रामायणम्/बालकाण्डम्/सर्गः ६३

 श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥


पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्।
अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः ॥१॥

अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥२॥

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्।
विश्वामित्रो महातेजा भूयस्तेपे महत् तपः ॥३॥

ततः कालेन महता मेनका परमाप्सराः।
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥४॥

तां ददर्श महातेजा मेनकां कुशिकात्मजः।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥५॥

कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्।
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ॥६॥

अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्।
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥७॥

तपसो हि महाविघ्नो विश्वामित्रमुपागमत्।
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव ॥८॥

विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः।
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥९॥

सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः।
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन ॥१०॥

सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्।
अहोरात्रापदेशेन गताः संवत्सरा दश ॥११॥

काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः।
स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१२॥

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्।
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ॥१३॥

उत्तरं पर्वतं राम विश्वामित्रो जगाम ह।
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ॥१४॥

कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्।
तस्य वर्षसहस्राणि घोरं तप उपासतः ॥१५॥

उत्तरे पर्वते राम देवतानामभूद् भयम्।
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ॥१६॥

महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः।
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ॥१७॥

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्।
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ॥१८॥

महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक।
ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः ॥१९॥

प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्।
ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ॥२०॥

यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः।
तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः ॥२१॥

यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः।
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥२२॥

ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्।
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ॥२३॥

शिशिरे सलिलेशायी रात्र्यहानि तपोधनः।
एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥२४॥

तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ।
संतापः सुमहानासीत् सुराणां वासवस्य च ॥२५॥

रम्भामप्सरसं शक्रः सर्वैः सह मरुद्‍गणैः।
उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

सांख्य दर्शन की दृष्टि में मनुष्य की मानसिक रुग्णता और उसका उपचार Mental Illness and its Cure from the Perspective of Sāṅkhya Philosophy

View of the Site

यह ब्लॉग खोजें