Ad Code

अर्धनारीश्वरस्तोत्रम्

अर्धनारीश्वरस्तोत्रम्

 


श्रीगणेशाय नमः ॥

मन्दारमालालुलितालकायै कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ १॥

एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम् ।
यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥ २॥

यस्योपवीतगुण एव फणावृतैक-
     वक्षोरुहः कुचपटीयति वामभागे ।
तस्मै ममास्तु तमसामवसानसीम्ने
     चन्द्रार्धमौलिशिरसे च नमः शिवाय ॥ ३॥

स्वेदार्द्रवामकुचमण्डनपत्रभङ्ग-
     संशोषिदक्षिणकराङ्गुलिभस्मरेणुः ।
स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः
     शम्भोस्तनुः सुखयतु प्रकृतिश्चतुर्थी ॥ ४॥

इत्यर्धनारीश्वरस्तोत्रं सम्पूर्णम् ।

Post a Comment

0 Comments

Ad Code