Ad Code

श्रीमदर्धनारीश्वराष्टोत्तरशतनामावलिः



श्रीमदर्धनारीश्वराष्टोत्तरशतनामावलिः 

॥ श्रीः ॥

महाकैलासशिखरनिलयाय नमो नमः ।
समस्तहृदयाम्भोजनिलयायै नमो नमः ॥ १॥

अप्राकृतमहादेवीपुरःस्थाय नमो नमः ।
पुनरावृत्तिरहितपुरःस्थायै नमो नमः ॥ २
अनन्तानन्दबोधाम्बुनिधिस्थाय नमो नमः ।
रजताचलश‍ृङ्गाग्रगृहस्थायै नमो नमः ॥ ३॥

हिमाचलेन्द्रतनयावल्लभाय नमो नमः ।
शशाङ्कशेखरप्राणवल्लभायै नमो नमः ॥ ४॥

वामभागकलत्रार्धशरीराय नमो नमः ।
शङ्करार्धाङ्गसौन्दर्यशरीरिण्यै नमो नमः ॥ ५॥

विलसद्दिव्यकर्पूरगौराङ्गाय नमो नमः ।
चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः ॥ ६॥

अखण्डसच्चिदानन्दविग्रहाय नमो नमः ।
लसन्मरकतस्वच्छ विग्रहायै नमो नमः ॥ ७॥

षोडशाब्दवयोयुक्तदिव्याङ्गाय नमो नमः ।
सहस्ररतिसौन्दर्यशरीरिण्यै नमो नमः ॥ ८॥

कोटिकन्दर्पसदृशलावण्याय नमो नमः ।
महातिशयसर्वाङ्गलावण्यायै नमो नमः ॥ ९॥

रत्नमौक्तिकवैडूर्यकिरीटाय नमो नमः
वज्रमाणिक्यकनककिरीटिन्यै नमो नमः ॥ १०॥

मन्दाकिनीजलोपेतमूर्धजाय नमो नमः ।
भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः ॥ ११॥

चारुशीतांशुशकलशेखराय नमो नमः ।
शशाङ्कखण्डसंयुक्तमकुटायै नमो नमः ॥ १९॥

त्रिपुण्ड्रविलसत्फालफलकाय नमो नमः ।
कस्तूरीतिलकोद्भासिनिटिलायै नमो नमः ॥ १३॥

सोमपावकमार्तण्डलोचनाय नमो नमः ।
प्रफुल्लाम्भोरुहदललोचनायै नमो नमः ॥ १४॥

नासाग्रन्यस्तनिटिललोचनाय नमो नमः ।
भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः ॥ १५॥

वासुकितक्षकलसत्कुण्डलाय नमो नमः
लसत्काञ्चनताटङ्कयुगलायै नमो नमः ॥ १६॥

चारुप्रसन्नसुस्मेरवदनाय नमो नमः ।
ताम्बूलपूरितस्मेरवदनायै नमो नमः ॥ १७॥

हिरण्यज्योतिर्विभ्राजत्सुप्रभाय नमो नमः ।
मणिदर्पणसङ्काशकपोलायै नमो नमः ॥ १८॥

समुद्रोद्भूतगरलकन्धराय नमो नमः ।
कम्बुपूगसमच्छायकन्धरायै नमो नमः ॥ १९॥

सौदामिनीसमच्छायसुवस्त्राय नमो नमः ।
सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः ॥ २०॥

अनेकरत्नमाणिक्यसुहाराय नमो नमः ।
स्थूलमुक्ताफलोदारसुहारायै नमो नमः ॥ २१॥

मौक्तिकस्वर्णरुद्राक्षमालिकाय नमो नमः ।
पद्मकैरवमन्दारमालिकायै नमो नमः ॥ २२॥

परश्वधलसद्दिव्यकराब्जाय नमो नमः ।
पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः ॥ २३॥

वराभयप्रदकरयुगलाय नमो नमः ।
वराभीतिप्रदानश्रीहस्ताब्जायै नमो नमः ॥ २४॥

कुरङ्ग विलसत्पाणिकमलाय नमो नमः ।
रमणीयचतुर्बाहुसंयुक्तायै नमो नमः ॥ २५॥

नागयज्ञोपवीतोपशोभिताय नमो नमः ।
गिरीशबद्धमाङ्गल्यसूत्रिकायै नमो नमः ॥ २६॥

मत्तमातङ्गसत्कृत्तिवसनाय नमो नमः ।
विद्युत्सन्निभसौवर्णवसनायै नमो नमः ॥ २७॥

महापञ्चाक्षरी मन्त्रस्वरूपाय नमो नमः ।
श्रीपञ्चदशवर्णैकस्वरूपायै नमो नमः ॥ २८॥

शिञ्जानमणिमञ्जीरचरणाय नमो नमः ।
सुपद्मरागसङ्काशचरणायै नमो नमः ॥ २९॥

सहस्रकोटितपनसङ्काशाय नमो नमः ।
सहस्रकोटिसूर्येन्दुप्रकाशायै नमो नमः ॥ ३०॥

चक्राब्जध्वजयुक्ताङ्घ्रिसरोजाय नमो नमः ।
राजराजार्चितपदसरोजायै नमो नमः ॥ ३१॥

मुरारिनेत्रपूज्याङ्घ्रिपङ्कजाय नमो नमः ।
पारिजातगुणाधिक्यपदाब्जायै नमो नमः ॥ ३२॥

मन्दारमल्लिकादामभूषणाय नमो नमः ।
कनकाङ्गदकेयूरभूषितायै नमो नमः ॥ ३३॥

अज्ञानतिमिरध्वंसभास्कराय नमो नमः ।
श्रीकण्ठनेत्नकुमुदचन्द्रिकायै नमो नमः ॥ ३४॥

कमलाभारतीन्द्राणी सेविताय नमो नमः ।
शचीमुख्यामरवधूसेवितायै नमो नमः ॥ ३५॥

अपर्णाकुचकस्तूरीरञ्जिताय नमो नमः ।
दिव्यभूषणसन्दोहरञ्जितायै नमो नमः ॥ ३६॥

गुहमत्तेभवदनजनकाय नमो नमः ।
मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः ॥ ३७
चराचरस्थूलसूक्ष्मकल्पकाय नमो नमः
सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः ॥ ३८॥

निगमान्तवचोगम्यवैभवाय नमो नमः ।
देवर्षिस्तूयमानात्मवैभवायै नमो नमः ॥ ३९॥

विमलप्रणवाकाशमध्यगाय नमो नमः ।
चक्रराजमहामन्त्रमध्यस्थायै नमो नमः ॥ ४०॥

पृथ्व्यप्तेजोऽनिलाकाशपूरिताय नमो नमः ।
अव्याजकरुणापूरपूरितायै नमो नमः ॥ ४१॥

रतिप्रख्यातमाङ्गल्यफलदाय नमो नमः ।
पतिव्रताङ्गनाभीष्टफलदायै नमो नमः ॥ ४२॥

मार्कण्डेयमनोभीष्टदायकाय नमो नमः ।
एकातपत्रसाम्राज्यदायिकायै नमो नमः ॥ ४३॥

कृतान्तकमहादर्पनाशनाय नमो नमः ।
कामक्रोधादिषड्वर्गनाशनायै नमो नमः ॥ ४४॥

बिडौजोविधिवैकुण्ठसन्नुताय नमो नमः ।
कलशोद्भवदुर्वासःसम्पूज्यायै नमो नमः ॥ ४५॥

कैवल्यपरमानन्दनियोगाय नमो नमः ।
शक्तिहंसवधूमुख्यनियोगायै नमो नमः ॥ ४६॥

स्वद्रोहिदक्षसवनविनाशाय नमो नमः ।
कलेबरान्तविभ्रान्तिविनाशिन्यै नमो नमः ॥ ४७॥

दुःखमन्युमहामोहभञ्जनाय नमो नमः ।
दुष्टभूतमहाभीतिभञ्जनायै नमो नमः ॥ ४८॥

सनकादिसमायुक्तदक्षिणामूर्तये नमः ।
अनाद्यन्तस्वयम्भानदिव्यमूर्त्यै नमो नमः ॥ ४९॥

अशेषदेवताराध्यपादुकाय नमो नमः ।
सनकादिसमाराध्यपादुकायै नमो नमः ॥ ५०॥

अनन्तवेदवेदान्तसंवेद्याय नमो नमः ।
सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः ॥ ५१॥

निजपादाम्बुजासक्तसुलभाय नमो नमः ।
भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः ॥ ५२॥

उत्पत्तिस्थितिसंहारकारणाय नमो नमः ।
अभ्रकेशमहोत्साहकारणायै नमो नमः ॥ ५३॥

नन्दिभृङ्गिमुखानेकसंस्तुताय नमो नमः ।
वन्दारुजनसन्दोहवन्दितायै नमो नमः ॥ ५४॥

अनन्तकोटिब्रह्माण्डनायकाय नमो नमः ।
लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः ॥ ५५॥

सहस्रारमहापद्ममन्दिराय नमो नमः ।
अनाहतमहापद्ममन्दिरायै नमो नमः ॥ ५६॥

अकारादिक्षकारान्तवर्णज्ञाय नमो नमः ।
वाणीगायत्रीसावित्रीवर्णज्ञायै नमो नमः ॥ ५७॥

घोरापस्मारदनुजदमनाय नमो नमः ।
महापापौघकान्तारविभेदिन्यै नमो नमः ॥ ५८॥

कैलासतुल्यवृषभवाहनाय नमो नमः ।
कामकोटिमहाभद्रपीठस्थायै नमो नमः ॥ ५९॥

शम्बरान्तकलावण्यदेहसंहारिणे नमः ।
भण्डदैत्यमहासेनाशासनायै नमो नमः ॥ ६०॥

संसारामयसञ्छेदभेषजाय नमो नमः ।
भूतेशालिङ्गनोद्भूतपुलकायै नमो नमः ॥ ६१॥

सहस्रभानुसङ्काशचक्रदाय नमो नमः ।
अन्तर्मुखजनानन्दफलदायै नमो नमः ॥ ६२॥

आदिमध्यान्तरहितदेहस्थाय नमो नमः ।
रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः ॥ ६३॥

अनाहतमहासौख्यपदस्थाय नमो नमः ।
सुधाब्धिस्थमणिद्वीपमध्यस्थायै नमो नमः ॥ ६४॥

ज्योतिषामुत्तमज्योतीरूपदाय नमो नमः ।
नामपारायणाभीष्टफलदायै नमो नमः ॥ ६५॥

नरसिंहमहादर्पशमनाय नमो नमः ।
चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः ॥ ६६॥

शाश्वतैश्वर्यविभवसहिताय नमो नमः ।
त्रिलोचनकृतोल्लासविभवायै नमो नमः ॥ ६७॥

निश्चलौदार्यसौभाग्यप्रबलाय नमो नमः ।
नतसम्पूर्णविज्ञानसिद्धिदायै नमो नमः ॥ ६८॥

निजाक्षिजाग्निसन्दग्धत्रिपुराय नमो नमः ।
महिषासुरदोर्वीर्यनिग्रहायै नमो नमः ॥ ६९॥

दारुकावनमौनिस्त्रीमोहनाय नमो नमः ।
साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः ॥ ७०॥

पतञ्जलिव्याघ्रपादसंस्तुताय नमो नमः ।
धात्रच्युतमुखाधीशसेवितायै नमो नमः ॥ ७१॥

सकृत्प्रपन्नदौर्भाग्यभेदनाय नमो नमः ।
भावनामात्रसन्तुष्टहृदयायै नमो नमः ॥ ७२॥

अचिन्त्यदिव्यमहिमारञ्जिताय नमो नमः ।
हयमेधाग्रसम्पूज्यमहिमायै नमो नमः ॥ ७३॥

हिरण्यकिङ्किणीयुक्तकङ्कणाय नमो नमः ।
नवचाम्पेयपुष्पाभनासिकायै नमो नमः ॥ ७४॥

संसिद्धऋग्यजुर्वेदवाहनाय नमो नमः ।
सुपक्कदाडिमीबीजरदनायै नमो नमः ॥ ७५॥

केशवब्रह्मसङ्ग्रामवारकाय नमो नमः ।
समस्तदेवदनुजप्रेरकायै नमो नमः ॥ ७३॥

चामीकरमहाशैलकार्मुकाय नमो नमः ।
सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः ॥ ७७॥

महाताण्डवचातुर्यपण्डिताय नमो नमः ।
क्रूरभण्डासुरच्छेदनिपुणायै नमो नमः ॥ ७८॥

ब्रह्मादिकीटपर्यन्तव्यापकाय नमो नमः ।
अनङ्गजनकापाङ्गवीक्षणायै नमो नमः ॥ ७९॥

अनेककोटिशीतांशुप्रकाशाय नमो नमः ।
सचामररमावाणीवीजितायै नमो नमः ॥ ८०॥

अविद्योपाधिरहितनिर्गुणाय नमो नमः ।
सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नमः ॥ ८१॥

शिक्षितान्तकदैतेयविक्रमाय नमो नमः ।
रक्ताक्षरक्तजिह्वादिशिक्षिकायै नमो नमः ॥ ८२॥

अद्वयानन्दविज्ञानसुखदाय नमो नमः ।
वृषभध्वजविज्ञाततपःसिद्ध्यै नमो नमः ॥ ८३॥

अनेककोटिशीतांशुशीतलाय नमो नमः ।
दक्षप्रजापतिसुतावेषाढ्यायै नमो नमः ॥ ८४॥

समस्तलोकगीर्वाणशरण्याय नमो नमः ।
अमृतादिमहाशक्तिसंवृतायै नमो नमः ॥ ८५॥

शब्दस्पर्शसुगन्धादिसाधनाय नमो नमः ।
जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः ॥ ८६॥

धर्मार्थकाममोक्षैकसूचकाय नमो नमः ।
हिमाचलमहावंशपावनायै नमो नमः ॥ ८७॥

सर्वमन्त्रमहाचक्रस्यन्दनाय नमो नमः ।
महापद्माटवीमध्यनिवासिन्यै नमो नमः ॥ ८८॥

रजस्तमःसत्त्वमुखगुणेशाय नमो नमः ।
चण्डमुण्डनिहन्त्रादिसेवितायै नमो नमः ॥ ८९॥

परानन्दस्वरूपार्थबोधकाय नमो नमः ।
ज्ञानशक्तिक्रियाशक्तिनियुक्तायै नमो नमः ॥ ९०॥

जलन्धरासुरशिरच्छेदनाय नमो नमः ।
दक्षाध्वरविनिर्भिन्नशासनायै नमो नमः ॥ ९१॥

चण्डेशदोषविच्छेदप्रवीणाय नमो नमः ।
महेशयुक्तनटनतत्परायै नमो नमः ॥ ९२॥

महापातकतूलौघपावकाय नमो नमः ।
अशेषदुष्टदनुजसूदनायै नमो नमः ॥ ९३॥

सुधाकरसितच्छ्त्ररथाङ्गाय नमो नमः ।
सौभाग्यज्ञातश‍ृङ्गारमध्यमायै नमो नमः ॥ ९४॥

सरसीरुहसञ्जातप्राप्तसारथये नमः ।
बृहन्नितम्बविलसज्जघनायै नमो नमः ॥ ९५॥

वैकुण्ठनाथज्वलनसायकाय नमो नमः ।
श्रीनाथसोदरीरूपशोभितायै नमो नमः ॥ ९६॥

सप्तकोटिमहामन्त्रपूरिताय नमो नमः ।
लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः ॥ ९७॥

सहजानन्दसन्दोहसंयुक्ताय नमो नमः ।
विरक्तिभक्तिविज्ञाननिधानायै नमो नमः ॥ ९८॥

षड्विंशत्तत्त्वप्रासादभुवनाय नमो नमः ।
सहस्रारसरोजातनिवासायै नमो नमः ॥ ९९॥

अक्षरक्षरकूटस्थपरमाय नमो नमः ।
रमाभूमीसमाराध्यपादुकायै नमो नमः ॥ १००॥

देवकीसुतकौन्तेयवरदाय नमो नमः ।
जन्ममृत्युजराव्याधिवर्जितायै नमो नमः ॥ १०१
भुजङ्गराजविलसच्छिञ्जिन्याकृतये नमः ।
निजभक्तमुखाम्भोजसंस्थितायै नमो नमः ॥ १०२॥

कोलाहलमहोदारशरभाय नमो नमः ।
श्रीषोडशाक्षरी मन्त्रमध्यस्थायै नमो नमः ॥ १०३॥

ज्वलज्ज्वालावलीभीमविषघ्नाय नमो नमः ।
हानिवृद्धिसमाधिक्यरहितायै नमो नमः ॥ १०४॥

द्रुहिणाम्भोजनयनदुर्लभाय नमो नमः ।
मत्तहंसवधूमन्दगमनायै नमो नमः ॥ १०५॥

प्रपञ्चनाशकल्पान्तभैरवाय नमो नमः ।
नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः ॥ १०६॥

हिरण्यगर्भोत्तमाङ्गकर्तनाय नमो नमः ।
नागाद्रि निलयेशानकुटुम्बिन्यै नमो नमः ॥ १०७॥

वसुन्धरा महाभाग्यसूचकाय नमो नमः ।
अर्धाद्रिशिखरस्थार्धनारीश्वर्यै नमो नमः ॥ १०८॥

पराशक्तिसमायुक्तपरेशाय नमो नमः ।
महादेवसमायुक्तमहादेव्यै नमो नमः ॥ १०९॥

इति श्रीमदर्धनारीश्वराष्टोत्तरशतनामावलिः सम्पूर्णा ॥

Post a Comment

0 Comments

Ad Code