जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

साहित्यदर्पण प्रथमः परिच्छेदः मुल संस्कृत

 


साहित्य दर्पण

 

अन्तर्विषयाः

      प्रथमः परिच्छेदः

      द्वितीयः परिच्छेदः

      तृतीयः परिच्छेदः

      चतुर्थः परिच्छेदः

     पञ्चमः परिच्छेदः

      षष्ठः परिच्छेदः

     सप्तमः परिच्छेदः

      अष्टमः परिच्छेदः

      नवमः परिच्छेदः

१०    दशमः परिच्छेदः

 

प्रथमः परिच्छेदः

 

ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते--

 

शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी ।

अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ।। साद-१.१ ।।

 

अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह--

 

चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।

काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ।। साद-१.२ ।।

 

चतुर्वर्गफलप्राप्तिहि कोव्यतो "रामादिवत्प्रवतितव्यं न रावणादिवत्" इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव ।

उक्तं च (भामहेन)-- "धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।

करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्" ।।

 

इति ।

किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, "एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति" इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।

अर्थप्राप्तिश्च प्रत्यक्षसिद्धा ।

कामप्राप्तिश्चार्थद्वारैव ।

मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च ।

चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।

परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव ।

ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् ।

कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् ? किञ्च काव्यस्योपादेयत्वमग्निपुराणे ऽप्युक्तम्-- "नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।

कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा" ।।

 

इति ।

"त्रिवर्गसाधनं नाट्यम्" इति च ।

विष्णुपुराणे ऽपि-- "काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।

शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः" ।।

 

इति ।

तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते ।

एतेनाभिधेयं च प्रदर्शितम् ।

तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह-- "तददोषौ शब्दार्थौ सगुणावनवालंकृती पुनः क्वपि" इति ।

एतच्चिन्त्यम् ।

तथाहि-- यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा-- "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।

धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" ।।

 

इति ।

अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् ।

प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः ।

ननु कश्चिदेवांशो ऽत्र दुष्टो न पुनः सर्वो ऽपीति चेत्, तर्हि यत्रांशे दोषः सो ऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् ।

न च कंचिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् ।

तथाहि-- काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते ।

अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् ।

यदुक्तं धवनिकृता-- "श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।

ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः" ।।

 

इति ।

किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसंभवात् ।

नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि "ईषद्दोषौ शब्दार्थौ काव्यम्" इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् ।

सति संभवे "ईषद्दोषौ" इति चेत् , एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् ।

नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् ।

तद्वदत्र श्रुतिदुष्टादयो ऽपि काव्यस्य ।

उक्तं च-- "कीटानुविद्धरत्नादिसाधारण्येन काव्यता ।

दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः" ।।

 

इति ।

किञ्च ।

शब्दार्थयोः सगुणत्वविशेषणमुपपन्नम् ।

गुणानां रसैकधर्मत्वस्य "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः" इत्यादिना तेनैव प्रतिपादितत्वात् ।

रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत् ? तथाप्ययुक्तम् ।

तथाहि-- तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसो ऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् ।

अस्ति चेत् ? कथं नोक्तं रसवन्ताविति विशेषणम् ।

गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत् ? तर्हि सरसावित्येव वक्तुं युक्तम् , न सगुणाविति ।

नहि प्राणिमन्तो देशाइति केनाप्युच्यते ।

ननु "शब्दार्थौ सगुणौ" इत्यनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्यावित्यभिप्राय इति चेत् ? , गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कषमात्राधायकत्वम् , न तु स्वरूपाधायकत्वम् ।

उक्तं हि-- "काव्यस्य शब्दार्थौ शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणत्वादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्" इति ।

एतेन "अनलङ्कृती पुनः क्वापि" इति यदुक्तम्, तदपि परास्तम् ।

अस्यार्थः- सर्वत्र सालङ्कारौ क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति ।

तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षाधायकत्वात् ।

एतेन "वक्रोक्तिः काव्यजीवितम्" इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् ।

वक्रोक्तेरलङ्काररूपत्वात् ।

यर्च्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्-- यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।

सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।।

 

इति ।

एतच्चिन्त्यम् ।

अत्र हि विभावनाविशेषोक्तमूलस्य संदेहसङ्करालङ्कारस्यस्फुटत्वम् ।

एतेन-- "अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।

रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति" ।।

 

इत्यादीनामपि काव्यलक्षणत्वमपास्तम् ।

यत्तु ध्वनिकारेणोक्तम्-- "काव्यस्यात्मा ध्वनिः"-- इति तत्किं वस्त्वलङ्काररसादिलक्षणास्तिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,-प्रहेलिकादावतिव्याप्तेः ।

द्वितीयश्चेदोमिति ब्रूमः ।

ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा, तदा-- अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि ।

मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ।।

 

इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यव्यवहार इति चेत् ? ,-अत्रापि रसाभासवत्तैवेति ब्रूमः, अन्यथा "देवदत्तो ग्रामं याति" इति वाक्ये तद्भृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् ।

अस्त्विति चेत् ? , रसवत एव काव्यत्वाङ्गीकारात् ।

काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां "रामादिवत्प्रवर्तितव्यं न रावणादिवत्" इत्यादिकृकत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् ।

तथा चाग्नेयपुराणो ऽप्युक्तम्-- "वाग्वैदग्ध्यप्रधाने ऽपि रस एवात्र जीवितम्" इति ।

व्यक्तिविवेककारेणाप्युक्तम्-- "काव्यस्यात्मनि अङ्गिनि, रसादिरूपे न कस्यचिद्विमतिः" इति ।

ध्वनिकारेणाप्युक्तम्-- "नहि कवेरितवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः" इत्यादि ।

ननु तर्हि प्रबन्धान्तर्वर्तिनां केषांचिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत् ? , रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनेव तेषां रसवत्ताङ्गीकारात् ।

यत्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावद्दोषाभावादलङ्कारसद्भावाच्च काव्यव्यवहारः स रसादिमत्काव्यबन्धसामायाद्रौण एव ।

यत्तु वामनेनोक्तम्-- "रीतिरात्मा काव्यस्य" इति, तन्न॑ रीतेः संघटनाविशेषत्वात् ।

संघटनायाश्चावयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात् ।

यच्च ध्वनिकारेणोक्तम्-- "अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः ।

वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ" ।।

 

इति ।

अत्र वाच्यात्मत्वं "काव्यस्यात्माध्वनिः-" इति स्ववचनविरोधादेवापास्तम् ।

तत्किं पुनः काव्यमित्युच्यते--

 

वाक्यं रसात्मकं---

 

रसस्वरूपं निरूपयिष्यामः ।

रस एवात्मा साररूपतया जीवनाधायको यस्य ।

तेन विना तस्य काव्यत्वानङ्गीकारात् ।

"रस्यते इति रसः" इति व्युत्पत्तियोगाद्भावतदाभासादयो ऽपि गृह्यन्ते तत्र रसो यथा-- शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।

विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण इसता बाला चिरं चुम्बिता ।।

 

अत्र हि संभोगश्र्टङ्गाराख्यो रसः ।

भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम्-- यस्यालीयत शल्कसीम्नि जलधिः पटष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी ।

क्रोधे क्षअगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः ।।

 

अत्र भगवद्विषयारतिर्भावः ।

रसाभासो यथा-- मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः ।

शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।।

 

अत्र सम्भोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः ।

एवमन्यत् ।

दोषाः पुनः काव्ये किंस्वरूपा ? इत्युच्यन्ते--

 

---दोषास्तस्यापकर्षकाः ।

श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणेव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते ।

एषां विशेषोदाहरणानि वक्षयामः गुणादयः किंस्वरूपा इत्युच्यन्ते--

 

उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ।। साद-१.३ ।।

 

गुणाः शौर्यादिवत्, अलङ्काराः कटककुण्डलादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, देहद्वारेणोव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते ।

इह यद्यपि गुणानां रसधर्मत्वं तथापिगुणशब्दो ऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते ।

अतश्च "गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः" इत्युक्तं भवतीति प्रागेवोक्तम् ।

एषामपि विशेषोदाहरणानि वक्षयामः ।

इति श्रीमन्नारायणचरणारबिन्धमधुव्रत- साहित्यार्णवकर्णधार-ध्वनिप्रस्थापन-परमाचार्यकविसूक्तिरत्नाकराष्टादशभाषा-वारविलासिनीभुजङ्ग-सान्धिविग्रहिक-महापात्र-श्रीविश्वनाथ-कविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः ।

एक टिप्पणी भेजें

0 टिप्पणियाँ