Ad Code

आरती भगवान गंगाधर



आरती भगवान गंगाधर 

ॐ जय गंगाधर जय हर जय गिरिजाधीशा ।
त्वं मां पालय नित्यं कुपया जगदीशा ॥

हर हर हर महादेव ॥ १॥

कैलासे गिरिशिखरे कल्पद्रुमविपिने  ।
गुञ्जति मधुकरपुञ्जे कुञ्जवने गहने ॥

कोकिलकूजित खेलत हंसावन ललिता ।
रचयति कलाकलापं नृत्यति मुदसहिता ॥

हर हर हर महादेव ॥ २॥

तस्मिल्ललितसुदेशे शाला मणिरचिता ।
तन्मध्ये हरनिकटे गौरी मुदसहिता ॥

क्रीडा रचयति भूषारञ्जित निजमीशम् ।
इन्द्रादिक सुर सेवत नामयते शीशम् ॥

हर हर हर महादेव ॥ ३॥

बिबुधबधू बहु नृत्यत हृदये मुदसहिता ।
किन्नर गायन कुरुते सप्त स्वर सहिता ॥

धिनकत थै थै धिनकत मृदङ् वादयते ।
क्वण क्वण ललिता वेणुं मधुरं नाटयते ॥

हर हर हर महादेव ॥ ४॥

रुण रुण चरणे रचयति नूपुरमुज्ज्चलिता ।
चक्रावर्ते भ्रमयति कुरुते तां धिक तां ॥

तां तां लुप चुप तां तां डमरू वादयते ।
अंगुष्ठांगुलिनादं लासकतां कुरुते ॥

हर हर हर महादेव ॥ ५॥

कर्पूरद्युतिगौरं पञ्चाननसहितम् ।
त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥

सुन्दरजटाकलापं पावकयुतभालम् ।
डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥

हर हर हर महादेव ॥ ६॥

मुण्डै रचयति माला पन्नगमुपवीतम् ।
वामविभागे गिरिजारूपं अतिललितम् ॥

सुन्दरसकलशरीरे कृतभस्माभरणम् ।
इति वृषभध्वजरूपं तापत्रयहरणम् ॥

हर हर हर महादेव ॥ ७॥

शङ्खनिनादं कृत्वा झल्लरि नादयते ।
नीराजयते ब्रह्मा वेदकऋचां पठते ॥

अतिमृदुचरणसरोजं हृत्कमले धृत्वा ।
अवलोकयति महेशं ईशं अभिनत्वा ॥

हर हर हर महादेव ॥ ८॥

ध्यानं आरति समये हृदये अति कृत्वा ।
रामस्त्रिजटानाथं ईशं अभिनत्वा ॥

संगतिमेवं प्रतिदिन पठनं यः कुरुते ।
शिवसायुज्यं गच्छति भक्त्या यः श‍ृणुते ॥

हर हर हर महादेव ॥ ९॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code