श्रीसरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम्

 


श्रीसरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम्

श्रीगणेशाय नमः । या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता (वन्दिता) सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ १॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २॥ सुरासुरासेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका । विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ ३॥ सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ ४॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ५॥ सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥ ६॥ नित्यानन्दे निराधारे निष्कलायै नमो नमः । विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ ७॥ शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । शब्दब्रह्मि चतुर्हस्ते सर्वसिद्‍ध्यै नमो नमः ॥ ८॥ मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः । मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ ९॥ मनोमयि महायोगे वागीश्वरि नमो नमः । वाण्यै वरदहस्तायै वरदायै नमो नमः ॥ १०॥ वेद्यायै वेदरूपायै वेदान्तायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ ११॥ सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः । सम्पन्नायै कुमार्यै च सर्वज्ञायै नमो नमः ॥ १२॥ योगरूपे रमादेव्यै योगानन्दे नमो नमः । दिव्यज्ञायै त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ १३॥ अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । (अर्धचन्द्रधरे देविचन्द्ररूपे) चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥ १४॥ (चन्द्रादित्यसमे देवि चन्द्रभूषे) अणुरूपे महारूपे विश्वरूपे नमो नमः । अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥ १५॥ ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥ १६॥ पद्मदे पद्मवंशे च पद्मरूपे नमो नमः । परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ १७॥ महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । ब्रह्मविष्णुशिवाख्यायै ब्रह्मनार्यै नमो नमः ॥ १८॥ कमलाकरपुष्पा च कामरूपे नमो नमः । (कमलाकरगेहायै) कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥ १९॥ (कपालिप्राणनाथायै) सायं प्रातः पठेन्नित्यं षाण्मासात्सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां श‍ृण्वतामपि ॥ २०॥ इत्थं सरस्वतीस्तोत्रमगस्त्यमुनिवाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ २१॥ ॥ इत्यगस्त्यमुनिप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥

एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने