श्री देव्युवाच ।
श्रुतं देव मया सर्वं रुद्रयामलसम्भवम्
।
त्रिकभेदम् अशेषेण सारात् सारविभागशः ॥
१ ॥
अद्यापि न निवृत्तो मे संशयः परमेश्वर
।
किं रूपं तत्त्वतो देव शब्दराशिकलामयम्
॥ २ ॥
किं वा नवात्मभेदेन भैरवे भैरवाकृतौ ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम्
॥ ३ ॥
नादबिन्दुमयं वापि किं
चन्द्रार्धनिरोधिकाः ।
चक्रारूढम् अनच्कं वा किं वा
शक्तिस्वरूपकम् ॥ ४ ॥
परापरायाः सकलम् अपरायाश् च वा पुनः ।
पराया यदि तद्वत् स्यात् परत्वं तद्
विरुध्यते ॥ ५ ॥
न हि वर्णविभेदेन देहभेदेन वा भवेत् ।
परत्वं निष्कलत्वेन सकलत्वे न तद्
भवेत् ॥ ६ ॥
प्रसादं कुरु मे नाथ निःशेषं छिन्द्धि
संशयम् ।
भैरव उवाच ।
साधु साधु त्वया पृष्टं तन्त्रसारम्
इदम् प्रिये ॥ ७ ॥
गूहनीयतमम् भद्रे तथापि कथयामि ते ।
यत्किंचित् सकलं रूपं भैरवस्य
प्रकीर्तितम् ॥ ८ ॥
तद् असारतया देवि विज्ञेयं शक्रजालवत्
।
मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् ॥
९ ॥
ध्यानार्थम् भ्रान्तबुद्धीनां
क्रियाडम्बरवर्तिनाम् ।
केवलं वर्णितम् पुंसां
विकल्पनिहतात्मनाम् ॥ १० ॥
तत्त्वतो न नवात्मासौ शब्दराशिर् न
भैरवः ।
न चासौ त्रिशिरा देवो न च
शक्तित्रयात्मकः ॥ ११ ॥
नादबिन्दुमयो वापि न
चन्द्रार्धनिरोधिकाः ।
न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः
॥ १२ ॥
अप्रबुद्धमतीनां हि एता बलविभीषिकाः ।
मातृमोदकवत् सर्वं प्रवृत्त्यर्थं
उदाहृतम् ॥ १३ ॥
दिक्कालकलनोन्मुक्ता
देशोद्देशाविशेषिनी ।
व्यपदेष्टुम् अशक्यासाव् अकथ्या
परमार्थतः ॥ १४ ॥
अन्तःस्वानुभवानन्दा
विकल्पोन्मुक्तगोचरा ।
यावस्था भरिताकारा भैरवी भैरवात्मनः ॥
१५ ॥
तद् वपुस् तत्त्वतो ज्ञेयं विमलं
विश्वपूरणम् ।
एवंविधे परे तत्त्वे कः पूज्यः कश् च
तृप्यति ॥ १६ ॥
एवंविधा भैरवस्य यावस्था परिगीयते ।
सा परा पररूपेण परा देवी प्रकीर्तिता ॥
१७ ॥
शक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा
स्थितः ।
अतस् तद्धर्मधर्मित्वात् परा शक्तिः
परात्मनः ॥ १८ ॥
न वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता
विभाव्यते ।
केवलं ज्ञानसत्तायाम् प्रारम्भोऽयम्
प्रवेशने ॥ १९ ॥
शक्त्यवस्थाप्रविष्टस्य निर्विभागेन
भावना ।
तदासौ शिवरूपी स्यात् शैवी मुखम्
इहोच्यते ॥ २० ॥
यथालोकेन दीपस्य किरणैर् भास्करस्य च ।
ज्ञायते दिग्विभागादि तद्वच् छक्त्या
शिवः प्रिये ॥ २१ ॥
श्री देव्युवाच ।
देवदेव त्रिशूलाङ्क कपालकृतभूषण ।
दिग्देशकालशून्या च व्यपदेशविवर्जिता ॥
२२ ॥
यावस्था भरिताकारा भैरवस्योपलभ्यते ।
कैर् उपायैर् मुखं तस्य परा देवि कथम्
भवेत् ।
यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि
भैरव ॥ २३ ॥
भैरव उवाच ।
ऊर्ध्वे प्राणो ह्य् अधो जीवो
विसर्गात्मा परोच्चरेत् ।
उत्पत्तिद्वितयस्थाने भरणाद् भरिता
स्थितिः ॥ २४ ॥
मरुतोऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात्
।
भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते
वपुः ॥ २५ ॥
न व्रजेन् न विशेच् छक्तिर् मरुद्रूपा
विकासिते ।
निर्विकल्पतया मध्ये तया भैरवरूपता ॥
२६ ॥
कुम्भिता रेचिता वापि पूरिता वा यदा
भवेत् ।
तदन्ते शान्तनामासौ शक्त्या शान्तः
प्रकाशते ॥ २७ ॥
आमूलात् किरणाभासां सूक्ष्मात्
सूक्ष्मतरात्मिकम् ।
चिन्तयेत् तां द्विषट्कान्ते
श्याम्यन्तीम् भैरवोदयः ॥ २८ ॥
उद्गच्छन्तीं तडित्रूपाम् प्रतिचक्रं
क्रमात् क्रमम् ।
ऊर्ध्वं मुष्टित्रयं यावत् तावद् अन्ते
महोदयः ॥ २९ ॥
क्रमद्वादशकं सम्यग्
द्वादशाक्षरभेदितम् ।
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा
मुक्त्वान्ततः शिवः ॥ ३० ॥
तयापूर्याशु मूर्धान्तं भङ्क्त्वा
भ्रूक्षेपसेतुना ।
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे
सर्वगोद्गमः ॥ ३१ ॥
शिखिपक्षैश् चित्ररूपैर् मण्डलैः
शून्यपञ्चकम् ।
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये
भवेत् ॥ ३२ ॥
ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना
।
शून्ये कुड्ये परे पात्रे स्वयं लीना
वरप्रदा ॥ ३३ ॥
कपालान्तर् मनो न्यस्य तिष्ठन्
मीलितलोचनः ।
क्रमेण मनसो दार्ढ्यात् लक्षयेत्
लष्यम् उत्तमम् ॥ ३४ ॥
मध्यनाडी मध्यसंस्था बिससूत्राभरूपया ।
ध्यातान्तर्व्योमया देव्या तया देवः
प्रकाशते ॥ ३५ ॥
कररुद्धदृगस्त्रेण भ्रूभेदाद्
द्वाररोधनात् ।
दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये
परमा स्थितिः ॥ ३६ ॥
धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम्
।
बिन्दुं शिखान्ते हृदये लयान्ते
ध्यायतो लयः ॥ ३७ ॥
अनाहते पात्रकर्णेऽभग्नशब्दे
सरिद्द्रुते ।
शब्दब्रह्मणि निष्णातः परम्
ब्रह्माधिगच्छति ॥ ३८ ॥
प्रणवादिसमुच्चारात् प्लुतान्ते
शून्यभावानात् ।
शून्यया परया शक्त्या शून्यताम् एति
भैरवि ॥ ३९ ॥
यस्य कस्यापि वर्णस्य पूर्वान्ताव्
अनुभावयेत् ।
शून्यया शून्यभूतोऽसौ शून्याकारः
पुमान् भवेत् ॥ ४० ॥
तन्त्र्यादिवाद्यशब्देषु दीर्घेषु
क्रमसंस्थितेः ।
अनन्यचेताः प्रत्यन्ते परव्योमवपुर्
भवेत् ॥ ४१ ॥
पिण्डमन्त्रस्य सर्वस्य
स्थूलवर्णक्रमेण तु ।
अर्धेन्दुबिन्दुनादान्तः
शून्योच्चाराद् भवेच् छिवः ॥ ४२ ॥
निजदेहे सर्वदिक्कं युगपद् भावयेद्
वियत् ।
निर्विकल्पमनास् तस्य वियत् सर्वम्
प्रवर्तते ॥ ४३ ॥
पृष्टशून्यं मूलशून्यं युगपद् भावयेच्
च यः ।
शरीरनिरपेक्षिण्या शक्त्या शून्यमना
भवेत् ॥ ४४ ॥
पृष्टशून्यं मूलशून्यं हृच्छून्यम्
भावयेत् स्थिरम् ।
युगपन् निर्विकल्पत्वान्
निर्विकल्पोदयस् ततः ॥ ४५ ॥
तनूदेशे शून्यतैव क्षणमात्रं विभावयेत्
।
निर्विकल्पं निर्विकल्पो
निर्विकल्पस्वरूपभाक् ॥ ४६ ॥
सर्वं देहगतं द्रव्यं वियद्व्याप्तं
मृगेक्षणे ।
विभावयेत् ततस् तस्य भावना सा स्थिरा
भवेत् ॥ ४७ ॥
देहान्तरे त्वग्विभागम् भित्तिभूतं
विचिन्तयेत् ।
न किंचिद् अन्तरे तस्य ध्यायन्न्
अध्येयभाग् भवेत् ॥ ४८ ॥
हृद्याकाशे निलीनाक्षः
पद्मसम्पुटमध्यगः ।
अनन्यचेताः सुभगे परं सौभाग्यम्
आप्नुयात् ॥ ४९ ॥
सर्वतः स्वशरीरस्य द्वादशान्ते
मनोलयात् ।
दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम्
प्रवर्तते ॥ ५० ॥
यथा तथा यत्र तत्र द्वादशान्ते मनः
क्षिपेत् ॥
प्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं
दिनैर् भवेत् ॥ ५१ ॥
कालाग्निना कालपदाद् उत्थितेन स्वकम्
पुरम् ।
प्लुष्टम् विचिन्तयेद् अन्ते
शान्ताभासस् तदा भवेत् ॥ ५२ ॥
एवम् एव जगत् सर्वं दग्धं ध्यात्वा
विकल्पतः ।
अनन्यचेतसः पुंसः पुम्भावः परमो भवेत्
॥ ५३ ॥
स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि
च ।
तत्त्वानि यानि निलयं ध्यात्वान्ते
व्यज्यते परा ॥ ५४ ॥
पिनां च दुर्बलां शक्तिं ध्यात्वा
द्वादशगोचरे ।
प्रविश्य हृदये ध्यायन् मुक्तः
स्वातन्त्र्यम् आप्नुयात् ॥ ५५ ॥
भुवनाध्वादिरूपेण चिन्तयेत् क्रमशोऽखिलम्
।
स्थूलसूक्ष्मपरस्थित्या यावद् अन्ते
मनोलयः ॥ ५६ ॥
अस्य सर्वस्य विश्वस्य पर्यन्तेषु
समन्ततः ।
अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा
महोदयः ॥ ५७ ॥
विश्वम् एतन् महादेवि शून्यभूतं
विचिन्तयेत् ।
तत्रैव च मनो लीनं ततस् तल्लयभाजनम् ॥
५८ ॥
घतादिभाजने दृष्टिम् भित्तिस्
त्यक्त्वा विनिक्षिपेत् ।
तल्लयं तत्क्षणाद् गत्वा तल्लयात्
तन्मयो भवेत् ॥ ५९ ॥
निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं
विनिक्षिपेत् ।
विलीने मानसे भावे वृत्तिक्षिणः
प्रजायते ॥ ६० ॥
उभयोर् भावयोर् ज्ञाने ध्यात्वा मध्यं
समाश्रयेत् ।
युगपच् च द्वयं त्यक्त्वा मध्ये
तत्त्वम् प्रकाशते ॥ ६१ ॥
भावे त्यक्ते निरुद्धा चिन् नैव
भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यति भावना ॥ ६२
॥
सर्वं देहं चिन्मयं हि जगद् वा
परिभावयेत् ।
युगपन् निर्विकल्पेन मनसा परमोदयः ॥ ६३
॥
वायुद्वयस्य संघट्टाद् अन्तर् वा बहिर्
अन्ततः ।
योगी समत्वविज्ञानसमुद्गमनभाजनम् ॥ ६४
॥
सर्वं जगत् स्वदेहं वा स्वानन्दभरितं
स्मरेत् ।
युगपत् स्वामृतेनैव परानन्दमयो भवेत् ॥
६५ ॥
कुहनेन प्रयोगेण सद्य एव मृगेक्षणे ।
समुदेति महानन्दो येन तत्त्वं प्रकाशते
॥ ६६ ॥
सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया
शनैः ।
पिपीलस्पर्शवेलायाम् प्रथते परमं सुखम्
॥ ६७ ॥
वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं
क्षिपेत् ।
केवलं वायुपूर्णं वा स्मरानन्देन
युज्यते ॥ ६८ ॥
शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम्
।
यत् सुखम् ब्रह्मतत्त्वस्य तत् सुखं
स्वाक्यम् उच्यते ॥ ६९ ॥
लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्
स्मृतेः ।
शक्त्यभावेऽपि देवेशि भवेद्
आनन्दसम्प्लवः ॥ ७० ॥
आनन्दे महति प्राप्ते दृष्टे वा
बान्धवे चिरात् ।
आनन्दम् उद्गतं ध्यात्वा तल्लयस्
तन्मना भवेत् ॥ ७१ ॥
जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।
भावयेद् भरितावस्थां महानन्दस् ततो
भवेत् ॥ ७२ ॥
गितादिविषयास्वादासमसौख्यैकतात्मनः ।
योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता
॥ ७३ ॥
यत्र यत्र मनस् तुष्टिर् मनस् तत्रैव
धारयेत् ।
तत्र तत्र परानन्दस्वारूपं
सम्प्रवर्तते ॥ ७४ ॥
अनागतायां निद्रायाम् प्रणष्टे
बाह्यगोचरे ।
सावस्था मनसा गम्या परा देवी प्रकाशते
॥ ७५ ॥
तेजसा सूर्यदीपादेर् आकाशे शबलीकृते ।
दृष्टिर् निवेश्या तत्रैव स्वात्मरूपम्
प्रकाशते ॥ ७६ ॥
करङ्किण्या क्रोधनया भैरव्या लेलिहानया
।
खेचर्या दृष्टिकाले च परावाप्तिः
प्रकाशते ॥ ७७ ॥
मृद्वासने स्फिजैकेन हस्तपादौ
निराश्रयम् ।
निधाय तत्प्रसङ्गेन परा पूर्णा मतिर्
भवेत् ॥ ७८ ॥
उपविश्यासने सम्यग् बाहू
कृत्वार्धकुञ्चितौ ।
कक्षव्योम्नि मनः कुर्वन् शमम् आयाति
तल्लयात् ॥ ७९ ॥
स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं
निपात्य च ।
अचिरेण निराधारं मनः कृत्वा शिवं
व्रजेत् ॥ ८० ॥
मध्यजिह्वे स्फारितास्ये मध्ये
निक्षिप्य चेतनाम् ।
होच्चारं मनसा कुर्वंस् ततः शान्ते
प्रलीयते ॥ ८१ ॥
आसने शयने स्थित्वा निराधारं विभावयन्
।
स्वदेहं मनसि क्षिणे क्षणात् क्षीणाशयो
भवेत् ॥ ८२ ॥
चलासने स्थितस्याथ शनैर् वा देहचालनात्
।
प्रशान्ते मानसे भावे देवि दिव्यौघम्
आप्नुयात् ॥ ८३ ॥
आकाशं विमलम् पश्यन् कृत्वा दृष्टिं
निरन्तराम् ।
स्तब्धात्मा तत्क्षणाद् देवि भैरवं
वपुर् आप्नुयात् ॥ ८४ ॥
लीनं मूर्ध्नि वियत् सर्वम् भैरवत्वेन
भावयेत् ।
तत् सर्वम् भैरवाकारतेजस्तत्त्वं
समाविशेत् ॥ ८५ ॥
किञ्चिज् ज्ञातं द्वैतदायि बाह्यालोकस्
तमः पुनः ।
विश्वादि भैरवं रूपं
ज्ञात्वानन्तप्रकाशभृत् ॥ ८६ ॥
एवम् एव दुर्निशायां कृष्णपक्षागमे
चिरम् ।
तैमिरम् भावयन् रूपम् भैरवं रूपम्
एष्यति ॥ ८७ ॥
एवम् एव निमील्यादौ नेत्रे कृष्णाभम्
अग्रतः ।
प्रसार्य भैरवं रूपम् भावयंस् तन्मयो भवेत्
॥ ८८ ॥
यस्य कस्येन्द्रियस्यापि व्याघाताच् च
निरोधतः ।
प्रविष्टस्याद्वये शून्ये तत्रैवात्मा
प्रकाशते ॥ ८९ ॥
अबिन्दुम् अविसर्गं च अकारं जपतो महान्
।
उदेति देवि सहसा ज्ञानौघः परमेश्वरः ॥
९० ॥
वर्णस्य सविसर्गस्य विसर्गान्तं चितिं
कुरु ।
निराधारेण चित्तेन स्पृशेद् ब्रह्म
सनातनम् ॥ ९१ ॥
व्योमाकारं स्वम् आत्मानं ध्यायेद्
दिग्भिर् अनावृतम् ।
निराश्रया चितिः शक्तिः स्वरूपं
दर्शयेत् तदा ॥ ९२ ॥
किंचिद् अङ्गं विभिद्यादौ
तीक्ष्णसूच्यादिना ततः ।
तत्रैव चेतनां युक्त्वा भैरवे निर्मला
गतिः ॥ ९३ ॥
चित्ताद्यन्तःकृतिर् नास्ति ममान्तर्
भावयेद् इति ।
विकल्पानाम् अभावेन विकल्पैर् उज्झितो
भवेत् ॥ ९४ ॥
माया विमोहिनी नाम कलायाः कलनं स्थितम्
।
इत्यादिधर्मं तत्त्वानां कलयन् न पृथग्
भवेत् ॥ ९५ ॥
झगितीच्छां समुत्पन्नाम् अवलोक्य शमं
नयेत् ।
यत एव समुद्भूता ततस् तत्रैव लीयते ॥
९६ ॥
यदा ममेच्छा नोत्पन्ना ज्ञानं वा कस्
तदास्मि वै ।
तत्त्वतोऽहं तथाभूतस् तल्लीनस् तन्मना
भवेत् ॥ ९७ ॥
इच्छायाम् अथवा ज्ञाने जाते चित्तं
निवेशयेत् ।
आत्मबुद्ध्यानन्यचेतास् ततस्
तत्त्वार्थदर्शनम् ॥ ९८ ॥
निर्निमित्तम् भवेज् ज्ञानं निराधारम्
भ्रमात्मकम् ।
तत्त्वतः कस्यचिन् नैतद् एवम्भावी शिवः
प्रिये ॥ ९९ ॥
चिद्धर्मा सर्वदेहेषु विशेषो नास्ति
कुत्रचित् ।
अतश् च तन्मयं सर्वम् भावयन् भवजिज्
जनः ॥ १०० ॥
कामक्रोधलोभमोहमदमात्सर्यगोचरे ।
बुद्धिं निस्तिमितां कृत्वा तत्
तत्त्वम् अवशिष्यते ॥ १०१ ॥
इन्द्रजालमयं विश्वं व्यस्तं वा
चित्रकर्मवत् ।
भ्रमद् वा ध्यायतः सर्वम् पश्यतश् च
सुखोद्गमः ॥ १०२ ॥
न चित्तं निक्षिपेद् दुःखे न सुखे वा
परिक्षिपेत् ।
भैरवि ज्ञायतां मध्ये किं तत्त्वम्
अवशिष्यते ॥ १०३ ॥
विहाय निजदेहस्थं सर्वत्रास्मीति
भावयन् ।
दृढेन मनसा दृष्ट्या नान्येक्षिण्या
सुखी भवेत् ॥ १०४ ॥
घटादौ यच् च विज्ञानम् इच्छाद्यं वा
ममान्तरे ।
नैव सर्वगतं जातम् भावयन् इति सर्वगः ॥
१०५ ॥
ग्राह्यग्राहकसंवित्तिः सामान्या
सर्वदेहिनाम् ।
योगिनां तु विशेषोऽस्ति सम्बन्धे
सावधानता ॥ १०६ ॥
स्ववद् अन्यशरीरेऽपि संवित्तिम् अनुभावयेत्
।
अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी
दिनैर् भवेत् ॥ १०७ ॥
निराधारं मनः कृत्वा विकल्पान् न
विकल्पयेत् ।
तदात्मपरमात्मत्वे भैरवो मृगलोचने ॥
१०८ ॥
सर्वज्ञः सर्वकर्ता च व्यापकः
परमेश्वरः ।
स एवाहं शैवधर्मा इति दार्ढ्याच् छिवो
भवेत् ॥ १०९ ॥
जलस्येवोर्मयो वह्नेर् ज्वालाभङ्ग्यः
प्रभा रवेः ।
ममैव भैरवस्यैता विश्वभङ्ग्यो
विभेदिताः ॥ ११० ॥
भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम्
भुवि पातनात् ।
क्षोभशक्तिविरामेण परा संजायते दशा ॥
१११ ॥
आधारेष्व् अथवाऽशक्त्याऽज्ञानाच्
चित्तलयेन वा ।
जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः ॥
११२ ॥
सम्प्रदायम् इमम् देवि शृणु सम्यग्
वदाम्य् अहम् ।
कैवल्यं जायते सद्यो नेत्रयोः
स्तब्धमात्रयोः ॥ ११३ ॥
संकोचं कर्णयोः कृत्वा ह्य् अधोद्वारे
तथैव च ।
अनच्कम् अहलं ध्यायन् विशेद् ब्रह्म
सनातनम् ॥ ११४ ॥
कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात्
।
अविकल्पमतेः सम्यक् सद्यस् चित्तलयः
स्फुटम् ॥ ११५ ॥
यत्र यत्र मनो याति बाह्ये
वाभ्यन्तरेऽपि वा ।
तत्र तत्र शिवावास्था व्यापकत्वात् क्व
यास्यति ॥ ११६ ॥
यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते
विभोः ।
तस्य तन्मात्रधर्मित्वाच् चिल्लयाद्
भरितात्मता ॥ ११७ ॥
क्षुताद्यन्ते भये शोके गह्वरे वा
रणाद् द्रुते ।
कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी
दशा ॥ ११८ ॥
वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस्
त्यजेत् ।
स्वशरीरं निराधारं कृत्वा प्रसरति
प्रभुः ॥ ११९ ॥
क्वचिद् वस्तुनि विन्यस्य शनैर्
दृष्टिं निवर्तयेत् ।
तज् ज्ञानं चित्तसहितं देवि शून्यालायो
भवेत् ॥१२० ॥
भक्त्युद्रेकाद् विरक्तस्य यादृशी
जायते मतिः ।
सा शक्तिः शाङ्करी नित्यम् भवयेत् तां
ततः शिवः ॥ १२१ ॥
वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु
शून्यता ।
ताम् एव मनसा ध्यात्वा विदितोऽपि
प्रशाम्यति ॥ १२२ ॥
किंचिज्ज्ञैर् या स्मृता शुद्धिः सा
शुद्धिः शम्भुदर्शने ।
न शुचिर् ह्य् अशुचिस् तस्मान्
निर्विकल्पः सुखी भवेत् ॥ १२३ ॥
सर्वत्र भैरवो भावः सामान्येष्व् अपि
गोचरः ।
न च तद्व्यतिरेक्तेण परोऽस्तीत्य्
अद्वया गतिः ॥ १२४ ॥
समः शत्रौ च मित्रे च समो मानावमानयोः
॥
ब्रह्मणः परिपूर्णत्वात् इति ज्ञात्वा
सुखी भवेत् ॥ १२५ ॥
न द्वेषम् भावयेत् क्वापि न रागम्
भावयेत् क्वचित् ।
रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म
प्रसर्पति ॥ १२६ ॥
यद् अवेद्यं यद् अग्राह्यं यच् छून्यं
यद् अभावगम् ।
तत् सर्वम् भैरवम् भाव्यं तदन्ते
बोधसम्भवः ॥ १२७ ॥
नित्ये निराश्रये शून्ये व्यापके
कलनोज्झिते ।
बाह्याकाशे मनः कृत्वा निराकाशं
समाविशेत् ॥ १२८ ॥
यत्र यत्र मनो याति तत् तत् तेनैव
तत्क्षणम् ।
परित्यज्यानवस्थित्या निस्तरङ्गस् ततो
भवेत् ॥ १२९ ॥
भया सर्वं रवयति सर्वदो व्यापकोऽखिले ।
इति भैरवशब्दस्य सन्ततोच्चारणाच् छिवः
॥ १३० ॥
अहं ममेदम् इत्यादि
प्रतिपत्तिप्रसङ्गतः ।
निराधारे मनो याति तद्ध्यानप्रेरणाच्
छमी ॥ १३१ ॥
नित्यो विभुर् निराधारो व्यापकश्
चाखिलाधिपः ।
शब्दान् प्रतिक्षणं ध्यायन्
कृतार्थोऽर्थानुरूपतः ॥ १३२ ॥
अतत्त्वम् इन्द्रजालाभम् इदं सर्वम् अवस्थितम्
।
किं तत्त्वम् इन्द्रजालस्य इति
दार्ढ्याच् छमं व्रजेत् ॥ १३३ ॥
आत्मनो निर्विकारस्य क्व ज्ञानं क्व च
वा क्रिया ।
ज्ञानायत्ता बहिर्भावा अतः शून्यम् इदं
जगत् ॥ १३४ ॥
न मे बन्धो न मोक्षो मे भीतस्यैता
विभीषिकाः ।
प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव
विवस्वतः ॥ १३५ ॥
इन्द्रियद्वारकं सर्वं
सुखदुःखादिसंगमम् ।
इतीन्द्रियाणि संत्यज्य स्वस्थः
स्वात्मनि वर्तते ॥ १३६ ॥
ज्ञानप्रकाशकं सर्वं सर्वेणात्मा
प्रकाशकः ।
एकम् एकस्वभावत्वात् ज्ञानं ज्ञेयं
विभाव्यते ॥ १३७ ॥
मानसं चेतना शक्तिर् आत्मा चेति
चतुष्टयम् ।
यदा प्रिये परिक्षीणं तदा तद् भैरवं
वपुः ॥ १३८ ॥
निस्तरङ्गोपदेशानां शतम् उक्तं समासतः
।
द्वादशाभ्यधिकं देवि यज् ज्ञात्वा
ज्ञानविज् जनः ॥ १३९ ॥
अत्र चैकतमे युक्तो जायते भैरवः स्वयम्
।
वाचा करोति कर्माणि शापानुग्रहकारकः ॥
१४० ॥
अजरामरताम् एति सोऽणिमादिगुणान्वितः ।
योगिनीनाम् प्रियो देवि
सर्वमेलापकाधिपः ॥ १४१ ॥
जीवन्न् अपि विमुक्तोऽसौ कुर्वन्न् अपि
न लिप्यते ।
श्री देवी उवाच ।
इदं यदि वपुर् देव परायाश् च महेश्वर ॥
१४२ ॥
एवमुक्तव्यवस्थायां जप्यते को जपश् च
कः ।
ध्यायते को महानाथ पूज्यते कश् च
तृप्यति ॥ १४३ ॥
हूयते कस्य वा होमो यागः कस्य च किं
कथम् ।
श्री भैरव उवाच ।
एषात्र प्रक्रिया बाह्या स्थूलेष्व् एव
मृगेक्षणे ॥ १४४ ॥
भूयो भूयः परे भावे भावना भाव्यते हि
या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा
जप्य ईदृशः ॥ १४५ ॥
ध्यानं हि निश्चला बुद्धिर् निराकारा निराश्रया
।
न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना
॥ १४६ ॥
पूजा नाम न पुष्पाद्यैर् या मतिः
क्रियते दृढा ।
निर्विकल्पे महाव्योम्नि सा पूजा ह्य्
आदराल् लयः ॥ १४७ ॥
अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद्
दिनम् ।
भरिताकारता सात्र तृप्तिर्
अत्यन्तपूर्णता ॥ १४८ ॥
महाशून्यालये वह्नौ भूताक्षविषयादिकम्
।
हूयते मनसा सार्धं स होमश् चेतनास्रुचा
॥ १४९ ॥
यागोऽत्र परमेशानि तुष्टिर्
आनन्दलक्षणा ।
क्षपणात् सर्वपापानां त्राणात् सर्वस्य
पार्वति ॥ १५० ॥
रुद्रशक्तिसमावेशस् तत् क्षेत्रम्
भावना परा ।
अन्यथा तस्य तत्त्वस्य का पूजा काश् च
तृप्यति ॥ १५१ ॥
स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा
हि सर्वतः ।
आवेशनं तत्स्वरूपे स्वात्मनः स्नानम्
ईरितम् ॥ १५२ ॥
यैर् एव पूज्यते द्रव्यैस् तर्प्यते वा
परापरः ।
यश् चैव पूजकः सर्वः स एवैकः क्व
पूजनम् ॥ १५३ ॥
व्रजेत् प्राणो विशेज् जीव इच्छया कुटिलाकृतिः
।
दीर्घात्मा सा महादेवी परक्षेत्रम्
परापरा ॥ १५४ ॥
अस्याम् अनुचरन् तिष्ठन्
महानन्दमयेऽध्वरे ।
तया देव्या समाविष्टः परम् भैरवम्
आप्नुयात् ॥ १५५ ॥
षट्शतानि दिवा रात्रौ
सहस्राण्येकविंशतिः ।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो
जडैः ॥ १५६ ॥
इत्य् एतत् कथितं देवि परमामृतम्
उत्तमम् ।
एतच् च नैव कस्यापि प्रकाश्यं तु कदाचन
॥ १५७ ॥
परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः
।
निर्विकल्पमतीनां तु वीराणाम्
उन्नतात्मनाम् ॥ १५८ ॥
भक्तानां गुरुवर्गस्य दातव्यं
निर्विशङ्कया ।
ग्रामो राज्यम् पुरं देशः पुत्रदारकुटुम्बकम्
॥ १५९ ॥
सर्वम् एतत् परित्यज्य ग्राह्यम् एतन्
मृगेक्षणे ।
किम् एभिर् अस्थिरैर् देवि स्थिरम्
परम् इदं धनम् ।
प्राणा अपि प्रदातव्या न देयं
परमामृतम् ॥ १६० ॥
श्री देवी उवाच ।
देवदेव माहदेव परितृप्तास्मि शङ्कर ।
रुद्रयामलतन्त्रस्य सारम् अद्यावधारितम्
॥ १६१ ॥
सर्वशक्तिप्रभेदानां हृदयं ज्ञातम्
अद्य च ।
इत्य् उक्त्वानन्दिता देवि कण्ठे लग्ना
शिवस्य तु ॥ १६२ ॥
0 Comments
If you have any Misunderstanding Please let me know