विवेकचूडामणिः vivekachUDAmaNiH

Vivekachudamani: The Crest Jewel of Discrimination


  

विवेकचूडामणिः

vivekachUDAmaNiH

 विवेकचूडामणिः 


सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।

गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ १॥


जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता

तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।

आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः

मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ २॥  शतकोटिजन्मसु कृतैः


दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् ।

मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ ३॥


लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं var  कथञ्चिन्

    तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।

यस्त्वात्ममुक्तौ न यतेत मूढधीः

    स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ॥ ४॥

  आत्महा स्वं


इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।

दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ ५॥


वदन्तु शास्त्राणि यजन्तु देवान् var  पठन्तु

    कुर्वन्तु कर्माणि भजन्तु देवताः ।

आत्मैक्यबोधेन विनापि मुक्ति- विना विमुक्तिः न

    र्न सिध्यति ब्रह्मशतान्तरेऽपि ॥ ६॥


अमृतत्त्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।

ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ ७॥


अतो विमुक्त्यै प्रयतेत विद्वान्

    सन्न्यस्तबाह्यार्थसुखस्पृहः सन् ।

सन्तं महान्तं समुपेत्य देशिकं

    तेनोपदिष्टार्थसमाहितात्मा ॥ ८॥


उद्धरेदात्मनाऽऽत्मानं मग्नं संसारवारिधौ ।

योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ ९॥


सन्न्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।

यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः ॥ १०॥


चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।

वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः ॥ ११॥


सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा ।

भ्रान्तोदितमहासर्पभयदुःखविनाशिनी ॥ १२॥ भ्रान्त्यो

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।

न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३॥


अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः ।

उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः ॥ १४॥ सन्त्यस्यां

अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ॥


समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ १५॥


मेधावी पुरुषो विद्वानूहापोहविचक्षणः ।

अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥ १६॥


विवेकिनो विरक्तस्य शमादिगुणशालिनः ।

मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥ १७॥


साधनान्यत्र चत्वारि कथितानि मनीषिभिः ।

येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥ १८॥


आदौ नित्यानित्यवस्तुविवेकः परिगण्यते ।

इहामुत्रफलभोगविरागस्तदनन्तरम् ।

शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ॥ १९॥


ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः ।

सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥ २०॥


तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः । जुगुप्सा या

देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि ॥ २१॥ भोग्यवस्तुनि

विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः ।

स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥ २२॥


विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ।

उभयेषामिन्द्रियाणां स दमः परिकीर्तितः ।

बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥ २३॥


सहनं सर्वदुःखानामप्रतीकारपूर्वकम् ।

चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥ २४॥


शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् । सत्यबुद्ध्यावधारणा

सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥ २५॥


सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । सम्यगास्थापनं

तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥ २६॥


अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् ।

स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥ २७॥


मन्दमध्यमरूपापि वैराग्येण शमादिना ।

प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ २८॥


वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।

तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ २९॥


एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः ।

मरौ सलिलवत्तत्र शमादेर्भानमात्रता ॥ ३०॥


मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी ।

स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३१॥


स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः ।

उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मनः ।

उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ॥ ३२॥


श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ।

ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ।

अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥ ३३॥


तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः । प्रह्वः

प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥ ३४॥


स्वामिन्नमस्ते नतलोकबन्धो

    कारुण्यसिन्धो पतितं भवाब्धौ ।

मामुद्धरात्मीयकटाक्षदृष्ट्या

    ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥ ३५॥


दुर्वारसंसारदवाग्नितप्तं

    दोधूयमानं दुरदृष्टवातैः ।

भीतं प्रपन्नं परिपाहि मृत्योः

    शरण्यमन्यद्यदहं न जाने ॥ ३६॥ अन्यं

शान्ता महान्तो निवसन्ति सन्तो

    वसन्तवल्लोकहितं चरन्तः ।

तीर्णाः स्वयं भीमभवार्णवं जना-

    नहेतुनान्यानपि तारयन्तः ॥ ३७॥


अयं स्वभावः स्वत एव यत्पर-

    श्रमापनोदप्रवणं महात्मनाम् ।

सुधांशुरेष स्वयमर्ककर्कश-

    प्रभाभितप्तामवति क्षितिं किल ॥ ३८॥


ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैर्युतै-  var  सुशीतैः सितैः

र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय ।

सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो

धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥ ३९॥


कथं तरेयं भवसिन्धुमेतं

    का वा गतिर्मे कतमोऽस्त्युपायः ।

जाने न किञ्चित्कृपयाऽव मां प्रभो

    संसारदुःखक्षतिमातनुष्व ॥ ४०॥


तथा वदन्तं शरणागतं स्वं

    संसारदावानलतापतप्तम् ।

निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या

    दद्यादभीतिं सहसा महात्मा ॥ ४१॥


विद्वान् स तस्मा उपसत्तिमीयुषे

    मुमुक्षवे साधु यथोक्तकारिणे ।

प्रशान्तचित्ताय शमान्विताय

    तत्त्वोपदेशं कृपयैव कुर्यात् ॥ ४२॥


मा भैष्ट विद्वंस्तव नास्त्यपायः

    संसारसिन्धोस्तरणेऽस्त्युपायः ।

येनैव याता यतयोऽस्य पारं

    तमेव मार्गं तव निर्दिशामि ॥ ४३॥


अस्त्युपायो महान्कश्चित्संसारभयनाशनः ।

तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥ ४४॥


वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् ।

तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥ ४५॥


श्रद्धाभक्तिध्यानयोगान्मुमुक्षोः

    मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः ।

यो वा एतेष्वेव तिष्ठत्यमुष्य

    मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥ ४६॥


अज्ञानयोगात्परमात्मनस्तव

    ह्यनात्मबन्धस्तत एव संसृतिः ।

तयोर्विवेकोदितबोधवह्निः

    अज्ञानकार्यं प्रदहेत्समूलम् ॥ ४७॥


          शिष्य उवाच ।

कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया ।

यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ ४८॥


को नाम बन्धः कथमेष आगतः

    कथं प्रतिष्ठास्य कथं विमोक्षः ।

कोऽसावनात्मा परमः क आत्मा

    तयोर्विवेकः कथमेतदुच्यताम् ॥ ४९॥


          श्रीगुरुवाच ।

धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । पावितं

यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥ ५०॥


ऋणमोचनकर्तारः पितुः सन्ति सुतादयः ।

बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ ५१॥


मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते ।

क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥ ५२॥


पथ्यमौषधसेवा च क्रियते येन रोगिणा ।

आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ॥ ५३॥


वस्तुस्वरूपं स्फुटबोधचक्षुषा

    स्वेनैव वेद्यं न तु पण्डितेन ।

चन्द्रस्वरूपं निजचक्षुषैव

    ज्ञातव्यमन्यैरवगम्यते किम् ॥ ५४॥


अविद्याकामकर्मादिपाशबन्धं विमोचितुम् ।

कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ॥ ५५॥


न योगेन न साङ्ख्येन कर्मणा नो न विद्यया ।

ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥ ५६॥


वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् ।

प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥ ५७॥


वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् ।

वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ ५८॥


अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।

विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ ५९॥


शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।

अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः ॥ ६०॥ तत्त्वज्ञात्तत्त्व

अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना ।

किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥ ६१॥


न गच्छति विना पानं व्याधिरौषधशब्दतः ।

विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥ ६२॥


अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः ।

ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥ ६३॥ बाह्यशब्दैः

अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् ।

राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥ ६४॥


आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं  var  परिशिलापाकर्षणं

निक्षेपः समपेक्षते न हि बहिःशब्दैस्तु निर्गच्छति ।

तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते

मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ ६५॥


तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये ।

स्वैरेव यत्नः कर्तव्यो रोगादाविव पण्डितैः ॥ ६६॥ रोगादेरिव

यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः । सम्मतः

सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ ६७॥


श‍ृणुष्वावहितो विद्वन्यन्मया समुदीर्यते ।

तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥ ६८॥


मोक्षस्य हेतुः प्रथमो निगद्यते

    वैराग्यमत्यन्तमनित्यवस्तुषु ।

ततः शमश्चापि दमस्तितिक्षा

    न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥ ६९॥


ततः श्रुतिस्तन्मननं सतत्त्व-

    ध्यानं चिरं नित्यनिरन्तरं मुनेः ।

ततोऽविकल्पं परमेत्य विद्वान्

    इहैव निर्वाणसुखं समृच्छति ॥ ७०॥


यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् ।

तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय ॥ ७१॥


मज्जास्थिमेदःपलरक्तचर्म-

    त्वगाह्वयैर्धातुभिरेभिरन्वितम् ।

पादोरुवक्षोभुजपृष्ठमस्तकैः

    अङ्गैरुपाङ्गैरुपयुक्तमेतत् ॥ ७२॥


अहम्ममेति प्रथितं शरीरं

    मोहास्पदं स्थूलमितीर्यते बुधैः ।

नभोनभस्वद्दहनाम्बुभूमयः

    सूक्ष्माणि भूतानि भवन्ति तानि ॥ ७३॥


परस्परांशैर्मिलितानि भूत्वा

    स्थूलानि च स्थूलशरीरहेतवः ।

मात्रास्तदीया विषया भवन्ति

    शब्दादयः पञ्च सुखाय भोक्तुः ॥ ७४॥


य एषु मूढा विषयेषु बद्धा

    रागोरुपाशेन सुदुर्दमेन ।

आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः

    स्वकर्मदूतेन जवेन नीताः ॥ ७५॥


शब्दादिभिः पञ्चभिरेव पञ्च

    पञ्चत्वमापुः स्वगुणेन बद्धाः ।

कुरङ्गमातङ्गपतङ्गमीन-

    भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥ ७६॥


दोषेण तीव्रो विषयः कृष्णसर्पविषादपि ।

विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥ ७७॥


विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् ।

स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ॥ ७८॥


आपातवैराग्यवतो मुमुक्षून्

    भवाब्धिपारं प्रतियातुमुद्यतान् ।

आशाग्रहो मज्जयतेऽन्तराले

    निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ ७९॥


विषयाख्यग्रहो येन सुविरक्त्यसिना हतः ।

स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ॥ ८०॥


विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः  var  विषयमार्गे गच्छतो

    प्रतिपदमभियातो मृत्युरप्येष विद्धि ।   var  प्रतिपदमभिघातो मृत्युरप्येष सिद्धः

हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या

    प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥ ८१॥


मोक्षस्य काङ्क्षा यदि वै तवास्ति

    त्यजातिदूराद्विषयान्विषं यथा ।

पीयूषवत्तोषदयाक्षमार्जव-

    प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ ८२॥


अनुक्षणं यत्परिहृत्य कृत्यं

    अनाद्यविद्याकृतबन्धमोक्षणम् ।

देहः परार्थोऽयममुष्य पोषणे

    यः सज्जते स स्वमनेन हन्ति ॥ ८३॥


शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति । दिदृक्षते

ग्राहं दारुधिया धृत्वा नदीं तर्तुं स गच्छति ॥ ८४॥ स इच्छति

मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु ।

मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ ८५॥


मोहं जहि महामृत्युं देहदारसुतादिषु ।

यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥ ८६॥


त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसङ्कुलम् ।

पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥ ८७॥


पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।

समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।

अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ ८८॥


बाह्येन्द्रियैः स्थूलपदार्थसेवां

    स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् ।

करोति जीवः स्वयमेतदात्मना

    तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे ॥ ८९॥


सर्वोऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः ।

विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥ ९०॥


स्थूलस्य सम्भवजरामरणानि धर्माः

    स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः ।

वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः

    पूजावमानबहुमानमुखा विशेषाः ॥ ९१॥


बुद्धीन्द्रियाणि श्रवणं त्वगक्षि

    घ्राणं च जिह्वा विषयावबोधनात् ।

वाक्पाणिपादा गुदमप्युपस्थः  var  उपस्थं

    कर्मेन्द्रियाणि प्रवणेन कर्मसु ॥ ९२॥ प्रवणानि

निगद्यतेऽन्तःकरणं मनोधीः

    अहङ्कृतिश्चित्तमिति स्ववृत्तिभिः ।

मनस्तु सङ्कल्पविकल्पनादिभिः

    बुद्धिः पदार्थाध्यवसायधर्मतः ॥ ९३॥


अत्राभिमानादहमित्यहङ्कृतिः ।

    स्वार्थानुसन्धानगुणेन चित्तम् ॥ ९४॥


प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः ।

स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् ॥ ९५॥ विकृतेर्भेदात्सुवर्णसलिलमिव

वागादि पञ्च श्रवणादि पञ्च

    प्राणादि पञ्चाभ्रमुखानि पञ्च ।

बुद्ध्याद्यविद्यापि च कामकर्मणी

    पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥ ९६॥


इदं शरीरं श‍ृणु सूक्ष्मसंज्ञितं

    लिङ्गं त्वपञ्चीकृतभूतसम्भवम् ।

सवासनं कर्मफलानुभावकं

    स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥ ९७॥


स्वप्नो भवत्यस्य विभक्त्यवस्था

    स्वमात्रशेषेण विभाति यत्र ।

स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्

    कालीननानाविधवासनाभिः ॥ ९८॥


कर्त्रादिभावं प्रतिपद्य राजते

    यत्र स्वयं भाति ह्ययं परात्मा । स्वयञ्ज्योतिरयं

धीमात्रकोपाधिरशेषसाक्षी

    न लिप्यते तत्कृतकर्मलेशैः । कर्मलेपैः

यस्मादसङ्गस्तत एव कर्मभिः

    न लिप्यते किञ्चिदुपाधिना कृतैः ॥ ९९॥


सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः ।

वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम् ॥ १००॥


अन्धत्वमन्दत्वपटुत्वधर्माः

    सौगुण्यवैगुण्यवशाद्धि चक्षुषः ।

बाधिर्यमूकत्वमुखास्तथैव

    श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥ १०१॥


उच्छ्वासनिःश्वासविजृम्भणक्षु-

    त्प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः । प्रस्पन्दनाद्य्

प्राणादिकर्माणि वदन्ति तज्ञाः  var  तज्ज्ञाः

    प्राणस्य धर्मावशनापिपासे ॥ १०२॥


अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।

अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ १०३॥


अहङ्कारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् ।

सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ॥ १०४॥ योगेनावस्थात्रितयम्श्नुते

विषयाणामानुकूल्ये सुखी दुःखी विपर्यये ।

सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥ १०५॥


आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः ।

स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ।

तत आत्मा सदानन्दो नास्य दुःखं कदाचन ॥ १०६॥


यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते ।

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥ १०७॥


अव्यक्तनाम्नी परमेशशक्तिः

    अनाद्यविद्या त्रिगुणात्मिका परा ।

कार्यानुमेया सुधियैव माया

    यया जगत्सर्वमिदं प्रसूयते ॥ १०८॥


सन्नाप्यसन्नाप्युभयात्मिका नो

    भिन्नाप्यभिन्नाप्युभयात्मिका नो ।

साङ्गाप्यनङ्गा ह्युभयात्मिका नो  var  अनङ्गाप्युभयात्मिका

    महाद्भुताऽनिर्वचनीयरूपा ॥ १०९॥


शुद्धाद्वयब्रह्मविबोधनाश्या

    सर्पभ्रमो रज्जुविवेकतो यथा ।

रजस्तमःसत्त्वमिति प्रसिद्धा

    गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ ११०॥


विक्षेपशक्ती रजसः क्रियात्मिका

    यतः प्रवृत्तिः प्रसृता पुराणी ।

रागादयोऽस्याः प्रभवन्ति नित्यं

    दुःखादयो ये मनसो विकाराः ॥ १११॥


कामः क्रोधो लोभदम्भाद्यसूया  var  लोभदम्भाभ्यसूया

    अहङ्कारेर्ष्यामत्सराद्यास्तु घोराः ।

धर्मा एते राजसाः पुम्प्रवृत्ति-

    र्यस्मादेषा तद्रजो बन्धहेतुः ॥ ११२॥ यस्मादेतत्तद्रजो

एषाऽऽवृतिर्नाम तमोगुणस्य

    शक्तिर्मया वस्त्ववभासतेऽन्यथा । शक्तिर्यया

सैषा निदानं पुरुषस्य संसृतेः

    विक्षेपशक्तेः प्रवणस्य हेतुः ॥ ११३॥ प्रसरस्य

प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग्-  var  सूक्ष्मार्थदृग्

व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् ।

भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्

हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥ ११४॥


अभावना वा विपरीतभावनाऽ-  var  विपरीतभावना

    सम्भावना विप्रतिपत्तिरस्याः ।

संसर्गयुक्तं न विमुञ्चति ध्रुवं

    विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ ११५॥


अज्ञानमालस्यजडत्वनिद्रा-

    प्रमादमूढत्वमुखास्तमोगुणाः ।

एतैः प्रयुक्तो न हि वेत्ति किञ्चित्

    निद्रालुवत्स्तम्भवदेव तिष्ठति ॥ ११६॥


सत्त्वं विशुद्धं जलवत्तथापि

    ताभ्यां मिलित्वा सरणाय कल्पते ।

यत्रात्मबिम्बः प्रतिबिम्बितः सन्

    प्रकाशयत्यर्क इवाखिलं जडम् ॥ ११७॥


मिश्रस्य सत्त्वस्य भवन्ति धर्माः

    त्वमानिताद्या नियमा यमाद्याः ।

श्रद्धा च भक्तिश्च मुमुक्षुता च

    दैवी च सम्पत्तिरसन्निवृत्तिः ॥ ११८॥


विशुद्धसत्त्वस्य गुणाः प्रसादः

    स्वात्मानुभूतिः परमा प्रशान्तिः ।

तृप्तिः प्रहर्षः परमात्मनिष्ठा

    यया सदानन्दरसं समृच्छति ॥ ११९॥


अव्यक्तमेतत्त्रिगुणैर्निरुक्तं

    तत्कारणं नाम शरीरमात्मनः ।

सुषुप्तिरेतस्य विभक्त्यवस्था

    प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ॥ १२०॥


सर्वप्रकारप्रमितिप्रशान्तिः

    बीजात्मनावस्थितिरेव बुद्धेः ।

सुषुप्तिरेतस्य किल प्रतीतिः  var  सुषुप्तिरत्रास्य

    किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः ॥ १२१॥


देहेन्द्रियप्राणमनोऽहमादयः

    सर्वे विकारा विषयाः सुखादयः ।

व्योमादिभूतान्यखिलं च विश्वं

    अव्यक्तपर्यन्तमिदं ह्यनात्मा ॥ १२२॥


माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् ।

असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥ १२३॥


अथ ते सम्प्रवक्ष्यामि स्वरूपं परमात्मनः ।

यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ॥ १२४॥


अस्ति कश्चित्स्वयं नित्यमहम्प्रत्ययलम्बनः ।

अवस्थात्रयसाक्षी सन्पञ्चकोशविलक्षणः ॥ १२५॥


यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु ।

बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥ १२६॥


यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन । किञ्चन

यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥ १२७॥


येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन ।

आभारूपमिदं सर्वं यं भान्तमनुभात्ययम् ॥ १२८॥


यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः ।

विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥ १२९॥


अहङ्कारादिदेहान्ता विषयाश्च सुखादयः ।

वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा ॥ १३०॥


एषोऽन्तरात्मा पुरुषः पुराणो

    निरन्तराखण्डसुखानुभूतिः ।

सदैकरूपः प्रतिबोधमात्रो

    येनेषिता वागसवश्चरन्ति ॥ १३१॥


अत्रैव सत्त्वात्मनि धीगुहायां

    अव्याकृताकाश उशत्प्रकाशः । उरुप्रकाशः

आकाश उच्चै रविवत्प्रकाशते

    स्वतेजसा विश्वमिदं प्रकाशयन् ॥ १३२॥


ज्ञाता मनोऽहङ्कृतिविक्रियाणां

    देहेन्द्रियप्राणकृतक्रियाणाम् ।

अयोऽग्निवत्ताननुवर्तमानो

    न चेष्टते नो विकरोति किञ्चन ॥ १३३॥


न जायते नो म्रियते न वर्धते

    न क्षीयते नो विकरोति नित्यः ।

विलीयमानेऽपि वपुष्यमुष्मि-

    न्न लीयते कुम्भ इवाम्बरं स्वयम् ॥ १३४॥


प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः

    सदसदिदमशेषं भासयन्निर्विशेषः ।

विलसति परमात्मा जाग्रदादिष्ववस्था-

    स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥ १३५॥


नियमितमनसामुं त्वं स्वमात्मानमात्म-

    न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।

जनिमरणतरङ्गापारसंसारसिन्धुं

    प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ १३६॥


अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः

    प्राप्तोऽज्ञानाज्जननमरणक्लेशसम्पातहेतुः ।

येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या

    पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ॥ १३७॥


अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा

विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा ।

ततोऽनर्थव्रातो निपतति समादातुरधिकः

ततो योऽसद्ग्राहः स हि भवति बन्धः श‍ृणु सखे ॥ १३८॥


अखण्डनित्याद्वयबोधशक्त्या

    स्फुरन्तमात्मानमनन्तवैभवम् ।

समावृणोत्यावृतिशक्तिरेषा

    तमोमयी राहुरिवार्कबिम्बम् ॥ १३९॥


तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्

    अनात्मानं मोहादहमिति शरीरं कलयति ।

ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः  var  बन्धकगुणैः

    परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥ १४०॥


महामोहग्राहग्रसनगलितात्मावगमनो

    धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया । नानावस्थाः

अपारे संसारे विषयविषपूरे जलनिधौ

    निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥ १४१॥


भानुप्रभासञ्जनिताभ्रपङ्क्तिः

    भानुं तिरोधाय विजृम्भते यथा ।

आत्मोदिताहङ्कृतिरात्मतत्त्वं

    तथा तिरोधाय विजृम्भते स्वयम् ॥ १४२॥


कवलितदिननाथे दुर्दिने सान्द्रमेघैः

    व्यथयति हिमझञ्झावायुरुग्रो यथैतान् ।

अविरततमसाऽऽत्मन्यावृते मूढबुद्धिं

    क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥ १४३॥


एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः ।

याभ्यां विमोहितो देहं मत्वाऽऽत्मानं भ्रमत्ययम् ॥ १४४॥


बीजं  संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो

रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः ।

अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं

नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥ १४५॥


अज्ञानमूलोऽयमनात्मबन्धो

    नैसर्गिकोऽनादिरनन्त ईरितः ।

जन्माप्ययव्याधिजरादिदुःख-

    प्रवाहपातं जनयत्यमुष्य ॥ १४६॥


नास्त्रैर्न शस्त्रैरनिलेन वह्निना

    छेत्तुं न शक्यो न च कर्मकोटिभिः ।

विवेकविज्ञानमहासिना विना

    धातुः प्रसादेन शितेन मञ्जुना ॥ १४७॥


श्रुतिप्रमाणैकमतेः स्वधर्म

    निष्ठा तयैवात्मविशुद्धिरस्य ।

विशुद्धबुद्धेः परमात्मवेदनं

    तेनैव संसारसमूलनाशः ॥ १४८॥


कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति ।

निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् ॥ १४९॥


तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् ।

तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ॥ १५०॥


पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः ।

नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥ १५१॥


आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा ।

तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥ १५२॥


मुञ्जादिषीकामिव दृश्यवर्गात्

    प्रत्यञ्चमात्मानमसङ्गमक्रियम् ।

विविच्य तत्र प्रविलाप्य सर्वं

    तदात्मना तिष्ठति यः स मुक्तः ॥ १५३॥


देहोऽयमन्नभवनोऽन्नमयस्तु कोश-  var  कोशो

    श्चान्नेन जीवति विनश्यति तद्विहीनः । ह्यन्नेन

त्वक्चर्ममांसरुधिरास्थिपुरीषराशि-

    र्नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ १५४॥


पूर्वं जनेरधिमृतेरपि नायमस्ति  var  जनेरपिमृतेरथ

    जातक्षणः क्षणगुणोऽनियतस्वभावः ।

नैको जडश्च घटवत्परिदृश्यमानः

स्वात्मा कथं भवति भावविकारवेत्ता ॥ १५५॥


पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् ।

तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ १५६॥


देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः ।

सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः ॥ १५७॥


शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः ।

कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ १५८॥


त्वङ्मांसमेदोऽस्थिपुरीषराशा-

    वहम्मतिं मूढजनः करोति ।

विलक्षणं वेत्ति विचारशीलो

    निजस्वरूपं परमार्थभूतम् ॥ १५९॥


देहोऽहमित्येव जडस्य बुद्धिः

    देहे च जीवे विदुषस्त्वहन्धीः ।

विवेकविज्ञानवतो महात्मनो

    ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६०॥


अत्रात्मबुद्धिं त्यज मूढबुद्धे

    त्वङ्मांसमेदोऽस्थिपुरीषराशौ ।

सर्वात्मनि ब्रह्मणि निर्विकल्पे

    कुरुष्व शान्तिं परमां भजस्व ॥ १६१॥


देहेन्द्रियादावसति भ्रमोदितां

    विद्वानहन्तां न जहाति यावत् ।

तावन्न तस्यास्ति विमुक्तिवार्ता-

    प्यस्त्वेष वेदान्तनयान्तदर्शी ॥ १६२॥


छायाशरीरे प्रतिबिम्बगात्रे

    यत्स्वप्नदेहे हृदि कल्पिताङ्गे ।

यथात्मबुद्धिस्तव नास्ति काचि-

    ज्जीवच्छरीरे च तथैव माऽस्तु ॥ १६३॥


देहात्मधीरेव नृणामसद्धियां

    जन्मादिदुःखप्रभवस्य बीजम् ।

यतस्ततस्त्वं जहि तां प्रयत्नात्

    त्यक्ते तु चित्ते न पुनर्भवाशा ॥ १६४॥


कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं

    प्राणो भवेत्प्राणमयस्तु कोशः ॥


येनात्मवानन्नमयोऽनुपूर्णः

    प्रवर्ततेऽसौ सकलक्रियासु ॥ १६५॥


नैवात्मापि प्राणमयो वायुविकारो  var  नैवात्मायं

    गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः ।

यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं

    स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ॥ १६६॥


ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्

    कोशो ममाहमिति वस्तुविकल्पहेतुः ।

संज्ञादिभेदकलनाकलितो बलीयां-

    स्तत्पूर्वकोशमभिपूर्य विजृम्भते यः ॥ १६७॥ अनुपूर्य

पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः

    प्रचीयमानो विषयाज्यधारया ।

जाज्वल्यमानो बहुवासनेन्धनैः

    मनोमयाग्निर्दहति प्रपञ्चम् ॥ १६८॥ मनोमयोऽग्निर्दहति

न ह्यस्त्यविद्या मनसोऽतिरिक्ता

    मनो ह्यविद्या भवबन्धहेतुः ।

तस्मिन्विनष्टे सकलं विनष्टं

    विजृम्भितेऽस्मिन्सकलं विजृम्भते ॥ १६९॥


स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या

    भोक्त्रादिविश्वं मन एव सर्वम् ।

तथैव जाग्रत्यपि नो विशेषः

    तत्सर्वमेतन्मनसो विजृम्भणम् ॥ १७०॥


सुषुप्तिकाले मनसि प्रलीने

    नैवास्ति किञ्चित्सकलप्रसिद्धेः ।

अतो मनःकल्पित एव पुंसः

    संसार एतस्य न वस्तुतोऽस्ति ॥ १७१॥


वायुनाऽऽनीयते मेघः पुनस्तेनैव नीयते ।   var  वायुना नीयते मेघः पुनस्तेनैव लीयते

मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते ॥ १७२॥


देहादिसर्वविषये परिकल्प्य रागं

    बध्नाति तेन पुरुषं पशुवद्गुणेन ।

वैरस्यमत्र विषवत् सुविधाय पश्चाद्

    एनं विमोचयति तन्मन एव बन्धात् ॥ १७३॥


तस्मान्मनः कारणमस्य जन्तोः

    बन्धस्य मोक्षस्य च वा विधाने ।

बन्धस्य हेतुर्मलिनं रजोगुणैः

    मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ १७४॥


विवेकवैराग्यगुणातिरेका-

    च्छुद्धत्वमासाद्य मनो विमुक्त्यै ।

भवत्यतो बुद्धिमतो मुमुक्षो-

    स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥ १७५॥


मनो नाम महाव्याघ्रो विषयारण्यभूमिषु ।

चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥ १७६॥


मनः प्रसूते विषयानशेषान्

    स्थूलात्मना सूक्ष्मतया च भोक्तुः ।

शरीरवर्णाश्रमजातिभेदान्

    गुणक्रियाहेतुफलानि नित्यम् ॥ १७७॥


असङ्गचिद्रूपममुं विमोह्य

    देहेन्द्रियप्राणगुणैर्निबद्ध्य ।

अहम्ममेति भ्रमयत्यजस्रं

    मनः स्वकृत्येषु फलोपभुक्तिषु ॥ १७८॥


अध्यासदोषात्पुरुषस्य संसृतिः  var  अध्यासयोगात्

    अध्यासबन्धस्त्वमुनैव कल्पितः ।

रजस्तमोदोषवतोऽविवेकिनो

    जन्मादिदुःखस्य निदानमेतत् ॥ १७९॥


अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः ।

येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ॥ १८०॥


तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।

विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते ॥ १८१॥


मोक्षैकसक्त्या विषयेषु रागं

    निर्मूल्य सन्न्यस्य च सर्वकर्म ।

सच्छ्रद्धया यः श्रवणादिनिष्ठो

    रजःस्वभावं स धुनोति बुद्धेः ॥ १८२॥


मनोमयो नापि भवेत्परात्मा

    ह्याद्यन्तवत्त्वात्परिणामिभावात् ।

दुःखात्मकत्वाद्विषयत्वहेतोः

    द्रष्टा हि दृश्यात्मतया न दृष्टः ॥ १८३॥


बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः ।

विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥ १८४॥


अनुव्रजच्चित्प्रतिबिम्बशक्तिः

    विज्ञानसंज्ञः प्रकृतेर्विकारः ।

ज्ञानक्रियावानहमित्यजस्रं

    देहेन्द्रियादिष्वभिमन्यते भृशम् ॥ १८५॥


अनादिकालोऽयमहंस्वभावो

    जीवः समस्तव्यवहारवोढा ।

करोति कर्माण्यपि पूर्ववासनः  var  कर्माण्यनु

    पुण्यान्यपुण्यानि च तत्फलानि ॥ १८६॥


भुङ्क्ते विचित्रास्वपि योनिषु व्रज-

    न्नायाति निर्यात्यध ऊर्ध्वमेषः ।

अस्यैव विज्ञानमयस्य जाग्रत्-

    स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥ १८७॥


देहादिनिष्ठाश्रमधर्मकर्म-

    गुणाभिमानः सततं ममेति ।

विज्ञानकोशोऽयमतिप्रकाशः

    प्रकृष्टसान्निध्यवशात्परात्मनः ।

अतो भवत्येष उपाधिरस्य

    यदात्मधीः संसरति भ्रमेण ॥ १८८॥


योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः । स्फुरत्स्वयञ्ज्योतिः

कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ १८९॥


स्वयं परिच्छेदमुपेत्य बुद्धेः

    तादात्म्यदोषेण परं मृषात्मनः ।

सर्वात्मकः सन्नपि वीक्षते स्वयं

    स्वतः पृथक्त्वेन मृदो घटानिव ॥ १९०॥


उपाधिसम्बन्धवशात्परात्मा

    ह्युपाधिधर्माननुभाति तद्गुणः । ऽप्युपाधि

अयोविकारानविकारिवह्निवत्

    सदैकरूपोऽपि परः स्वभावात् ॥ १९१॥


          शिष्य उवाच ।

भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः ।

तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ॥ १९२॥


अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः ।

न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥ १९३॥


          श्रीगुरुरुवाच ।

सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु ।

प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥ १९४॥


भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः ।

न घटेतार्थसम्बन्धो नभसो नीलतादिवत् ॥ १९५॥


स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य

    प्रत्यग्बोधानन्दरूपस्य बुद्धेः ।

भ्रान्त्या प्राप्तो जीवभावो न सत्यो

    मोहापाये नास्त्यवस्तुस्वभावात् ॥ १९६॥


यावद्भ्रान्तिस्तावदेवास्य सत्ता

    मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् ।

रज्ज्वां सर्पो भ्रान्तिकालीन एव

    भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत् ॥ १९७॥ सर्पोऽस्ति

अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते ।

उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि ॥ १९८॥


प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।

अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ॥ १९९॥


अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ।

यद्बुद्ध्युपाधिसम्बन्धात्परिकल्पितमात्मनि ॥ २००॥


जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः । ततोऽन्यत्तु

सम्बन्धस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः ॥ २०१॥ सम्बन्धः स्वात्मनो

विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा ।

ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥ २०२॥


तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति ।

ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः ॥ २०३॥ प्रत्यगात्मासदात्मनोः

जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम् । पङ्कवदस्पष्टं

यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥ २०४॥


असन्निवृत्तौ तु सदात्मना स्फुटं

    प्रतीतिरेतस्य भवेत्प्रतीचः ।

ततो निरासः करणीय एव

    सदात्मनः साध्वहमादिवस्तुनः ॥ २०५॥ असदात्मनः

अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् ।

विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः ।

दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥ २०६॥


आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता

स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः ।

पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं

सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ २०७॥ भूत्वा नन्दति

आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा ।

स्वप्नजागरयोरीषदिष्टसन्दर्शनादिना ॥ २०८॥


नैवायमानन्दमयः परात्मा

    सोपाधिकत्वात्प्रकृतेर्विकारात् ।

कार्यत्वहेतोः सुकृतक्रियाया

    विकारसङ्घातसमाहितत्वात् ॥ २०९॥


पञ्चानामपि कोशानां निषेधे युक्तितः श्रुतेः । युक्तितः कृते

तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते ॥ २१०॥ तन्निषेधावधिः

योऽयमात्मा स्वयञ्ज्योतिः पञ्चकोशविलक्षणः ।

अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः ।

सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २११॥


          शिष्य उवाच ।

मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु ।

सर्वाभावं विना किञ्चिन्न पश्याम्यत्र हे गुरो ।

विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता ॥ २१२॥ स्वात्मनात्र विपश्चिता

          श्रीगुरुरुवाच ।

सत्यमुक्तं त्वया विद्वन्निपुणोऽसि विचारणे ।

अहमादिविकारास्ते तदभावोऽयमप्यनु ॥ २१३॥ ऽयमप्यथ

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते ।

तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ २१४॥


तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते ।

कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ॥ २१५॥ नोपपद्यते

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते ।

अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः ॥ २१६॥


जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते

प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा । स्फुरन्नेकधा

नानाकारविकारभागिन इमान् पश्यन्नहन्धीमुखान्  var  भाजिन

नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥ २१७॥


घटोदके बिम्बितमर्कबिम्ब-

    मालोक्य मूढो रविमेव मन्यते ।

तथा चिदाभासमुपाधिसंस्थं

    भ्रान्त्याहमित्येव जडोऽभिमन्यते ॥ २१८॥


घटं जलं तद्गतमर्कबिम्बं

    विहाय सर्वं विनिरीक्ष्यतेऽर्कः । दिवि वीक्ष्यतेऽर्कः

तटस्थ एतत्त्रितयावभासकः  var  तटस्थितः तत्त्रि

    स्वयम्प्रकाशो विदुषा यथा तथा ॥ २१९॥


देहं धियं चित्प्रतिबिम्बमेवं  var  चित्प्रतिबिम्बमेतं

    विसृज्य बुद्धौ निहितं गुहायाम् ।

द्रष्टारमात्मानमखण्डबोधं

    सर्वप्रकाशं सदसद्विलक्षणम् ॥ २२०॥


नित्यं विभुं सर्वगतं सुसूक्ष्मं

    अन्तर्बहिःशून्यमनन्यमात्मनः ।

विज्ञाय सम्यङ्निजरूपमेतत्

    पुमान् विपाप्मा विरजो विमृत्युः ॥ २२१॥


विशोक आनन्दघनो विपश्चित्

    स्वयं कुतश्चिन्न बिभेति कश्चित् ।

नान्योऽस्ति पन्था भवबन्धमुक्तेः

    विना स्वतत्त्वावगमं मुमुक्षोः ॥ २२२॥


ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् ।

येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः ॥ २२३॥ सम्पद्यते बुधः

ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।

विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः ॥ २२४॥


सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् ।

नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥ २२५॥


सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।

न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् ॥ २२६॥ परतत्त्वबोधसुदशायाम्

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।

तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ २२७॥


मृत्कार्यभूतोऽपि मृदो न भिन्नः

    कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।

न कुम्भरूपं पृथगस्ति कुम्भः

    कुतो मृषा कल्पितनाममात्रः ॥ २२८॥


केनापि मृद्भिन्नतया स्वरूपं

    घटस्य सन्दर्शयितुं न शक्यते ।

अतो घटः कल्पित एव मोहा-

    न्मृदेव सत्यं परमार्थभूतम् ॥ २२९॥


सद्ब्रह्मकार्यं सकलं सदेवं  var  सदैव

    तन्मात्रमेतन्न ततोऽन्यदस्ति । सन्मात्रमेतन्न

अस्तीति यो वक्ति न तस्य मोहो

    विनिर्गतो निद्रितवत्प्रजल्पः ॥ २३०॥


ब्रह्मैवेदं विश्वमित्येव वाणी

    श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा ।

तस्मादेतद्ब्रह्ममात्रं हि विश्वं

    नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ॥ २३१॥


सत्यं यदि स्याज्जगदेतदात्मनोऽ

    नन्तत्त्वहानिर्निगमाप्रमाणता ।

असत्यवादित्वमपीशितुः स्या-

    न्नैतत्त्रयं साधु हितं महात्मनाम् ॥ २३२॥


ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।

न च मत्स्थानि भूतानीत्येवमेव व्यचीक्लृपत् ॥ २३३॥ व्यचीकथत्

यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् ।

यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा ॥ २३४॥


अतः पृथङ्नास्ति जगत्परात्मनः

    पृथक्प्रतीतिस्तु मृषा गुणादिवत् । गुणाहिवत्

आरोपितस्यास्ति किमर्थवत्ताऽ-

    धिष्ठानमाभाति तथा भ्रमेण ॥ २३५॥


भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं

    ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।

इदन्तया ब्रह्म सदैव रूप्यते  var  सदेव

    त्वारोपितं ब्रह्मणि नाममात्रम् ॥ २३६॥


अतः परं ब्रह्म सदद्वितीयं

    विशुद्धविज्ञानघनं निरञ्जनम् ।

प्रशान्तमाद्यन्तविहीनमक्रियं

    निरन्तरानन्दरसस्वरूपम् ॥ २३७॥


निरस्तमायाकृतसर्वभेदं

    नित्यं सुखं निष्कलमप्रमेयम् । नित्यं ध्रुवं

अरूपमव्यक्तमनाख्यमव्ययं

    ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥ २३८॥


ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् ।

केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥ २३९॥


अहेयमनुपादेयं मनोवाचामगोचरम् ।

अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः ॥ २४०॥ पूर्णं महन्महः

तत्त्वम्पदाभ्यामभिधीयमानयोः

    ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । शोधितयोर्यदित्थम्

श्रुत्या तयोस्तत्त्वमसीति सम्यग्

    एकत्वमेव प्रतिपाद्यते मुहुः ॥ २४१-

एक्यं तयोर्लक्षितयोर्न वाच्ययोः

    निगद्यतेऽन्योन्यविरुद्धधर्मिणोः ।

खद्योतभान्वोरिव राजभृत्ययोः

    कूपाम्बुराश्योः परमाणुमेर्वोः ॥ २४२॥


तयोर्विरोधोऽयमुपाधिकल्पितो

    न वास्तवः कश्चिदुपाधिरेषः ।

ईशस्य माया महदादिकारणं

    जीवस्य कार्यं श‍ृणु पञ्चकोशम् ॥ २४३॥ पञ्चकोशाः

एतावुपाधी परजीवयोस्तयोः

    सम्यङ्निरासे न परो न जीवः ।

राज्यं नरेन्द्रस्य भटस्य खेटक्-

    स्तयोरपोहे न भटो न राजा ॥ २४४॥


अथात आदेश इति श्रुतिः स्वयं

    निषेधति ब्रह्मणि कल्पितं द्वयम् ।

श्रुतिप्रमाणानुगृहीतबोधा-  var  प्रमाणानुगृहीतयुक्त्या

    त्तयोर्निरासः करणीय एव ॥ २४५॥


नेदं नेदं कल्पितत्वान्न सत्यं

    रज्जुदृष्टव्यालवत्स्वप्नवच्च । रज्जौ

इत्थं दृश्यं साधुयुक्त्या व्यपोह्य

    ज्ञेयः पश्चादेकभावस्तयोर्यः ॥ २४६॥


ततस्तु तौ लक्षणया सुलक्ष्यौ

    तयोरखण्डैकरसत्वसिद्धये ।

नालं जहत्या न तथाऽजहत्या

    किन्तूभयार्थात्मिकयैव भाव्यम् ॥ २४७॥ भयार्थैकतयैव

स देवदत्तोऽयमितीह चैकता

    विरुद्धधर्मांशमपास्य कथ्यते ।

यथा तथा तत्त्वमसीतिवाक्ये

    विरुद्धधर्मानुभयत्र हित्वा ॥ २४८॥


संलक्ष्य चिन्मात्रतया सदात्मनोः

    अखण्डभावः परिचीयते बुधैः ।

एवं महावाक्यशतेन कथ्यते

    ब्रह्मात्मनोरैक्यमखण्डभावः ॥ २४९॥


अस्थूलमित्येतदसन्निरस्य

    सिद्धं स्वतो व्योमवदप्रतर्क्यम् ।

अतो मृषामात्रमिदं प्रतीतं

    जहीहि यत्स्वात्मतया गृहीतम् ।

ब्रह्माहमित्येव विशुद्धबुद्ध्या

    विद्धि स्वमात्मानमखण्डबोधम् ॥ २५०॥


मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं  var  मृन्मात्रमेवाभितः

तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् ।

यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं

तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ २५१॥


निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा

मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः ।

यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्

तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ २५२॥


यत्र भ्रान्त्या कल्पितं तद्विवेके  var  यद्विवेके

    तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।

स्वप्ने नष्टं स्वप्नविश्वं विचित्रं

    स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे ॥ २५३॥


जातिनीतिकुलगोत्रदूरगं

    नामरूपगुणदोषवर्जितम् ।

देशकालविषयातिवर्ति यद्

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५४॥


यत्परं सकलवागगोचरं

    गोचरं विमलबोधचक्षुषः ।

शुद्धचिद्घनमनादि वस्तु यद्

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५५॥


षड्भिरूर्मिभिरयोगि योगिहृद्-

    भावितं न करणैर्विभावितम् ।

बुद्ध्यवेद्यमनवद्यमस्ति यद्  var  भूति यद्

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५६॥


भ्रान्तिकल्पितजगत्कलाश्रयं

    स्वाश्रयं च सदसद्विलक्षणम् ।

निष्कलं निरुपमानवद्धि यद्  var  निरुपमानमृद्धिमत्

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५७॥


जन्मवृद्धिपरिणत्यपक्षय-

    व्याधिनाशनविहीनमव्ययम् ।

विश्वसृष्ट्यवविघातकारणं  var  वनघातकारणं

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५८॥


अस्तभेदमनपास्तलक्षणं

    निस्तरङ्गजलराशिनिश्चलम् ।

नित्यमुक्तमविभक्तमूर्ति यद्

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५९॥


एकमेव सदनेककारणं

    कारणान्तरनिरास्यकारणम् । सकारणम्

कार्यकारणविलक्षणं स्वयं

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६०॥


निर्विकल्पकमनल्पमक्षरं

    यत्क्षराक्षरविलक्षणं परम् ।

नित्यमव्ययसुखं निरञ्जनं

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६१॥


यद्विभाति सदनेकधा भ्रमा-

    न्नामरूपगुणविक्रियात्मना ।

हेमवत्स्वयमविक्रियं सदा

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६२॥


यच्चकास्त्यनपरं परात्परं

    प्रत्यगेकरसमात्मलक्षणम् ।

सत्यचित्सुखमनन्तमव्ययं

    ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६३॥


उक्तमर्थमिममात्मनि स्वयं

    भावयेत्प्रथितयुक्तिभिर्धिया । भावय प्रथित

संशयादिरहितं कराम्बुवत्

    तेन तत्त्वनिगमो भविष्यति ॥ २६४॥


सम्बोधमात्रं परिशुद्धतत्त्वं  var  स्वं बोधमात्रं

    विज्ञाय सङ्घे नृपवच्च सैन्ये ।

तदाश्रयः स्वात्मनि सर्वदा स्थितो  var  तदात्मनैवात्मनि

    विलापय ब्रह्मणि विश्वजातम् ॥ २६५॥ दृश्यजातम्

बुद्धौ गुहायां सदसद्विलक्षणं

    ब्रह्मास्ति सत्यं परमद्वितीयम् ।

तदात्मना योऽत्र वसेद्गुहायां

    पुनर्न तस्याङ्गगुहाप्रवेशः ॥ २६६॥


ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा

कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः ।

प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्ना-

न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ २६७॥


अहं ममेति यो भावो देहाक्षादावनात्मनि ।

अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ २६८॥


ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।

सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि ॥ २६९॥


लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।

शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ २७०॥


लोकवासनया जन्तोः शास्त्रवासनयापि च ।

देहवासनया ज्ञानं यथावन्नैव जायते ॥ २७१

संसारकारागृहमोक्षमिच्छो-

    रयोमयं पादनिबन्धश‍ृङ्खलम् । निबद्ध

वदन्ति तज्ज्ञाः पटु वासनात्रयं

    योऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥ २७२॥


जलादिसंसर्गवशात्प्रभूत-  var  जलादिसम्पर्कवशात्

    दुर्गन्धधूताऽगरुदिव्यवासना ।

सङ्घर्षणेनैव विभाति सम्य-

    ग्विधूयमाने सति बाह्यगन्धे ॥ २७३॥


अन्तःश्रितानन्तदुरन्तवासना-

    धूलीविलिप्ता परमात्मवासना ।

प्रज्ञातिसङ्घर्षणतो विशुद्धा

    प्रतीयते चन्दनगन्धवत् स्फुटम् ॥ २७४॥ स्फुटा

अनात्मवासनाजालैस्तिरोभूतात्मवासना ।

नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् ॥ २७५॥ स्फुटा

यथा यथा प्रत्यगवस्थितं मनः

    तथा तथा मुञ्चति बाह्यवासनाम् । बाह्यवासनाः

निःशेषमोक्षे सति वासनानां

    आत्मानुभूतिः प्रतिबन्धशून्या ॥ २७६॥


स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः । स्थित्या

वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ २७७॥


तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति ।

तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥ २७८॥


प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।

धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥ २७९॥


नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् ।

वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८०॥


श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।

क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८१॥


अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः । अन्नादानविसर्गा

तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ २८२॥


तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः ।

ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ २८३॥


अहम्भावस्य देहेऽस्मिन्निःशेषविलयावधि ।

सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ २८४॥


प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता ।

तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु ॥ २८५॥


निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः ।

क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि ॥ २८६॥


मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः ।

त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥ २८७॥


घटाकाशं महाकाश इवात्मानं परात्मनि ।

विलाप्याखण्डभावेन तूष्णी भव सदा मुने ॥ २८८॥ तूष्णीं

स्वप्रकाशमधिष्ठानं स्वयम्भूय सदात्मना ।

ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २८९॥


चिदात्मनि सदानन्दे देहारूढामहन्धियम् ।

निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ २९०॥


यत्रैष जगदाभासो दर्पणान्तः पुरं यथा ।

तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९१॥


यत्सत्यभूतं निजरूपमाद्यं

    चिदद्वयानन्दमरूपमक्रियम् ।

तदेत्य मिथ्यावपुरुत्सृजेत  var  सृजैत

    शैलूषवद्वेषमुपात्तमात्मनः ॥ २९२॥


सर्वात्मना दृश्यमिदं मृषैव

    नैवाहमर्थः क्षणिकत्वदर्शनात् ।

जानाम्यहं सर्वमिति प्रतीतिः

    कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ २९३॥


अहम्पदार्थस्त्वहमादिसाक्षी

    नित्यं सुषुप्तावपि भावदर्शनात् ।

ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं

    तत्प्रत्यगात्मा सदसद्विलक्षणः ॥ २९४॥


विकारिणां सर्वविकारवेत्ता

    नित्याविकारो भवितुं समर्हति । नित्योऽविकारो

मनोरथस्वप्नसुषुप्तिषु स्फुटं

    पुनः पुनर्दृष्टमसत्त्वमेतयोः ॥ २९५॥


अतोऽभिमानं त्यज मांसपिण्डे

    पिण्डाभिमानिन्यपि बुद्धिकल्पिते ।

कालत्रयाबाध्यमखण्डबोधं

    ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥ २९६॥


त्यजाभिमानं कुलगोत्रनाम-

    रूपाश्रमेष्वार्द्रशवाश्रितेषु ।

लिङ्गस्य धर्मानपि कर्तृतादीं-

    स्त्यक्त्वा भवाखण्डसुखस्वरूपः ॥ २९७॥


सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः ।

तेषामेवं मूलं प्रथमविकारो भवत्यहङ्कारः ॥ २९८॥ तेषामेषां

यावत्स्यात्स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना ।

तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ २९९॥


अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते ।

चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥ ३००॥


यो वा पुरे सोऽहमिति प्रतीतो  var  पुरैषोऽहमिति

    बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया । बुद्ध्याऽविविक्तस्तमसा

तस्यैव निःशेषतया विनाशे

    ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥ ३०१॥


ब्रह्मानन्दनिधिर्महाबलवताऽहङ्कारघोराहिना

संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः  var  चण्डै

विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं  var  द्युतिमता

निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुङ्क्षमः ॥ ३०२॥


यावद्वा यत्किञ्चिद्विषदोषस्फूर्तिरस्ति चेद्देहे ।

कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै ॥ ३०३॥


अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या ।

प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम् ॥ ३०४॥ विवेकादयम्

अहङ्कारे कर्तर्यहमिति मतिं मुञ्च सहसा  var  अहङ्कर्तर्यस्मिन्नहमिति

विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।

यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला

प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥ ३०५॥


सदैकरूपस्य चिदात्मनो विभो-

    रानन्दमूर्तेरनवद्यकीर्तेः ।

नैवान्यथा क्वाप्यविकारिणस्ते

    विनाहमध्यासममुष्य संसृतिः ॥ ३०६॥


तस्मादहङ्कारमिमं स्वशत्रुं

    भोक्तुर्गले कण्टकवत्प्रतीतम् ।

विच्छिद्य विज्ञानमहासिना स्फुटं

    भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ ३०७॥


ततोऽहमादेर्विनिवर्त्य वृत्तिं

    सन्त्यक्तरागः परमार्थलाभात् ।

तूष्णीं समास्स्वात्मसुखानुभूत्या

    पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ ३०८॥


समूलकृत्तोऽपि महानहं पुनः

    व्युल्लेखितः स्याद्यदि चेतसा क्षणम् ।

सञ्जीव्य विक्षेपशतं करोति

    नभस्वता प्रावृषि वारिदो यथा ॥ ३०९॥


निगृह्य शत्रोरहमोऽवकाशः

    क्वचिन्न देयो विषयानुचिन्तया ।

स एव सञ्जीवनहेतुरस्य

    प्रक्षीणजम्बीरतरोरिवाम्बु ॥ ३१०॥


देहात्मना संस्थित एव कामी

    विलक्षणः कामयिता कथं स्यात् ।

अतोऽर्थसन्धानपरत्वमेव

    भेदप्रसक्त्या भवबन्धहेतुः ॥ ३११॥


कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते ।

कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥ ३१२॥


वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना ।

वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥ ३१३॥


संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः ।

वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ॥ ३१४॥ वासना प्रेर्यते ह्यन्तः

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।

त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१५॥


सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः । मात्रावलोकनम्

सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते ॥ ३१६॥


क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः ।

वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ ३१७॥ स

सद्वासनास्फूर्तिविजृम्भणे सति

    ह्यसौ विलीनाप्यहमादिवासना । विलीना त्वहमादिवासना

अतिप्रकृष्टाप्यरुणप्रभायां

    विलीयते साधु यथा तमिस्रा ॥ ३१८॥


तमस्तमःकार्यमनर्थजालं

    न दृश्यते सत्युदिते दिनेशे ।

तथाऽद्वयानन्दरसानुभूतौ

    नैवास्ति बन्धो न च दुःखगन्धः ॥ ३१९॥


दृश्यं प्रतीतं प्रविलापयन्सन्  var  प्रविलापयन्स्वयं

    सन्मात्रमानन्दघनं विभावयन् ।

समाहितः सन्बहिरन्तरं वा

    कालं नयेथाः सति कर्मबन्धे ॥ ३२०॥


प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।

प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ॥ ३२१॥


न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः ।

ततो मोहस्ततोऽहन्धीस्ततो बन्धस्ततो व्यथा ॥ ३२२॥


विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः ।

विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ॥ ३२३॥


यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।

आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ ३२४॥


लक्ष्यच्युतं चेद्यदि चित्तमीषद्

    बहिर्मुखं सन्निपतेत्ततस्ततः ।

प्रमादतः प्रच्युतकेलिकन्दुकः

    सोपानपङ्क्तौ पतितो यथा तथा ॥ ३२५॥


विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् ।

सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥ ३२६॥


अतः प्रमादान्न परोऽस्ति मृत्युः

    विवेकिनो ब्रह्मविदः समाधौ ।

समाहितः सिद्धिमुपैति सम्यक्

    समाहितात्मा भव सावधानः ॥ ३२७॥


ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः ।

पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ॥ ३२८॥


सङ्कल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् ।

अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजे ।  extra verse number variation

जीवतो यस्य कैवल्यं विदेहे स च केवलः ।

यत्किञ्चित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥ ३२९॥


यदा कदा वापि विपश्चिदेष

    ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् ।

पश्यत्यथामुष्य भयं तदैव

    यद्वीक्षितं भिन्नतया प्रमादात् ॥ ३३०॥ यदीक्षितं

श्रुतिस्मृतिन्यायशतैर्निषिद्धे

    दृश्येऽत्र यः स्वात्ममतिं करोति ।

उपैति दुःखोपरि दुःखजातं

    निषिद्धकर्ता स मलिम्लुचो यथा ॥ ३३१॥


सत्याभिसन्धानरतो विमुक्तो

    महत्त्वमात्मीयमुपैति नित्यम् ।

मिथ्याभिसन्धानरतस्तु नश्येद्

    दृष्टं तदेतद्यदचौरचौरयोः ॥ ३३२॥ चोरचोरयोः

यतिरसदनुसन्धिं बन्धहेतुं विहाय

    स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत्

सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या

    हरति परमविद्याकार्यदुःखं प्रतीतम् ॥ ३३३॥


बाह्यानुसन्धिः परिवर्धयेत्फलं  var  बाह्याभिसन्धिः

    दुर्वासनामेव ततस्ततोऽधिकाम् ।

ज्ञात्वा विवेकैः परिहृत्य बाह्यं

    स्वात्मानुसन्धिं विदधीत नित्यम् ॥ ३३४॥


बाह्ये निरुद्धे मनसः प्रसन्नता

    मनःप्रसादे परमात्मदर्शनम् ।

तस्मिन्सुदृष्टे भवबन्धनाशो

    बहिर्निरोधः पदवी विमुक्तेः ॥ ३३५॥


कः पण्डितः सन्सदसद्विवेकी

    श्रुतिप्रमाणः परमार्थदर्शी ।

जानन्हि कुर्यादसतोऽवलम्बं

    स्वपातहेतोः शिशुवन्मुमुक्षुः ॥ ३३६॥


देहादिसंसक्तिमतो न मुक्तिः

    मुक्तस्य देहाद्यभिमत्यभावः ।

सुप्तस्य नो जागरणं न जाग्रतः

    स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥ ३३७॥


अन्तर्बहिः स्वं स्थिरजङ्गमेषु

    ज्ञात्वाऽऽत्मनाधारतया विलोक्य । ज्ञानात्मन्

त्यक्ताखिलोपाधिरखण्डरूपः

    पूर्णात्मना यः स्थित एष मुक्तः ॥ ३३८॥


सर्वात्मना बन्धविमुक्तिहेतुः

    सर्वात्मभावान्न परोऽस्ति कश्चित् ।

दृश्याग्रहे सत्युपपद्यतेऽसौ

    सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ ३३९॥


दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो

बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः ।

सन्न्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः

तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ ३४०॥


सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः । सार्वात्म्य

समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥ ३४१॥


आरूढशक्तेरहमो विनाशः

    कर्तुन्न शक्य सहसापि पण्डितैः । कर्तुं न

ये निर्विकल्पाख्यसमाधिनिश्चलाः

    तानन्तराऽनन्तभवा हि वासनाः ॥ ३४२॥


अहम्बुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् ।

विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ ३४३॥


विक्षेपशक्तिविजयो विषमो विधातुं

    निःशेषमावरणशक्तिनिवृत्त्यभावे ।

दृग्दृश्ययोः स्फुटपयोजलवद्विभागे

    नश्येत्तदावरणमात्मनि च स्वभावात् ।

निःसंशयेन भवति प्रतिबन्धशून्यो

    विक्षेपणं न हि तदा यदि चेन्मृषार्थे ॥ ३४४॥ निक्षेपणं

सम्यग्विवेकः स्फुटबोधजन्यो

    विभज्य दृग्दृश्यपदार्थतत्त्वम् ।

छिनत्ति मायाकृतमोहबन्धं

    यस्माद्विमुक्तस्तु पुनर्न संसृतिः ॥ ३४५॥ विमुक्तस्य

परावरैकत्वविवेकवह्निः

    दहत्यविद्यागहनं ह्यशेषम् ।

किं स्यात्पुनः संसरणस्य बीजं

    अद्वैतभावं समुपेयुषोऽस्य ॥ ३४६॥


आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः ।

मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः ॥ ३४७॥


एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् ।

तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ ३४८॥


अयोऽग्नियोगादिव सत्समन्वयान्

    मात्रादिरूपेण विजृम्भते धीः ।

तत्कार्यमेतद्द्वितयं यतो मृषा  var  तत्कार्यमेव त्रितयं

    दृष्टं भ्रमस्वप्नमनोरथेषु ॥ ३४९॥


ततो विकाराः प्रकृतेरहम्मुखा

    देहावसाना विषयाश्च सर्वे ।

क्षणेऽन्यथाभावितया ह्यमीषा-  var  भाविन एष आत्मा

    मसत्त्वमात्मा तु कदापि नान्यथा ॥ ३५०॥ मसत्त्वमात्मा तु कदापि

नित्याद्वयाखण्डचिदेकरूपो

    बुद्ध्यादिसाक्षी सदसद्विलक्षणः ।

अहम्पदप्रत्ययलक्षितार्थः

    प्रत्यक् सदानन्दघनः परात्मा ॥ ३५१॥


इत्थं विपश्चित्सदसद्विभज्य

    निश्चित्य तत्त्वं निजबोधदृष्ट्या ।

ज्ञात्वा स्वमात्मानमखण्डबोधं

    तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ ३५२॥


अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा ।

समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् ॥ ३५३॥


त्वमहमिदमितीयं कल्पना बुद्धिदोषात्

    प्रभवति परमात्मन्यद्वये निर्विशेषे ।

प्रविलसति समाधावस्य सर्वो विकल्पो

    विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ॥ ३५४॥


शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं

कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् ।

तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान्

ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥ ३५५॥


समाहिता ये प्रविलाप्य बाह्यं

    श्रोत्रादि चेतः स्वमहं चिदात्मनि ।

त एव मुक्ता भवपाशबन्धैः

    नान्ये तु पारोक्ष्यकथाभिधायिनः ॥ ३५६॥


उपाधिभेदात्स्वयमेव भिद्यते  var  योगात्स्वयमेव

    चोपाध्यपोहे स्वयमेव केवलः ।

तस्मादुपाधेर्विलयाय विद्वान्

    वसेत्सदाऽकल्पसमाधिनिष्ठया ॥ ३५७॥


सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।

कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥ ३५८॥


क्रियान्तरासक्तिमपास्य कीटको

    ध्यायन्नलित्वं ह्यलिभावमृच्छति । ध्यायन्यथालिं

तथैव योगी परमात्मतत्त्वं

    ध्यात्वा समायाति तदेकनिष्ठया ॥ ३५९॥


अतीव सूक्ष्मं परमात्मतत्त्वं

    न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।

समाधिनात्यन्तसुसूक्ष्मवृत्त्या

    ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ॥ ३६०॥


यथा सुवर्णं पुटपाकशोधितं

    त्यक्त्वा मलं स्वात्मगुणं समृच्छति ।

तथा मनः सत्त्वरजस्तमोमलं

    ध्यानेन सन्त्यज्य समेति तत्त्वम् ॥ ३६१॥


निरन्तराभ्यासवशात्तदित्थं

    पक्वं मनो ब्रह्मणि लीयते यदा ।

तदा समाधिः सविकल्पवर्जितः  var  स विकल्पवर्जितः

    स्वतोऽद्वयानन्दरसानुभावकः ॥ ३६२॥


समाधिनाऽनेन समस्तवासना-

    ग्रन्थेर्विनाशोऽखिलकर्मनाशः ।

अन्तर्बहिः सर्वत एव सर्वदा

    स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥ ३६३॥


श्रुतेः  शतगुणं विद्यान्मननं मननादपि ।

निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥ ३६४॥


निर्विकल्पकसमाधिना स्फुटं

    ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।

नान्यथा चलतया मनोगतेः

    प्रत्ययान्तरविमिश्रितं भवेत् ॥ ३६५॥


अतः समाधत्स्व यतेन्द्रियः सन्

    निरन्तरं शान्तमनाः प्रतीचि ।

विध्वंसय ध्वान्तमनाद्यविद्यया

    कृतं सदेकत्वविलोकनेन ॥ ३६६॥


योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः । प्रथमं द्वारं

निराशा च निरीहा च नित्यमेकान्तशीलता ॥ ३६७॥


एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः

संरोधे करणं शमेन विलयं यायादहंवासना ।

तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः

तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः ॥ ३६८॥ प्रयत्नान्मुनेः

वाचं नियच्छात्मनि तं नियच्छ

    बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि ।

तं चापि पूर्णात्मनि निर्विकल्पे

    विलाप्य शान्तिं परमां भजस्व ॥ ३६९॥


देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः ।

यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः ॥ ३७०॥


तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् ।

सन्दृश्यते सदानन्दरसानुभवविप्लवः ॥ ३७१॥


अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।

त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया ॥ ३७२॥


बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः । सङ्गः

विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥ ३७३॥


वैराग्यबोधौ पुरुषस्य पक्षिवत्

    पक्षौ विजानीहि विचक्षण त्वम् ।

विमुक्तिसौधाग्रलताधिरोहणं

    ताभ्यां विना नान्यतरेण सिध्यति ॥ ३७४॥


अत्यन्तवैराग्यवतः समाधिः

    समाहितस्यैव दृढप्रबोधः ।

प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः

    मुक्तात्मनो नित्यसुखानुभूतिः ॥ ३७५॥


वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः

तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् ।

एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं

सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥ ३७६॥


आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृति-  var  मृत्योः सृति

स्त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः ।

देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि

त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ॥ ३७७॥ द्रष्टास्यमलो

लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं

स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् ।

ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं

ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम् ॥ ३७८॥ किमन्यैर्भ्रमैः

अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् ।

चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥ ३७९॥


एष स्वयञ्ज्योतिरशेषसाक्षी

    विज्ञानकोशो विलसत्यजस्रम् । विज्ञानकोशे

लक्ष्यं विधायैनमसद्विलक्षण-

    मखण्डवृत्त्याऽऽत्मतयाऽनुभावय ॥ ३८०॥


एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया ।

उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ॥ ३८१॥


अत्रात्मत्वं दृढीकुर्वन्नहमादिषु सन्त्यजन् ।

उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् ॥ ३८२॥ तिष्ठेद्घटपटादिवत्

विशुद्धमन्तःकरणं स्वरूपे

    निवेश्य साक्षिण्यवबोधमात्रे ।

शनैः शनैर्निश्चलतामुपानयन्

    पूर्णं स्वमेवानुविलोकयेत्ततः ॥ ३८३॥ पूर्णत्वमेवानु

देहेन्द्रियप्राणमनोऽहमादिभिः

    स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः ।

विमुक्तमात्मानमखण्डरूपं

    पूर्णं महाकाशमिवावलोकयेत् ॥ ३८४॥


घटकलशकुसूलसूचिमुख्यैः

    गगनमुपाधिशतैर्विमुक्तमेकम् ।

भवति न विविधं तथैव शुद्धं

    परमहमादिविमुक्तमेकमेव ॥ ३८५॥


ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः । ब्रह्माद्याः स्तम्ब

ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ ३८६॥


यत्र भ्रान्त्या कल्पितं तद्विवेके  var  यद्विवेके

    तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।

भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं  var  भ्रान्तिदृष्टा

    रज्जुस्तद्वद्विश्वमात्मस्वरूपम् ॥ ३८७॥


स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।

स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥ ३८८॥


अन्तः स्वयं चापि बहिः स्वयं च

    स्वयं पुरस्तात् स्वयमेव पश्चात् ।

स्वयं ह्यावाच्यां स्वयमप्युदीच्यां  var  ह्यवाच्यां

    तथोपरिष्टात्स्वयमप्यधस्तात् ॥ ३८९॥


तरङ्गफेनभ्रमबुद्बुदादि

    सर्वं स्वरूपेण जलं यथा तथा ।

चिदेव देहाद्यहमन्तमेतत्

    सर्वं चिदेवैकरसं विशुद्धम् ॥ ३९०॥


सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः

सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः ।

पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं

वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥ ३९१॥


क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।

ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥ ३९२॥


आकाशवन्निर्मलनिर्विकल्पं  var  निर्विकल्प

    निःसीमनिःस्पन्दननिर्विकारम् ।

अन्तर्बहिःशून्यमनन्यमद्वयं

    स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥ ३९३॥


वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं

ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः । जगदापराणु सकलं

ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्यक्तबाह्याः स्फुटं

ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम् ॥ ३९४॥ आनन्दात्मनैव ध्रुवम्

जहि मलमयकोशेऽहन्धियोत्थापिताशां

    प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् ।

निगमगदितकीर्तिं नित्यमानन्दमूर्तिं

    स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ ३९५॥


शवाकारं यावद्भजति मनुजस्तावदशुचिः

परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः । व्याधिनिरयाः

यदात्मानं शुद्धं कलयति शिवाकारमचलम्

तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ ३९६॥


स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः ।

स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ ३९७॥


समाहितायां सति चित्तवृत्तौ

    परात्मनि ब्रह्मणि निर्विकल्पे ।

न दृश्यते कश्चिदयं विकल्पः

    प्रजल्पमात्रः परिशिष्यते यतः ॥ ३९८॥ ततः

असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि ।

निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ३९९॥


द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि । द्रष्टृदर्शन

निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४००॥


कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि ।

निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४०१॥


तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् । यत्र विलीनं

अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ ४०२॥


एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् । कथं भवेत्

सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥ ४०३॥


न ह्यस्ति विश्वं परतत्त्वबोधात्

    सदात्मनि ब्रह्मणि निर्विकल्पे ।

कालत्रये नाप्यहिरीक्षितो गुणे

    न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥ ४०४॥


मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।

इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ॥ ४०५॥


अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् ।

पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥ ४०६॥


चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।

अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ ४०७॥


किमपि सततबोधं केवलानन्दरूपं

    निरुपममतिवेलं नित्यमुक्तं निरीहम् ।

निरवधिगगनाभं निष्कलं निर्विकल्पं

    हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ ४०८॥


प्रकृतिविकृतिशून्यं भावनातीतभावं

    समरसमसमानं मानसम्बन्धदूरम् ।

निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं

    हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ ४०९॥


अजरममरमस्ताभाववस्तुस्वरूपं  var  भासवस्तु

    स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् ।

शमितगुणविकारं शाश्वतं शान्तमेकं

    हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ ४१०॥


समाहितान्तःकरणः स्वरूपे

    विलोकयात्मानमखण्डवैभवम् ।

विच्छिन्द्धि बन्धं भवगन्धगन्धितं  var  गन्धगन्धिलं

    यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ ४११-

सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ।

भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ ४१२॥


छायेव पुंसः परिदृश्यमान-

    माभासरूपेण फलानुभूत्या ।

शरीरमाराच्छववन्निरस्तं

    पुनर्न सन्धत्त इदं महात्मा ॥ ४१३॥


सततविमलबोधानन्दरूपं समेत्य  var  स्वमेत्य

    त्यज जडमलरूपोपाधिमेतं सुदूरे ।

अथ पुनरपि नैष स्मर्यतां वान्तवस्तु  var  पुनरपि नैव

    स्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१४॥


समूलमेतत्परिदाह्य वह्नौ  var  परिदह्य

    सदात्मनि ब्रह्मणि निर्विकल्पे ।

ततः स्वयं नित्यविशुद्धबोधा-

    नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ ४१५॥


प्रारब्धसूत्रग्रथितं शरीरं

    प्रयातु वा तिष्ठतु गोरिव स्रक् ।

न तत्पुनः पश्यति तत्त्ववेत्ता-

    ऽऽनन्दात्मनि ब्रह्मणि लीनवृत्तिः ॥ ४१६॥


अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः ।

किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥ ४१७॥


संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः ।

बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥ ४१८॥


वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् ।

स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥ ४१९॥


यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् ।

निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ॥ ४२०॥


दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् ।

यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् ।

पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥ ४२१॥


विद्याफलं स्यादसतो निवृत्तिः

    प्रवृत्तिरज्ञानफलं तदीक्षितम् ।

तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ

    नोचेद्विदां दृष्टफलं किमस्मात् ॥ ४२२॥ नोचेद्विदो

अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः ।

अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ॥ ४२३॥ विदुषः किं

वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।

अहम्भावोदयाभावो बोधस्य परमावधिः ।

लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥ ४२४॥ वृत्तेर

ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी-

रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् ।

स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी-

रास्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥ ४२५॥


स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ।

ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ ४२६॥


ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी ।

निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।

सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते ॥ ४२७॥


यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः ।

प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ ४२८॥


लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः ।

बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥ ४२९॥


शान्तसंसारकलनः कलावानपि निष्कलः ।

यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते ॥ ४३०॥ यः सचित्तोऽपि निश्चित्तः

वर्तमानेऽपि देहेऽस्मिञ्छायावदनुवर्तिनि ।

अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् ॥ ४३१॥


अतीताननुसन्धानं भविष्यदविचारणम् ।

औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् ॥ ४३२॥ प्राप्ते

गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे ।

सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३३॥


इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि ।

उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३४॥


ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः ।

अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३५॥


देहेन्द्रियादौ कर्तव्ये ममाहम्भाववर्जितः ।

औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः ॥ ४३६॥ स जीवन्मुक्त इष्यते

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् ।

भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः ॥ ४३७॥ स जीवन्मुक्त इष्यते

देहेन्द्रियेष्वहम्भाव इदम्भावस्तदन्यके ।

यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ ४३८॥


जीवेशोभयसंसाररूपदुर्वासनोज्झिता ।

सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥


न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः ।

प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः ॥ ४३९॥ स जीवन्मुक्त इष्यते

साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः ।

समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ॥ ४४०॥ स जीवन्मुक्त इष्यते

यत्र प्रविष्टा विषयाः परेरिता

    नदीप्रवाहा इव वारिराशौ ।

लिनन्ति सन्मात्रतया न विक्रियां

    उत्पादयन्त्येष यतिर्विमुक्तः ॥ ४४१॥


विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।

अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ ४४२॥


प्राचीनवासनावेगादसौ संसरतीति चेत् ।

न सदेकत्वविज्ञानान्मन्दी भवति वासना ॥ ४४३॥


अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि ।

तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ ४४४॥


निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते ।

ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ ४४५॥


सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते ।

फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ ४४६॥


अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् ।

सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥ ४४७॥


यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् ।

सुप्तोत्थितस्य किन्तत्स्यात्स्वर्गाय नरकाय वा ॥ ४४८॥


स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा ।

न श्लिष्यति च यत्किञ्चित्कदाचिद्भाविकर्मभिः ॥ ४४९॥ श्लिष्यते यतिः किञ्चित्

न नभो घटयोगेन सुरागन्धेन लिप्यते ।

तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥ ४५०॥


ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति ।

अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ ४५१॥


व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।

न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥ ४५२॥


प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः

सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनाम् ।

ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः

तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ ४५३॥


उपाधितादात्म्यविहीनकेवल-

    ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः ।

प्रारब्धसद्भावकथा न युक्ता

    स्वप्नार्थसम्बन्धकथेव जाग्रतः ॥ ४५४॥


न हि प्रबुद्धः प्रतिभासदेहे

    देहोपयोगिन्यपि च प्रपञ्चे ।

करोत्यहन्तां ममतामिदन्तां

    किन्तु स्वयं तिष्ठति जागरेण ॥ ४५५॥


न तस्य मिथ्यार्थसमर्थनेच्छा

    न सङ्ग्रहस्तज्जगतोऽपि दृष्टः ।

तत्रानुवृत्तिर्यदि चेन्मृषार्थे

    न निद्रया मुक्त इतीष्यते ध्रुवम् ॥ ४५६॥


तद्वत्परे ब्रह्मणि वर्तमानः

    सदात्मना तिष्ठति नान्यदीक्षते ।

स्मृतिर्यथा स्वप्नविलोकितार्थे

    तथा विदः प्राशनमोचनादौ ॥ ४५७॥


कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।

नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ ४५८॥


अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् । अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक्

तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ ४५९॥


प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः ।

देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ ४६०॥


शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि ।

अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः । सत्त्वमसत्त्वस्य

अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ ४६१॥


ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।

तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ॥ ४६२॥


समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ।

न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ।

यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥ ४६३॥  extra 


परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६४॥


सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६५॥


प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६६॥


अहेयमनुपादेयमनादेयमनाश्रयम् । मनाधेयमना

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६७॥


निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६८॥


अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६९॥


सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४७०॥


निरस्तरागा विनिरस्तभोगाः  var  निरपास्तभोगाः

    शान्ताः सुदान्ता यतयो महान्तः ।

विज्ञाय तत्त्वं परमेतदन्ते

    प्राप्ताः परां निर्वृतिमात्मयोगात् ॥ ४७१॥


भवानपीदं परतत्त्वमात्मनः

    स्वरूपमानन्दघनं विचार्य । निचाय्य

विधूय मोहं स्वमनःप्रकल्पितं

    मुक्तः कृतार्थो भवतु प्रबुद्धः ॥ ४७२॥


समाधिना साधुविनिश्चलात्मना  var  सुनिश्चलात्मना

    पश्यात्मतत्त्वं स्फुटबोधचक्षुषा ।

निःसंशयं सम्यगवेक्षितश्चे-

    च्छ्रुतः पदार्थो न पुनर्विकल्प्यते ॥ ४७३॥ पुनर्विकल्पते

स्वस्याविद्याबन्धसम्बन्धमोक्षा-

    त्सत्यज्ञानानन्दरूपात्मलब्धौ ।

शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं

    चान्तःसिद्धा स्वानुभूतिः प्रमाणम् ॥ ४७४॥


बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः ।

स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥ ४७५॥


तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा ।

प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥ ४७६॥


स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् ।

संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि ॥ ४७७॥ सुसुखं तिष्ठेन्

वेदान्तसिद्धान्तनिरुक्तिरेषा

    ब्रह्मैव जीवः सकलं जगच्च ।

अखण्डरूपस्थितिरेव मोक्षो

    ब्रह्माद्वितीये श्रुतयः प्रमाणम् ॥ ४७८॥ ब्रह्माद्वितीयं

इति गुरुवचनाच्छ्रुतिप्रमाणात्

    परमवगम्य सतत्त्वमात्मयुक्त्या ।

प्रशमितकरणः समाहितात्मा

    क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत् ॥ ४७९॥ आत्मनिष्ठितो

किञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् । कञ्चित्कालं

उत्थाय परमानन्दादिदं वचनमब्रवीत् ॥ ४८०॥ व्युत्थाय

बुद्धिर्विनष्टा गलिता प्रवृत्तिः

    ब्रह्मात्मनोरेकतयाऽधिगत्या ।

इदं न जानेऽप्यनिदं न जाने

    किं वा कियद्वा सुखमस्त्यपारम् ॥ ४८१॥ सुखमस्य पारम्

वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते

स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् ।

अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो

यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ॥ ४८२॥


क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् ।

अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ ४८३॥


किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् ।

अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे ॥ ४८४॥


न किञ्चिदत्र पश्यामि न श‍ृणोमि न वेद्म्यहम् ।

स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥ ४८५॥


नमो नमस्ते गुरवे महात्मने

    विमुक्तसङ्गाय सदुत्तमाय ।

नित्याद्वयानन्दरसस्वरूपिणे

    भूम्ने सदाऽपारदयाम्बुधाम्ने ॥ ४८६॥


यत्कटाक्षशशिसान्द्रचन्द्रिका-

    पातधूतभवतापजश्रमः ।

प्राप्तवानहमखण्डवैभवा-

    नन्दमात्मपदमक्षयं क्षणात् ॥ ४८७॥


धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् ।

नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ॥ ४८८॥


असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः ।

प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः ॥ ४८९॥ ऽहमतान्तोऽहं

अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।

शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ ४९०॥


द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् ।

नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ॥ ४९१॥


नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् ।

बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥ ४९२॥


निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् ।

नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥ ४९३॥


नारायणोऽहं नरकान्तकोऽहं

    पुरान्तकोऽहं पुरुषोऽहमीशः ।

अखण्डबोधोऽहमशेषसाक्षी

    निरीश्वरोऽहं निरहं च निर्ममः ॥ ४९४॥


सर्वेषु भूतेष्वहमेव संस्थितो

    ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् ।

भोक्ता च भोग्यं स्वयमेव सर्वं

    यद्यत्पृथग्दृष्टमिदन्तया पुरा ॥ ४९५॥


मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः ।

उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ ४९६॥


स्थुलादिभावा मयि कल्पिता भ्रमा-

    दारोपितानुस्फुरणेन लोकैः ।

काले यथा कल्पकवत्सराय-

    णर्त्वादयो निष्कलनिर्विकल्पे ॥ ४९७॥


आरोपितं नाश्रयदूषकं भवेत्

    कदापि मूढैरतिदोषदूषितैः । मूढैर्मति

नार्द्रीकरोत्यूषरभूमिभागं

    मरीचिकावारि महाप्रवाहः ॥ ४९८॥


आकाशवल्लेपविदूरगोऽहं  var  आकाशवत् कल्पवि

    आदित्यवद्भास्यविलक्षणोऽहम् ।

अहार्यवन्नित्यविनिश्चलोऽहं

    अम्भोधिवत्पारविवर्जितोऽहम् ॥ ४९९॥


न मे देहेन सम्बन्धो मेघेनेव विहायसः ।

अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः ॥ ५००॥


उपाधिरायाति स एव गच्छति

    स एव कर्माणि करोति भुङ्क्ते ।

स एव जीर्यन् म्रियते सदाहं  var  एव जीवन् 

    कुलाद्रिवन्निश्चल एव संस्थितः ॥ ५०१॥


न मे  प्रवृत्तिर्न च मे निवृत्तिः

    सदैकरूपस्य निरंशकस्य ।

एकात्मको यो निविडो निरन्तरो  var  निबिडो 

    व्योमेव पूर्णः स कथं नु चेष्टते ॥ ५०२॥


पुण्यानि पापानि निरिन्द्रियस्य

    निश्चेतसो निर्विकृतेर्निराकृतेः ।

कुतो ममाखण्डसुखानुभूतेः

    ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ॥ ५०३॥


छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा ।

न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥ ५०४॥


न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् ।

अविकारमुदासीनं गृहधर्माः प्रदीपवत् ।

देहेन्द्रियमनोधर्मा नैवात्मानं स्पृशन्त्यहो ॥ ५०५॥  extra 


रवेर्यथा कर्मणि साक्षिभावो

    वह्नेर्यथा दाहनियामकत्वम् । वाऽयसि दाहकत्वम्

रज्जोर्यथाऽऽरोपितवस्तुसङ्गः

    तथैव कूटस्थचिदात्मनो मे ॥ ५०६॥


कर्तापि वा कारयितापि नाहं

    भोक्तापि वा भोजयितापि नाहम् ।

द्रष्टापि वा दर्शयितापि नाहं

    सोऽहं स्वयञ्ज्योतिरनीदृगात्मा ॥ ५०७॥


चलत्युपाधौ प्रतिबिम्बलौल्य-

    मौपाधिकं मूढधियो नयन्ति ।

स्वबिम्बभूतं रविवद्विनिष्क्रियं

    कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥ ५०८॥


जले वापि स्थले वापि लुठत्वेष जडात्मकः ।

नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥ ५०९॥


कर्तृत्वभोक्तृत्वखलत्वमत्तता-

    जडत्वबद्धत्वविमुक्ततादयः ।

बुद्धेर्विकल्पा न तु सन्ति वस्तुतः

    स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥ ५१०॥


सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।

किं मेऽसङ्गचितस्तैर्न घनः क्वचिदम्बरं स्पृशति ॥ ५११॥ तैः किं मेऽसङ्गचितेर्न ह्यम्बुदडम्बरोऽम्बरं

अव्यक्तादिस्थूलपर्यन्तमेतत्

    विश्वं यत्राभासमात्रं प्रतीतम् ।

व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं

    ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१२॥


सर्वाधारं सर्ववस्तुप्रकाशं

    सर्वाकारं सर्वगं सर्वशून्यम् ।

नित्यं शुद्धं निश्चलं निर्विकल्पं  var  निष्कलं 

    ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१३॥


यत्प्रत्यस्ताशेषमायाविशेषं

    प्रत्यग्रूपं प्रत्ययागम्यमानम् ।

सत्यज्ञानानन्तमानन्दरूपं

    ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१४॥


निष्क्रियोऽस्म्यविकारोऽस्मि

    निष्कलोऽस्मि निराकृतिः ।

निर्विकल्पोऽस्मि नित्योऽस्मि

    निरालम्बोऽस्मि निर्द्वयः ॥ ५१५॥


सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः ।

केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरः ॥ ५१६॥


स्वाराज्यसाम्राज्यविभूतिरेषा

    भवत्कृपाश्रीमहिमप्रसादात् ।

प्राप्ता मया श्रीगुरवे महात्मने

    नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ ५१७॥


महास्वप्ने मायाकृतजनिजरामृत्युगहने

भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् । रनुकलम्

अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया

प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥ ५१८॥


नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः । सदेकस्मै नमश्चिन्महसे मुहुः

यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ ५१९॥


इति नतमवलोक्य शिष्यवर्यं

    समधिगतात्मसुखं प्रबुद्धतत्त्वम् ।

प्रमुदितहृदयं स देशिकेन्द्रः  var  हृदयः

    पुनरिदमाह वचः परं महात्मा ॥ ५२०॥


ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः  var  सत्सर्वतः

पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि ।

रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते  var  विद्यते

तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ॥ ५२१॥


कस्तां परानन्दरसानुभूति-

    मृत्सृज्य शून्येषु रमेत विद्वान् । मुत्सृज्य

चन्द्रे महाह्लादिनि दीप्यमाने

    चित्रेन्दुमालोकयितुं क इच्छेत् ॥ ५२२॥


असत्पदार्थानुभवेन किञ्चिन्

    न ह्यस्ति तृप्तिर्न च दुःखहानिः ।

तदद्वयानन्दरसानुभूत्या

    तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ ५२३॥


स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् । सर्वतः

स्वानन्दमनुभुञ्जानः कालं नय महामते ॥ ५२४॥


अखण्डबोधात्मनि निर्विकल्पे

    विकल्पनं व्योम्नि पुरप्रकल्पनम् ।

तदद्वयानन्दमयात्मना सदा

    शान्तिं परामेत्य भजस्व मौनम् ॥ ५२५॥


तूष्णीमवस्था परमोपशान्तिः

    बुद्धेरसत्कल्पविकल्पहेतोः ।

ब्रह्मात्मनो ब्रह्मविदो महात्मनो

    यत्राद्वयानन्दसुखं निरन्तरम् ॥ ५२६॥


नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् ।

विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ॥ ५२७॥


गच्छंस्तिष्ठन्नुपविशञ्छयानो वाऽन्यथापि वा ।

यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥ ५२८॥


न देशकालासनदिग्यमादि-

    लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः । प्रतिबद्ध

संसिद्धतत्त्वस्य महात्मनोऽस्ति

    स्ववेदने का नियमाद्यवस्था ॥ ५२९॥


घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते । अपेक्ष्यते

विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ॥ ५३०॥


अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ।

न देशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥ ५३१॥


देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ।

तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ ५३२॥


भानुनेव जगत्सर्वं भासते यस्य तेजसा ।

अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥ ५३३॥


वेदशास्त्रपुराणानि भूतानि सकलान्यपि ।

येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत् ॥ ५३४॥


एष स्वयञ्ज्योतिरनन्तशक्तिः

    आत्माऽप्रमेयः सकलानुभूतिः ।

यमेव विज्ञाय विमुक्तबन्धो

    जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ ५३५॥


न खिद्यते नो विषयैः प्रमोदते

    न सज्जते नापि विरज्यते च ।

स्वस्मिन्सदा क्रीडति नन्दति स्वयं

    निरन्तरानन्दरसेन तृप्तः ॥ ५३६॥


क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः । वस्तुनि

तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ ५३७॥


चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु

स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने ।

वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही

सञ्चारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ ५३८॥


विमानमालम्ब्य शरीरमेतद्

    भुनक्त्यशेषान्विषयानुपस्थितान् ।

परेच्छया बालवदात्मवेत्ता

    योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः ॥ ५३९॥


दिगम्बरो वापि च साम्बरो वा

    त्वगम्बरो वापि चिदम्बरस्थः ।

उन्मत्तवद्वापि च बालवद्वा

    पिशाचवद्वापि चरत्यवन्याम् ॥ ५४०॥


कामान्निष्कामरूपी संश्चरत्येकचरो मुनिः । कामान्नी कामरूपी

स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥ ५४१॥


क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः

क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः ।

क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः

चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥ ५४२॥


निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ।

नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः ॥ ५४३॥


अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि ।

शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ॥ ५४४॥


अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् ।

प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥ ५४५॥


स्थूलादिसम्बन्धवतोऽभिमानिनः

    सुखं च दुःखं च शुभाशुभे च ।

विध्वस्तबन्धस्य सदात्मनो मुनेः

    कुतः शुभं वाऽप्यशुभं फलं वा ॥ ५४६॥


तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ।

ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम् ॥ ५४७॥ भ्रान्त्या

तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ।

पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ॥ ५४८॥


अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति । अहिनि

इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना ॥ ५४९॥


स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् ।

दैवेन नीयते देहो यथाकालोपभुक्तिषु ॥ ५५०॥


प्रारब्धकर्मपरिकल्पितवासनाभिः

    संसारिवच्चरति भुक्तिषु मुक्तदेहः ।

सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं

    चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥ ५५१॥


नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष

    नैवापयुङ्क्त उपदर्शनलक्षणस्थः ।

नैव क्रियाफलमपीषदवेक्षते स  var  अपीषदपेक्षते सः

    स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥ ५५२॥


लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ।

शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ५५३॥


जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।

उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् ॥ ५५४॥


शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ।

तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥ ५५५॥


यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् । विशीर्णं पर्णमिव

ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् ॥ ५५६॥


सदात्मनि ब्रह्मणि तिष्ठतो मुनेः

    पूर्णाऽद्वयानन्दमयात्मना सदा ।

न देशकालाद्युचितप्रतीक्षा

    त्वङ्मांसविट्पिण्डविसर्जनाय ॥ ५५७॥


देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः ।

अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥ ५५८॥


कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे ।

पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ ५५९॥


पत्रस्य पुष्पस्य फलस्य नाशवद्-

    देहेन्द्रियप्राणधियां विनाशः ।

नैवात्मनः स्वस्य सदात्मकस्या-

    नन्दाकृतेर्वृक्षवदस्ति चैषः ॥ ५६०॥ वदास्त एषः

प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् ।

अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ॥ ५६१॥


अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः ।

प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ ५६२॥


पाषाणवृक्षतृणधान्यकडङ्कराद्या  var  कटाम्बराद्या

    दग्धा भवन्ति हि मृदेव यथा तथैव ।

देहेन्द्रियासुमन आदि समस्तदृश्यं

    ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ ५६३॥


विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि ।

तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ ५६४॥


घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् ।

तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ॥ ५६५॥


क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ।

संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः ॥ ५६६॥


एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ।

ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥ ५६७॥


सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः ।

अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः ॥ ५६८॥


मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ।

यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ ५६९॥


आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ।

नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् ।

यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः ॥ ५७०॥


बन्धञ्च मोक्षञ्च मृषैव मूढा

    बुद्धेर्गुणं वस्तुनि कल्पयन्ति ।

दृगावृतिं मेघकृतां यथा रवौ

    यतोऽद्वयाऽसङ्गचिदेतदक्षरम् ॥ ५७१॥ 

चिदेकमक्षरम्

अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ।

बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥ ५७२॥


अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि ।

निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने ।

अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥ ५७३॥


न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ५७४॥


सकलनिगमचूडास्वान्तसिद्धान्तरूपं

    परमिदमतिगुह्यं दर्शितं ते मयाद्य ।

अपगतकलिदोषं कामनिर्मुक्तबुद्धिं  var  बुद्धिः

    स्वसुतवदसकृत्त्वां भावयित्वा मुमुक्षुम् ॥ ५७५॥


इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः ।

स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ ५७६॥


गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः । गुरुरेष

पावयन्वसुधां सर्वां विचचार निरन्तरः ॥ ५७७॥


इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।

निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ ५७८॥


हितमिदमुपदेशमाद्रियन्तां

    विहितनिरस्तसमस्तचित्तदोषाः ।

भवसुखविरताः प्रशान्तचित्ताः  var  सुखविमुखाः

    श्रुतिरसिका यतयो मुमुक्षवो ये ॥ ५७९॥


संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-

खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।

अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय-

त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी ॥ ५८०॥


    ॥ इति शङ्कराचार्यविरचितं विवेकचूडामणिः ॥



              ॥ ॐ तत्सत् ॥




एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने