Ad Code

ऋग्वेदः मण्डलं ८ मूल संस्कृत

 



 ऋग्वेदः मण्डलं ८ 


मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत ।

इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥ ८.००१.०१

अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म् ।

वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥ ८.००१.०२

यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ ।

अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥ ८.००१.०३

वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम् ।

उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥ ८.००१.०४

म॒हे च॒न त्वाम॑द्रिवः॒ परा॑ शु॒ल्काय॑ देयाम् ।

न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥ ८.००१.०५

वस्या॑ँ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः ।

मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥ ८.००१.०६

क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ ।

अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥ ८.००१.०७

प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः ।

याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ॥ ८.००१.०८

ये ते॒ सन्ति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ ।

अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥ ८.००१.०९

आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसम् ।

इन्द्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृत॑म् ॥ ८.००१.१०

यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑ ।

वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒ त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ॥ ८.००१.११

य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ ।

संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥ ८.००१.१२

मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव ।

वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥ ८.००१.१३

अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् ।

स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥ ८.००१.१४

यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः ।

ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मन्द॑न्तु तुग्र्या॒वृधः॑ ॥ ८.००१.१५

आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि ।

उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिम् ॥ ८.००१.१६

सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत ।

ग॒व्या वस्त्रे॑व वा॒सय॑न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥ ८.००१.१७

अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ ।

अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥ ८.००१.१८

इन्द्रा॑य॒ सु म॒दिन्त॑मं॒ सोमं॑ सोता॒ वरे॑ण्यम् ।

श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युम् ॥ ८.००१.१९

मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा ।

भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥ ८.००१.२०

मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा ।

विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥ ८.००१.२१

शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ ।

स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥ ८.००१.२२

एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा ।

सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रम् ॥ ८.००१.२३

आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ ।

ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह॑न्तु॒ सोम॑पीतये ॥ ८.००१.२४

आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या ।

शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥ ८.००१.२५

पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व ।

परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥ ८.००१.२६

य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः ।

गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥ ८.००१.२७

त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् ।

त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुवः॑ ॥ ८.००१.२८

मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः ।

मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥ ८.००१.२९

स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् ।

नि॒न्दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥ ८.००१.३०

आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम् ।

उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्वः॑ प॒शुः ॥ ८.००१.३१

य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ ।

ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥ ८.००१.३२

अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभिः॑ स॒हस्रैः॑ ।

अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥ ८.००१.३३

अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः ।

शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥ ८.००१.३४


इ॒दं व॑सो सु॒तमन्धः॒ पिबा॒ सुपू॑र्णमु॒दर॑म् ।

अना॑भयिन्ररि॒मा ते॑ ॥ ८.००२.०१

नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः ।

अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥ ८.००२.०२

तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णन्तः॑ ।

इन्द्र॑ त्वा॒स्मिन्स॑ध॒मादे॑ ॥ ८.००२.०३

इन्द्र॒ इत्सो॑म॒पा एक॒ इन्द्रः॑ सुत॒पा वि॒श्वायुः॑ ।

अ॒न्तर्दे॒वान्मर्त्या॑ँश्च ॥ ८.००२.०४

न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् ।

अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म् ॥ ८.००२.०५

गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते ।

अ॒भि॒त्सर॑न्ति धे॒नुभिः॑ ॥ ८.००२.०६

त्रय॒ इन्द्र॑स्य॒ सोमाः॑ सु॒तासः॑ सन्तु दे॒वस्य॑ ।

स्वे क्षये॑ सुत॒पाव्नः॑ ॥ ८.००२.०७

त्रयः॒ कोशा॑सः श्चोतन्ति ति॒स्रश्च॒म्व१॒ः॑ सुपू॑र्णाः ।

स॒मा॒ने अधि॒ भार्म॑न् ॥ ८.००२.०८

शुचि॑रसि पुरुनिः॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः ।

द॒ध्ना मन्दि॑ष्ठः॒ शूर॑स्य ॥ ८.००२.०९

इ॒मे त॑ इन्द्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तासः॑ ।

शु॒क्रा आ॒शिरं॑ याचन्ते ॥ ८.००२.१०

ताँ आ॒शिरं॑ पुरो॒ळाश॒मिन्द्रे॒मं सोमं॑ श्रीणीहि ।

रे॒वन्तं॒ हि त्वा॑ श‍ृ॒णोमि॑ ॥ ८.००२.११

हृ॒त्सु पी॒तासो॑ युध्यन्ते दु॒र्मदा॑सो॒ न सुरा॑याम् ।

ऊध॒र्न न॒ग्ना ज॑रन्ते ॥ ८.००२.१२

रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ ।

प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥ ८.००२.१३

उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत ।

न गा॑य॒त्रं गी॒यमा॑नम् ॥ ८.००२.१४

मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः ।

शिक्षा॑ शचीवः॒ शची॑भिः ॥ ८.००२.१५

व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः ।

कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥ ८.००२.१६

न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।

तवेदु॒ स्तोमं॑ चिकेत ॥ ८.००२.१७

इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति ।

यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥ ८.००२.१८

ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् ।

म॒हाँ इ॑व॒ युव॑जानिः ॥ ८.००२.१९

मो ष्व१॒॑द्य दु॒र्हणा॑वान्सा॒यं क॑रदा॒रे अ॒स्मत् ।

अ॒श्री॒र इ॑व॒ जामा॑ता ॥ ८.००२.२०

वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् ।

त्रि॒षु जा॒तस्य॒ मनां॑सि ॥ ८.००२.२१

आ तू षि॑ञ्च॒ कण्व॑मन्तं॒ न घा॑ विद्म शवसा॒नात् ।

य॒शस्त॑रं श॒तमू॑तेः ॥ ८.००२.२२

ज्येष्ठे॑न सोत॒रिन्द्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑ ।

भरा॒ पिब॒न्नर्या॑य ॥ ८.००२.२३

यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वन्तं जरि॒तृभ्यः॑ ।

वाजं॑ स्तो॒तृभ्यो॒ गोम॑न्तम् ॥ ८.००२.२४

पन्य॑म्पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य ।

सोमं॑ वी॒राय॒ शूरा॑य ॥ ८.००२.२५

पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत् ।

नि य॑मते श॒तमू॑तिः ॥ ८.००२.२६

एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षतः॒ सखा॑यम् ।

गी॒र्भिः श्रु॒तं गिर्व॑णसम् ॥ ८.००२.२७

स्वा॒दवः॒ सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि ।

शिप्रि॒न्नृषी॑वः॒ शची॑वो॒ नायमच्छा॑ सध॒माद॑म् ॥ ८.००२.२८

स्तुत॑श्च॒ यास्त्वा॒ वर्ध॑न्ति म॒हे राध॑से नृ॒म्णाय॑ ।

इन्द्र॑ का॒रिणं॑ वृ॒धन्तः॑ ॥ ८.००२.२९

गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ ।

स॒त्रा द॑धि॒रे शवां॑सि ॥ ८.००२.३०

ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजा॒ँ एको॒ वज्र॑हस्तः ।

स॒नादमृ॑क्तो दयते ॥ ८.००२.३१

हन्ता॑ वृ॒त्रं दक्षि॑णे॒नेन्द्रः॑ पु॒रू पु॑रुहू॒तः ।

म॒हान्म॒हीभिः॒ शची॑भिः ॥ ८.००२.३२

यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च ।

अनु॒ घेन्म॒न्दी म॒घोनः॑ ॥ ८.००२.३३

ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ श‍ृ॒ण्वे ।

वा॒ज॒दावा॑ म॒घोना॑म् ॥ ८.००२.३४

प्रभ॑र्ता॒ रथं॑ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति ।

इ॒नो वसु॒ स हि वोळ्हा॑ ॥ ८.००२.३५

सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता॑ वृ॒त्रं नृभिः॒ शूरः॑ ।

स॒त्यो॑ऽवि॒ता वि॒धन्त॑म् ॥ ८.००२.३६

यज॑ध्वैनं प्रियमेधा॒ इन्द्रं॑ स॒त्राचा॒ मन॑सा ।

यो भूत्सोमैः॑ स॒त्यम॑द्वा ॥ ८.००२.३७

गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान॑म् ।

कण्वा॑सो गा॒त वा॒जिन॑म् ॥ ८.००२.३८

य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची॑वान् ।

ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥ ८.००२.३९

इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम् ।

मे॒षो भू॒तो॒३॒॑ऽभि यन्नयः॑ ॥ ८.००२.४०

शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् ।

अ॒ष्टा प॒रः स॒हस्रा॑ ॥ ८.००२.४१

उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ ।

ज॒नि॒त्व॒नाय॑ मामहे ॥ ८.००२.४२


पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः ।

आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धियः॑ ॥ ८.००३.०१

भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा नः॑ स्तर॒भिमा॑तये ।

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ॥ ८.००३.०२

इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।

पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥ ८.००३.०३

अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।

स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥ ८.००३.०४

इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।

इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥ ८.००३.०५

इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत् ।

इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥ ८.००३.०६

अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑ ।

स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥ ८.००३.०७

अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।

अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥ ८.००३.०८

तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।

येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥ ८.००३.०९

येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑ ।

स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥ ८.००३.१०

श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म् ।

श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥ ८.००३.११

श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा॑सतः ।

श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्रावः॒ स्व॑र्णरम् ॥ ८.००३.१२

कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑ ।

न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ॥ ८.००३.१३

कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते ।

क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥ ८.००३.१४

उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा॑स ईरते ।

स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥ ८.००३.१५

कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।

इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥ ८.००३.१६

यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वतः॑ ।

अ॒र्वा॒ची॒नो म॑घव॒न्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥ ८.००३.१७

इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये ।

स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न श‍ृ॑णुधी॒ हव॑म् ॥ ८.००३.१८

निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः ।

निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥ ८.००३.१९

निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रसः॑ ।

निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥ ८.००३.२०

यं मे॒ दुरिन्द्रो॑ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः ।

विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥ ८.००३.२१

रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् ।

अदा॑द्रा॒यो वि॒बोध॑नम् ॥ ८.००३.२२

यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः ।

अस्तं॒ वयो॒ न तुग्र्य॑म् ॥ ८.००३.२३

आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् ।

तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥ ८.००३.२४


यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।

सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥ ८.००४.०१

यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ ।

कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥ ८.००४.०२

यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् ।

आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥ ८.००४.०३

मन्द॑न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया॑य सुन्व॒ते ।

आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ॥ ८.००४.०४

प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भञ्ज॑ म॒न्युमोज॑सा ।

विश्वे॑ त इन्द्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥ ८.००४.०५

स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् ।

पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑‍उक्तिभिः ॥ ८.००४.०६

मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ ।

म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदु॑म् ॥ ८.००४.०७

स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति ।

मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥ ८.००४.०८

अ॒श्वी र॒थी सु॑रू॒प इद्गोमा॒ँ इदि॑न्द्र ते॒ सखा॑ ।

श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ च॒न्द्रो या॑ति स॒भामुप॑ ॥ ८.००४.०९

ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशा॒ँ अनु॑ ।

नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ॥ ८.००४.१०

अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्रः॑ पिपासति ।

उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥ ८.००४.११

स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ।

इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥ ८.००४.१२

र॒थे॒ष्ठाया॑ध्वर्यवः॒ सोम॒मिन्द्रा॑य सोतन ।

अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥ ८.००४.१३

उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः ।

अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ॥ ८.००४.१४

प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसु॑म् ।

स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥ ८.००४.१५

सं नः॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।

त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य॑म् ॥ ८.००४.१६

वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे ।

न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥ ८.००४.१७

परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य ।

अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥ ८.००४.१८

स्थू॒रं राधः॑ श॒ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु ।

राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥ ८.००४.१९

धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे॑धैर॒भिद्यु॑भिः ।

ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ॥ ८.००४.२०

वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।

गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥ ८.००४.२१


दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।

वि भा॒नुं वि॒श्वधा॑तनत् ॥ ८.००५.०१

नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।

सचे॑थे अश्विनो॒षस॑म् ॥ ८.००५.०२

यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।

वाचं॑ दू॒तो यथो॑हिषे ॥ ८.००५.०३

पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुम॒न्द्रा पु॑रू॒वसू॑ ।

स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥ ८.००५.०४

मंहि॑ष्ठा वाज॒सात॑मे॒षय॑न्ता शु॒भस्पती॑ ।

गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥ ८.००५.०५

ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीम् ।

घृ॒तैर्गव्यू॑तिमुक्षतम् ॥ ८.००५.०६

आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभिः॑ ।

या॒तमश्वे॑भिरश्विना ॥ ८.००५.०७

येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।

त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥ ८.००५.०८

उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा ।

वि प॒थः सा॒तये॑ सितम् ॥ ८.००५.०९

आ नो॒ गोम॑न्तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिम् ।

वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥ ८.००५.१०

वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी ।

पिब॑तं सो॒म्यं मधु॑ ॥ ८.००५.११

अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ ।

छ॒र्दिर्य॑न्त॒मदा॑भ्यम् ॥ ८.००५.१२

नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् ।

मो ष्व१॒॑न्याँ उपा॑रतम् ॥ ८.००५.१३

अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।

मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥ ८.००५.१४

अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म् ।

पु॒रु॒क्षुं वि॒श्वधा॑यसम् ॥ ८.००५.१५

पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वय॑न्ते मनी॒षिणः॑ ।

वा॒घद्भि॑रश्वि॒ना ग॑तम् ॥ ८.००५.१६

जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्म॑न्तो अरं॒कृतः॑ ।

यु॒वां ह॑वन्ते अश्विना ॥ ८.००५.१७

अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।

यु॒वाभ्यां॑ भूत्वश्विना ॥ ८.००५.१८

यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।

ततः॑ पिबतमश्विना ॥ ८.००५.१९

तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।

वह॑तं॒ पीव॑री॒रिषः॑ ॥ ८.००५.२०

उ॒त नो॑ दि॒व्या इष॑ उ॒त सिन्धू॑ँरहर्विदा ।

अप॒ द्वारे॑व वर्षथः ॥ ८.००५.२१

क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा ।

यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥ ८.००५.२२

यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये ।

शश्व॑दू॒तीर्द॑शस्यथः ॥ ८.००५.२३

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ ।

यद्वां॑ वृषण्वसू हु॒वे ॥ ८.००५.२४

यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तम् ।

अत्रिं॑ शि॒ञ्जार॑मश्विना ॥ ८.००५.२५

यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य॑म् ।

यथा॒ वाजे॑षु॒ सोभ॑रिम् ॥ ८.००५.२६

ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।

गृ॒णन्तः॑ सु॒म्नमी॑महे ॥ ८.००५.२७

रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना ।

आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥ ८.००५.२८

हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ ।

उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥ ८.००५.२९

तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् ।

उपे॒मां सु॑ष्टु॒तिं मम॑ ॥ ८.००५.३०

आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता॑वश्विना ।

इषो॒ दासी॑रमर्त्या ॥ ८.००५.३१

आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।

पुरु॑श्चन्द्रा॒ नास॑त्या ॥ ८.००५.३२

एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिनः॑ ।

अच्छा॑ स्वध्व॒रं जन॑म् ॥ ८.००५.३३

रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।

न च॒क्रम॒भि बा॑धते ॥ ८.००५.३४

हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वैः॑ ।

धीज॑वना॒ नास॑त्या ॥ ८.००५.३५

यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।

ता नः॑ पृङ्क्तमि॒षा र॒यिम् ॥ ८.००५.३६

ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नाम् ।

यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना॑म् ॥ ८.००५.३७

यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत ।

अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः॑ ॥ ८.००५.३८

माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ ।

अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥ ८.००५.३९


म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।

स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥ ८.००६.०१

प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः ।

विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥ ८.००६.०२

कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम् ।

जा॒मि ब्रु॑वत॒ आयु॑धम् ॥ ८.००६.०३

सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टयः॑ ।

स॒मु॒द्राये॑व॒ सिन्ध॑वः ॥ ८.००६.०४

ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् ।

इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥ ८.००६.०५

वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा ।

शिरो॑ बिभेद वृ॒ष्णिना॑ ॥ ८.००६.०६

इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तयः॑ ।

अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ॥ ८.००६.०७

गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोच॑न्त धी॒तयः॑ ।

कण्वा॑ ऋ॒तस्य॒ धार॑या ॥ ८.००६.०८

प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म् ।

प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥ ८.००६.०९

अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ ।

अ॒हं सूर्य॑ इवाजनि ॥ ८.००६.१०

अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् ।

येनेन्द्रः॒ शुष्म॒मिद्द॒धे ॥ ८.००६.११

ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः ।

ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥ ८.००६.१२

यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन् ।

अ॒पः स॑मु॒द्रमैर॑यत् ॥ ८.००६.१३

नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं॑ जघन्थ॒ दस्य॑वि ।

वृषा॒ ह्यु॑ग्र श‍ृण्वि॒षे ॥ ८.००६.१४

न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।

न वि॑व्यचन्त॒ भूम॑यः ॥ ८.००६.१५

यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् ।

नि तं पद्या॑सु शिश्नथः ॥ ८.००६.१६

य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् ।

तमो॑भिरिन्द्र॒ तं गु॑हः ॥ ८.००६.१७

य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः ।

ममेदु॑ग्र श्रुधी॒ हव॑म् ॥ ८.००६.१८

इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म् ।

ए॒नामृ॒तस्य॑ पि॒प्युषीः॑ ॥ ८.००६.१९

या इ॑न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् ।

परि॒ धर्मे॑व॒ सूर्य॑म् ॥ ८.००६.२०

त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः ।

त्वां सु॒तास॒ इन्द॑वः ॥ ८.००६.२१

तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः ।

य॒ज्ञो वि॑तन्त॒साय्यः॑ ॥ ८.००६.२२

आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् ।

उ॒त प्र॒जां सु॒वीर्य॑म् ॥ ८.००६.२३

उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।

अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥ ८.००६.२४

अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥ ८.००६.२५

यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः ।

म॒हाँ अ॑पा॒र ओज॑सा ॥ ८.००६.२६

तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ ।

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ॥ ८.००६.२७

उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् ।

धि॒या विप्रो॑ अजायत ॥ ८.००६.२८

अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति ।

यतो॑ विपा॒न एज॑ति ॥ ८.००६.२९

आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् ।

प॒रो यदि॒ध्यते॑ दि॒वा ॥ ८.००६.३०

कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् ।

उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥ ८.००६.३१

इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व ।

उ॒त प्र व॑र्धया म॒तिम् ॥ ८.००६.३२

उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः ।

विप्रा॑ अतक्ष्म जी॒वसे॑ ॥ ८.००६.३३

अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः ।

इन्द्रं॒ वन॑न्वती म॒तिः ॥ ८.००६.३४

इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः ।

अनु॑त्तमन्युम॒जर॑म् ॥ ८.००६.३५

आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या॑म् ।

इ॒ममि॑न्द्र सु॒तं पि॑ब ॥ ८.००६.३६

त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।

हव॑न्ते॒ वाज॑सातये ॥ ८.००६.३७

अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् ।

अनु॑ सुवा॒नास॒ इन्द॑वः ॥ ८.००६.३८

मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति ।

मत्स्वा॒ विव॑स्वतो म॒ती ॥ ८.००६.३९

वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् ।

वृ॒त्र॒हा सो॑म॒पात॑मः ॥ ८.००६.४०

ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा ।

इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ॥ ८.००६.४१

अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रयः॑ ।

श॒तं व॑हन्तु॒ हर॑यः ॥ ८.००६.४२

इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषी॑म् ।

कण्वा॑ उ॒क्थेन॑ वावृधुः ॥ ८.००६.४३

इन्द्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्यः॑ ।

इन्द्रं॑ सनि॒ष्युरू॒तये॑ ॥ ८.००६.४४

अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।

सो॒म॒पेया॑य वक्षतः ॥ ८.००६.४५

श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे ।

राधां॑सि॒ याद्वा॑नाम् ॥ ८.००६.४६

त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ।

द॒दुष्प॒ज्राय॒ साम्ने॑ ॥ ८.००६.४७

उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त् ।

श्रव॑सा॒ याद्वं॒ जन॑म् ॥ ८.००६.४८


प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् ।

वि पर्व॑तेषु राजथ ॥ ८.००७.०१

यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् ।

नि पर्व॑ता अहासत ॥ ८.००७.०२

उदी॑रयन्त वा॒युभि॑र्वा॒श्रासः॒ पृश्नि॑मातरः ।

धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म् ॥ ८.००७.०३

वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान् ।

यद्यामं॒ यान्ति॑ वा॒युभिः॑ ॥ ८.००७.०४

नि यद्यामा॑य वो गि॒रिर्नि सिन्ध॑वो॒ विध॑र्मणे ।

म॒हे शुष्मा॑य येमि॒रे ॥ ८.००७.०५

यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मान्दिवा॑ हवामहे ।

यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥ ८.००७.०६

उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते ।

वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥ ८.००७.०७

सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे ।

ते भा॒नुभि॒र्वि त॑स्थिरे ॥ ८.००७.०८

इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः ।

इ॒मं मे॑ वनता॒ हव॑म् ॥ ८.००७.०९

त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।

उत्सं॒ कव॑न्धमु॒द्रिण॑म् ॥ ८.००७.१०

मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे ।

आ तू न॒ उप॑ गन्तन ॥ ८.००७.११

यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ ।

उ॒त प्रचे॑तसो॒ मदे॑ ॥ ८.००७.१२

आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसम् ।

इय॑र्ता मरुतो दि॒वः ॥ ८.००७.१३

अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वम् ।

सु॒वा॒नैर्म॑न्दध्व॒ इन्दु॑भिः ॥ ८.००७.१४

ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।

अदा॑भ्यस्य॒ मन्म॑भिः ॥ ८.००७.१५

ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभिः॑ ।

उत्सं॑ दु॒हन्तो॒ अक्षि॑तम् ॥ ८.००७.१६

उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ ।

उत्स्तोमैः॒ पृश्नि॑मातरः ॥ ८.००७.१७

येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृत॑म् ।

रा॒ये सु तस्य॑ धीमहि ॥ ८.००७.१८

इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ ।

वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥ ८.००७.१९

क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः ।

ब्र॒ह्मा को वः॑ सपर्यति ॥ ८.००७.२०

न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः ।

शर्धा॑ँ ऋ॒तस्य॒ जिन्व॑थ ॥ ८.००७.२१

समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म् ।

सं वज्रं॑ पर्व॒शो द॑धुः ॥ ८.००७.२२

वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ ।

च॒क्रा॒णा वृष्णि॒ पौंस्य॑म् ॥ ८.००७.२३

अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतु॑म् ।

अन्विन्द्रं॑ वृत्र॒तूर्ये॑ ॥ ८.००७.२४

वि॒द्युद्ध॑स्ता अ॒भिद्य॑वः॒ शिप्राः॑ शी॒र्षन्हि॑र॒ण्ययीः॑ ।

शु॒भ्रा व्य॑ञ्जत श्रि॒ये ॥ ८.००७.२५

उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया॑तन ।

द्यौर्न च॑क्रदद्भि॒या ॥ ८.००७.२६

आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः ।

देवा॑स॒ उप॑ गन्तन ॥ ८.००७.२७

यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः ।

यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ॥ ८.००७.२८

सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति ।

य॒युर्निच॑क्रया॒ नरः॑ ॥ ८.००७.२९

क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् ।

मा॒र्डी॒केभि॒र्नाध॑मानम् ॥ ८.००७.३०

कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन ।

को वः॑ सखि॒त्व ओ॑हते ॥ ८.००७.३१

स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा॑सो अ॒ग्निं म॒रुद्भिः॑ ।

स्तु॒षे हिर॑ण्यवाशीभिः ॥ ८.००७.३२

ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ ।

व॒वृ॒त्यां चि॒त्रवा॑जान् ॥ ८.००७.३३

गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः ।

पर्व॑ताश्चि॒न्नि ये॑मिरे ॥ ८.००७.३४

आक्ष्ण॒यावा॑नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः ।

धाता॑रः स्तुव॒ते वयः॑ ॥ ८.००७.३५

अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो॑ अ॒र्चिषा॑ ।

ते भा॒नुभि॒र्वि त॑स्थिरे ॥ ८.००७.३६


आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् ।

दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥ ८.००८.०१

आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।

भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गम्भी॑रचेतसा ॥ ८.००८.०२

आ या॑तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ ।

पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तम् ॥ ८.००८.०३

आ नो॑ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया ।

पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥ ८.००८.०४

आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।

स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥ ८.००८.०५

यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।

आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥ ८.००८.०६

दि॒वश्चि॑द्रोच॒नादध्या नो॑ गन्तं स्वर्विदा ।

धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥ ८.००८.०७

किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।

पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥ ८.००८.०८

आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।

अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥ ८.००८.०९

आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।

विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ॥ ८.००८.१०

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।

व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥ ८.००८.११

पु॒रु॒म॒न्द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णाम् ।

स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषाताम् ॥ ८.००८.१२

आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।

कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥ ८.००८.१३

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे ।

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥ ८.००८.१४

यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।

तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म् ॥ ८.००८.१५

प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् ।

यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥ ८.००८.१६

आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।

कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥ ८.००८.१७

आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।

राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥ ८.००८.१८

आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम् ।

यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥ ८.००८.१९

याभिः॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजम् ।

याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥ ८.००८.२०

याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।

ताभिः॒ ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥ ८.००८.२१

प्र वां॒ स्तोमाः॑ सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना ।

पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥ ८.००८.२२

त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः ।

क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥ ८.००८.२३


आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से ।

प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥ ८.००९.०१

यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षा॒ँ अनु॑ ।

नृ॒म्णं तद्ध॑त्तमश्विना ॥ ८.००९.०२

ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः ।

ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥ ८.००९.०३

अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।

अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥ ८.००९.०४

यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् ।

तेन॑ माविष्टमश्विना ॥ ८.००९.०५

यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑ ।

अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥ ८.००९.०६

आ नू॒नम॒श्विनो॒रृषिः॒ स्तोमं॑ चिकेत वा॒मया॑ ।

आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥ ८.००९.०७

आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना ।

आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥ ८.००९.०८

यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।

यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥ ८.००९.०९

यद्वां॑ क॒क्षीवा॑ँ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ ।

पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥ ८.००९.१०

या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा ।

व॒र्तिस्तो॒काय॒ तन॑याय यातम् ॥ ८.००९.११

यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा ।

यदा॑दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥ ८.००९.१२

यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।

यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥ ८.००९.१३

आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता ।

इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥ ८.००९.१४

यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् ।

तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥ ८.००९.१५

अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ ।

व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥ ८.००९.१६

प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि ।

प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ॥ ८.००९.१७

यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे ।

आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ॥ ८.००९.१८

यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः ।

यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥ ८.००९.१९

प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे ।

प्र दक्षा॑य प्रचेतसा ॥ ८.००९.२०

यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः ।

यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥ ८.००९.२१


यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः ।

यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥ ८.०१०.०१

यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् ।

बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥ ८.०१०.०२

त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता ।

ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥ ८.०१०.०३

ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रयः॑ ।

ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥ ८.०१०.०४

यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू ।

यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम् ॥ ८.०१०.०५

यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ ।

यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥ ८.०१०.०६


त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।

त्वं य॒ज्ञेष्वीड्यः॑ ॥ ८.०११.०१

त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य ।

अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥ ८.०११.०२

स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।

अदे॑वीरग्ने॒ अरा॑तीः ॥ ८.०११.०३

अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः ।

नोप॑ वेषि जातवेदः ॥ ८.०११.०४

मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे ।

विप्रा॑सो जा॒तवे॑दसः ॥ ८.०११.०५

विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।

अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥ ८.०११.०६

आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।

अग्ने॒ त्वांका॑मया गि॒रा ॥ ८.०११.०७

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।

स॒मत्सु॑ त्वा हवामहे ॥ ८.०११.०८

स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे ।

वाजे॑षु चि॒त्ररा॑धसम् ॥ ८.०११.०९

प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।

स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥ ८.०११.१०


य इ॑न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति ।

येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥ ८.०१२.०१

येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् ।

येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥ ८.०१२.०२

येन॒ सिन्धुं॑ म॒हीर॒पो रथा॑ँ इव प्रचो॒दयः॑ ।

पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥ ८.०१२.०३

इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः ।

येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥ ८.०१२.०४

इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते ।

इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥ ८.०१२.०५

यो नो॑ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे ।

दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥ ८.०१२.०६

व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः ।

यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥ ८.०१२.०७

यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघः॑ ।

आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे ॥ ८.०१२.०८

इन्द्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति ।

अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥ ८.०१२.०९

इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी ।

स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥ ८.०१२.१०

गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् ।

स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥ ८.०१२.११

स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्रः॒ सोम॑स्य पी॒तये॑ ।

प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥ ८.०१२.१२

यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यवः॑ ।

घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥ ८.०१२.१३

उ॒त स्व॒राजे॒ अदि॑तिः॒ स्तोम॒मिन्द्रा॑य जीजनत् ।

पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥ ८.०१२.१४

अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये ।

न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥ ८.०१२.१५

यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।

यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ॥ ८.०१२.१६

यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से ।

अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥ ८.०१२.१७

यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते ।

उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥ ८.०१२.१८

दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ ।

अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥ ८.०१२.१९

य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम् ।

होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः ॥ ८.०१२.२०

म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।

विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥ ८.०१२.२१

इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः ।

इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से ॥ ८.०१२.२२

म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म् ।

अ॒र्कैर॒भि प्र णो॑नुमः॒ समोज॑से ॥ ८.०१२.२३

न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।

अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥ ८.०१२.२४

यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥ ८.०१२.२५

य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥ ८.०१२.२६

य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥ ८.०१२.२७

य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥ ८.०१२.२८

य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥ ८.०१२.२९

य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥ ८.०१२.३०

इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ ।

जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥ ८.०१२.३१

यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् ।

नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥ ८.०१२.३२

सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः ।

होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥ ८.०१२.३३


इन्द्रः॑ सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म् ।

वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥ ८.०१३.०१

स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः ।

सु॒पा॒रः सु॒श्रव॑स्तमः॒ सम॑प्सु॒जित् ॥ ८.०१३.०२

तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा॑य शु॒ष्मिण॑म् ।

भवा॑ नः सु॒म्ने अन्त॑मः॒ सखा॑ वृ॒धे ॥ ८.०१३.०३

इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः ।

म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥ ८.०१३.०४

नू॒नं तदि॑न्द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वन्त॒ ईम॑हे ।

र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विद॑म् ॥ ८.०१३.०५

स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ ।

व॒या इ॒वानु॑ रोहते जु॒षन्त॒ यत् ॥ ८.०१३.०६

प्र॒त्न॒वज्ज॑नया॒ गिरः॑ श‍ृणु॒धी ज॑रि॒तुर्हव॑म् ।

मदे॑मदे ववक्षिथा सु॒कृत्व॑ने ॥ ८.०१३.०७

क्रीळ॑न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः ।

अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥ ८.०१३.०८

उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी ।

न॒मो॒वृ॒धैर॑व॒स्युभिः॑ सु॒ते र॑ण ॥ ८.०१३.०९

स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑ ।

गन्ता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विनः॑ ॥ ८.०१३.१०

तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः ।

आ या॑हि य॒ज्ञमा॒शुभिः॒ शमिद्धि ते॑ ॥ ८.०१३.११

इन्द्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय ।

श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नम् ॥ ८.०१३.१२

हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः ।

जु॒षा॒ण इ॑न्द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ॥ ८.०१३.१३

आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः ।

तन्तुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥ ८.०१३.१४

यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।

यद्वा॑ समु॒द्रे अन्ध॑सोऽवि॒तेद॑सि ॥ ८.०१३.१५

इन्द्रं॑ वर्धन्तु नो॒ गिर॒ इन्द्रं॑ सु॒तास॒ इन्द॑वः ।

इन्द्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः ॥ ८.०१३.१६

तमिद्विप्रा॑ अव॒स्यवः॑ प्र॒वत्व॑तीभिरू॒तिभिः॑ ।

इन्द्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥ ८.०१३.१७

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।

तमिद्व॑र्धन्तु नो॒ गिरः॑ स॒दावृ॑धम् ॥ ८.०१३.१८

स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे ।

शुचिः॑ पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥ ८.०१३.१९

तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु ।

मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥ ८.०१३.२०

यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः ।

येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥ ८.०१३.२१

क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः ।

क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥ ८.०१३.२२

उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ॑म् ।

अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ॥ ८.०१३.२३

तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभिः॑ ।

नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥ ८.०१३.२४

वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभिः॑ ।

धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥ ८.०१३.२५

इन्द्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः ।

ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युज॑म् ॥ ८.०१३.२६

इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये ।

हरी॑ इन्द्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥ ८.०१३.२७

अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रासः॑ सक्षत॒ श्रिय॑म् ।

उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रयः॑ ॥ ८.०१३.२८

इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि ।

नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥ ८.०१३.२९

अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे ।

मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑ ॥ ८.०१३.३०

वृषा॒यमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ ।

वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हवः॑ ॥ ८.०१३.३१

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।

वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हवः॑ ॥ ८.०१३.३२

वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ।

वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ॥ ८.०१३.३३


यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।

स्तो॒ता मे॒ गोष॑खा स्यात् ॥ ८.०१४.०१

शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।

यद॒हं गोप॑तिः॒ स्याम् ॥ ८.०१४.०२

धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते ।

गामश्वं॑ पि॒प्युषी॑ दुहे ॥ ८.०१४.०३

न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑ ।

यद्दित्स॑सि स्तु॒तो म॒घम् ॥ ८.०१४.०४

य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् ।

च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥ ८.०१४.०५

वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।

ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥ ८.०१४.०६

व्य१॒॑न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।

इन्द्रो॒ यदभि॑नद्व॒लम् ॥ ८.०१४.०७

उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः ।

अ॒र्वाञ्चं॑ नुनुदे व॒लम् ॥ ८.०१४.०८

इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च ।

स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥ ८.०१४.०९

अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते ।

वि ते॒ मदा॑ अराजिषुः ॥ ८.०१४.१०

त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः ।

स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥ ८.०१४.११

इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।

उप॑ य॒ज्ञं सु॒राध॑सम् ॥ ८.०१४.१२

अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः ।

विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥ ८.०१४.१३

मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः ।

अव॒ दस्यू॑ँरधूनुथाः ॥ ८.०१४.१४

अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः ।

सो॒म॒पा उत्त॑रो॒ भव॑न् ॥ ८.०१४.१५


तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।

इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥ ८.०१५.०१

यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी ।

गि॒रीँरज्रा॑ँ अ॒पः स्व॑र्वृषत्व॒ना ॥ ८.०१५.०२

स रा॑जसि पुरुष्टुत॒ँ एको॑ वृ॒त्राणि॑ जिघ्नसे ।

इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥ ८.०१५.०३

तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।

उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥ ८.०१५.०४

येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।

म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥ ८.०१५.०५

तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।

वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥ ८.०१५.०६

तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म् ।

वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥ ८.०१५.०७

तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑ ।

त्वामापः॒ पर्व॑तासश्च हिन्विरे ॥ ८.०१५.०८

त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।

त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥ ८.०१५.०९

त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे ।

स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥ ८.०१५.१०

स॒त्रा त्वं पु॑रुष्टुत॒ँ एको॑ वृ॒त्राणि॑ तोशसे ।

नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥ ८.०१५.११

यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ ।

अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥ ८.०१५.१२

अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् ।

इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म् ॥ ८.०१५.१३


प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।

नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥ ८.०१६.०१

यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ ।

अ॒पामवो॒ न स॑मु॒द्रे ॥ ८.०१६.०२

तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् ।

म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥ ८.०१६.०३

यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः ।

ह॒र्षु॒मन्तः॒ शूर॑सातौ ॥ ८.०१६.०४

तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते ।

येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥ ८.०१६.०५

तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ ।

ए॒ष इन्द्रो॑ वरिव॒स्कृत् ॥ ८.०१६.०६

इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्रः॑ पु॒रू पु॑रुहू॒तः ।

म॒हान्म॒हीभिः॒ शची॑भिः ॥ ८.०१६.०७

स स्तोम्यः॒ स हव्यः॑ स॒त्यः सत्वा॑ तुविकू॒र्मिः ।

एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥ ८.०१६.०८

तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णयः॑ ।

इन्द्रं॑ वर्धन्ति क्षि॒तयः॑ ॥ ८.०१६.०९

प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑ ।

सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥ ८.०१६.१०

स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।

इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥ ८.०१६.११

स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।

अच्छा॑ च नः सु॒म्नं ने॑षि ॥ ८.०१६.१२


आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।

एदं ब॒र्हिः स॑दो॒ मम॑ ॥ ८.०१७.०१

आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।

उप॒ ब्रह्मा॑णि नः श‍ृणु ॥ ८.०१७.०२

ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑ ।

सु॒ताव॑न्तो हवामहे ॥ ८.०१७.०३

आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ ।

पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥ ८.०१७.०४

आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु ।

गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥ ८.०१७.०५

स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३॒॑ तव॑ ।

सोमः॒ शम॑स्तु ते हृ॒दे ॥ ८.०१७.०६

अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः ।

प्र सोम॑ इन्द्र सर्पतु ॥ ८.०१७.०७

तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑ ।

इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥ ८.०१७.०८

इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।

वृ॒त्राणि॑ वृत्रहञ्जहि ॥ ८.०१७.०९

दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि ।

यज॑मानाय सुन्व॒ते ॥ ८.०१७.१०

अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ ।

एही॑म॒स्य द्रवा॒ पिब॑ ॥ ८.०१७.११

शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।

आख॑ण्डल॒ प्र हू॑यसे ॥ ८.०१७.१२

यस्ते॑ श‍ृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑ ।

न्य॑स्मिन्दध्र॒ आ मनः॑ ॥ ८.०१७.१३

वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना॑म् ।

द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑ ॥ ८.०१७.१४

पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एकः॒ सन्न॒भि भूय॑सः ।

भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥ ८.०१७.१५


इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।

आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥ ८.०१८.०१

अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् ।

अद॑ब्धाः॒ सन्ति॑ पा॒यवः॑ सुगे॒वृधः॑ ॥ ८.०१८.०२

तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ॥ ८.०१८.०३

दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि ।

स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ॥ ८.०१८.०४

ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे ।

अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ॥ ८.०१८.०५

अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः ।

अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥ ८.०१८.०६

उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।

सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥ ८.०१८.०७

उ॒त त्या दैव्या॑ भि॒षजा॒ शं नः॑ करतो अ॒श्विना॑ ।

यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिधः॑ ॥ ८.०१८.०८

शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ ।

शं वातो॑ वात्वर॒पा अप॒ स्रिधः॑ ॥ ८.०१८.०९

अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् ।

आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥ ८.०१८.१०

यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् ।

ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ॥ ८.०१८.११

तत्सु नः॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति ।

एन॑स्वन्तं चि॒देन॑सः सुदानवः ॥ ८.०१८.१२

यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ ।

स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जनः॑ ॥ ८.०१८.१३

समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं॑ रि॒पुम् ।

यो अ॑स्म॒त्रा दु॒र्हणा॑वा॒ँ उप॑ द्व॒युः ॥ ८.०१८.१४

पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म् ।

उप॑ द्व॒युं चाद्व॑युं च वसवः ॥ ८.०१८.१५

आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे ।

द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥ ८.०१८.१६

ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः ।

अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥ ८.०१८.१७

तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ ।

आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥ ८.०१८.१८

य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ ।

यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥ ८.०१८.१९

बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ ।

मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥ ८.०१८.२०

अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म् ।

त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः ॥ ८.०१८.२१

ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ ।

प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥ ८.०१८.२२


तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।

दे॒व॒त्रा ह॒व्यमोहि॑रे ॥ ८.०१९.०१

विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् ।

अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥ ८.०१९.०२

यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम् ।

अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥ ८.०१९.०३

ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् ।

स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥ ८.०१९.०४

यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ ।

यो नम॑सा स्वध्व॒रः ॥ ८.०१९.०५

तस्येदर्व॑न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ ।

न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥ ८.०१९.०६

स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते ।

सु॒वीर॒स्त्वम॑स्म॒युः ॥ ८.०१९.०७

प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ ।

त्वे क्षेमा॑सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा॑ रयी॒णाम् ॥ ८.०१९.०८

सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ ।

स धी॒भिर॑स्तु॒ सनि॑ता ॥ ८.०१९.०९

यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑रः॒ स सा॑धते ।

सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तम् ॥ ८.०१९.१०

यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः ।

ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥ ८.०१९.११

विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ ।

अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥ ८.०१९.१२

यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति ।

गि॒रा वा॑जि॒रशो॑चिषम् ॥ ८.०१९.१३

स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ ।

विश्वेत्स धी॒भिः सु॒भगो॒ जना॒ँ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥ ८.०१९.१४

तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् ।

म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥ ८.०१९.१५

येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ ।

व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ॥ ८.०१९.१६

ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सम् ।

विप्रा॑सो देव सु॒क्रतु॑म् ॥ ८.०१९.१७

त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि ।

त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥ ८.०१९.१८

भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।

भ॒द्रा उ॒त प्रश॑स्तयः ॥ ८.०१९.१९

भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ ।

अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥ ८.०१९.२०

ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे ।

यजि॑ष्ठं हव्य॒वाह॑नम् ॥ ८.०१९.२१

ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ ।

यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥ ८.०१९.२२

यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च ।

असु॑र इव नि॒र्णिज॑म् ॥ ८.०१९.२३

यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑ग॒न्धिना॑ ।

विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥ ८.०१९.२४

यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः ।

सह॑सः सूनवाहुत ॥ ८.०१९.२५

न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ सन्त्य ।

न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया॑ ॥ ८.०१९.२६

पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥ ८.०१९.२७

तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो ।

सदा॑ दे॒वस्य॒ मर्त्यः॑ ॥ ८.०१९.२८

तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः ।

त्वामिदा॑हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥ ८.०१९.२९

प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।

यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥ ८.०१९.३०

तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे ।

त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥ ८.०१९.३१

तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से ।

स॒म्राजं॒ त्रास॑दस्यवम् ॥ ८.०१९.३२

यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व ।

विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥ ८.०१९.३३

यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म् ।

म॒घोनां॒ विश्वे॑षां सुदानवः ॥ ८.०१९.३४

यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षय॑न्तं॒ मानु॑षा॒ँ अनु॑ ।

व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥ ८.०१९.३५

अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म् ।

मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥ ८.०१९.३६

उ॒त मे॑ प्र॒यियो॑र्व॒यियोः॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।

ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पतिः॑ ॥ ८.०१९.३७


आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः ।

स्थि॒रा चि॑न्नमयिष्णवः ॥ ८.०२०.०१

वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभिः॑ ।

इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यवः॑ ॥ ८.०२०.०२

वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम् ।

विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म् ॥ ८.०२०.०३

वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी ।

प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥ ८.०२०.०४

अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पतिः॑ ।

भूमि॒र्यामे॑षु रेजते ॥ ८.०२०.०५

अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।

यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥ ८.०२०.०६

स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः ।

वह॑न्ते॒ अह्रु॑तप्सवः ॥ ८.०२०.०७

गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ ।

गोब॑न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो॑ नः॒ स्पर॑से॒ नु ॥ ८.०२०.०८

प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वम् ।

ह॒व्या वृष॑प्रयाव्णे ॥ ८.०२०.०९

वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना ।

आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥ ८.०२०.१०

स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ ।

दवि॑द्युतत्यृ॒ष्टयः॑ ॥ ८.०२०.११

त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे ।

स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रियः॑ ॥ ८.०२०.१२

येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे ।

वयो॒ न पित्र्यं॒ सहः॑ ॥ ८.०२०.१३

तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम् ।

अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम् ॥ ८.०२०.१४

सु॒भगः॒ स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु ।

यो वा॑ नू॒नमु॒तास॑ति ॥ ८.०२०.१५

यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ ।

अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥ ८.०२०.१६

यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धसः॑ ।

युवा॑न॒स्तथेद॑सत् ॥ ८.०२०.१७

ये चार्ह॑न्ति म॒रुतः॑ सु॒दान॑वः॒ स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये ।

अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥ ८.०२०.१८

यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ अ॒भि सो॑भरे गि॒रा ।

गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥ ८.०२०.१९

सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु ।

वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ॥ ८.०२०.२०

गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुतः॒ सब॑न्धवः ।

रि॒ह॒ते क॒कुभो॑ मि॒थः ॥ ८.०२०.२१

मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति ।

अधि॑ नो गात मरुतः॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥ ८.०२०.२२

मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः ।

यू॒यं स॑खायः सप्तयः ॥ ८.०२०.२३

याभिः॒ सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म् ।

मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥ ८.०२०.२४

यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः ।

यत्पर्व॑तेषु भेष॒जम् ॥ ८.०२०.२५

विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत ।

क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥ ८.०२०.२६


व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑ ।

वाजे॑ चि॒त्रं ह॑वामहे ॥ ८.०२१.०१

उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् ।

त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥ ८.०२१.०२

आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते ।

सोमं॑ सोमपते पिब ॥ ८.०२१.०३

व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म ।

या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भिः॒ सोम॑पीतये ॥ ८.०२१.०४

सीद॑न्तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे ।

अ॒भि त्वामि॑न्द्र नोनुमः ॥ ८.०२१.०५

अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः ।

सन्ति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धियः॑ ॥ ८.०२१.०६

नूत्ना॒ इदि॑न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः ।

वि॒द्मा पु॒रा परी॑णसः ॥ ८.०२१.०७

वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे ।

उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥ ८.०२१.०८

यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे ।

सखा॑य॒ इन्द्र॑मू॒तये॑ ॥ ८.०२१.०९

हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत ।

आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥ ८.०२१.१०

त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं॑ वृषभ ब्रुवीमहि ।

सं॒स्थे जन॑स्य॒ गोम॑तः ॥ ८.०२१.११

जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्यः॑ ।

नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिन्द्र॒ प्र णो॒ धियः॑ ॥ ८.०२१.१२

अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि ।

यु॒धेदा॑पि॒त्वमि॑च्छसे ॥ ८.०२१.१३

नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्वः॑ ।

य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥ ८.०२१.१४

मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः ।

नि ष॑दाम॒ सचा॑ सु॒ते ॥ ८.०२१.१५

मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मा ते॑ गृहामहि ।

दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑ ॥ ८.०२१.१६

इन्द्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ ।

त्वं वा॑ चित्र दा॒शुषे॑ ॥ ८.०२१.१७

चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ ।

प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥ ८.०२१.१८


ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ ।

यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथुः॑ ॥ ८.०२२.०१

पू॒र्वा॒युषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ।

स॒च॒नाव॑न्तं सुम॒तिभिः॑ सोभरे॒ विद्वे॑षसमने॒हस॑म् ॥ ८.०२२.०२

इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ ।

अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥ ८.०२२.०३

यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति ।

अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥ ८.०२२.०४

रथो॒ यो वां॑ त्रिवन्धु॒रो हिर॑ण्याभीशुरश्विना ।

परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ॥ ८.०२२.०५

द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः ।

ता वा॑म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥ ८.०२२.०६

उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभिः॑ ।

येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥ ८.०२२.०७

अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू ।

आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥ ८.०२२.०८

आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू ।

यु॒ञ्जाथां॒ पीव॑री॒रिषः॑ ॥ ८.०२२.०९

याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसम् ।

ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ॥ ८.०२२.१०

यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे ।

व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ॥ ८.०२२.११

ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यम् ।

इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभिः॒ क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तम् ॥ ८.०२२.१२

तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे ।

ता उ॒ नमो॑भिरीमहे ॥ ८.०२२.१३

ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी ।

मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ॥ ८.०२२.१४

आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ ।

हु॒वे पि॒तेव॒ सोभ॑री ॥ ८.०२२.१५

मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभिः॑ ।

आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभिः॑ पुरुभोजसा ॥ ८.०२२.१६

आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा ।

गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥ ८.०२२.१७

सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑ ।

अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि ॥ ८.०२२.१८


ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसम् ।

च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम् ॥ ८.०२३.०१

दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा ।

उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम् ॥ ८.०२३.०२

येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ ।

उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑ ॥ ८.०२३.०३

उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जर॑म् ।

तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रियः॑ ॥ ८.०२३.०४

उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा ।

अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ॥ ८.०२३.०५

अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् ।

यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥ ८.०२३.०६

अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम् ।

तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥ ८.०२३.०७

य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय॑न्त॒ इत् ।

मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥ ८.०२३.०८

ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा ।

उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥ ८.०२३.०९

अच्छा॑ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यतः॑ ।

होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥ ८.०२३.१०

अग्ने॒ तव॒ त्ये अ॑ज॒रेन्धा॑नासो बृ॒हद्भाः ।

अश्वा॑ इव॒ वृष॑णस्तविषी॒यवः॑ ॥ ८.०२३.११

स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्य॑म् ।

प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥ ८.०२३.१२

यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि ।

विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥ ८.०२३.१३

श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते ।

नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥ ८.०२३.१४

न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्यः॑ ।

यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥ ८.०२३.१५

व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ ।

म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥ ८.०२३.१६

उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् ।

आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसम् ॥ ८.०२३.१७

विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त ।

श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥ ८.०२३.१८

इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्यः॑ ।

पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसम् ॥ ८.०२३.१९

तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषम् ।

वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्य॑म् ॥ ८.०२३.२०

यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् ।

भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ॥ ८.०२३.२१

प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ।

प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥ ८.०२३.२२

आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् ।

मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो॑चिषे ॥ ८.०२३.२३

नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् ।

ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥ ८.०२३.२४

अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम् ।

विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥ ८.०२३.२५

म॒हो विश्वा॑ँ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा ।

अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥ ८.०२३.२६

वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ ।

सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥ ८.०२३.२७

त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय ।

सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥ ८.०२३.२८

त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ ।

म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥ ८.०२३.२९

अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह ।

ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥ ८.०२३.३०


सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।

स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥ ८.०२४.०१

शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा ।

म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥ ८.०२४.०२

स नः॒ स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् ।

नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥ ८.०२४.०३

आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना॑नाम् ।

धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥ ८.०२४.०४

न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुरः॑ ।

न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥ ८.०२४.०५

आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिरृ॑णोम्यद्रिवः ।

आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥ ८.०२४.०६

विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम ।

उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥ ८.०२४.०७

व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः ।

वसोः॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥ ८.०२४.०८

इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ ।

अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥ ८.०२४.०९

आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से ।

दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥ ८.०२४.१०

नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ ।

मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥ ८.०२४.११

न॒ह्य१॒॑ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से ।

रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥ ८.०२४.१२

एन्दु॒मिन्द्रा॑य सिञ्चत॒ पिबा॑ति सो॒म्यं मधु॑ ।

प्र राध॑सा चोदयाते महित्व॒ना ॥ ८.०२४.१३

उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृ॒ञ्चन्त॑मब्रवम् ।

नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥ ८.०२४.१४

न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।

नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥ ८.०२४.१५

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः ।

ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥ ८.०२४.१६

इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् ।

उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥ ८.०२४.१७

तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ ।

अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥ ८.०२४.१८

एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म् ।

कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥ ८.०२४.१९

अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ ।

घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥ ८.०२४.२०

यस्यामि॑तानि वी॒र्या॒३॒॑ न राधः॒ पर्ये॑तवे ।

ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥ ८.०२४.२१

स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् ।

अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥ ८.०२४.२२

ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् ।

सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥ ८.०२४.२३

वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् ।

अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥ ८.०२४.२४

तदि॒न्द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने ।

द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥ ८.०२४.२५

तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से ।

स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणिः॑ ॥ ८.०२४.२६

य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु ।

वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥ ८.०२४.२७

यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम् ।

व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥ ८.०२४.२८

आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ ।

स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥ ८.०२४.२९

यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते ।

ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥ ८.०२४.३०


ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ।

ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥ ८.०२५.०१

मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ ।

स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥ ८.०२५.०२

ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा ।

म॒ही ज॑जा॒नादि॑तिरृ॒ताव॑री ॥ ८.०२५.०३

म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ।

ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥ ८.०२५.०४

नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ ।

सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥ ८.०२५.०५

सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ ।

नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टयः॑ ॥ ८.०२५.०६

अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः ।

ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥ ८.०२५.०७

ऋ॒तावा॑ना॒ नि षे॑दतुः॒ साम्रा॑ज्याय सु॒क्रतू॑ ।

धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥ ८.०२५.०८

अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा ।

नि चि॑न्मि॒षन्ता॑ निचि॒रा नि चि॑क्यतुः ॥ ८.०२५.०९

उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या ।

उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥ ८.०२५.१०

ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः ।

अरि॑ष्यन्तो॒ नि पा॒युभिः॑ सचेमहि ॥ ८.०२५.११

अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे ।

श्रु॒धि स्व॑यावन्सिन्धो पू॒र्वचि॑त्तये ॥ ८.०२५.१२

तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् ।

मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥ ८.०२५.१३

उ॒त नः॒ सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ ।

इन्द्रो॒ विष्णु॑र्मी॒ढ्वांसः॑ स॒जोष॑सः ॥ ८.०२५.१४

ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ।

ति॒ग्मं न क्षोदः॑ प्रति॒घ्नन्ति॒ भूर्ण॑यः ॥ ८.०२५.१५

अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ ।

तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥ ८.०२५.१६

अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम ।

मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥ ८.०२५.१७

परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः ।

उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥ ८.०२५.१८

उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ ।

अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥ ८.०२५.१९

वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ।

ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥ ८.०२५.२०

तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे ।

भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥ ८.०२५.२१

ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे ।

रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥ ८.०२५.२२

ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना ।

उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥ ८.०२५.२३

स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती ।

म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥ ८.०२५.२४


यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ ।

अतू॑र्तदक्षा वृषणा वृषण्वसू ॥ ८.०२६.०१

यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या ।

अवो॑भिर्याथो वृषणा वृषण्वसू ॥ ८.०२६.०२

ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू ।

पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥ ८.०२६.०३

आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा ।

उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये ॥ ८.०२६.०४

जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू ।

यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ॥ ८.०२६.०५

द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः ।

धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥ ८.०२६.०६

उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह ।

म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥ ८.०२६.०७

आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिन्द्र॑नासत्या गतम् ।

दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥ ८.०२६.०८

व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत् ।

सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ॥ ८.०२६.०९

अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म् ।

नेदी॑यसः कूळयातः प॒णीँरु॒त ॥ ८.०२६.१०

वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः ।

स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥ ८.०२६.११

यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभिः॑ ।

अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम् ॥ ८.०२६.१२

यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व ।

स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥ ८.०२६.१३

यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म् ।

व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥ ८.०२६.१४

अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य॑म् ।

वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा ॥ ८.०२६.१५

वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा ।

यु॒वाभ्यां॑ भूत्वश्विना ॥ ८.०२६.१६

यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे ।

श्रु॒तमिन्मे॑ अमर्त्या ॥ ८.०२६.१७

उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म् ।

सिन्धु॒र्हिर॑ण्यवर्तनिः ॥ ८.०२६.१८

स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या ।

वहे॑थे शुभ्रयावाना ॥ ८.०२६.१९

यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो ।

आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥ ८.०२६.२०

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।

अवां॒स्या वृ॑णीमहे ॥ ८.०२६.२१

त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे ।

सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः ॥ ८.०२६.२२

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् ।

वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥ ८.०२६.२३

त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ ।

ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥ ८.०२६.२४

स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः ।

कृ॒धि वाजा॑ँ अ॒पो धियः॑ ॥ ८.०२६.२५


अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे ।

ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥ ८.०२७.०१

आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः ।

विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तारः॑ ॥ ८.०२७.०२

प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः ।

आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥ ८.०२७.०३

विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः ।

अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥ ८.०२७.०४

आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः ।

ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥ ८.०२७.०५

अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ ।

आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदन्तु नः ॥ ८.०२७.०६

व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् ।

सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥ ८.०२७.०७

आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या ।

इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥ ८.०२७.०८

वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत ।

न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥ ८.०२७.०९

अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।

प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥ ८.०२७.१०

इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।

उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥ ८.०२७.११

उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः ।

नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ॥ ८.०२७.१२

दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये ।

दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥ ८.०२७.१३

दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः ।

ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑ ॥ ८.०२७.१४

प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् ।

न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥ ८.०२७.१५

प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ।

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्टः॒ सर्व॑ एधते ॥ ८.०२७.१६

ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः ।

अ॒र्य॒मा मि॒त्रो वरु॑णः॒ सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥ ८.०२७.१७

अज्रे॑ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् ।

ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे॑धन्ती॒ वि न॑श्यतु ॥ ८.०२७.१८

यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध ।

यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥ ८.०२७.१९

यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ ।

व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥ ८.०२७.२०

यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ ।

वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥ ८.०२७.२१

व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् ।

अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥ ८.०२७.२२


ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् ।

वि॒दन्नह॑ द्वि॒तास॑नन् ॥ ८.०२८.०१

वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नयः॑ ।

पत्नी॑वन्तो॒ वष॑ट्कृताः ॥ ८.०२८.०२

ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् ।

पु॒रस्ता॒त्सर्व॑या वि॒शा ॥ ८.०२८.०३

यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् ।

अरा॑वा च॒न मर्त्यः॑ ॥ ८.०२८.०४

स॒प्ता॒नां स॒प्त ऋ॒ष्टयः॑ स॒प्त द्यु॒म्नान्ये॑षाम् ।

स॒प्तो अधि॒ श्रियो॑ धिरे ॥ ८.०२८.०५


ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥ ८.०२९.०१

योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ॥ ८.०२९.०२

वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ॥ ८.०२९.०३

वज्र॒मेको॑ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ॥ ८.०२९.०४

ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥ ८.०२९.०५

प॒थ एकः॑ पीपाय॒ तस्क॑रो यथाँ ए॒ष वे॑द निधी॒नाम् ॥ ८.०२९.०६

त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद॑न्ति ॥ ८.०२९.०७

विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ॥ ८.०२९.०८

सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥ ८.०२९.०९

अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥ ८.०२९.१०


न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।

विश्वे॑ स॒तोम॑हान्त॒ इत् ॥ ८.०३०.०१

इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।

मनो॑र्देवा यज्ञियासः ॥ ८.०३०.०२

ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।

मा नः॑ प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वतः॑ ॥ ८.०३०.०३

ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।

अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥ ८.०३०.०४


यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ।

ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ॥ ८.०३१.०१

पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् ।

पादित्तं श॒क्रो अंह॑सः ॥ ८.०३१.०२

तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑तः॒ स शू॑शुवत् ।

विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥ ८.०३१.०३

अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे ।

इळा॑ धेनु॒मती॑ दुहे ॥ ८.०३१.०४

या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः ।

देवा॑सो॒ नित्य॑या॒शिरा॑ ॥ ८.०३१.०५

प्रति॑ प्राश॒व्या॑ँ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते ।

न ता वाजे॑षु वायतः ॥ ८.०३१.०६

न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः ।

श्रवो॑ बृ॒हद्वि॑वासतः ॥ ८.०३१.०७

पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः ।

उ॒भा हिर॑ण्यपेशसा ॥ ८.०३१.०८

वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् ।

समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ॥ ८.०३१.०९

आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म् ।

आ विष्णोः॑ सचा॒भुवः॑ ॥ ८.०३१.१०

ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः ।

उ॒रुरध्वा॑ स्व॒स्तये॑ ॥ ८.०३१.११

अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा ।

आ॒दि॒त्याना॑मने॒ह इत् ॥ ८.०३१.१२

यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑णः॒ सन्ति॑ गो॒पाः ।

सु॒गा ऋ॒तस्य॒ पन्थाः॑ ॥ ८.०३१.१३

अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् ।

स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥ ८.०३१.१४

म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो॑ वा पृ॒त्सु कासु॑ चित् ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ ८.०३१.१५

न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ ८.०३१.१६

नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ ८.०३१.१७

अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ ८.०३१.१८


प्र कृ॒तान्यृ॑जी॒षिणः॒ कण्वा॒ इन्द्र॑स्य॒ गाथ॑या ।

मदे॒ सोम॑स्य वोचत ॥ ८.०३२.०१

यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म् ।

वधी॑दु॒ग्रो रि॒णन्न॒पः ॥ ८.०३२.०२

न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र ।

कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥ ८.०३२.०३

प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ ।

हु॒वे सु॑शि॒प्रमू॒तये॑ ॥ ८.०३२.०४

स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्यः॑ ।

पुरं॒ न शू॑र दर्षसि ॥ ८.०३२.०५

यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ ।

आ॒रादुप॑ स्व॒धा ग॑हि ॥ ८.०३२.०६

व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः ।

त्वं नो॑ जिन्व सोमपाः ॥ ८.०३२.०७

उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम् ।

मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥ ८.०३२.०८

उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विनः॑ ।

इळा॑भिः॒ सं र॑भेमहि ॥ ८.०३२.०९

बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ ।

साधु॑ कृ॒ण्वन्त॒मव॑से ॥ ८.०३२.१०

यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा ।

ज॒रि॒तृभ्यः॑ पुरू॒वसुः॑ ॥ ८.०३२.११

स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः ।

इन्द्रो॒ विश्वा॑भिरू॒तिभिः॑ ॥ ८.०३२.१२

यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।

तमिन्द्र॑म॒भि गा॑यत ॥ ८.०३२.१३

आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म् ।

भूरे॒रीशा॑न॒मोज॑सा ॥ ८.०३२.१४

नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम् ।

नकि॑र्व॒क्ता न दा॒दिति॑ ॥ ८.०३२.१५

न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम् ।

न सोमो॑ अप्र॒ता प॑पे ॥ ८.०३२.१६

पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत ।

ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥ ८.०३२.१७

पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः ।

इन्द्रो॒ यो यज्व॑नो वृ॒धः ॥ ८.०३२.१८

वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुवः॑ ।

इन्द्र॒ पिब॑ सु॒ताना॑म् ॥ ८.०३२.१९

पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ ।

उ॒तायमि॑न्द्र॒ यस्तव॑ ॥ ८.०३२.२०

अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे ।

इ॒मं रा॒तं सु॒तं पि॑ब ॥ ८.०३२.२१

इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जना॒ँ अति॑ ।

धेना॑ इन्द्राव॒चाक॑शत् ॥ ८.०३२.२२

सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिरः॑ ।

नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥ ८.०३२.२३

अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ ।

भरा॑ सु॒तस्य॑ पी॒तये॑ ॥ ८.०३२.२४

य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिन्धू॑ँर॒वासृ॑जत् ।

यो गोषु॑ प॒क्वं धा॒रय॑त् ॥ ८.०३२.२५

अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म् ।

हि॒मेना॑विध्य॒दर्बु॑दम् ॥ ८.०३२.२६

प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ ।

दे॒वत्तं॒ ब्रह्म॑ गायत ॥ ८.०३२.२७

यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः ।

इन्द्रो॑ दे॒वेषु॒ चेत॑ति ॥ ८.०३२.२८

इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।

वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥ ८.०३२.२९

अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।

सो॒म॒पेया॑य वक्षतः ॥ ८.०३२.३०


व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।

प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥ ८.०३३.०१

स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ ।

क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥ ८.०३३.०२

कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म् ।

पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥ ८.०३३.०३

पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे ।

यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्ययः॑ ॥ ८.०३३.०४

यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे ।

य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः ॥ ८.०३३.०५

यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः ।

विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥ ८.०३३.०६

क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे ।

अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥ ८.०३३.०७

दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।

नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥ ८.०३३.०८

य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः ।

यदि॑ स्तो॒तुर्म॒घवा॑ श‍ृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥ ८.०३३.०९

स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।

वृषा॒ ह्यु॑ग्र श‍ृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥ ८.०३३.१०

वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ ।

वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥ ८.०३३.११

वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र ।

वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम् ॥ ८.०३३.१२

एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् ।

नायमच्छा॑ म॒घवा॑ श‍ृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ॥ ८.०३३.१३

वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ ।

ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥ ८.०३३.१४

अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं॑ धिष्व महामह ।

अ॒स्माकं॑ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥ ८.०३३.१५

न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति ।

यो अ॒स्मान्वी॒र आन॑यत् ॥ ८.०३३.१६

इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मनः॑ ।

उ॒तो अह॒ क्रतुं॑ र॒घुम् ॥ ८.०३३.१७

सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म् ।

ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥ ८.०३३.१८

अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र ।

मा ते॑ कशप्ल॒कौ दृ॑श॒न्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ॥ ८.०३३.१९


एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०१

आ त्वा॒ ग्रावा॒ वद॑न्नि॒ह सो॒मी घोषे॑ण यच्छतु ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०२

अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृकः॑ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०३

आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०४

दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्य॑म् ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०५

स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०६

आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शता॑मघ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०७

आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्यः॑ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०८

आ त्वा॑ मद॒च्युता॒ हरी॑ श्ये॒नं प॒क्षेव॑ वक्षतः ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०९

आ या॑ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये॑ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१०

आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.११

सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तैः॒ सम्भृ॑ताश्वः ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१२

आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टपः॑ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१३

आ नो॒ गव्या॒न्यश्व्या॑ स॒हस्रा॑ शूर दर्दृहि ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१४

आ नः॑ सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१५

आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः ।

ओजि॑ष्ठ॒मश्व्यं॑ प॒शुम् ॥ ८.०३४.१६

य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यदः॑ ।

भ्राज॑न्ते॒ सूर्या॑ इव ॥ ८.०३४.१७

पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ ।

तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥ ८.०३४.१८


अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ ८.०३५.०१

विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ ८.०३५.०२

विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ ८.०३५.०३

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ ८.०३५.०४

स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ ८.०३५.०५

गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ ८.०३५.०६

हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥ ८.०३५.०७

हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥ ८.०३५.०८

श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥ ८.०३५.०९

पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ ८.०३५.१०

जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ ८.०३५.११

ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ ८.०३५.१२

मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ ८.०३५.१३

अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ ८.०३५.१४

ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ ८.०३५.१५

ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ ८.०३५.१६

क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ ८.०३५.१७

धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ ८.०३५.१८

अत्रे॑रिव श‍ृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ ८.०३५.१९

सर्गा॑ँ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ ८.०३५.२०

र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ ८.०३५.२१

अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ ८.०३५.२२

न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ ८.०३५.२३

स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ ८.०३५.२४


अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिषः॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०१

प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०२

ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०३

ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०४

ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०५

अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०६

श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ श‍ृणु॒ यथाश‍ृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः ।

प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥ ८.०३६.०७


प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ ८.०३७.०१

से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुहः॑ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ ८.०३७.०२

ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ ८.०३७.०३

स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ ८.०३७.०४

क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ ८.०३७.०५

क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ ८.०३७.०६

श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ श‍ृणु॒ यथाश‍ृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः ।

प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥ ८.०३७.०७


य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।

इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ ८.०३८.०१

तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता ।

इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ ८.०३८.०२

इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।

इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ ८.०३८.०३

जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती ।

इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ ८.०३८.०४

इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथुः॑ ।

इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ ८.०३८.०५

इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ ।

इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ ८.०३८.०६

प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू ।

इन्द्रा॑ग्नी॒ सोम॑पीतये ॥ ८.०३८.०७

श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां श‍ृणुतं॒ हव॑म् ।

इन्द्रा॑ग्नी॒ सोम॑पीतये ॥ ८.०३८.०८

ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।

इन्द्रा॑ग्नी॒ सोम॑पीतये ॥ ८.०३८.०९

आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे ।

याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥ ८.०३८.१०


अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ ।

अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०१

न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् ।

न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०२

अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ ।

स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०३

तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ ।

ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०४

स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा ।

स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०५

अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्य॑म् ।

अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०६

अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा ।

स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०७

यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु ।

तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०८

अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।

स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०९

त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि ।

त्वामापः॑ परि॒स्रुतः॒ परि॑ यन्ति॒ स्वसे॑तवो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.१०


इन्द्रा॑ग्नी यु॒वं सु नः॒ सह॑न्ता॒ दास॑थो र॒यिम् ।

येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०१

न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् ।

स नः॑ क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०२

ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः ।

ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०३

अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा ।

ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०४

प्र ब्रह्मा॑णि नभाक॒वदि॑न्द्रा॒ग्निभ्या॑मिरज्यत ।

या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इन्द्र॒ ईशा॑न॒ ओज॑सा॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०५

अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय ।

व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०६

यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा ।

अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०७

या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभिः॑ ।

इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०८

पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तयः॒ सूनो॑ हि॒न्वस्य॑ हरिवः ।

वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०९

तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् ।

उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.१०

तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् ।

उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजैः॒ स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.११

ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि ।

त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ८.०४०.१२


अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः ।

यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०१

तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः ।

ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०२

स क्षपः॒ परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः ।

तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०३

यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः ।

स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०४

यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ ।

स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०५

यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता ।

त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वा॑ँ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०६

य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् ।

परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०७

स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे ।

स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०८

यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः ।

त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सदः॒ स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०९

यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता ।

स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.१०


अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।

आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥ ८.०४२.०१

ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् ।

स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥ ८.०४२.०२

इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।

ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥ ८.०४२.०३

आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः ।

नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४२.०४

यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् ।

नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४२.०५

ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।

नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४२.०६


इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।

गिरः॒ स्तोमा॑स ईरते ॥ ८.०४३.०१

अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।

अग्ने॒ जना॑मि सुष्टु॒तिम् ॥ ८.०४३.०२

आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ ।

द॒द्भिर्वना॑नि बप्सति ॥ ८.०४३.०३

हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।

यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥ ८.०४३.०४

ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत ।

उ॒षसा॑मिव के॒तवः॑ ॥ ८.०४३.०५

कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।

अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥ ८.०४३.०६

धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।

पुन॒र्यन्तरु॑णी॒रपि॑ ॥ ८.०४३.०७

जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न् ।

अ॒ग्निर्वने॑षु रोचते ॥ ८.०४३.०८

अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।

गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ ८.०४३.०९

उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् ।

निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥ ८.०४३.१०

उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।

स्तोमै॑र्विधेमा॒ग्नये॑ ॥ ८.०४३.११

उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।

अग्ने॑ स॒मिद्भि॑रीमहे ॥ ८.०४३.१२

उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।

अ॒ङ्गि॒र॒स्वद्ध॑वामहे ॥ ८.०४३.१३

त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्स॒ता ।

सखा॒ सख्या॑ समि॒ध्यसे॑ ॥ ८.०४३.१४

स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म् ।

अग्ने॑ वी॒रव॑ती॒मिष॑म् ॥ ८.०४३.१५

अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।

इ॒मं स्तोमं॑ जुषस्व मे ॥ ८.०४३.१६

उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।

गो॒ष्ठं गाव॑ इवाशत ॥ ८.०४३.१७

तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।

अग्ने॒ कामा॑य येमिरे ॥ ८.०४३.१८

अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ ।

अ॒द्म॒सद्या॑य हिन्विरे ॥ ८.०४३.१९

तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् ।

वह्निं॒ होता॑रमीळते ॥ ८.०४३.२०

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।

स॒मत्सु॑ त्वा हवामहे ॥ ८.०४३.२१

तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।

इ॒मं नः॑ श‍ृणव॒द्धव॑म् ॥ ८.०४३.२२

तं त्वा॑ व॒यं ह॑वामहे श‍ृ॒ण्वन्तं॑ जा॒तवे॑दसम् ।

अग्ने॒ घ्नन्त॒मप॒ द्विषः॑ ॥ ८.०४३.२३

वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् ।

अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥ ८.०४३.२४

अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम् ।

सप्तिं॒ न वा॑जयामसि ॥ ८.०४३.२५

घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।

अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥ ८.०४३.२६

यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम ।

अग्ने॒ स बो॑धि मे॒ वचः॑ ॥ ८.०४३.२७

यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।

तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥ ८.०४३.२८

तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।

धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥ ८.०४३.२९

ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।

तर॑न्तः स्याम दु॒र्गहा॑ ॥ ८.०४३.३०

अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् ।

हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥ ८.०४३.३१

स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्सूर्यो॒ न र॒श्मिभिः॑ ।

शर्ध॒न्तमां॑सि जिघ्नसे ॥ ८.०४३.३२

तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।

त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥ ८.०४३.३३


स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् ।

आस्मि॑न्ह॒व्या जु॑होतन ॥ ८.०४४.०१

अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना ।

प्रति॑ सू॒क्तानि॑ हर्य नः ॥ ८.०४४.०२

अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे ।

दे॒वाँ आ सा॑दयादि॒ह ॥ ८.०४४.०३

उत्ते॑ बृ॒हन्तो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः ।

अग्ने॑ शु॒क्रास॑ ईरते ॥ ८.०४४.०४

उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यन्तु हर्यत ।

अग्ने॑ ह॒व्या जु॑षस्व नः ॥ ८.०४४.०५

म॒न्द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुम् ।

अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥ ८.०४४.०६

प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् ।

अ॒ध्व॒राणा॑मभि॒श्रिय॑म् ॥ ८.०४४.०७

जु॒षा॒णो अ॑ङ्गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् ।

अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥ ८.०४४.०८

स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह ।

चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥ ८.०४४.०९

विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुम् ।

य॒ज्ञानां॑ के॒तुमी॑महे ॥ ८.०४४.१०

अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः ।

भि॒न्धि द्वेषः॑ सहस्कृत ॥ ८.०४४.११

अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् ।

क॒विर्विप्रे॑ण वावृधे ॥ ८.०४४.१२

ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषम् ।

अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥ ८.०४४.१३

स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ ।

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥ ८.०४४.१४

यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ ।

तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥ ८.०४४.१५

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।

अ॒पां रेतां॑सि जिन्वति ॥ ८.०४४.१६

उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते ।

तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥ ८.०४४.१७

ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।

स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥ ८.०४४.१८

त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः ।

त्वां व॑र्धन्तु नो॒ गिरः॑ ॥ ८.०४४.१९

अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ ।

अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥ ८.०४४.२०

अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः ।

शुची॑ रोचत॒ आहु॑तः ॥ ८.०४४.२१

उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ ।

अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥ ८.०४४.२२

यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हम् ।

स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥ ८.०४४.२३

वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः ।

स्याम॑ ते सुम॒तावपि॑ ॥ ८.०४४.२४

अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिन्ध॑वः ।

गिरो॑ वा॒श्रास॑ ईरते ॥ ८.०४४.२५

युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सम् ।

अ॒ग्निं शु॑म्भामि॒ मन्म॑भिः ॥ ८.०४४.२६

य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मज॑म्भाय वी॒ळवे॑ ।

स्तोमै॑रिषेमा॒ग्नये॑ ॥ ८.०४४.२७

अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु सन्त्य ।

तस्मै॑ पावक मृळय ॥ ८.०४४.२८

धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ ।

अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥ ८.०४४.२९

पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे ।

प्र ण॒ आयु॑र्वसो तिर ॥ ८.०४४.३०


आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् ।

येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥ ८.०४५.०१

बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ ।

येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥ ८.०४५.०२

अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः ।

येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥ ८.०४५.०३

आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर॑म् ।

क उ॒ग्राः के ह॑ श‍ृण्विरे ॥ ८.०४५.०४

प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।

यस्ते॑ शत्रु॒त्वमा॑च॒के ॥ ८.०४५.०५

उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् ।

यद्वी॒ळया॑सि वी॒ळु तत् ॥ ८.०४५.०६

यदा॒जिं यात्या॑जि॒कृदिन्द्रः॑ स्वश्व॒युरुप॑ ।

र॒थीत॑मो र॒थीना॑म् ॥ ८.०४५.०७

वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह ।

भवा॑ नः सु॒श्रव॑स्तमः ॥ ८.०४५.०८

अ॒स्माकं॒ सु रथं॑ पु॒र इन्द्रः॑ कृणोतु सा॒तये॑ ।

न यं धूर्व॑न्ति धू॒र्तयः॑ ॥ ८.०४५.०९

वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ।

ग॒मेमेदि॑न्द्र॒ गोम॑तः ॥ ८.०४५.१०

शनै॑श्चि॒द्यन्तो॑ अद्रि॒वोऽश्वा॑वन्तः शत॒ग्विनः॑ ।

वि॒वक्ष॑णा अने॒हसः॑ ॥ ८.०४५.११

ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ।

ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥ ८.०४५.१२

वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् ।

आ॒दा॒रिणं॒ यथा॒ गय॑म् ॥ ८.०४५.१३

क॒कु॒हं चि॑त्त्वा कवे॒ मन्द॑न्तु धृष्ण॒विन्द॑वः ।

आ त्वा॑ प॒णिं यदीम॑हे ॥ ८.०४५.१४

यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये ।

तस्य॑ नो॒ वेद॒ आ भ॑र ॥ ८.०४५.१५

इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिनः॑ ।

पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम् ॥ ८.०४५.१६

उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ सन्त॑मू॒तये॑ ।

दू॒रादि॒ह ह॑वामहे ॥ ८.०४५.१७

यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त ।

भवे॑रा॒पिर्नो॒ अन्त॑मः ॥ ८.०४५.१८

यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि ।

गो॒दा इदि॑न्द्र बोधि नः ॥ ८.०४५.१९

आ त्वा॑ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते ।

उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥ ८.०४५.२०

स्तो॒त्रमिन्द्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने ।

नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥ ८.०४५.२१

अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ ।

तृ॒म्पा व्य॑श्नुही॒ मद॑म् ॥ ८.०४५.२२

मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।

माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥ ८.०४५.२३

इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से ।

सरो॑ गौ॒रो यथा॑ पिब ॥ ८.०४५.२४

या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ।

ता सं॒सत्सु॒ प्र वो॑चत ॥ ८.०४५.२५

अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्रः॑ स॒हस्र॑बाह्वे ।

अत्रा॑देदिष्ट॒ पौंस्य॑म् ॥ ८.०४५.२६

स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यम् ।

व्या॑नट् तु॒र्वणे॒ शमि॑ ॥ ८.०४५.२७

त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः ।

स॒मा॒नमु॒ प्र शं॑सिषम् ॥ ८.०४५.२८

ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् ।

इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥ ८.०४५.२९

यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुम् ।

गोभ्यो॑ गा॒तुं निरे॑तवे ॥ ८.०४५.३०

यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि ।

मा तत्क॑रिन्द्र मृ॒ळय॑ ॥ ८.०४५.३१

द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं श‍ृ॒ण्वे अधि॒ क्षमि॑ ।

जिगा॑त्विन्द्र ते॒ मनः॑ ॥ ८.०४५.३२

तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥ ८.०४५.३३

मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ।

वधी॒र्मा शू॑र॒ भूरि॑षु ॥ ८.०४५.३४

बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ ।

द॒स्माद॒हमृ॑ती॒षहः॑ ॥ ८.०४५.३५

मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो ।

आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥ ८.०४५.३६

को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् ।

ज॒हा को अ॒स्मदी॑षते ॥ ८.०४५.३७

ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः ।

श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥ ८.०४५.३८

आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था ।

यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥ ८.०४५.३९

भि॒न्धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥ ८.०४५.४०

यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥ ८.०४५.४१

यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥ ८.०४५.४२


त्वाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः ।

स्मसि॑ स्थातर्हरीणाम् ॥ ८.०४६.०१

त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् ।

वि॒द्म दा॒तारं॑ रयी॒णाम् ॥ ८.०४६.०२

आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो ।

गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ॥ ८.०४६.०३

सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा ।

मि॒त्रः पान्त्य॒द्रुहः॑ ॥ ८.०४६.०४

दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते ।

सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥ ८.०४६.०५

तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वम् ।

ईशा॑नं रा॒य ई॑महे ॥ ८.०४६.०६

तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रवः॒ सचा॑ ।

तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥ ८.०४६.०७

यस्ते॒ मदो॒ वरे॑ण्यो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।

य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ॥ ८.०४६.०८

यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता ।

स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥ ८.०४६.०९

ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या ।

व॒रि॒व॒स्य म॑हामह ॥ ८.०४६.१०

न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा ।

द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥ ८.०४६.११

य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः ।

तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥ ८.०४६.१२

स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसुः॑ पुरःस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥ ८.०४६.१३

अ॒भि वो॑ वी॒रमन्ध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसम् ।

इन्द्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥ ८.०४६.१४

द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिन॑म् ।

नू॒नमथ॑ ॥ ८.०४६.१५

विश्वे॑षामिर॒ज्यन्तं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः ।

कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥ ८.०४६.१६

म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये ।

य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥ ८.०४६.१७

ये पा॒तय॑न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् ।

य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥ ८.०४६.१८

प्र॒भ॒ङ्गं दु॑र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र ।

र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥ ८.०४६.१९

सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त ।

प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥ ८.०४६.२०

आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे ।

यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥ ८.०४६.२१

ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता ।

दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥ ८.०४६.२२

दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शवः॑ ।

म॒थ्रा ने॒मिं नि वा॑वृतुः ॥ ८.०४६.२३

दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः ।

रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ॥ ८.०४६.२४

आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से ।

व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥ ८.०४६.२५

यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् ।

ए॒भिः सोमे॑भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ॥ ८.०४६.२६

यो म॑ इ॒मं चि॑दु॒ त्मनाम॑न्दच्चि॒त्रं दा॒वने॑ ।

अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ॥ ८.०४६.२७

उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः ।

अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥ ८.०४६.२८

अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् ।

अश्वा॑ना॒मिन्न वृष्णा॑म् ॥ ८.०४६.२९

गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य॑न्ति॒ वध्र॑यः ॥ ८.०४६.३०

अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्रा॒ँ अचि॑क्रदत् ।

अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥ ८.०४६.३१

श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे ।

ते ते॑ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद॑न्ति दे॒वगो॑पाः ॥ ८.०४६.३२

अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यम् ।

अधि॑रुक्मा॒ वि नी॑यते ॥ ८.०४६.३३


महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ ।

यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०१

वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् ।

प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०२

व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन ।

विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०३

यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः ।

मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०४

परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा ।

स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०५

प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति ।

देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०६

न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु ।

यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०७

यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु ।

यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०८

अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु ।

मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०९

यद्दे॑वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् ।

त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१०

आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ ।

सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.११

नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।

गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१२

यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् ।

त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१३

यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।

त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१४

नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः ।

त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१५

तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ ।

त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१६

यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि ।

ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१७

अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।

उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१८


स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।

विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥ ८.०४८.०१

अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।

इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥ ८.०४८.०२

अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।

किं नू॒नम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥ ८.०४८.०३

शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।

सखे॑व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥ ८.०४८.०४

इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु ।

ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥ ८.०४८.०५

अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।

अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥ ८.०४८.०६

इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।

सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥ ८.०४८.०७

सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।

अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥ ८.०४८.०८

त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ ।

यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥ ८.०४८.०९

ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।

अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥ ८.०४८.१०

अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः ।

आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥ ८.०४८.११

यो न॒ इन्दुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्या॑ँ आवि॒वेश॑ ।

तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥ ८.०४८.१२

त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।

तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ८.०४८.१३

त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ ।

व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥ ८.०४८.१४

त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ ।

त्वं न॑ इन्द ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥ ८.०४८.१५


अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे ।

यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव॒ शिक्ष॑ति ॥ ८.०४९.०१

श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे॑ ।

गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥ ८.०४९.०२

आ त्वा॑ सु॒तास॒ इन्द॑वो॒ मदा॒ य इ॑न्द्र गिर्वणः ।

आपो॒ न व॑ज्रि॒न्नन्वो॒क्यं१॒॑ सरः॑ पृ॒णन्ति॑ शूर॒ राध॑से ॥ ८.०४९.०३

अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्वः॒ स्वादि॑ष्ठमीं पिब ।

आ यथा॑ मन्दसा॒नः कि॒रासि॑ नः॒ प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥ ८.०४९.०४

आ नः॒ स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः ।

यं ते॑ स्वधावन्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तयः॑ ॥ ८.०४९.०५

उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुम् ।

उ॒द्रीव॑ वज्रिन्नव॒तो न सि॑ञ्च॒ते क्षर॑न्तीन्द्र धी॒तयः॑ ॥ ८.०४९.०६

यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ ।

अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥ ८.०४९.०७

अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिणः॑ ।

येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥ ८.०४९.०८

ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः ।

यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥ ८.०४९.०९

यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे ।

यथा॒ गोश॑र्ये॒ अस॑नोरृ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥ ८.०४९.१०


प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये ।

यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥ ८.०५०.०१

श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः ।

गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥ ८.०५०.०२

यदीं॑ सु॒तास॒ इन्द॑वो॒ऽभि प्रि॒यमम॑न्दिषुः ।

आपो॒ न धा॑यि॒ सव॑नं म॒ आ व॑सो॒ दुघा॑ इ॒वोप॑ दा॒शुषे॑ ॥ ८.०५०.०३

अ॒ने॒हसं॑ वो॒ हव॑मानमू॒तये॒ मध्वः॑ क्षरन्ति धी॒तयः॑ ।

आ त्वा॑ वसो॒ हव॑मानास॒ इन्द॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ॥ ८.०५०.०४

आ नः॒ सोमे॑ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो॑शते ।

यं ते॑ स्वदाव॒न्स्वद॑न्ति गू॒र्तयः॑ पौ॒रे छ॑न्दयसे॒ हव॑म् ॥ ८.०५०.०५

प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू॑तिं॒ राध॑सो म॒हः ।

उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा॑ पीपेथ दा॒शुषे॑ ॥ ८.०५०.०६

यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा॑ पृथि॒व्यां दि॒वि ।

यु॒जा॒न इ॑न्द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ॥ ८.०५०.०७

र॒थि॒रासो॒ हर॑यो॒ ये ते॑ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति ।

येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभिः॒ स्वः॑ प॒रीय॑से ॥ ८.०५०.०८

ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः ।

यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥ ८.०५०.०९

यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि ।

यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय॑म् ॥ ८.०५०.१०


यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् ।

नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥ ८.०५१.०१

पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् ।

स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ॥ ८.०५१.०२

य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः ।

इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ॥ ८.०५१.०३

यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे ।

स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥ ८.०५१.०४

यो नो॑ दा॒ता वसू॑ना॒मिन्द्रं॒ तं हू॑महे व॒यम् ।

वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥ ८.०५१.०५

यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते ।

तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥ ८.०५१.०६

क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।

उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ ८.०५१.०७

प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् ।

य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥ ८.०५१.०८

यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः ।

ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥ ८.०५१.०९

तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः ।

अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥ ८.०५१.१०


यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तम् ।

यथा॑ त्रि॒ते छन्द॑ इन्द्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥ ८.०५२.०१

पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नीन्द्र॑ सुवा॒ने अम॑न्दथाः ।

यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥ ८.०५२.०२

य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् ।

यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥ ८.०५२.०३

यस्य॒ त्वमि॑न्द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिञ्छतक्रतो ।

तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यवः॑ ॥ ८.०५२.०४

यो नो॑ दा॒ता स नः॑ पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् ।

अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥ ८.०५२.०५

यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति ।

व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥ ८.०५२.०६

क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।

तुरी॑यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥ ८.०५२.०७

यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वणः॒ शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ ।

अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हव॑म् ॥ ८.०५२.०८

अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत ।

पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥ ८.०५२.०९

समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् ।

सं शु॒क्रासः॒ शुच॑यः॒ सं गवा॑शिरः॒ सोमा॒ इन्द्र॑ममन्दिषुः ॥ ८.०५२.१०


उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म् ।

पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥ ८.०५३.०१

य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे ।

तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥ ८.०५३.०२

आ नो॒ विश्वे॑षां॒ रसं॒ मध्वः॑ सिञ्च॒न्त्वद्र॑यः ।

ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतीन्द॑वः ॥ ८.०५३.०३

विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑ ।

शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ॥ ८.०५३.०४

इन्द्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभिः॑ ।

आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभिः॑ ॥ ८.०५३.०५

आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम् ।

प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिनः॒ क्रतुं॑ पुन॒त आ॑नु॒षक् ॥ ८.०५३.०६

यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते ।

व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥ ८.०५३.०७

अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभिः॑ ।

त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे॑ मथी॒नाम् ॥ ८.०५३.०८


ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ।

ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभिः॑ ॥ ८.०५४.०१

नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से ।

यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥ ८.०५४.०२

आ नो॒ विश्वे॑ स॒जोष॑सो॒ देवा॑सो॒ गन्त॒नोप॑ नः ।

वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मञ्छृ॒ण्वन्तु॑ म॒रुतो॒ हव॑म् ॥ ८.०५४.०३

पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव॑न्तु स॒प्त सिन्ध॑वः ।

आपो॒ वातः॒ पर्व॑तासो॒ वन॒स्पतिः॑ श‍ृ॒णोतु॑ पृथि॒वी हव॑म् ॥ ८.०५४.०४

यदि॑न्द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम ।

तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥ ८.०५४.०५

आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो ।

वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि श‍ृ॑ण्विरे ॥ ८.०५४.०६

सन्ति॒ ह्य१॒॑र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना॑नाम् ।

अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ॥ ८.०५४.०७

व॒यं त॑ इन्द्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो ।

महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥ ८.०५४.०८


भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति ।

राध॑स्ते दस्यवे वृक ॥ ८.०५५.०१

श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते ।

म॒ह्ना दिवं॒ न त॑स्तभुः ॥ ८.०५५.०२

श॒तं वे॒णूञ्छ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ ।

श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतम् ॥ ८.०५५.०३

सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्तः॑ ।

अश्वा॑सो॒ न च॑ङ्क्रमत ॥ ८.०५५.०४

आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ ।

श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥ ८.०५५.०५


प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यम् ।

द्यौर्न प्र॑थि॒ना शवः॑ ॥ ८.०५६.०१

दश॒ मह्यं॑ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृकः॑ ।

नित्या॑द्रा॒यो अ॑मंहत ॥ ८.०५६.०२

श॒तं मे॑ गर्द॒भानां॑ श॒तमूर्णा॑वतीनाम् ।

श॒तं दा॒साँ अति॒ स्रजः॑ ॥ ८.०५६.०३

तत्रो॒ अपि॒ प्राणी॑यत पू॒तक्र॑तायै॒ व्य॑क्ता ।

अश्वा॑ना॒मिन्न यू॒थ्या॑म् ॥ ८.०५६.०४

अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः ।

अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥ ८.०५६.०५


यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा ।

आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥ ८.०५७.०१

यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् ।

अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥ ८.०५७.०२

प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः ।

स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वा॒ँ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥ ८.०५७.०३

अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातम् ।

पिब॑तं॒ सोमं॒ मधु॑मन्तम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥ ८.०५७.०४


यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्तः॒ सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति ।

यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥ ८.०५८.०१

एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एकः॒ सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः ।

एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥ ८.०५८.०२

ज्योति॑ष्मन्तं केतु॒मन्तं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारम् ।

चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ॥ ८.०५८.०३


इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् ।

य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥ ८.०५९.०१

नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त ।

या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययोः॒ शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥ ८.०५९.०२

स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः॑ ।

ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥ ८.०५९.०३

घृ॒त॒प्रुषः॒ सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑रः॒ सद॑न ऋ॒तस्य॑ ।

या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ॥ ८.०५९.०४

अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् ।

अ॒स्मान्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ॥ ८.०५९.०५

इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ ।

यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥ ८.०५९.०६

इन्द्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् ।

प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ॥ ८.०५९.०७


अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे ।

आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥ ८.०६०.०१

अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर॑न्त्यध्व॒रे ।

ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥ ८.०६०.०२

अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्यः॑ ।

म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥ ८.०६०.०३

अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ ।

अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि॑र्हि॒तः ॥ ८.०६०.०४

त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातरृ॒तस्क॒विः ।

त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासन्ति वे॒धसः॑ ॥ ८.०६०.०५

शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि ।

दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रयः॑ शत्रू॒षाहः॑ स्व॒ग्नयः॑ ॥ ८.०६०.०६

यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ ।

ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥ ८.०६०.०७

मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः ।

अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभिः॑ पाहि पा॒युभिः॑ ॥ ८.०६०.०८

पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या ।

पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥ ८.०६०.०९

पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्णः॒ प्र स्म॒ वाजे॑षु नोऽव ।

त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥ ८.०६०.१०

आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्य॑म् ।

रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरम् ॥ ८.०६०.११

येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तर॑न्तो अ॒र्य आ॒दिशः॑ ।

स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विदः॑ ॥ ८.०६०.१२

शिशा॑नो वृष॒भो य॑था॒ग्निः श‍ृङ्गे॒ दवि॑ध्वत् ।

ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे॑ सु॒जम्भः॒ सह॑सो य॒हुः ॥ ८.०६०.१३

न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जम्भा॑सो॒ यद्वि॒तिष्ठ॑से ।

स त्वं नो॑ होतः॒ सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥ ८.०६०.१४

शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इन्धते ।

अत॑न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥ ८.०६०.१५

स॒प्त होता॑र॒स्तमिदी॑ळते॒ त्वाग्ने॑ सु॒त्यज॒मह्र॑यम् ।

भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने॑ तिष्ठ॒ जना॒ँ अति॑ ॥ ८.०६०.१६

अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः ।

अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता॑रं चर्षणी॒नाम् ॥ ८.०६०.१७

केते॑न॒ शर्म॑न्सचते सुषा॒मण्यग्ने॒ तुभ्यं॑ चिकि॒त्वना॑ ।

इ॒ष॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥ ८.०६०.१८

अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षसः॑ ।

अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥ ८.०६०.१९

मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑ताम् ।

प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विनः॑ ॥ ८.०६०.२०


उ॒भयं॑ श‍ृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ ।

स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥ ८.०६१.०१

तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ ।

उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥ ८.०६१.०२

आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः ।

वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥ ८.०६१.०३

अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वशः॑ ।

स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥ ८.०६१.०४

श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।

भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥ ८.०६१.०५

पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ ।

नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥ ८.०६१.०६

त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये ।

उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ॥ ८.०६१.०७

त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे ।

आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥ ८.०६१.०८

अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेन्द्र ते॒ वचः॑ ।

स प्र म॑मन्दत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥ ८.०६१.०९

उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे श‍ृ॒णव॒द्धव॑म् ।

व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥ ८.०६१.१०

न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः ।

यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥ ८.०६१.११

उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् ।

वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥ ८.०६१.१२

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।

मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥ ८.०६१.१३

त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः ।

तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥ ८.०६१.१४

इन्द्रः॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः ।

स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥ ८.०६१.१५

त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वतः॑ ।

आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥ ८.०६१.१६

अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः ।

विश्वा॑ च नो जरि॒तॄन्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥ ८.०६१.१७

प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या॑य॒ कम् ।

उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतुः॑ ॥ ८.०६१.१८


प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति ।

उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०१

अ॒यु॒जो अस॑मो॒ नृभि॒रेकः॑ कृ॒ष्टीर॒यास्यः॑ ।

पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०२

अहि॑तेन चि॒दर्व॑ता जी॒रदा॑नुः सिषासति ।

प्र॒वाच्य॑मिन्द्र॒ तत्तव॑ वी॒र्या॑णि करिष्य॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०३

आ या॑हि कृ॒णवा॑म त॒ इन्द्र॒ ब्रह्मा॑णि॒ वर्ध॑ना ।

येभिः॑ शविष्ठ चा॒कनो॑ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०४

धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑ कृ॒णोषी॑न्द्र॒ यत्त्वम् ।

ती॒व्रैः सोमैः॑ सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०५

अव॑ चष्ट॒ ऋची॑षमोऽव॒ताँ इ॑व॒ मानु॑षः ।

जु॒ष्ट्वी दक्ष॑स्य सो॒मिनः॒ सखा॑यं कृणुते॒ युजं॑ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०६

विश्वे॑ त इन्द्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः ।

भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०७

गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये ।

यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०८

सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा ।

वि॒दे तदिन्द्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.०९

उज्जा॒तमि॑न्द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतु॑म् ।

भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.१०

अ॒हं च॒ त्वं च॑ वृत्रह॒न्सं यु॑ज्याव स॒निभ्य॒ आ ।

अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.११

स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम॒ नानृ॑तम् ।

म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ ८.०६२.१२


स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे ।

यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥ ८.०६३.०१

दि॒वो मानं॒ नोत्स॑द॒न्सोम॑पृष्ठासो॒ अद्र॑यः ।

उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥ ८.०६३.०२

स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ ।

स्तु॒षे तद॑स्य॒ पौंस्य॑म् ॥ ८.०६३.०३

स प्र॒त्नथा॑ कविवृ॒ध इन्द्रो॑ वा॒कस्य॑ व॒क्षणिः॑ ।

शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा ग॒न्त्वव॑से ॥ ८.०६३.०४

आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः ।

श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥ ८.०६३.०५

इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।

यम॒र्का अ॑ध्व॒रं वि॒दुः ॥ ८.०६३.०६

यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत ।

अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥ ८.०६३.०७

इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ ।

प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ॥ ८.०६३.०८

अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ ।

यवं॒ न प॒श्व आ द॑दे ॥ ८.०६३.०९

तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः ।

स्याम॑ म॒रुत्व॑तो वृ॒धे ॥ ८.०६३.१०

बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः ।

जेषा॑मेन्द्र॒ त्वया॑ यु॒जा ॥ ८.०६३.११

अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ ।

यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥ ८.०६३.१२


उत्त्वा॑ मन्दन्तु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः ।

अव॑ ब्रह्म॒द्विषो॑ जहि ॥ ८.०६४.०१

प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।

न॒हि त्वा॒ कश्च॒न प्रति॑ ॥ ८.०६४.०२

त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् ।

त्वं राजा॒ जना॑नाम् ॥ ८.०६४.०३

एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोष॑ञ्चर्षणी॒नाम् ।

ओभे पृ॑णासि॒ रोद॑सी ॥ ८.०६४.०४

त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव॑न्तं सह॒स्रिण॑म् ।

वि स्तो॒तृभ्यो॑ रुरोजिथ ॥ ८.०६४.०५

व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।

अ॒स्माकं॒ काम॒मा पृ॑ण ॥ ८.०६४.०६

क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।

ब्र॒ह्मा कस्तं स॑पर्यति ॥ ८.०६४.०७

कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति ।

इन्द्रं॒ क उ॑ स्वि॒दा च॑के ॥ ८.०६४.०८

कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ ।

उ॒क्थे क उ॑ स्वि॒दन्त॑मः ॥ ८.०६४.०९

अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते ।

तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥ ८.०६४.१०

अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः ।

आ॒र्जी॒कीये॑ म॒दिन्त॑मः ॥ ८.०६४.११

तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये ।

एही॑मिन्द्र॒ द्रवा॒ पिब॑ ॥ ८.०६४.१२


यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।

आ या॑हि॒ तूय॑मा॒शुभिः॑ ॥ ८.०६५.०१

यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे ।

यद्वा॑ समु॒द्रे अन्ध॑सः ॥ ८.०६५.०२

आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से ।

इन्द्र॒ सोम॑स्य पी॒तये॑ ॥ ८.०६५.०३

आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ ।

रथे॑ वहन्तु॒ बिभ्र॑तः ॥ ८.०६५.०४

इन्द्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् ।

एहि॑ नः सु॒तं पिब॑ ॥ ८.०६५.०५

सु॒ताव॑न्तस्त्वा व॒यं प्रय॑स्वन्तो हवामहे ।

इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥ ८.०६५.०६

यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् ।

तं त्वा॑ व॒यं ह॑वामहे ॥ ८.०६५.०७

इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।

जु॒षा॒ण इ॑न्द्र॒ तत्पि॑ब ॥ ८.०६५.०८

विश्वा॑ँ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि ।

अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥ ८.०६५.०९

दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीना॑म् ।

मा दे॑वा म॒घवा॑ रिषत् ॥ ८.०६५.१०

स॒हस्रे॒ पृष॑तीना॒मधि॑ श्च॒न्द्रं बृ॒हत्पृ॒थु ।

शु॒क्रं हिर॑ण्य॒मा द॑दे ॥ ८.०६५.११

नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः ।

श्रवो॑ दे॒वेष्व॑क्रत ॥ ८.०६५.१२


तरो॑भिर्वो वि॒दद्व॑सु॒मिन्द्रं॑ स॒बाध॑ ऊ॒तये॑ ।

बृ॒हद्गाय॑न्तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिण॑म् ॥ ८.०६६.०१

न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः ।

य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥ ८.०६६.०२

यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्ययः॑ ।

स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥ ८.०६६.०३

निखा॑तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ ।

व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्रः॒ क्रत्वा॒ यथा॒ वश॑त् ॥ ८.०६६.०४

यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् ।

व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ॥ ८.०६६.०५

सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः ।

त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ॥ ८.०६६.०६

व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म् ।

तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥ ८.०६६.०७

वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति ।

सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥ ८.०६६.०८

कदू॒ न्व१॒॑स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् ।

केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥ ८.०६६.०९

कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो अस्तृ॑तम् ।

इन्द्रो॒ विश्वा॑न्बेक॒नाटा॑ँ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥ ८.०६६.१०

व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् ।

पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥ ८.०६६.११

पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव॑न्त इन्द्रो॒तयः॑ ।

ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव॑म् ॥ ८.०६६.१२

व॒यं घा॑ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि ।

न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥ ८.०६६.१३

त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि ।

त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥ ८.०६६.१४

सोम॒ इद्वः॑ सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन ।

अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥ ८.०६६.१५


त्यान्नु क्ष॒त्रिया॒ँ अव॑ आदि॒त्यान्या॑चिषामहे ।

सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥ ८.०६७.०१

मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा ।

आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥ ८.०६७.०२

तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ ।

आ॒दि॒त्याना॑मरं॒कृते॑ ॥ ८.०६७.०३

महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् ।

अवां॒स्या वृ॑णीमहे ॥ ८.०६७.०४

जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् ।

कद्ध॑ स्थ हवनश्रुतः ॥ ८.०६७.०५

यद्वः॑ श्रा॒न्ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः ।

तेना॑ नो॒ अधि॑ वोचत ॥ ८.०६७.०६

अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः ।

आदि॑त्या॒ अद्भु॑तैनसः ॥ ८.०६७.०७

मा नः॒ सेतुः॑ सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ ।

इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥ ८.०६७.०८

मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः ।

देवा॑ अ॒भि प्र मृ॑क्षत ॥ ८.०६७.०९

उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे ।

सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥ ८.०६७.१०

पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः ।

माकि॑स्तो॒कस्य॑ नो रिषत् ॥ ८.०६७.११

अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे ।

कृ॒धि तो॒काय॑ जी॒वसे॑ ॥ ८.०६७.१२

ये मू॒र्धानः॑ क्षिती॒नामद॑ब्धासः॒ स्वय॑शसः ।

व्र॒ता रक्ष॑न्ते अ॒द्रुहः॑ ॥ ८.०६७.१३

ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त ।

स्ते॒नं ब॒द्धमि॑वादिते ॥ ८.०६७.१४

अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः ।

अ॒स्मदे॒त्वज॑घ्नुषी ॥ ८.०६७.१५

शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् ।

पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥ ८.०६७.१६

शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं॑ चि॒देन॑सः ।

देवाः॑ कृणु॒थ जी॒वसे॑ ॥ ८.०६७.१७

तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति ।

ब॒न्धाद्ब॒द्धमि॑वादिते ॥ ८.०६७.१८

नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ ।

यू॒यम॒स्मभ्यं॑ मृळत ॥ ८.०६७.१९

मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरुः॑ ।

पु॒रा नु ज॒रसो॑ वधीत् ॥ ८.०६७.२०

वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् ।

विष्व॒ग्वि वृ॑हता॒ रपः॑ ॥ ८.०६७.२१


आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि ।

तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥ ८.०६८.०१

तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते ।

आ प॑प्राथ महित्व॒ना ॥ ८.०६८.०२

यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतुः॑ ।

हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥ ८.०६८.०३

वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः ।

एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम् ॥ ८.०६८.०४

अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नरः॑ ।

नाना॒ हव॑न्त ऊ॒तये॑ ॥ ८.०६८.०५

प॒रोमा॑त्र॒मृची॑षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम् ।

ईशा॑नं चि॒द्वसू॑नाम् ॥ ८.०६८.०६

तंत॒मिद्राध॑से म॒ह इन्द्रं॑ चोदामि पी॒तये॑ ।

यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥ ८.०६८.०७

न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्यः॑ ।

नकिः॒ शवां॑सि ते नशत् ॥ ८.०६८.०८

त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धन॑म् ।

जये॑म पृ॒त्सु व॑ज्रिवः ॥ ८.०६८.०९

तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम ।

इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म् ॥ ८.०६८.१०

यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः ।

य॒ज्ञो वि॑तन्त॒साय्यः॑ ॥ ८.०६८.११

उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि ।

उ॒रु णो॑ यन्धि जी॒वसे॑ ॥ ८.०६८.१२

उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पन्था॑म् ।

दे॒ववी॑तिं मनामहे ॥ ८.०६८.१३

उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या॑ ।

तिष्ठ॑न्ति स्वादुरा॒तयः॑ ॥ ८.०६८.१४

ऋ॒ज्रावि॑न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ ।

आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥ ८.०६८.१५

सु॒रथा॑ँ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे ।

आ॒श्व॒मे॒धे सु॒पेश॑सः ॥ ८.०६८.१६

षळश्वा॑ँ आतिथि॒ग्व इ॑न्द्रो॒ते व॒धूम॑तः ।

सचा॑ पू॒तक्र॑तौ सनम् ॥ ८.०६८.१७

ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी ।

स्व॒भी॒शुः कशा॑वती ॥ ८.०६८.१८

न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्यः॑ ।

अ॒व॒द्यमधि॑ दीधरत् ॥ ८.०६८.१९


प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ म॒न्दद्वी॑रा॒येन्द॑वे ।

धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥ ८.०६९.०१

न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् ।

पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥ ८.०६९.०२

ता अ॑स्य॒ सूद॑दोहसः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।

जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥ ८.०६९.०३

अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे ।

सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥ ८.०६९.०४

आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ ।

यत्रा॒भि सं॒नवा॑महे ॥ ८.०६९.०५

इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।

यत्सी॑मुपह्व॒रे वि॒दत् ॥ ८.०६९.०६

उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि ।

मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ॥ ८.०६९.०७

अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त ।

अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥ ८.०६९.०८

अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् ।

पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ॥ ८.०६९.०९

आ यत्पत॑न्त्ये॒न्यः॑ सु॒दुघा॒ अन॑पस्फुरः ।

अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥ ८.०६९.१०

अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत ।

वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ॥ ८.०६९.११

सु॒दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः ।

अ॒नु॒क्षर॑न्ति का॒कुदं॑ सू॒र्म्यं॑ सुषि॒रामि॑व ॥ ८.०६९.१२

यो व्यती॒ँरफा॑णय॒त्सुयु॑क्ता॒ँ उप॑ दा॒शुषे॑ ।

त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥ ८.०६९.१३

अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ।

भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥ ८.०६९.१४

अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म् ।

स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥ ८.०६९.१५

आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म् ।

अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥ ८.०६९.१६

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।

अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥ ८.०६९.१७

अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम् ।

पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥ ८.०६९.१८


यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।

विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥ ८.०७०.०१

इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।

हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥ ८.०७०.०२

नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् ।

इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥ ८.०७०.०३

अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑ ।

सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥ ८.०७०.०४

यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।

न त्वा॑ वज्रिन्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ ८.०७०.०५

आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा ।

अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ॥ ८.०७०.०६

न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्यः॑ ।

एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥ ८.०७०.०७

तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म् ।

यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ॥ ८.०७०.०८

उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ।

उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे ॥ ८.०७०.०९

त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि ।

मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः॑ ॥ ८.०७०.१०

अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम् ।

अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥ ८.०७०.११

त्वं न॑ इन्द्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।

धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥ ८.०७०.१२

सखा॑यः॒ क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।

उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥ ८.०७०.१३

भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे ।

यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ॥ ८.०७०.१४

क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् ।

अ॒जां सू॒रिर्न धात॑वे ॥ ८.०७०.१५


त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः ।

उ॒त द्वि॒षो मर्त्य॑स्य ॥ ८.०७१.०१

न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि वः॑ प्रियजात ।

त्वमिद॑सि॒ क्षपा॑वान् ॥ ८.०७१.०२

स नो॒ विश्वे॑भिर्दे॒वेभि॒रूर्जो॑ नपा॒द्भद्र॑शोचे ।

र॒यिं दे॑हि वि॒श्ववा॑रम् ॥ ८.०७१.०३

न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवन्त रा॒यः ।

यं त्राय॑से दा॒श्वांस॑म् ॥ ८.०७१.०४

यं त्वं वि॑प्र मे॒धसा॑ता॒वग्ने॑ हि॒नोषि॒ धना॑य ।

स तवो॒ती गोषु॒ गन्ता॑ ॥ ८.०७१.०५

त्वं र॒यिं पु॑रु॒वीर॒मग्ने॑ दा॒शुषे॒ मर्ता॑य ।

प्र णो॑ नय॒ वस्यो॒ अच्छ॑ ॥ ८.०७१.०६

उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः ।

दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥ ८.०७१.०७

अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो युयोत ।

त्वमी॑शिषे॒ वसू॑नाम् ॥ ८.०७१.०८

स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो॑ नपा॒न्माहि॑नस्य ।

सखे॑ वसो जरि॒तृभ्यः॑ ॥ ८.०७१.०९

अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यन्तु दर्श॒तम् ।

अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥ ८.०७१.१०

अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णाम् ।

द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ म॒न्द्रत॑मो वि॒शि ॥ ८.०७१.११

अ॒ग्निं वो॑ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।

अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ॥ ८.०७१.१२

अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णाम् ।

अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं॑ तनू॒पाम् ॥ ८.०७१.१३

अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् ।

अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥ ८.०७१.१४

अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे ।

विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑रृषू॒णाम् ॥ ८.०७१.१५


ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ ।

वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥ ८.०७२.०१

नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ ।

जु॒षा॒णो अ॑स्य स॒ख्यम् ॥ ८.०७२.०२

अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ ।

गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥ ८.०७२.०३

जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् ।

दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥ ८.०७२.०४

चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते ।

वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥ ८.०७२.०५

उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् ।

दा॒मा रथ॑स्य॒ ददृ॑शे ॥ ८.०७२.०६

दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः ।

ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ॥ ८.०७२.०७

आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्रः॒ कोश॑मचुच्यवीत् ।

खेद॑या त्रि॒वृता॑ दि॒वः ॥ ८.०७२.०८

परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी ।

मध्वा॒ होता॑रो अञ्जते ॥ ८.०७२.०९

सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् ।

नी॒चीन॑बार॒मक्षि॑तम् ॥ ८.०७२.१०

अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ ।

अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥ ८.०७२.११

गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ ।

उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥ ८.०७२.१२

आ सु॒ते सि॑ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय॑म् ।

र॒सा द॑धीत वृष॒भम् ॥ ८.०७२.१३

ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभिः॑ ।

मि॒थो न॑सन्त जा॒मिभिः॑ ॥ ८.०७२.१४

उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि ।

इन्द्रे॑ अ॒ग्ना नमः॒ स्वः॑ ॥ ८.०७२.१५

अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः ।

सूर्य॑स्य स॒प्त र॒श्मिभिः॑ ॥ ८.०७२.१६

सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे ।

तदातु॑रस्य भेष॒जम् ॥ ८.०७२.१७

उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् ।

परि॒ द्यां जि॒ह्वया॑तनत् ॥ ८.०७२.१८


उदी॑राथामृताय॒ते यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०१

नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०२

उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०३

कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०४

यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०५

अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्य॑म् ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०६

अव॑न्त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०७

वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०८

प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०९

इ॒हा ग॑तं वृषण्वसू श‍ृणु॒तं म॑ इ॒मं हव॑म् ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१०

किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.११

स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१२

यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१३

आ नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रै॒रुप॑ गच्छतम् ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१४

मा नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रे॑भि॒रति॑ ख्यतम् ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१५

अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑रृ॒ताव॑री ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१६

अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१७

पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा ।

अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१८


वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्तः॑ पुरुप्रि॒यम् ।

अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥ ८.०७४.०१

यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् ।

प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥ ८.०७४.०२

पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।

ह॒व्यान्यैर॑यद्दि॒वि ॥ ८.०७४.०३

आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् ।

यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥ ८.०७४.०४

अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् ।

घृ॒ताह॑वन॒मीड्य॑म् ॥ ८.०७४.०५

स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।

जुह्वा॑नासो य॒तस्रु॑चः ॥ ८.०७४.०६

इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।

मन्द्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥ ८.०७४.०७

सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।

तया॑ वर्धस्व॒ सुष्टु॑तः ॥ ८.०७४.०८

सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ।

दधी॑त वृत्र॒तूर्ये॑ ॥ ८.०७४.०९

अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् ।

यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टयः॑ ॥ ८.०७४.१०

यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अङ्गिरः ।

स पा॑वक श्रुधी॒ हव॑म् ॥ ८.०७४.११

यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।

स बो॑धि वृत्र॒तूर्ये॑ ॥ ८.०७४.१२

अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।

शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ॥ ८.०७४.१३

मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ ।

सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य॑म् ॥ ८.०७४.१४

स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् ।

नेमा॑पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ॥ ८.०७४.१५


यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ँ अश्वा॑ँ अग्ने र॒थीरि॑व ।

नि होता॑ पू॒र्व्यः स॑दः ॥ ८.०७५.०१

उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।

श्रद्विश्वा॒ वार्या॑ कृधि ॥ ८.०७५.०२

त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत ।

ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥ ८.०७५.०३

अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ ।

मू॒र्धा क॒वी र॑यी॒णाम् ॥ ८.०७५.०४

तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।

नेदी॑यो य॒ज्ञम॑ङ्गिरः ॥ ८.०७५.०५

तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।

वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥ ८.०७५.०६

कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।

प॒णिं गोषु॑ स्तरामहे ॥ ८.०७५.०७

मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः ।

कृ॒शं न हा॑सु॒रघ्न्याः॑ ॥ ८.०७५.०८

मा नः॑ समस्य दू॒ढ्य१॒ः॑ परि॑द्वेषसो अंह॒तिः ।

ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥ ८.०७५.०९

नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ ।

अमै॑र॒मित्र॑मर्दय ॥ ८.०७५.१०

कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् ।

उरु॑कृदु॒रु ण॑स्कृधि ॥ ८.०७५.११

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।

सं॒वर्गं॒ सं र॒यिं ज॑य ॥ ८.०७५.१२

अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।

वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥ ८.०७५.१३

यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा ।

तं घेद॒ग्निर्वृ॒धाव॑ति ॥ ८.०७५.१४

पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र ।

यत्रा॒हमस्मि॒ ताँ अ॑व ॥ ८.०७५.१५

वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।

अधा॑ ते सु॒म्नमी॑महे ॥ ८.०७५.१६


इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा ।

म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥ ८.०७६.०१

अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिरः॑ ।

वज्रे॑ण श॒तप॑र्वणा ॥ ८.०७६.०२

वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै॑रयत् ।

सृ॒जन्स॑मु॒द्रिया॑ अ॒पः ॥ ८.०७६.०३

अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् ।

इन्द्रे॑ण॒ सोम॑पीतये ॥ ८.०७६.०४

म॒रुत्व॑न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन॑म् ।

इन्द्रं॑ गी॒र्भिर्ह॑वामहे ॥ ८.०७६.०५

इन्द्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व॑न्तं हवामहे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥ ८.०७६.०६

म॒रुत्वा॑ँ इन्द्र मीढ्वः॒ पिबा॒ सोमं॑ शतक्रतो ।

अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥ ८.०७६.०७

तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः ।

हृ॒दा हू॑यन्त उ॒क्थिनः॑ ॥ ८.०७६.०८

पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु ।

वज्रं॒ शिशा॑न॒ ओज॑सा ॥ ८.०७६.०९

उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।

सोम॑मिन्द्र च॒मू सु॒तम् ॥ ८.०७६.१०

अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् ।

इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥ ८.०७६.११

वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म् ।

इन्द्रा॒त्परि॑ त॒न्वं॑ ममे ॥ ८.०७६.१२


ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तर॑म् ।

क उ॒ग्राः के ह॑ श‍ृण्विरे ॥ ८.०७७.०१

आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव॑म् ।

ते पु॑त्र सन्तु नि॒ष्टुरः॑ ॥ ८.०७७.०२

समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या ।

प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥ ८.०७७.०३

एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शत॑म् ।

इन्द्रः॒ सोम॑स्य काणु॒का ॥ ८.०७७.०४

अ॒भि ग॑न्ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा ।

इन्द्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥ ८.०७७.०५

निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नम् ।

इन्द्रो॑ बु॒न्दं स्वा॑ततम् ॥ ८.०७७.०६

श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् ।

यमि॑न्द्र चकृ॒षे युज॑म् ॥ ८.०७७.०७

तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे ।

स॒द्यो जा॒त ऋ॑भुष्ठिर ॥ ८.०७७.०८

ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा ।

हृ॒दा वी॒ड्व॑धारयः ॥ ८.०७७.०९

विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः ।

श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिन्द्र॑ एमु॒षम् ॥ ८.०७७.१०

तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बु॒न्दो हि॑र॒ण्ययः॑ ।

उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥ ८.०७७.११


पु॒रो॒ळाशं॑ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र ।

श॒ता च॑ शूर॒ गोना॑म् ॥ ८.०७८.०१

आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् ।

सचा॑ म॒ना हि॑र॒ण्यया॑ ॥ ८.०७८.०२

उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र ।

त्वं हि श‍ृ॑ण्वि॒षे व॑सो ॥ ८.०७८.०३

नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त ।

नान्यस्त्वच्छू॑र वा॒घतः॑ ॥ ८.०७८.०४

नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे ।

विश्वं॑ श‍ृणोति॒ पश्य॑ति ॥ ८.०७८.०५

स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते ।

पु॒रा नि॒दश्चि॑कीषते ॥ ८.०७८.०६

क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः ।

वृ॒त्र॒घ्नः सो॑म॒पाव्नः॑ ॥ ८.०७८.०७

त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा ।

सु॒दात्वप॑रिह्वृता ॥ ८.०७८.०८

त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः ।

त्वाम॑श्व॒युरेष॑ते ॥ ८.०७८.०९

तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।

दि॒नस्य॑ वा मघव॒न्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥ ८.०७८.१०


अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ ।

ऋषि॒र्विप्रः॒ काव्ये॑न ॥ ८.०७९.०१

अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् ।

प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥ ८.०७९.०२

त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।

उ॒रु य॒न्तासि॒ वरू॑थम् ॥ ८.०७९.०३

त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् ।

यावी॑र॒घस्य॑ चि॒द्द्वेषः॑ ॥ ८.०७९.०४

अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् ।

व॒वृ॒ज्युस्तृष्य॑तः॒ काम॑म् ॥ ८.०७९.०५

वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् ।

प्रेमायु॑स्तारी॒दती॑र्णम् ॥ ८.०७९.०६

सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः ।

भवा॑ नः सोम॒ शं हृ॒दे ॥ ८.०७९.०७

मा नः॑ सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् ।

मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥ ८.०७९.०८

अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ ।

राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒ अप॒ स्रिधः॑ सेध ॥ ८.०७९.०९


न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो ।

त्वं न॑ इन्द्र मृळय ॥ ८.०८०.०१

यो नः॒ शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये ।

स त्वं न॑ इन्द्र मृळय ॥ ८.०८०.०२

किम॒ङ्ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि ।

कु॒वित्स्वि॑न्द्र णः॒ शकः॑ ॥ ८.०८०.०३

इन्द्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्सन्त॑मद्रिवः ।

पु॒रस्ता॑देनं मे कृधि ॥ ८.०८०.०४

हन्तो॒ नु किमा॑ससे प्रथ॒मं नो॒ रथं॑ कृधि ।

उ॒प॒मं वा॑ज॒यु श्रवः॑ ॥ ८.०८०.०५

अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ ।

अ॒स्मान्सु जि॒ग्युष॑स्कृधि ॥ ८.०८०.०६

इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् ।

इ॒यं धीरृ॒त्विया॑वती ॥ ८.०८०.०७

मा सी॑मव॒द्य आ भा॑गु॒र्वी काष्ठा॑ हि॒तं धन॑म् ।

अ॒पावृ॑क्ता अर॒त्नयः॑ ॥ ८.०८०.०८

तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि ।

आदित्पति॑र्न ओहसे ॥ ८.०८०.०९

अवी॑वृधद्वो अमृता॒ अम॑न्दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः ।

तस्मा॑ उ॒ राधः॑ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ ८.०८०.१०


आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।

म॒हा॒ह॒स्ती दक्षि॑णेन ॥ ८.०८१.०१

वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् ।

तु॒वि॒मा॒त्रमवो॑भिः ॥ ८.०८१.०२

न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् ।

भी॒मं न गां वा॒रय॑न्ते ॥ ८.०८१.०३

एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राज॑म् ।

न राध॑सा मर्धिषन्नः ॥ ८.०८१.०४

प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् ।

अ॒भि राध॑सा जुगुरत् ॥ ८.०८१.०५

आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।

इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥ ८.०८१.०६

उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् ।

अदा॑शूष्टरस्य॒ वेदः॑ ॥ ८.०८१.०७

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः ।

अ॒स्माभिः॒ सु तं स॑नुहि ॥ ८.०८१.०८

स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः ।

वशै॑श्च म॒क्षू ज॑रन्ते ॥ ८.०८१.०९


आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।

मध्वः॒ प्रति॒ प्रभ॑र्मणि ॥ ८.०८२.०१

ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णवः॑ ।

पिबा॑ द॒धृग्यथो॑चि॒षे ॥ ८.०८२.०२

इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।

भुव॑त्त इन्द्र॒ शं हृ॒दे ॥ ८.०८२.०३

आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।

उ॒प॒मे रो॑च॒ने दि॒वः ॥ ८.०८२.०४

तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा॑य॒ कम् ।

प्र सोम॑ इन्द्र हूयते ॥ ८.०८२.०५

इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।

वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥ ८.०८२.०६

य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥ ८.०८२.०७

यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥ ८.०८२.०८

यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥ ८.०८२.०९


दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् ।

वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥ ८.०८३.०१

ते नः॑ सन्तु॒ युजः॒ सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

वृ॒धास॑श्च॒ प्रचे॑तसः ॥ ८.०८३.०२

अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ ।

यू॒यमृ॒तस्य॑ रथ्यः ॥ ८.०८३.०३

वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म् ।

वा॒मं ह्या॑वृणी॒महे॑ ॥ ८.०८३.०४

वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः ।

नेमा॑दित्या अ॒घस्य॒ यत् ॥ ८.०८३.०५

व॒यमिद्वः॑ सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना ।

देवा॑ वृ॒धाय॑ हूमहे ॥ ८.०८३.०६

अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम् ।

इ॒ता मरु॑तो॒ अश्वि॑ना ॥ ८.०८३.०७

प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या ।

मा॒तुर्गर्भे॑ भरामहे ॥ ८.०८३.०८

यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।

अधा॑ चिद्व उ॒त ब्रु॑वे ॥ ८.०८३.०९


प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम् ।

अ॒ग्निं रथं॒ न वेद्य॑म् ॥ ८.०८४.०१

क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता ।

नि मर्त्ये॑ष्वाद॒धुः ॥ ८.०८४.०२

त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि श‍ृणु॒धी गिरः॑ ।

रक्षा॑ तो॒कमु॒त त्मना॑ ॥ ८.०८४.०३

कया॑ ते अग्ने अङ्गिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिम् ।

वरा॑य देव म॒न्यवे॑ ॥ ८.०८४.०४

दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो ।

कदु॑ वोच इ॒दं नमः॑ ॥ ८.०८४.०५

अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः ।

वाज॑द्रविणसो॒ गिरः॑ ॥ ८.०८४.०६

कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दम्पते ।

गोषा॑ता॒ यस्य॑ ते॒ गिरः॑ ॥ ८.०८४.०७

तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ ।

स्वेषु॒ क्षये॑षु वा॒जिन॑म् ॥ ८.०८४.०८

क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः ।

अग्ने॑ सु॒वीर॑ एधते ॥ ८.०८४.०९


आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०१

इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ श‍ृणुतं॒ हव॑म् ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०२

अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०३

श‍ृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०४

छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०५

गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०६

यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०७

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०८

नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥ ८.०८५.०९


उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथुः॑ ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ ८.०८६.०१

क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑‍इष्टये ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ ८.०८६.०२

यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑‍इष्टये ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ ८.०८६.०३

उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्सन्त॒मव॑से हवामहे ।

यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ ८.०८६.०४

ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ श‍ृङ्ग॑मुर्वि॒या वि प॑प्रथे ।

ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ ८.०८६.०५


द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् ।

मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥ ८.०८७.०१

पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं नरा ।

ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥ ८.०८७.०२

आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।

ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥ ८.०८७.०३

पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।

ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥ ८.०८७.०४

आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः ।

दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥ ८.०८७.०५

व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये ।

ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥ ८.०८७.०६


तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः ।

अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥ ८.०८८.०१

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् ।

क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥ ८.०८८.०२

न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळवः॑ ।

यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥ ८.०८८.०३

योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।

आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥ ८.०८८.०४

प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ ।

न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥ ८.०८८.०५

नकिः॒ परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ ।

अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥ ८.०८८.०६


बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् ।

येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥ ८.०८९.०१

अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।

दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥ ८.०८९.०२

प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।

वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥ ८.०८९.०३

अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मनः॒ श्रव॑श्चित्ते असद्बृ॒हत् ।

अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्वः॑ ॥ ८.०८९.०४

यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।

तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ॥ ८.०८९.०५

तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।

तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व॑म् ॥ ८.०८९.०६

आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।

घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥ ८.०८९.०७


आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु ।

उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥ ८.०९०.०१

त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् ।

तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥ ८.०९०.०२

ब्रह्मा॑ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन॑तिद्भुता ।

इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम॑न्महि ॥ ८.०९०.०३

त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ ।

स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥ ८.०९०.०४

त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते ।

त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥ ८.०९०.०५

तमु॑ त्वा नू॒नम॑सुर॒ प्रचे॑तसं॒ राधो॑ भा॒गमि॑वेमहे ।

म॒हीव॒ कृत्तिः॑ शर॒णा त॑ इन्द्र॒ प्र ते॑ सु॒म्ना नो॑ अश्नवन् ॥ ८.०९०.०६


क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् ।

अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥ ८.०९१.०१

अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् ।

इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥ ८.०९१.०२

आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि ।

शनै॑रिव शन॒कैरि॒वेन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ८.०९१.०३

कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।

कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥ ८.०९१.०४

इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय ।

शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥ ८.०९१.०५

अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ ।

अथो॑ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो॑म॒शा कृ॑धि ॥ ८.०९१.०६

खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो ।

अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णोः॒ सूर्य॑त्वचम् ॥ ८.०९१.०७


पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत ।

वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥ ८.०९२.०१

पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।

इन्द्र॒ इति॑ ब्रवीतन ॥ ८.०९२.०२

इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।

म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥ ८.०९२.०३

अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ ।

इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥ ८.०९२.०४

तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ ।

तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥ ८.०९२.०५

अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।

विश्वा॒भि भुव॑ना भुवत् ॥ ८.०९२.०६

त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् ।

आ च्या॑वयस्यू॒तये॑ ॥ ८.०९२.०७

यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् ।

नर॑मवा॒र्यक्र॑तुम् ॥ ८.०९२.०८

शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।

अवा॑ नः॒ पार्ये॒ धने॑ ॥ ८.०९२.०९

अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया ।

इ॒षा स॒हस्र॑वाजया ॥ ८.०९२.१०

अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।

जये॑म पृ॒त्सु व॑ज्रिवः ॥ ८.०९२.११

व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।

उ॒क्थेषु॑ रणयामसि ॥ ८.०९२.१२

विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।

अग॑न्म वज्रिन्ना॒शसः॑ ॥ ८.०९२.१३

त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।

न त्वामि॒न्द्राति॑ रिच्यते ॥ ८.०९२.१४

स नो॑ वृष॒न्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।

धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥ ८.०९२.१५

यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ ।

तेन॑ नू॒नं मदे॑ मदेः ॥ ८.०९२.१६

यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।

य ओ॑जो॒दात॑मो॒ मदः॑ ॥ ८.०९२.१७

वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।

विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥ ८.०९२.१८

इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ ।

अ॒र्कम॑र्चन्तु का॒रवः॑ ॥ ८.०९२.१९

यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑ ।

इन्द्रं॑ सु॒ते ह॑वामहे ॥ ८.०९२.२०

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।

तमिद्व॑र्धन्तु नो॒ गिरः॑ ॥ ८.०९२.२१

आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः ।

न त्वामि॒न्द्राति॑ रिच्यते ॥ ८.०९२.२२

वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।

य इ॑न्द्र ज॒ठरे॑षु ते ॥ ८.०९२.२३

अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।

अरं॒ धाम॑भ्य॒ इन्द॑वः ॥ ८.०९२.२४

अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।

अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥ ८.०९२.२५

अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे॑ष्विन्द्र॒ भूष॑सि ।

अरं॑ ते शक्र दा॒वने॑ ॥ ८.०९२.२६

प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ ।

अरं॑ गमाम ते व॒यम् ॥ ८.०९२.२७

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।

ए॒वा ते॒ राध्यं॒ मनः॑ ॥ ८.०९२.२८

ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ ।

अधा॑ चिदिन्द्र मे॒ सचा॑ ॥ ८.०९२.२९

मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।

मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥ ८.०९२.३०

मा न॑ इन्द्रा॒भ्या॒३॒॑दिशः॒ सूरो॑ अ॒क्तुष्वा य॑मन् ।

त्वा यु॒जा व॑नेम॒ तत् ॥ ८.०९२.३१

त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ ।

त्वम॒स्माकं॒ तव॑ स्मसि ॥ ८.०९२.३२

त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।

सखा॑य इन्द्र का॒रवः॑ ॥ ८.०९२.३३


उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।

अस्ता॑रमेषि सूर्य ॥ ८.०९३.०१

नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा ।

अहिं॑ च वृत्र॒हाव॑धीत् ॥ ८.०९३.०२

स न॒ इन्द्रः॑ शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् ।

उ॒रुधा॑रेव दोहते ॥ ८.०९३.०३

यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।

सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥ ८.०९३.०४

यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।

उ॒तो तत्स॒त्यमित्तव॑ ॥ ८.०९३.०५

ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।

सर्वा॒ँस्ताँ इ॑न्द्र गच्छसि ॥ ८.०९३.०६

तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।

स वृषा॑ वृष॒भो भु॑वत् ॥ ८.०९३.०७

इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः ।

द्यु॒म्नी श्लो॒की स सो॒म्यः ॥ ८.०९३.०८

गि॒रा वज्रो॒ न सम्भृ॑तः॒ सब॑लो॒ अन॑पच्युतः ।

व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥ ८.०९३.०९

दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः ।

त्वं च॑ मघव॒न्वशः॑ ॥ ८.०९३.१०

यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य॑म् ।

न दे॒वो नाध्रि॑गु॒र्जनः॑ ॥ ८.०९३.११

अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः ।

उ॒भे सु॑शिप्र॒ रोद॑सी ॥ ८.०९३.१२

त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च ।

परु॑ष्णीषु॒ रुश॒त्पयः॑ ॥ ८.०९३.१३

वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः ।

वि॒दन्मृ॒गस्य॒ ताँ अमः॑ ॥ ८.०९३.१४

आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म् ।

अजा॑तशत्रु॒रस्तृ॑तः ॥ ८.०९३.१५

श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् ।

आ शु॑षे॒ राध॑से म॒हे ॥ ८.०९३.१६

अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।

यत्सोमे॑सोम॒ आभ॑वः ॥ ८.०९३.१७

बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।

श‍ृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥ ८.०९३.१८

कया॒ त्वं न॑ ऊ॒त्याभि प्र म॑न्दसे वृषन् ।

कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ८.०९३.१९

कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् ।

वृ॒त्र॒हा सोम॑पीतये ॥ ८.०९३.२०

अ॒भी षु ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म् ।

प्र॒य॒न्ता बो॑धि दा॒शुषे॑ ॥ ८.०९३.२१

पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑ ।

अ॒पां जग्मि॑र्निचुम्पु॒णः ॥ ८.०९३.२२

इ॒ष्टा होत्रा॑ असृक्ष॒तेन्द्रं॑ वृ॒धासो॑ अध्व॒रे ।

अच्छा॑वभृ॒थमोज॑सा ॥ ८.०९३.२३

इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।

वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥ ८.०९३.२४

तुभ्यं॒ सोमाः॑ सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।

स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ॥ ८.०९३.२५

आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ ।

स्तो॒तृभ्य॒ इन्द्र॑मर्चत ॥ ८.०९३.२६

आ ते॑ दधामीन्द्रि॒यमु॒क्था विश्वा॑ शतक्रतो ।

स्तो॒तृभ्य॑ इन्द्र मृळय ॥ ८.०९३.२७

भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥ ८.०९३.२८

स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥ ८.०९३.२९

त्वामिद्वृ॑त्रहन्तम सु॒ताव॑न्तो हवामहे ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥ ८.०९३.३०

उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते ।

उप॑ नो॒ हरि॑भिः सु॒तम् ॥ ८.०९३.३१

द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्रः॑ श॒तक्र॑तुः ।

उप॑ नो॒ हरि॑भिः सु॒तम् ॥ ८.०९३.३२

त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ ।

उप॑ नो॒ हरि॑भिः सु॒तम् ॥ ८.०९३.३३

इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् ।

वा॒जी द॑दातु वा॒जिन॑म् ॥ ८.०९३.३४


गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् ।

यु॒क्ता वह्नी॒ रथा॑नाम् ॥ ८.०९४.०१

यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते ।

सूर्या॒मासा॑ दृ॒शे कम् ॥ ८.०९४.०२

तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ ।

म॒रुतः॒ सोम॑पीतये ॥ ८.०९४.०३

अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुतः॑ ।

उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥ ८.०९४.०४

पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः ।

त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥ ८.०९४.०५

उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्रः॑ सु॒तस्य॒ गोम॑तः ।

प्रा॒तर्होते॑व मत्सति ॥ ८.०९४.०६

कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ ।

अर्ष॑न्ति पू॒तद॑क्षसः ॥ ८.०९४.०७

कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे ।

त्मना॑ च द॒स्मव॑र्चसाम् ॥ ८.०९४.०८

आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः ।

म॒रुतः॒ सोम॑पीतये ॥ ८.०९४.०९

त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥ ८.०९४.१०

त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥ ८.०९४.११

त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥ ८.०९४.१२


आ त्वा॒ गिरो॑ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः ।

अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तरः॑ ॥ ८.०९५.०१

आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः ।

पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥ ८.०९५.०२

पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् ।

त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥ ८.०९५.०३

श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ ।

सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥ ८.०९५.०४

इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् ।

चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥ ८.०९५.०५

तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः ।

पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥ ८.०९५.०६

एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।

शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥ ८.०९५.०७

इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ ।

शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥ ८.०९५.०८

इन्द्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।

शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥ ८.०९५.०९


अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्याः॑ सु॒वाचः॑ ।

अ॒स्मा आपो॑ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥ ८.०९६.०१

अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् ।

न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥ ८.०९६.०२

इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ ।

शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष॑न्त॒ श्रुत्या॑ उपा॒के ॥ ८.०९६.०३

मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् ।

मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥ ८.०९६.०४

आ यद्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ ।

प्र पर्व॑ता॒ अन॑वन्त॒ प्र गावः॒ प्र ब्र॒ह्माणो॑ अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥ ८.०९६.०५

तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् ।

इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥ ८.०९६.०६

वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।

म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ॥ ८.०९६.०७

त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः ।

उप॒ त्वेमः॑ कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥ ८.०९६.०८

ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष ।

अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥ ८.०९६.०९

म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः ।

गिर्वा॑हसे॒ गिर॒ इन्द्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विद॒ङ्ग वेद॑त् ॥ ८.०९६.१०

उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् ।

नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥ ८.०९६.११

तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।

उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥ ८.०९६.१२

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ ।

आव॒त्तमिन्द्रः॒ शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥ ८.०९६.१३

द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्याः॑ ।

नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥ ८.०९६.१४

अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।

विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ॥ ८.०९६.१५

त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिन्द्र ।

गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥ ८.०९६.१६

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ ।

त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥ ८.०९६.१७

त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ ।

त्वं सिन्धू॑ँरसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥ ८.०९६.१८

स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् ।

य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥ ८.०९६.१९

स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।

स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥ ८.०९६.२०

स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।

कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ॥ ८.०९६.२१


या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्व॑र्वा॒ँ असु॑रेभ्यः ।

स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥ ८.०९७.०१

यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् ।

यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥ ८.०९७.०२

य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।

स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥ ८.०९७.०३

यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।

अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभिः॑ सु॒तावा॒ँ आ वि॑वासति ॥ ८.०९७.०४

यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।

यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥ ८.०९७.०५

स नः॒ सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।

मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥ ८.०९७.०६

मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।

त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥ ८.०९७.०७

अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।

कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥ ८.०९७.०८

न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।

विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥ ८.०९७.०९

विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।

क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥ ८.०९७.१०

समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।

स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥ ८.०९७.११

ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।

सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥ ८.०९७.१२

तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।

मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥ ८.०९७.१३

त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।

त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥ ८.०९७.१४

तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ ।

क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥ ८.०९७.१५


इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।

ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥ ८.०९८.०१

त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।

वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥ ८.०९८.०२

वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।

दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥ ८.०९८.०३

एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।

गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥ ८.०९८.०४

अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।

इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥ ८.०९८.०५

त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ ।

ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥ ८.०९८.०६

अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।

उ॒देव॒ यन्त॑ उ॒दभिः॑ ॥ ८.०९८.०७

वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि ।

वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥ ८.०९८.०८

यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।

इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥ ८.०९८.०९

त्वं न॑ इ॒न्द्रा भ॑र॒ँ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।

आ वी॒रं पृ॑तना॒षह॑म् ॥ ८.०९८.१०

त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।

अधा॑ ते सु॒म्नमी॑महे ॥ ८.०९८.११

त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो ।

स नो॑ रास्व सु॒वीर्य॑म् ॥ ८.०९८.१२


त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः ।

स इ॑न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥ ८.०९९.०१

मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षन्ति वे॒धसः॑ ।

तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्वि॑न्द्र गिर्वणः ॥ ८.०९९.०२

श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।

वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥ ८.०९९.०३

अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ।

सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥ ८.०९९.०४

त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ ।

अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥ ८.०९९.०५

अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।

विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥ ८.०९९.०६

इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् ।

आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥ ८.०९९.०७

इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुम् ।

स॒मा॒नमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुव॑म् ॥ ८.०९९.०८


अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यन्ति प॒श्चात् ।

य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥ ८.१००.०१

दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोमः॑ ।

अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥ ८.१००.०२

प्र सु स्तोमं॑ भरत वाज॒यन्त॒ इन्द्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ ।

नेन्द्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥ ८.१००.०३

अ॒यम॑स्मि जरितः॒ पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना ।

ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयन्त्यादर्दि॒रो भुव॑ना दर्दरीमि ॥ ८.१००.०४

आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्य॒ँ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे ।

मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्तः॒ सखा॑यः ॥ ८.१००.०५

विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते ।

पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥ ८.१००.०६

प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् ।

नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो॑ अपीपतत् ॥ ८.१००.०७

मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर॑म् ।

दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥ ८.१००.०८

स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः ।

भर॑न्त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिम् ॥ ८.१००.०९

यद्वाग्वद॑न्त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा ।

चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥ ८.१००.१०

दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।

सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ ८.१००.११

सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ ।

हना॑व वृ॒त्रं रि॒णचा॑व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ॥ ८.१००.१२


ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये ।

यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥ ८.१०१.०१

वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।

ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥ ८.१०१.०२

प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् ।

अयः॑शीर्षा॒ मदे॑रघुः ॥ ८.१०१.०३

न यः स॒म्पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते ।

तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतम् ॥ ८.१०१.०४

प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो ।

व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ॥ ८.१०१.०५

ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णाम् ।

ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥ ८.१०१.०६

आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ ।

उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥ ८.१०१.०७

रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू ।

प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥ ८.१०१.०८

आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।

अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥ ८.१०१.०९

वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठैः॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ।

अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥ ८.१०१.१०

बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि ।

म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥ ८.१०१.११

बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।

म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥ ८.१०१.१२

इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता ।

चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॒॑न्तर्द॒शसु॑ बा॒हुषु॑ ॥ ८.१०१.१३

प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे ।

बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥ ८.१०१.१४

मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ ।

प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥ ८.१०१.१५

व॒चो॒विदं॒ वाच॑मुदी॒रय॑न्तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् ।

दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥ ८.१०१.१६


त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ ।

क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥ ८.१०२.०१

स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ ।

चि॒किद्वि॑भान॒वा व॑ह ॥ ८.१०२.०२

त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य ।

अ॒भि ष्मो॒ वाज॑सातये ॥ ८.१०२.०३

औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे ।

अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥ ८.१०२.०४

हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सहः॑ ।

अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥ ८.१०२.०५

आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे ।

अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥ ८.१०२.०६

अ॒ग्निं वो॑ वृ॒धन्त॑मध्व॒राणां॑ पुरू॒तम॑म् ।

अच्छा॒ नप्त्रे॒ सह॑स्वते ॥ ८.१०२.०७

अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ ।

अ॒स्य क्रत्वा॒ यश॑स्वतः ॥ ८.१०२.०८

अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते ।

आ वाजै॒रुप॑ नो गमत् ॥ ८.१०२.०९

विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मम् ।

अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥ ८.१०२.१०

शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।

दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥ ८.१०२.११

तमर्व॑न्तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण॑म् ।

मि॒त्रं न या॑त॒यज्ज॑नम् ॥ ८.१०२.१२

उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ ।

वा॒योरनी॑के अस्थिरन् ॥ ८.१०२.१३

यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनम् ।

आप॑श्चि॒न्नि द॑धा प॒दम् ॥ ८.१०२.१४

प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभिः॑ ।

भ॒द्रा सूर्य॑ इवोप॒दृक् ॥ ८.१०२.१५

अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ ।

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥ ८.१०२.१६

तं त्वा॑जनन्त मा॒तरः॑ क॒विं दे॒वासो॑ अङ्गिरः ।

ह॒व्य॒वाह॒मम॑र्त्यम् ॥ ८.१०२.१७

प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यम् ।

ह॒व्य॒वाहं॒ नि षे॑दिरे ॥ ८.१०२.१८

न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति ।

अथै॑ता॒दृग्भ॑रामि ते ॥ ८.१०२.१९

यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।

ता जु॑षस्व यविष्ठ्य ॥ ८.१०२.२०

यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।

सर्वं॒ तद॑स्तु ते घृ॒तम् ॥ ८.१०२.२१

अ॒ग्निमिन्धा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्यः॑ ।

अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥ ८.१०२.२२


अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।

उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिरः॑ ॥ ८.१०३.०१

प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।

अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥ ८.१०३.०२

यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः ।

स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥ ८.१०३.०३

प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।

स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥ ८.१०३.०४

स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।

त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥ ८.१०३.०५

यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् ।

मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥ ८.१०३.०६

अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यन्ते॑ देव॒यवः॑ ।

उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोना॑म् ॥ ८.१०३.०७

प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।

उप॑स्तुतासो अ॒ग्नये॑ ॥ ८.१०३.०८

आ वं॑सते म॒घवा॑ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः ।

कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥ ८.१०३.०९

प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् ।

अ॒ग्निं रथा॑नां॒ यम॑म् ॥ ८.१०३.१०

उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति ।

दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥ ८.१०३.११

मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।

यः सु॒होता॑ स्वध्व॒रः ॥ ८.१०३.१२

मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः॑ ।

की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥ ८.१०३.१३

आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये ।

सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥ ८.१०३.१४


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code