Ad Code

श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम्

श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम् 

संकलन ः डाॅ। मनस्वी श्रीविद्यालंकार `मनस्वी' ऋषिवर अगस्त द्वारा रचित श्रीलक्ष्मी स्तोत्र यह स्तोत्र अत्यंत फलदायी है । जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे । सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे । दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥ नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि । वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतं ॥ रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे । दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥ नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि । ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनि ॥ विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते । आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥ अब्जवासे नमस्तुभ्यं चपलायै नमो नमः । चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥ नमः प्रद्युम्नजननि मातुस्तुभ्यं नमो नमः । परिपालय भो मातर्मां तुभ्यं शरणागतं ॥ शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये । त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥ पाण्डित्यं शोभते नैव न शोभन्ति गुणा नरे । शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना ॥ तावद्विराजते रूपं तावच्छीलं विराजते । तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥ लक्ष्मित्वयालंकृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः । गुणैर्विहीना गुणिनो भवन्ति दुशीलिनः शीलवतां वरिष्ठाः ॥ लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलं । लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥ लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्मतां । रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः ॥ अस्माभिस्तव रूपलक्षणगुणान्वक्तुं कथं शक्यते । मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवं ॥ दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतं । कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धन्नायकं कुरु ॥ मां विलोक्य जननि हरिप्रिये । निर्धनं त्वत्समीपमागतं ॥ देहि मे झटिति लक्ष्मि । कराग्रं वस्त्रकांचनवरान्नमद्भुतं ॥ त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ॥ त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि । त्राहि त्राहि जगन्मातर्दरिद्रात्त्राहि वेगतः ॥ नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः । धर्माधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी ॥ दरिद्रार्णवमग्नोऽहं निमग्नोऽहं रसातले । मज्जन्तं मां करे धृत्वा सूद्धर त्वं रमे द्रुतं ॥ किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः । अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥ एतच्श्रुत्वाऽगस्तिवाक्यं हृष्यमाण हरिप्रिया । उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा ॥ लक्ष्मीरुवाच यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः । श‍ृणोति च महाभागस्तस्याहं वशवर्तिनी ॥ नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति । रणश्च नश्यते तीव्रं वियोगं नैव पश्यति ॥ यः पठेत्प्रातरुत्थाय श्रद्धा-भक्तिसमन्वितः । गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिना सह ॥ सुखसौभाग्यसम्पन्नो मनस्वी बुद्धिमान् भवेत् । पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥ इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितं । विष्णुप्रसादजननं चतुर्वर्गफलप्रदं ॥ राजद्वारे जयश्चैव शत्रोश्चैव पराजयः । भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥ न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते । दुर्वृत्तानां च पापानां बहुहानिकरं परं ॥ मन्दुराकरिशालासु गवां गोष्ठे समाहितः । पठेत्तद्दोषशान्त्यर्थं महापातकनाशनं ॥ सर्वसौख्यकरं नृणामायुरारोग्यदं तथा । अगस्रिआमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥ ॥ इत्यगस्तिविरचितं लक्ष्मीस्तोत्रं सम्पूर्णं ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code