जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यम्

 


ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यम्

श्रीशुक उवाच -- किं जपन् मुच्यते तात सततं विष्णुतत्परः । संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥ १॥ व्यास उवाच -- अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम् । यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥ २॥ हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् । एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः ॥ ३॥ एकान्ते निर्जनस्थाने विष्णवग्रे वा जलान्तिके । जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै ॥ ४॥ अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम् । छन्दश्च दैवी गायत्री परमात्मा च देवता ॥ ५॥ शुक्लवर्णं च ॐकारं नकारं रक्तमुच्यते । मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते ॥ ६॥ राकारं कुङ्कुमाभं तु यकारं पीतमुच्यते । णाकारमञ्जनाभं तु यकारं बहुवर्णकम् ॥ ७॥ ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः । भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः । वेदानां प्रणवेनैष सिद्धो मन्त्रः सनातनः ॥ ८॥ सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः । एनमष्टाक्षरं मन्त्रं जपन्नारायणं स्मरेत् ॥ ९॥ संध्यावसाने सततं सर्वपापैः प्रमुच्यते । एष एव परो मन्त्र एष एव परं तपः ॥ १०॥ एष एव परो मोक्ष एष स्वर्ग उदाहृतः । सर्ववेदरहस्येभ्यः सार एष समुद्धॄतः ॥ ११॥ विष्णुना वैष्णवानां हि हिताय मनुजां पुरा । एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत् ॥ १२॥ स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये । जपे दाने च होमे च गमने ध्यानपर्वसु ॥ १३॥ जपेन्नारायणं मन्त्रं कर्मपूर्वे परे तथा । जपेत्सहस्रं नियुतं शुचिर्भूत्वा समाहितः ॥ १४॥ मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः । स्नात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतम् ॥ १५॥ स गच्छेत् परमं देवं नारायणमनामयम् । गन्धपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत् ॥ १६॥ महापातकयुक्तोऽपि मुच्यते नात्र संशयः । हृदि कृत्वा हरिं देवं मन्त्रमेनं तु यो जपेत् ॥ १७॥ सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम् । प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति ॥ १८॥ द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात् । तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात् ॥ १९॥ चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात् । पञ्चमेन तु लक्षेण निर्मलं ज्ञानमाप्नुयात् ॥ २०॥ तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः । सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते ॥ २१॥ अष्टमेन तु लक्षेण निर्वाणमधिगच्छति । स्वस्वधर्मसमायुक्तो जपं कुर्याद् द्विजोत्तमः ॥ २२॥ एतत् सिद्धिकरं मन्त्रमष्टाक्षरमतन्द्रितः । दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः ॥ २३॥ जापिनं नोपसर्पन्ति चौरक्षुद्राधयस्तथा । एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः ॥ २४॥ जपेन्नारायणं मन्त्रमेतन्मृत्युभयापहम् । मन्त्राणां परमो मन्त्रो देवतानां च दैवतम् ॥ २५॥ गुह्यानां परमं गुह्यमोंकाराद्यक्षराष्टकम् । आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः ॥ २६॥ धर्मार्थकाममोक्षांश्च लभते च जपन्नरः । एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् ॥ २७॥ एतत् सिद्धिकरं नृणां मन्त्ररूपं न संशयः । ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः ॥ २८॥ एतदेव परं जप्त्वा परां सिद्धिमितो गताः । ज्ञात्वा यस्त्वात्मनः कालं शास्त्रान्तरविधानतः । अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् ॥ २९॥ नारायणाय नम इत्ययमेव सत्यं संसारघोरविषसंहरणाय मन्त्रः । श‍ृण्वन्तु भव्यमतयो मुदितास्त्वरागा उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥ ३०॥ भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीम्यहम् । हे पुत्र शिष्याः श‍ृणुत न मन्त्रोऽष्टाक्षरात्परः ॥ ३१॥ सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते । वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः ॥ ३२॥ आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ३३॥ इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम् । कथाश्च विविधाः प्रोक्ता मया भज जनार्दनम् ॥ ३४॥ अष्टाक्षरमिमं मन्त्रं सर्वदुःखविनाशनम् । जप पुत्र महाबुद्धे यदि सिद्धिमभीप्ससि ॥ ३५॥ इदं स्तवं व्यासमुखात्तु निस्सृतं संध्यात्रये ये पुरुषाः पठन्ति । ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरमपेतभयास्तरन्ति ॥ ३६॥ इति श्रीनरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम सप्तदशोऽध्यायः ॥ १७॥

एक टिप्पणी भेजें

0 टिप्पणियाँ