Ad Code

अथर्ववेदः काण्डं १८


अथर्ववेदः/काण्डं १८/सूक्तम् ०१


अथर्वा सूक्तं १८.२ →

दे. यमः, मन्त्रोक्ताः, ४० रुद्रः, ४१-४३ सरस्वती, ४४-४६, ५१-५२ पितरः। त्रिष्टुप्, - --- - - -

पितृमेधः

ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।

पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥

न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति ।

महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥

उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।

नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥३॥

न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।

गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥

गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।

नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥

को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।

आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्॥६॥

को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्।

बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥७॥

यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय ।

जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥८॥

न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।

अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥

रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्।

दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥ {१}

आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।

उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्॥११॥

किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निर्ऋतिर्निगछात्।

काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥

न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।

अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥१३॥

न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्।

असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१४॥

बतो बतासि यम नैव ते मनो हृदयं चाविदामा ।

अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥

अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् ।

तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥

त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।

आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥१७॥

वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।

विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥१८॥

रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः ।

इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥

सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।

यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥२०॥ {२}

अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे ।

यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥२१॥

सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।

विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥२२॥

उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।

विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥२३॥

यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे ।

इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥२४॥

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।

आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥२५॥

यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।

रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥२६॥

अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।

अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥

प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः ।

प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥

द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।

देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥२९॥

देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।

धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३}

अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।

अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥

स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।

विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३२॥

किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।

मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥३३॥

दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।

यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥३४॥

यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।

सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥

यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।

मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत्॥३६॥

सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।

स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥

शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।

मघैर्मघोनो अति शूर दाशसि ॥३८॥

स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।

मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥

स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।

मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥४०॥ {४}

सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।

सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४१॥

सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।

आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४२॥

सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।

सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४३॥

उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः ।

असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥४४॥

आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः ।

बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥४५॥

इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः ।

ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥

मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।

यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥४७॥

स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम् ।

उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥४८॥

परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् ।

वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥

यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।

यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५}

बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।

त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥५१॥

आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे ।

मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥५२॥

त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति ।

यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥

प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः ।

उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥

अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।

अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५५॥

उशन्तस्त्वेधीमह्युशन्तः समिधीमहि ।

उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥

द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि ।

द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥

अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।

तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८॥

अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।

विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥५९॥

इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः ।

आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥६०॥

इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् ।

प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥६१॥ {६}

 

अथर्ववेदः/काण्डं १८/सूक्तम् ०२

दे. यमः, मन्त्रोक्ताः, ४-३४ अग्निः, ५ जातवेदाः, २९ पितरः। त्रिष्टुप्, - --- - - -

आदितस्तिसृणाम् ऋचां पूर्वर्चा सह प्रेतोत्थापनकर्मणि उक्तो विनियोगः


18.2

यमाय सोमः पवते यमाय क्रियते हविः ।

यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१॥

यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।

इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥

यमाय घृतवत्पयो राज्ञे हविर्जुहोतन ।

स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥

मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।

शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥

यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः ।

यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥

त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्।

त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥

सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः ।

अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥

अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।

यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥

यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् ।

अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥

अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् ।

आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥१०॥ {७}

अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।

अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥

यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।

ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥

उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु ।

तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥

सोम एकेभ्यः पवते घृतमेक उपासते ।

येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥१४॥

ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः ।

ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१५॥

तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।

तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात्॥१६॥

ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः ।

ये वा सहस्रदक्षिणास्तां चिदेवापि गच्छतात्॥१७॥

सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।

ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१८॥

स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी ।

यछास्मै शर्म सप्रथाः ॥१९॥

असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।

स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८}

ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि ।

सं गच्छस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥

उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।

अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२॥

उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।

स्वान् गच्छतु ते मनो अधा पितॄंरुप द्रव ॥२३॥

मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।

मा ते हास्त तन्वः किं चनेह ॥२४॥

मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।

लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥

यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः ।

तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥

अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः ।

मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥

ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।

परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥

सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।

तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥

यां ते धेनुं निपृणामि यमु क्षीर ओदनम् ।

तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९}

अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।

यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥

यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन ।

यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥

अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।

उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥

ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।

सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥

ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।

त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥

शं तप माति तपो अग्ने मा तन्वं तपः ।

वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥

ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह ।

यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥

इमां मात्रां मिमीमहे यथापरं न मासातै ।

शते शरत्सु नो पुरा ॥३८॥

प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।

शते शरत्सु नो पुरा ॥३९॥

अपेमां मात्रां मिमीमहे यथापरं न मासातै ।

शते शरत्सु नो पुरा ॥४०॥ {१०}

वीमां मात्रां मिमीमहे यथापरं न मासातै ।

शते शरत्सु नो पुरा ॥४१॥

निरिमां मात्रां मिमीमहे यथापरं न मासातै ।

शते शरत्सु नो पुरा ॥४२॥

उदिमां मात्रां मिमीमहे यथापरं न मासातै ।

शते शरत्सु नो पुरा ॥४३॥

समिमां मात्रां मिमीमहे यथापरं न मासातै ।

शते शरत्सु नो पुरा ॥४४॥

अमासि मात्रां स्वरगामायुष्मान् भूयासम् ।

यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥

प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय ।

अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ ॥४६॥

ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।

ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥

उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।

तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥

ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।

य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥

इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् ।

माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११}

इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् ।

जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥

अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।

जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥

अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् ।

उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥५३॥

पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः ।

स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥

आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।

यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥

इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।

ताभ्यां यमस्य सादनं समितिश्चाव गच्छतात्॥५६॥

एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा ।

इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥

अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।

नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥

दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।

अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥

धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।

समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२}


अथर्ववेदः/काण्डं १८/सूक्तम् ०३

दे. यमः, ४४, ४६ मन्त्रोक्ताः, ५-६ अग्निः, ५० भूमिः, ५४ इन्दुः, ५६ आपः।त्रिष्टुप्, - --- - - -

इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।

धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥

उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।

हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥

अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् ।

अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥३॥

प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती ।

अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥४॥

उप द्यामुप वेतसमवत्तरो नदीनाम् ।

अग्ने पित्तमपामसि ॥५॥

यं त्वमग्ने समदहस्तमु निर्वापय पुनः ।

क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥

इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।

संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥७॥

उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।

तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥

प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् ।

मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥९॥

वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।

चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३}

वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।

रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥

मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।

वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१२॥

यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।

वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥

परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः ।

दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥

कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः ।

विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥

विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।

शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥१६॥

कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।

आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।

सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥१८॥

यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।

ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥

ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः ।

दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४}

अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः ।

शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥२१॥

सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः ।

शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥२२॥

आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः ।

मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥२३॥

अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः ।

विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥२४॥

इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥

धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥

अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥

सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥

धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥

प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५}

दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥

प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥

उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥

ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥

ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥

धर्तासि धरुनोऽसि वंसगोऽसि ॥३६॥

उदपूरसि मधुपूरसि वातपूरसि ॥३७॥

इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।

प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥३८॥

स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः ।

वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्॥३९॥

त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन ।

अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥४०॥ {१६}

देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत ।

बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥४१॥

त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा ।

प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥

आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।

पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥४३॥

अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।

अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥

उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।

त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥४५॥

ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः ।

तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥४६॥

ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।

आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः ॥४७॥

ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण ।

आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः ॥४८॥

उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।

ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥

उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।

माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {१७}

उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।

ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥५१॥

उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् ।

एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥

इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।

अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥

अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।

तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानीम् ॥५४॥

यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।

अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥५५॥

पयस्वतीरोषधयः पयस्वन् मामकं पयः ।

अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥५६॥

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।

अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥५७॥

सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।

हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥५८॥

ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।

तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥

शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् ।

शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।

मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥६०॥ {१८}

विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः ।

इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥६१॥

विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु ।

इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥६२॥

यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् ।

तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥६३॥

आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।

सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥६४॥

प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।

दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥६५॥

नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा ।

हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।

शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥६७॥

अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।

ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥

यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः ।

तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥६९॥

पुनर्देहि वनस्पते य एष निहितस्त्वयि ।

यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥

आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।

शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥७१॥

ये ते पूर्वे परागता अपरे पितरश्च ये ।

तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥

एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते ।

अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९}


अथर्ववेदः/काण्डं १८/सूक्तम् ०४


दे. यमः, मन्त्रोक्ताः, ८१ पितरः, ८८ अग्निः, ८९ चन्द्रमाः। त्रिष्टुप्, - --- - - -

आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि ।

अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥१॥

देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि ।

तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥२॥

ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति ।

तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥

त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।

स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥४॥

जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।

ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।

प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥

ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।

जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥

तीर्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति ।

अत्रादधुर्यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥७॥

अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः ।

महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥८॥

पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः ।

दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात्॥९॥

यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् ।

अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥१०॥ {२०}

शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् ।

एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥११॥

शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः ।

शृतं कृण्वन्त इह माव चिक्षिपन् ॥१२॥

यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् ।

तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥१३॥

ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन् ।

तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥

अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु ।

हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥१५॥

अपूपवान् क्षीरवांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१६॥

अपूपवान् दधिवांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१७॥

अपूपवान् द्रप्सवांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१८॥

अपूपवान् घृतवांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१९॥

अपूपवान् मांसवांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ {२१}

अपूपवान् अन्नवांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२१॥

अपूपवान् मधुमांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२२॥

अपूपवान् रसवांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२३॥

अपूपवान् अपवांश्चरुरेह सीदतु ।

लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२४॥

अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।

ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥२५॥

यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।

तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥२६॥

अक्षितिं भूयसीम् ॥२७॥

द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।

समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥२८॥

शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् ।

ये पृनन्ति प्र च यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥२९॥

कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये ।

ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥३०॥ {२२}

एतत्ते देवः सविता वासो ददाति भर्तवे ।

तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥३१॥

धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत्।

तां वै यमस्य राज्ये अक्षितामुप जीवति ॥३२॥

एतास्ते असौ धेनवः कामदुघा भवन्तु ।

एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३३॥

एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते ।

तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥३४॥

वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् ।

स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥

सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे ।

ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥३६॥

इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत ।

मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥३७॥

इहैवैधि धनसनिरिहचित्त इहक्रतुः ।

इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥३८॥

पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः ।

स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥३९॥

आपो अग्निं प्र हिणुत पितॄंरुपेमं यज्ञं पितरो मे जुषन्ताम् ।

आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥४०॥ {२३}

समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।

स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥४१॥

यं ते मन्थं यमोदनं यन् मांसं निपृणामि ते ।

ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥४२॥

यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।

तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥४३॥

इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः ।

पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥

सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।

सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४५॥

सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।

आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४६॥

सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।

सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४७॥

पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः ।

परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥४८॥

आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः ।

अस्मादेतमघ्न्यौ तद्वशीयो दातुः पितृष्विहभोजनौ मम ॥४९॥

एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः ।

यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ {२४}

इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि ।

तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥

एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम् ।

यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥

पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् ।

आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय ॥५३॥

ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम ।

तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥५४॥

यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।

एवा वपामि हर्म्यं यथा मे भूरयोऽसत ॥५५॥

इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा ।

स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥५६॥

ये च जीवा ये च मृता ये जाता ये च यज्ञियाः ।

तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥५७॥

वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः ।

प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया ॥५८॥

त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः ।

सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥५९॥

प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः ।

मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥६०॥ {२५}

अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत ।

अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥६१॥

आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।

आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम् ॥६२॥

परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः ।

अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥

यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः ।

तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥

अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः ।

प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥६५॥

असौ हा इह ते मनः ककुत्सलमिव जामयः ।

अभ्येनं भूम ऊर्णुहि ॥६६॥

शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥६७॥

ये अस्माकं पितरस्तेषां बर्हिरसि ॥६८॥

उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय ।

अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥६९॥

प्रास्मत्पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे ।

अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥७०॥ {२६}

अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥

सोमाय पितृमते स्वधा नमः ॥७२॥

पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥

यमाय पितृमते स्वधा नमः ॥७४॥

एतत्ते प्रततामह स्वधा ये च त्वामनु ॥७५॥

एतत्ते ततामह स्वधा ये च त्वामनु ॥७६॥

एतत्ते तत स्वधा ॥७७॥

स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥

स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥७९॥

स्वधा पितृभ्यो दिविषद्भ्यः ॥८०॥ {२७}

नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥८१॥

नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥८२॥

नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥८३॥

नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥८४॥

नमो वः पितरः स्वधा वः पितरः ॥८५॥

येऽत्र पितरः पितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥८६॥

य इह पितरो जीवा इह वयं स्मः ।

अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥८७॥

आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् ।

यद्घ सा ते पनीयसी समिद्दीदयति द्यवि ।

इषं स्तोतृभ्य आ भर ॥८८॥

चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।

न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥८९॥ {२८}





एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code