जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

अभिषेकमन्त्राः

 

अभिषेकमन्त्राः


पुष्कर उवाच । राजदेवाद्यभिषेकमन्त्रान्वक्ष्येऽघमर्दनान् । कुम्भात्कुशोदकैः सिञ्चेत्तेन सर्वं हि सिद्ध्यति ॥ १॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ २॥ भवन्तु विजयायैते इन्द्राद्या दशदिग्गताः । रुद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च सर्वदा ॥ ३॥ भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः । सनत्कुमारोऽङ्गिराश्च पुलस्त्यः पुलहः क्रतुः ॥ ४॥ मरीचिः कश्यपः पातु प्रजेशं पृथिवीपतिम् । प्रभासुरा वहिर्षद अग्निष्वात्ताश्च पान्तु ते ॥ ५॥ क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः । अग्निभिश्चाभिषिञ्चन्तु लक्ष्म्याद्या धर्मवल्लभाः ॥ ६॥ आदित्याद्याः कश्यपस्य बहुपुत्रस्य(१)वल्लभाः । कृशाश्वस्याग्निपुत्रस्य भार्याश्चारिष्ठनेमिनः ॥ ७॥ अश्विन्याद्याश्च चन्द्रस्य पुलहस्य(२)तथा प्रियाः । भूता च कपिशा दंष्ट्री सुरसा सरमा दनुः ॥ ८॥ श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा । एतास्त्वामभिषिञ्चन्तु अरुणश्चार्कसारथिः ॥ ९॥ आयतिर्नियती रात्रिर्निद्रा लोकस्थितौ स्थिताः । उमा मेना शची पान्तु धूमोर्णा निरृतिर्जया ॥ १०॥ गौरी शिवा च ऋद्धिश्च वेला या चैव नड्वला । असिक्नी च(३)तथा ज्योत्स्ना देवपत्न्यो वनस्पतिः ॥ ११॥ महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च । संवत्सराणि वर्षाणि पान्तु त्वामयनद्वयम् ॥ १२॥ ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा । सन्ध्यातिथिमुहूर्ताश्च कालस्यावयवाश्च ये ॥ १३॥ सूर्याद्याश्च ग्रहाः पान्तु मनुः स्वायम्भुवादिकः । स्वायम्भुवः स्वारोचिष उत्तमस्तामसो मनुः ॥ १४॥ रैवतश्चाक्षुषः षष्ठो वैवस्वत इहेरितः । सावर्णिर्ब्रह्मपुत्रश्च धर्मपुत्रश्च रुद्रजः ॥ १५॥ दक्षजो रौच्यभौत्यौ च मनवस्तु चतुर्दश । विश्वभुक्च विपश्चिच्च सुचित्तिश्च शिखी विभुः ॥ १६॥ मनोजवस्तथौजस्वी बलिरद्भुतशान्तयः । वृषश्च ऋतधामा च दिवस्पृक्कविरिन्द्रकः ॥ १७॥ रैवन्तश्च कुमारश्च तथा वत्सविनायकः । वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः ॥ १८॥ एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः । नासत्यौ देवभिषजौ ध्रुवाद्या वसवोऽष्ट च ॥ १९॥ दश चाङ्गिरसो वेदास्त्वाभिषिञ्चन्तु सिद्धये । आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ॥ २०॥ हविष्मांश्च गरिष्ठश्च ऋतः सत्यश्च पान्तु वः । क्रतुर्दक्षो वसुः सत्यः कालकामो धुरिर्जये ॥ २१॥ पुरूरवा आद्रवाश्च विश्वेदेवाश्च रोचनः । अङ्गारकाद्याः सूर्यस्त्वां निरृतिश्च तथा यमः ॥ २२॥ अजैकपादहिर्बुध्न्यो धूमकेतुश्च रुद्रजाः(१)। भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ॥ २३॥ भवनो भावनः पान्तु स्वजन्यः स्वजनस्तथा(१)। क्रतुश्रवाश्च मूर्धा च याजनोऽभ्युशनास्तथा ॥ २४॥ प्रसवश्चाव्ययश्चैव दक्षश्च भृगवः सुराः । मनोऽनुमन्ता प्राणश्च नवोऽपानश्च वीर्यवान् ॥ २५॥ वीतिहोत्रो नयः साध्यो हंसो नारायणोऽवतु । विभुश्चैव प्रभुश्चैव देवश्रेष्ठा जगद्धिताः ॥ २६॥ धाता मित्रोऽर्यमा पूषा शक्रोऽथ वरुणो भगः । त्वष्टा विवस्वान् सविता विष्णुर्द्वादश भास्कराः ॥ २७॥ एकज्योतिश्च द्विज्योतिस्त्रिश्चतुर्ज्योतिरेव च । एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥ २८॥ इन्द्रश्च मेत्यादिशतु ततः प्रतिमकृत्तथा । मितश्च सम्मितश्चैव अमितश्च महाबलः ॥ २९॥ ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा । अतिमित्रोऽनुमित्रश्च पुरुमित्रोऽपराजितः ॥ ३०॥ ऋतश्च ऋतवाग्धाता विधाता(२)धारणो ध्रुवः । विधारणो महातेजा वासवस्य परः सखा ॥ ३१॥ ईदृक्षश्चाप्यदृक्षश्च(३)एतादृगमिताशनः । क्रीडितश्च सदृक्षश्च सरभश्च महातपाः ॥ ३२॥ धर्ता धुर्यो धुरिर्भीम अभिमुक्तोऽक्षपात्सहः (१)। धृतिर्वसुरनाधृष्यो(२)रामः कामो जयो विराट् ॥ ३३॥ देवा एकोनपञ्चाशन्मरुतस्त्वामवन्तु ते । चित्राङ्गदश्चित्ररथः चित्रसेनश्च वै कलिः ॥ ३४॥ ऊर्णायुरुग्रसेनश्च धृतराष्ट्रश्च नन्दकः । हाहा हूहूर्नारदश्च विश्वावसुश्च तुम्बुरुः ॥ ३५॥ एते त्वामभिषिञ्चन्तु गन्धर्वा विजयाय ते । पान्तु ते कुरुपा मुख्या दिव्याश्चाप्सरसाङ्गणाः ॥ ३६॥ अनवद्या सुकेशी च मेनका सह जन्यया(३)। क्रतुस्थला घृताची च विश्वाची पुञ्जिकस्थला ॥ ३७॥ प्रम्लोचा चोर्वशी रम्भा पञ्चचूडा तिलोत्तमा । चित्रलेखा लक्ष्मणा च पुण्डरीका च वारुणी ॥ ३८॥ प्रह्लादो विरोचनोऽथ बलिर्वाणोऽथ तत्सुताः । एते चान्येऽभिषिञ्चन्तु दानवा राक्षसास्तथा ॥ ३९॥ हेतिश्चैव प्रहेतिश्च विद्युत्स्फूर्जथुरग्रकाः । यक्षः सिद्धात्मकः पातु माणिभद्रश्च नन्दनः ॥ ४०॥ पिङ्गाक्षो द्युतिमांश्चैव पुष्पवन्तो जयावहः । शङ्खः पद्मश्च मकरः कच्छपश्च निधिर्जये ॥ ४१॥ पिशाचा ऊर्ध्वकेशाद्या भूता भूम्यादिवासिनः । महाकालं पुरस्कृत्य नरसिंहञ्च मातरः ॥ ४२॥ गुहः स्कन्दो विशाखस्त्वान्नैगमेयोऽभिषिञ्चतु । डाकिन्यो याश्च योगिन्यः खेचरा भूचराश्च याः ॥ ४३॥ गरुडश्चारुणः पान्तु सम्पातिप्रमुखाः खगाः । अनन्ताद्या महानागाः शेषवासुकितक्षकाः ॥ ४४॥ ऐरावतो महापद्मः कम्बलाश्वतरावुभौ । शङ्खः कर्कोटकश्चैव धृतराष्ट्रो धनञ्जयः ॥ ४५॥ कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोऽञ्जनो नागाः पान्तु त्वां सर्वतः सदा ॥ ४६॥ पैतामहस्तथा हंसो वृषभः शङ्करस्य च । दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ॥ ४७॥ उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिः सदा । कौस्तुभः शङ्खराजश्च वज्रं शूलञ्च चक्रकम् ॥ ४८॥ नन्दकोऽस्त्राणि रक्षन्तु धर्मश्च व्यवसायकः । चित्रगुप्तश्च दण्डश्च पिङ्गलो मृत्युकालकौ ॥ ४९॥ बालखिल्यादिमुनयो व्यासवाल्मीकिमुख्यकाः । पृथुर्दिलीपो भरतो दुष्यन्तः शक्रजिद्वली(१)॥ ५०॥ मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः । मान्धाता मुचुकुन्दश्च पान्तु त्वाञ्च पुरूरवाः ॥ ५१॥ वास्तुदेवाः पञ्चविंशत्तत्त्वानि विजयाय ते । रुक्मभौमः शिलाभौमः पतालो नीलमूर्तिकः(२)॥ ५२॥ पीतरक्तः क्षितिश्चैव श्वेतभौमो रसातलम् । भूर्लोकोऽथ भुवर्मुख्या जम्वूद्वीपादयः श्रिये ॥ ५३॥ उत्तराः कुरवः पान्तु रम्यो हिरण्यकस्तथा(१)। भद्राश्वः केतुमालश्च वर्षश्चैव वलाहकः ॥ ५४॥ हरिवर्षः किम्पुरुष इन्द्रद्वीपः कशेरुमान् । ताम्रवर्णो गभस्तिमान्नागद्वीपश्च सौम्यकः ॥ ५५॥ गान्धर्वो वरुणो यश्च नवमः पान्तु राज्यदाः । हिमवान् हेमकूटश्च निषधो नील एव च ॥ ५६॥ श्वेतश्च श‍ृङ्गवान्मेरुर्माल्यवान् गन्धमादनः । महेन्द्रो मलयः सह्यः शक्तिमानृक्षवान् गिरिः ॥ ५७॥ विन्ध्यश्च पारिपात्रश्च गिरयः शान्तिदास्तु ते । ऋग्वेदाद्याः षडङ्गानि इतिहासपुराणकम् ॥ ५८॥ आयुर्वेदश्च गन्धर्वधनुर्वेदोपवेदकाः । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ॥ ५९॥ छन्दोऽङ्गानि च वेदाश्च मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥ ६०॥ साङ्ख्यं योगः पाशुपतं वेदा वै पञ्चरात्रकम् । कृतान्तपञ्चकं ह्येतद्गायत्री च शिवा तथा ॥ ६१॥ दुर्गा विद्या च गान्धारी पान्तु त्वां शान्तिदाश्च ते । लवणेक्षुसुरासर्पिदधिदुग्धजलाब्धयः ॥ ६२॥ चत्वारः सागराः पान्तु तीर्थानि विविधानि च । पुष्करश्च प्रयागश्च प्रभासो नैमिषः परः ॥ ६३॥ गयाशीर्षो ब्रह्मशिरस्तीर्थमुत्तरमानसम् । कालोदको नन्दिकुण्डस्तीर्थं पञ्चनदस्तथा ॥ ६४॥ भृगुतीर्थं प्रभासञ्च तथा चामरकण्टकम् । जम्बूमार्गश्च विमलः कपिलस्य तथाऽऽश्रमः ॥ ६५॥ गङ्गाद्वारकुशावर्तौ विन्ध्यको नीलपर्वतः । वराहपर्वतश्चैव तीर्थङ्कणखलं तथा ॥ ६६॥ कालञ्जरश्च केदारो रुद्रकोटिस्तथैव च । वाराणसी महातीर्थं बदर्याश्रम एव च ॥ ६७॥ द्वारका श्रीगिरिस्तीर्थं तीर्थञ्च पुरुषोत्तमः । शालग्रामोऽथ वाराहः सिन्धुसागरसङ्गमः ॥ ६८॥ फल्गुतीर्थं बिन्दुसरः करवीराश्रमस्तथा । नद्यो गङ्गासरस्वत्यः शतद्रुर्गण्डकी तथा ॥ ६९॥ अच्छोदा च विपाशा च वितस्ता देविका नदी । कावेरी वरुणा चैव निश्चरा गोमती नदी ॥ ७०॥ पारा चर्मण्वती रूपा मन्दाकिनी महानदी । तापी पयोष्णी वेणा च गौरी वैतरणी तथा ॥ ७१॥ गोदावरी भीमरथी तुङ्गभद्राऽरणी तथा । चन्द्रभागा शिवा गौरी अभिषिञ्चन्तु पान्तु वः(१)॥ ७२॥ इत्याग्नेये महापुराणे अभिषेकमन्त्रा नामोनविंशत्यधिकद्विशततमोऽध्यायः सम्पूर्णः ।

एक टिप्पणी भेजें

0 टिप्पणियाँ