Ad Code

अट्टालसुन्दराष्टकम्

अट्टालसुन्दराष्टकम् 



विक्रमपाण्ड्य उवाच-

कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् ।

कबलीकृतसंसारं कलयेऽट्टालसुन्दरम् ॥ १॥


कालकूटप्रभाजालकळङ्कीकृतकन्धरम् ।

कलाधरं कलामौळिं कलयेऽट्टालसुन्दरम् ॥ २॥


कालकालं कलातीतं कलावन्तं च निष्कळम् ।

कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम् ॥ ३॥


कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् ।

कलिकल्मषदोषघ्नं कलयेऽट्टालसुन्दरम् ॥ ४॥


कदम्बकाननाधीशं कांक्षितार्थसुरद्रुमम् ।

कामशासनमीशानं कलयेऽट्टालसुन्दरम् ॥ ५॥


सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च ।

रक्षितानि हतान्यन्ते कलयेऽट्टालसुन्दरम् ॥ ६॥


स्वभक्तजनसंताप पापापद्मङ्गतत्परम् ।

कारणं सर्वजगतां कलयेऽट्टालसुन्दरम् ॥ ७॥


कुलशेखरवंशोत्थभूपानां कुलदैवतम् ।

परिपूर्णं चिदानन्दं कलयेऽट्टालसुन्दरम् ॥ ८॥


अट्टालवीरश्रीशंभोरष्टकं वरमिष्टदम् ।

पठतां श‍ृण्वतां सद्यस्तनोतु परमां श्रियम् ॥ ९॥


॥ इति श्रीहालास्यमाहात्म्ये विक्रमपाण्ड्यकृतं अट्टालसुन्दराष्टकम् ॥

Post a Comment

0 Comments

Ad Code