

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।

ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः । १८

अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।

तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । १९

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।

तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २०

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।

तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚ । मरी॑चीनां प॒दमि॑च्छन्ति

वे॒धसः॑ । ३

यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः ।

पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये । ४

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।

यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ । ५

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।

नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्᳚ ।  इ॒ष्टम् म॑निषाण ।

अ॒मुं म॑निषाण ।  सर्व॑म्  मनिषाण । ६

तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं यज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः ।

स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ।


 आ नो᳚ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।

दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि॑वे ॥ 

दे॒वानां᳚ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां᳚ रा॒तिर॒भि नो॒ नि व॑र्तताम् ।

दे॒वानां᳚ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्रति॑रन्तु जी॒वसे॑ ॥ 

तान्पूर्व॑या नि॒विदा᳚ हूमहे व॒यं भगं᳚ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधम्᳚ ।

अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥ 

तन्नो॒ वातो᳚ मयो॒भुवा᳚तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।

तद् ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥ 

तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियञ्जि॒न्वमव॑से हूमहे व॒यम् ।

पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥ 

स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ 

पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः ।

अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥ 

भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।

स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥ 

श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚ त॒नूना᳚म् ।

पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तोः᳚ ॥ 

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।

विश्वे᳚ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥ 

नासदासीन्नोसदासीत्तदानीं नासीद्रजो नो व्योमापरो यत् ।

किमावरीवः कुहकस्यशर्मन्नम्भः किमासीद्गहनं गभीरं ॥ १ ॥

न मृत्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒।आह्न॑।आअसीत्प्रके॒तः ।

आनीदवातं स्वधया तदेकं तस्माद्धान्यन्नपरः किञ्चनास ॥ २ ॥

तम॑।आअसी॒त्तम॑सा गू॒ह्ळमग्रे॑ प्रके॒तं स॑लि॒लं सर्व॑माऽइ॒दं ।

तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिना जायतैकं ॥ ३ ॥

काम॒स्तदग्रे॒ सम॑वर्त॒ताधि मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।

सतोबन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥ ४ ॥

ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी ३ दु॒परि॑स्विदासी ३ त् ।

रेतोधा।आअसन्महिमान।आअसन्त्स्वधा।आवस्तात् प्रयतिः परस्तात् ॥ ५ ॥

को।आ॒द्धा वे॑द॒ कऽइ॒ह प्रवो॑च॒त् कुत॒।आअजा॑ता॒ कुत॑ऽइ॒यं विसृ॑ष्टिः ।

अर्वाग्देवा।आस्य विसर्जनेनाथाको वेद यत।आअबभूव ॥ ६ ॥

इ॒यं विसृ॑ष्टि॒र्यत॑।आअब॒भूव॑ यदि॑ वा द॒धे यदि॑ वा॒ न ।

यो।आस्याध्यक्षः परमे व्योमन्त्सो।आङ्ग वेद यदि वा न वेद ॥ ७ ॥

ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑।

स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒धार॑णो भूयासम्।

शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा मे॒ मधु॑मत्तमा।

कर्णा᳚भ्यां॒ भूरि॒विश्रु॑वम्। ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः।

श्रु॒तं मे॑ गोपाय। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥


 मे॒धादे॒वी जु॒षमा॑णा न॒ आगा᳚द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना।

त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता᳚न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚।

त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑रु॒त त्वया᳚।

त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सानो॑ जुषस्व॒ द्रवि॑णो न मेधे॥


मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती।

मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा।

अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑।

दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र्जुषता॒ꣳ॒ स्वाहा᳚॥

आमां᳚ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या।

ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषन्ताम्।

मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒

मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒

मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु।

एक टिप्पणी भेजें

3 टिप्पणियाँ

MKP ने कहा…
Thanks for your interest
The Blusterist ने कहा…
Thank you for publishing the post.
I always have an intrest towards vedas but unfortunately I have no knowledge of Sanskrit.
So I always support such valueable works of those who know.