जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

श्रीदण्डिनः कृतौ दशकुमारचरिते ऽपहारवर्मचरितं नाम द्वितीय उच्छ्वासः

 




 द्वितीयोच्छ्वासः

दकुच २,

"देव, त्वयि तदावतीर्णे द्विजोपकारायासुरविवरं त्वदन्वेषणप्रसृते च मित्रगण अहमपि महीमटन्नङ्गेषु गङ्गातटे बहिश्चम्पायाः "कश्चिदस्ति तपःप्रभावोत्पन्नदिव्यचक्षुर्मरीचिर्नाम महर्षिःऽ इति ।

कुतश्चित्संलपतो जनसमाजादुपलभ्यामुतोबुभुत्सुस्त्वद्गतिं तमुद्देशमगमम् ।

न्यशामयं च तस्मिन्नाश्रमे कस्याचिच्चूतपोतकस्य छायायां कमप्युद्विग्नवर्णं तापसम् ।

अमुना चातिथिवदुपचरितः क्षणं विश्रान्तः "क्वासौ भगवान्मरचिः, तस्मादहमुपलिप्सुः प्रसङ्गप्रोषितस्य सुहृदो गतिम आश्चर्यज्ञानविभवो हि स महर्षिर्मह्यां विश्रुतःऽ इत्यवादिपम् ।

अथासावुष्णमायतं च निःश्वस्याशंसत-"आसीत्तादृशो मुनिरस्मिन्नाश्रमे ।

तमेकदा काममञ्जरी नामाङ्गपुरीवतंसस्थानीया बारयुवतिरश्रुबिन्दुतारकितपयोधरा सनिर्वेदमभ्येत्य कीर्णशिखण्डास्तीर्णभूमिरभ्यवन्दिष्ट ।

तस्मिन्नेव च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधावितस्तत्रैवाविच्छिन्नपातमपतत् ।

स किल कृपालुस्तं जनमार्द्रया गिराश्वास्यार्तिकारणं तां गणिकामपृच्छत् ।

सा तु सव्रीडेव सार्वपादेव सगारैवेव चाव्रवीत् ।

"भगवन्! ऐहिकस्य सुखस्याभाजनं जनो ऽयमामुष्मिकाय श्वोवसीयायार्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं शरणमभिप्रपन्नःऽ इति ।

तस्यास्तु जनन्युदञ्जलिः परितशारशिखण्डबन्धस्पृष्टमुक्तभूमिरभाषत--"भगवन्, अस्या मे दोषमेषा वो दासी विज्ञापयति ।

दोषश्च मम स्वाधिकरारानुष्ठा पनम् ।

एष हि गणिकामातुरधिकारो यद्दुहितुर्जन्मनः प्रभृत्येवाङ्गक्रिया, तेजोबलवर्णमेधासंवर्धनेन दोषाग्निधातुसाम्यकृता मितेनाहारेण शरीरपोषणम्, आपञ्चमाद्वर्षात्पितुरप्यनतिदर्शनम्, जन्मदिने पुम्यदिने चोत्सवोत्तरो मङ्गलविधिः, अध्यापनमनङ्गविद्यानां साङ्गानाम्, नृत्यगीतवाद्यनाट्यचित्रास्वाद्यगन्धपुष्पकलासु लिपिज्ञानवचनकौशलादिषु च सम्यग्विनयनम्, शब्दहेतुसमयविद्यासु वार्तामात्रावबोधनम्, आजीवज्ञाने क्रीडाकौशले सजीवनिर्जीवासु च द्यूतकलास्वभ्यन्तरीकरणम्, अभ्यन्तरकलासु वैश्वासिकजनात्प्रयत्नेन प्रयोगग्रहणम्, यात्रोत्सवादिष्वादरप्रसाधितायाः स्फीतपरिबर्हायाः प्रकाशनम्, प्रसङ्गवत्यां संगीतादिप्रियायां पूर्वसंगृहीतैर्ग्राह्यवाग्भिः सिद्विलम्भनम्, दिङ्मुखेषु तत्तच्छिल्पवित्तकैर्यशःप्रख्यापनम्, कार्तान्तिकादिभिः कल्याणलक्षणोद्धोषणम्, पीठमर्दविटविदूषकैर्भिक्षुक्यादिभिश्च नागरिकपुरुषसमवायेषु रूपशीलशिल्पसौन्दर्यमाधुर्यप्रस्थावना, युवजनमनोरथलक्ष्यभूतायाः प्रभूततमेन शुल्केनावस्थापनम् स्वतो रागान्धाय तद्भावदर्शनोन्मादिताय वा जातिरूपवयोर्ऽथशक्तिशौचत्यागदाक्षिण्यशिल्पशीलमाधुर्योपपन्नाय स्वतन्त्राय प्रदानम्, अधिकगुणायास्वतन्त्राय प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणम्, अस्वतन्त्रेण वा गन्धर्वसमागमेन तद्गुरुभ्यः शुल्कापहणम्, अलाभेर्ऽथस्य कामस्वीकृते स्वामिन्यधिकरणे च साधनम्, रक्तस्य दुहित्रैकचारिणीव्रतानुष्ठापनम्, नित्यनैमितिकप्रीतिदायकतया हृतशिष्टानां गम्यधनानां चित्रैरुपायैरपहरणम्, अददता लुब्धप्रायेण च विगृह्यासनम् प्रतिहस्तिप्रोत्साहनेन लुब्धस्य रागिणस्त्यागशक्तिसंधुक्षणम्, असारस्य वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहितृनिरोधनैव्रीडोत्पादनैरन्याभियोगैरवमानैश्चापवाहनम्, अर्थदैरनर्थप्रतिघातिभिश्चानिन्द्यैरिभ्यैरनुबद्धार्थानर्थसंशयान्विचार्य भूयोभूयः संयोजनमिति ।

गणिकायाश्च गम्यं प्रति सज्जतैव न सङ्गः ।

सत्यामपि प्रीतौ न मातुर्मातृकाया वा शासनातिवृत्तिः ।

एवं स्थिते ऽनया प्रजापतिविहितं स्वधर्ममुल्लङ्घ्य क्वचिदागन्तुकं रूपमात्रधने विप्रयूनि स्वेनैव धनव्ययेन रममाणया मासमात्रमत्यवाहि ।

गम्यजनश्च भूयानर्थयोग्यः प्रत्याचक्षणयानया प्रकोपितः ।

स्वकुटुम्बकं चावसादितम् "एषा कुमतिर्न कल्याणोऽ इति निवारयन्त्यां मयि वनवासाय कोपात् प्रस्थिता ।

सा चेदियमहार्यानिश्चया सर्व एष जनो ऽत्रैवानन्यगतिरनशनेन संस्थास्यतेऽ इत्यरोदीत् ।

अथ सा वारयुवतिस्तेन तापसेन "भद्रे! ननु दुःखीकरे ऽयं वनवासः ।

तस्य फलमपवर्गः स्वर्गो वा ।

प्रथमस्तु तयोः प्रकृष्टज्ञानसाध्यः प्रायो दुस्संपाद एव, द्वितीयस्तु सर्वमस्यैव सुलभः कुलधर्मानुष्ठायिनः ।

तदशक्यारम्भादुपरम्य मातुर्मते वर्तस्वऽ इति सानुकम्पमभिहिता यदिह भगवत्पादमूलमशरणम्, शरणमस्तु ममम कृपणाया हिरण्यरेता देव एव इत्युदमनायत ।

स तु मुनिरनुविमृश्य गणिकामातरमवदत्--"संप्रति गच्छ गृहान् ।

प्रतीक्षम्व कानि चिहिनानि यावदियं सुकुमारा सुखोपभोगसमुचिता सत्यरण्यवासव्यसनेनोद्वेजिता भूयोभूयश्चास्माभिर्विबोध्यमाना प्रकृतावेव स्थाम्यतिऽ इति ।

"तथाऽ इति तस्याः प्रतियाते स्वजने सा गणिका तमृषिमलघुभक्तिर्धौतोद्गमनीयवासिनी नात्यादृतशरीरसंस्कारा वनतरुपोतालवालपूरणैर्देवतर्चनकुसुमोच्चयावचयप्रयासैर्नैकविकल्पोपहारकर्मभिः कामशासनार्थे च गन्धमाल्यधूपदीपनृत्यगीतवाद्यादिभिः क्रियाभिरेकन्ते च त्रिवर्गसंबन्धनीभिः कथाभिरध्यात्मवादैश्चानुरूपैरल्पीयसैव कालेनान्वरञ्जयत् ।

एकदा च रहसि रक्तं तमुपलक्ष्य मूढः खलु लोको यत्सह धर्मेणार्थकामावपि गणयतिऽ इति किञ्चिदस्मयत ।

"कथय वासु, केनांशेनार्थकामातिशायी धर्मस्तवाभिप्रेतःऽ इति प्रेरिता मरीचिना लज्जामन्थरमारभताभिधातुम्--"इतः किम जनाद्भगवतस्त्रिवर्गबलाबलज्ञानम् ।

अथवैतदपि प्रकारान्तरं दासजनानुग्रहस्य ।

भवतु, श्रूयताम् ।

ननु धर्मादृतेर्ऽथकामयोरनुत्पत्तिरेव ।

तदनपेक्ष एव धर्मो निवृत्तिसुखप्रसूतिहेतुरात्मसमाधानमात्रसाध्यश्च ।

सोर्ऽथकामवद्बाह्यसाधनेषु नात्यायतते ।

तत्त्वदर्शनोपबृंहितश्च यथाकथञ्चिदष्यनुष्ठीयमानभ्यां नार्थकामाभ्यां बाध्यते ।

बाधितो ऽपि चाल्पायासप्रतिसमाहितस्तमपि दोषं निर्हृत्य श्रेयसे ऽनल्पाय कल्पते ।

तथाहि पितामहसय तिलोत्तमाभिलाषः, भवानीपतेर्मुनिपत्नीसहस्रसंद्रूषणम्, पद्मनाभस्य षोडशमहस्रान्तःपुरविहारः, प्रजापतेः स्वदुहितर्यपि प्रणयप्रवृत्तिः, शचीपतेरहल्याजारता, शशाङ्कस्य गुरुतल्पगमनम्, अंशुमालिनो वडवालङ्घनम्, अनिलस्य केसरिकलत्रसमागमः, बृहस्पतेरुतथ्यभार्याभिसरणम्, पराशरस्य दाशकन्यादूषणम्, पाराशर्यस्य भ्रातृदारसंगतिः, अत्रेर्मृकगीसमागम ति ।

अमराणां च तेषु तेषु कार्येष्वासुरविप्रलम्भनानि ज्ञानबलान्न धर्मपीडामावहन्ति ।

धर्मपूते च मनसि नभसीव न जातु रजो ऽनुषज्यते ।

तन्मन्ये नार्थकामौ धर्मस्य शततमीमपि कलां स्पृशतःऽ इति ।

श्रुत्वैतदृषिरुदीर्णरागवृत्तिरभ्यधात्--"अयि विलासिन्, साधु पश्यसि न धर्मस्तत्त्वदर्शिनां विषयोपभोगेनोपरुध्यत इति ।

किन्तु जन्मनः प्रभृत्यर्थकामवार्तानभिज्ञा वयम् ।

ज्ञेयौ चेमौ किंरूपौ किंपरिवारौ किंफलौ चऽ इति ।

सात्ववादति--"अर्थस्तावदर्जनवर्धनरक्षणात्मकः, कृषिपाशुपाल्यवाणिज्यसंधिविग्रहादिपरिवारः तीर्थप्रतिपादनफलश्च ।

कामस्तु विषयातिसक्तचेतसोः स्त्रीपुंसयोर्निरतिशयसुखम्पर्शविशेषः ।

परिवारस्त्वस्य यावदिह रम्यमुज्जवलं च ।

फलं पुनः परमाह्लादनम् परम्परविमर्दजन्म, स्मर्यमाणमधुरम्, उदीरिताभिमानमनुत्तमम् लुखमपरोक्षं स्वसंवेद्यमेव ।

तस्यैव कृते विशिष्टस्थानवर्तिनः कष्टानि तषांसि, महान्ति दानानि, दारुणानि युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाचरन्तिऽ इति ।

निशस्यैतन्नियतिवलान्नु तत्पाटवान्नु स्वबुद्धिमान्द्यान्नु स्वनियममनादृत्य तस्यामसौ प्रासजत् ।

सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैपीत् ।

अभूच्च घोषणा "श्वः कामोत्सवःऽ इति ।

उत्तरे द्युः स्नातानुलिप्रमारचितमञ्जुमालमारब्धकामिजनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे गते ऽपि तया विना दूयमानं तमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवतिजनशतपरिवृतस्य राज्ञः संनिधौ स्मितमुखेन तेन "भद्रे, भगवता सह निषीदऽ इत्यादिष्टा सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् ।

तत्र काचिदुत्थाय बद्धाञ्जलिरुत्तमाङ्गना "देव, जितानयाहम्, अस्यै दास्यमद्यप्रभृत्यभ्युपेतं मयाऽ इति प्रभुं प्राणंसीत् ।

विस्मयहर्षमूलश्चकोलाहलो लोकस्योदजिहीत ।

हृष्टेन च राज्ञा महार्है रत्नालङ्कारेर्महता च परिबर्हेणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः प्रशस्यमाना स्वभवनमगत्वैव तमृषिमभाषत--"भगवन्, अयमञ्जलिः, चिरमनुगृहीतो ऽयं दासजनः, स्वार्थ इदानीमनुष्ठेयःऽ इति ।

स तु रागादशनिहत इवोद्भाम्याब्रवीत्--"प्रियेऽ किमेतत् ।

कुत इदमौदासीन्यम् ।

क्व गतस्तव मय्यसाधारणो ऽनुरागःऽ इति ।

अथ सा सस्मितमवादीत्--"भगवन्, ययाद्य राजकले मत्तः पराजयो ऽब्युपेतस्तस्याश्च मम च कस्मिंश्चित्संघर्षे "मरीचिमावर्जितवतीव श्लाघसेऽ इति तयास्म्यहमधिक्षिप्ता ।

दास्यण्णबन्धेन चास्मिन्नर्थे प्रावर्तिषि ।

सिद्धार्था चास्मित्वत्प्रसादात्ऽ इति ।

समस्था तथावधूतो दुर्मतिः कृतानुशयः शून्यवनन्यवर्तिष्ट ।

यस्तयैवं कृतस्तपस्वी तमेव मां महाभाग, मन्यस्व ।

स्वशक्तिनिषिक्तं रागमुद्धृत्य तत्यैव बनधक्या महद्वैराग्यमर्पितम् ।

अचिरादेव शक्य आत्मा त्वदर्थसाधनक्षमः कर्तुम् ।

अस्यामेव तावद्वसाङ्गपुर्यां चम्पायाम्ऽ इति ।

अथ तनमनश्च्युततमःस्पर्शभियेवास्तं रविरगात् ।

ऋषिमुक्तश्च रागः संध्यात्वेनास्फुरत् ।

तत्कथादत्तवैराग्याणीव कमलवनानि समकुचन् ।

अनुमतमुनिशासनस्त्वममुनैव सहोपास्य संध्यामनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थदावकल्पे कल्पद्रुमकिसलयावधीरिण्यरुणार्चिषि तं नमस्कृत्य नगरायोदचलम् ।

अद्रशं च मार्गाभ्याशवर्तिनः कस्यापि क्षपणकविहारस्य बहिर्विविक्ते रक्ताशोकषण्डे निषण्णमस्पृष्टसमाधिमाधिक्षीणमग्रगण्यमनभिरूपाणां कृपणवर्णं कमपि क्षपणकम् ।

उरसि चास्य शिथिलितमलनिचयान्मुखान्निपततो ऽश्रुबिन्दूनलक्षयम् ।

अप्राक्षं चान्तिकोपविष्टः--"क्व तपः, क्व च रुदितम् ।

न चेद्रहस्यमिच्छामि श्रोतुं शोकहेतुम्ऽ इति ।

सो ऽब्रूत-"सौम्य, श्रूयताम् ।

अहमस्यामेव चम्पायां निधिपालितनाम्नः श्रोष्ठिनो ज्येष्ठसूनुर्वसुपालितो नाम ।

वैरूप्यान्मम निरूपक इति प्रसिद्धिरासीत् ।

अन्यश्चात्र सुन्दरक इति यथार्थनामाकलागुणैः समृद्धो वसुना नातिपुष्टो ऽभवत् ।

तस्य च मम च वपुर्वसुनी निमित्तीकृत्य वैरं वैरोपजीविभिः पौरधूर्तैरुदपाद्यत ।

त एव कदाचिदावयोरुत्सवसमाजे स्वयमुत्पादितमन्योन्यावमानमूलमधिक्षेपवचनव्यतिकरमुपशमय्य "न वपुर्वसु वा पुंस्त्वमूलम्, अपि तु प्रकृष्टगणिकाप्रार्थ्ययौवनो हि यः स पुमान् ।

अतो युवतिललामभूता काममञ्जरी यं वा कामयते स हरतु सुभगपतकाम्ऽ इति व्यवास्थापयन् ।

अभ्युपेत्यावां प्राहिणुव तस्यै दूतान् ।

अहमेव किलामुष्याः स्मरोन्मादहेतुरासम् ।

आसीनयोश्चावयोर्मामेवापगम्य सा नीलोत्पलमयमिवापाङ्गदामाङ्गे मम मुञ्चन्ती तं जनमपत्रपयाधोमुखं व्यधत्त ।

सुभगंमन्येन च मया स्वधनस्य स्वगृहस्य स्वगणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरीकृता ।

कृश्चाहमनया मलमल्लकशेषः हृतसर्वस्वतया चापवाहितः प्रपद्य लोकोपहासलक्ष्यतामक्षमश्च सोढुं धिक्वृ-तानि पौरवृद्धानामिह जैनायतने मुनिनैकेनोपदिष्टमोक्षवर्त्मा सुकर एष वेषो वेशनिर्गतानामित्युदीर्णवैराग्यस्तदपि कौषीनमजहाम् ।

अथ पुनः प्रकीर्णमलपङ्कः प्रबलकेशलुञ्चनव्यथः प्रकृष्टतमक्षुत्पिपासादिदुःखः स्थानासनशयनभोजनेष्वपि द्विप इव नवग्रहो बलवतीभिर्यन्त्रणाभिरुद्वेजितः प्रत्यवामृशम् ।

"अहमस्मि द्विजातिः ।

अस्वधर्मो ममैष पाखाण्डिपथावतारः ।

श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रावर्तन्त ।

मम तु मन्दभाग्यस्य निन्द्यवेषममन्ददुःस्वायतनं हरिहरहिरण्यगर्भादिदेवतापवादक्षश्रवणनैरन्तर्यात्प्रेत्यापि निरयफलम् अफलं विप्रलम्भप्रायमीदृशमिदमधर्मवर्त्म धर्मवत्समाचरणीयमासीत्ऽ इति प्रत्याकलितस्वदुर्नयः पिण्डीषण्डं विविक्तमेतदासाद्य पर्याप्तमश्रुमुञ्चामिऽ इति ।

श्रुत्वा चैतदनुकम्पमानो ऽब्रवम्-"भद्र, क्षमस्व ।

कञ्चित्कालमत्रैव निवस ।

निजेन द्युम्नेनासावेव वेश्या यथा त्वां योजयिष्यति तथा यतिष्ये ।

सन्त्युपायास्तादृशाःऽ इत्याश्वास्य तमनुत्थितो ऽहम् ।

नगरमाविशन्नेव चोपलभ्य लोकवादाल्लुब्धसमृद्धपूर्णं पुरमित्यर्थानां नश्वरत्वं च प्रदर्श्य प्रकृतिस्थानमून्विधास्यन्कर्मीसुतप्रहिते तथि मतिमकरवम् ।

अनुप्रविश्य च द्यूतसभामक्षधूर्तैः समगंसि ।

तेषां च पञ्चविंशतिप्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्षभूमिहस्तादिषु चात्यन्तदुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि सावलेपान्यधिक्षेपवचनानि जीवितनिरपेक्षाणि संरम्भविचेष्टितानि सभिकप्रत्ययव्यवहारान्न्यायबलप्रतापप्रायानङ्गीकृतार्थसाधनक्षमान्बलिषु सान्त्वनानि दुर्बलेषु भर्त्सितानि पक्षरचनानैपुणमुच्चावचानि प्रलोभनानि ग्लहप्रभेदवर्णनानि द्रव्यसंविभागौदार्यमन्तरान्तराश्वीलप्रायान्कलकलानित्येतानि चान्यानि चानुभवन्न तृप्तिमध्यगच्छम् ।

अहसं च किञ्चित्प्रमाददत्तशारे क्वचित्कितवे ।

प्रतिकितवस्तु निर्दहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य "शिक्षयसि रे द्यूतवर्त्म हासव्याजेन ।

आस्तामयमशिक्षितो वराकः ।

त्वयैव तावद्विचक्षणेन देविष्यामिऽ इति द्यूताध्यक्षानुमत्या व्यत्यषजत् ।

मया जितश्चासौ षोडशसहस्राणि दीनाराणाम् ।

तदर्धं सभिकाय सभ्येभ्यश्च दत्त्वार्धं स्वीकृत्योदतिष्ठम् ।

उदतिष्ठंश्च तत्रगतानां हर्षगर्भाः प्रशंसालापाः ।

प्रार्थयमानसभिकानुरोधाच्च तदगारे ऽत्युदारमभ्यवहारविधिमकरवम् ।

यन्मूलश्च मे दुरोदरावतारः स मे विमर्दको नाम विश्वास्यतरं द्वितीयं हृदयमासीत् ।

तन्मुखेन च सारतः कर्मतः शीलतश्च सकलमेव नगरमवधार्य दूर्जटिकण्ठकल्माषकालतमे तमसि नीलनिवसनार्धोरुकपरिहितो बदधतीक्ष्णकौक्षेयकः फणिमुखकाकलीसंदंशकपुरुषशीर्षकयोगचूर्णयोगवर्तिकामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्ढकप्रभृत्यनेकोपकरणयुक्तो गत्वा कस्यचिल्लब्धेश्वरस्य गृहे संधिं छित्त्वा पटभाससूक्ष्माच्छिद्रालक्षितान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य नीवीं सारमहतीमादाय निरगाम् ।

नीलनीरदनिकरपीवरतमोनिबिडितायां राजवीथ्यां झटिति शतह्रदासंपातमिव क्षणमालोकमलक्षयम् ।

अथासौ नगरदेवतेव नगरमोषरोषिता निःसंबाधवेलायां निःसृता संनिकृष्टा काचिदुन्मिषद्भूषणा युवतिराविरासीत् ।

"कासि वासु, क्वयासिऽ इति सदयमुक्ता त्रासगद्गदमगादीत्-"आर्य, पर्युस्यामर्यवर्यः कुबेरदत्तनामा वसति ।

आस्म्यहं तस्य कन्या ।

मां जातमात्रां धनमित्रनाम्ने ऽत्रत्यायैव कस्मैचिदिभ्यकुमारायान्वजानाद्भार्यां मे पिता ।

स पिनरस्मिन्नत्युदारतया पित्रोरन्ते वित्तैर्निजैः क्रीत्वेवार्थिवर्गाद्दारिद्षं दरिद्रति सत्यथोदारक इति च प्रीतलोकाधिरोपितापरश्लाध्यनामनि वरयत्येव तस्मिन्मां तरुणीभूतामधन इत्यदत्त्वार्थपतिनाम्ने कस्मैचिदितरस्मै यथार्थनाम्ने सार्थवाहाय दित्सति मे पिता ।

तदमङ्गलमद्य किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसंकेता वञ्चितस्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरातदगारमभिसराभि तन्मां मुञ्च ।

गृहाणैतद्भाण्डम्ऽ इत्युन्मुच्य मह्यमर्पितवती ।

दयमानश्चाहमब्रवम्--"एहि साध्वि, त्वां नयेयं त्वत्प्रियावसथम्ऽ इति त्रिचतुराणि पदान्युदचलम् ।

आपतच्च दीपिकालोकपरिलुप्यमानतिमिरभारं यष्टिकृपाणपाणि नागारिकबलमनल्पम् ।

दृष्ट्वैव प्रवेपमानां कन्यकामवदम्--"भेद्रे, मा भैषीः ।

अस्त्ययमसिद्वितीयो मे बाहुः अपि तु मृदुरयमुपायस्त्वदपेक्षया चिन्तितः ।

शये ऽहं भावितविषवेगविक्रियः ।

त्वयाप्यमी वाच्याः "निशि वयमिमां पुरी प्रविष्टाः ।

दष्टश्च ममैष नायको दर्वीकरेणामुष्मिन्सभागृहकोणे ।

यदि वः कश्चिन्मन्त्रवित् कृपालुः स एनमुज्जीवयन्मम प्राणानाहरेदनाथायाःऽ इति ।

सापि बाला गत्यन्तराभावाद्भयगद्गदस्वरा बाप्यदुर्दिनाक्षी बद्धवेपथुः कथङ्कथमपि गत्वा मदुक्तमन्वतिष्ठन्, अशयिति चादं भावितविषविक्रियः तेषु कश्चन्निरेन्द्राभिमानी मां निर्ण्यं मुद्रातन्तत्रमन्त्रध्यानादिभिश्चोपक्रम्याकृतार्थः "गत एवायं कालदष्टः ।

तथा हि स्तब्धश्यावमङ्गम्, रुद्धा दृष्टिः, शान्त एवोप्मा ।

शुचालं वासु, श्वो ऽग्निसात्करिष्यामः ।

को ऽतिवर्तते दैवम्ऽ इति सहेतरैः प्रायात् ।

उत्थितश्चाहमुदारकाय तां नीत्वाब्रवम्--"अहमस्मि को ऽपि तस्करः ।

त्वद्गतेनैव चेतसा सहायभूतेन त्वामिमामभिसरन्तीमन्तरोपलभ्य कृपया त्वत्समीपमनैषम् ।

भूषणमिदमस्याःऽ इत्यंशुपटलपाटितध्वान्तजालं तदप्यर्पितवान् ।

उदारकस्तु तदादाय सलज्जं च सहर्षं च ससंभ्रमं च मामभाषत-"आर्य, त्वयेवेयमस्यां निशि प्रिया मे दत्ता ।

वाक्पुनर्ममापहृता ।

तथा हि न जाने वक्तुं त्वत्कर्मैतदद्भुतमिति ।

न ते स्वशीलमद्भुतवत्प्रतिभाति ।

नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव वस्तुशक्तिः ।

न हि त्वय्यन्यदीया लोभादयः ।

त्वयाद्य साधुतोन्मीलितेति तत्प्रायस्त्वत्पूर्वावदानेभ्यो न रोचते ।

त्वयामुना सुकृतेन क्रीतो ऽयं दासजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः ।

प्रियादानस्य प्रतिदानमिदं शरीरमिति तदलाभे निधनोन्मुखमिदमपि त्वयैव दत्तम् ।

अथवैतावदत्र प्राप्तरूपम् ।

अद्यप्रभृति भरतव्यो ऽयं दासजनःऽ इति मम पादयोरपत् ।

अत्थाप्य चैनमुरसोपश्लिष्याभाषिषि-"भद्र, काद्य ते प्रतिपत्तिःऽ इति ।

सो ऽभ्यधत्त--"न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञयोपयम्य जीवितुम् ।

अतो ऽस्यामेव यामिन्यां देशमिमं जिहासामिऽ को वाहम्, यथा त्वमाज्ञपयसिऽ इति ।

अथ मयोक्तम्-"अस्त्येतत् ।

स्वदेशो देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य ।

किन्तु बालेयमनल्पसौकुमार्या ।

कष्टाः प्रत्यवपायभूयिष्ठाश्च कान्तारपथाः ।

शैथिल्यमिव किञ्चित्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन संभव्यते ।

तत्सहानया सुखमिहैव वास्तव्यम् ।

एहि नयावैनां स्वमेवावासम्ऽ इति ।

अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयैवापसर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव ।

ततो निष्पत्य क्वचिन्मुषितकं निधाय समुच्चलन्तौ नागरिकसंपाते मार्गपार्श्वशायिनं कञ्चिन्मत्तवारयणमुपरिपुरुषमाकृष्याध्यारोहाव ।

ग्रैवेयप्रोतपादयुगलेन च मयोत्थाप्यमान एव पातिताधोरणपृथुलोरःस्थलपरिणतः पुरीतल्लतापरीदन्तकाण्डः स रक्षिकबलमक्षिणोत् ।

अध्वंसयाव चामुनैवार्थपतिभवनम् ।

अपवाह्य च क्वचन जीर्णोद्याने शाखाग्राहिकया चावातराव ।

स्वगृहगतौ च स्नातौ शयनमध्यीशश्रियाव ।

तावदेवोदगादुदधेरुदयाचलेन्द्रपद्मरागशृङ्गकल्पं कल्पद्रुमहेमपल्लवापीडपाटलं पतङ्गमण्डलम् ।

उत्थाय च धौतवक्त्रौ प्रगेतनानि मङ्गलान्यनुष्ठायास्मत्कर्मतुमुलं पुरमनुविचरन्तावशृणुव वरवधूगृहेषु कोलाहलम् ।

अथार्थैरर्थपतिः कुबेरदत्तमाश्वास्य कुलपालिकाविवाहं मासावधिकमकल्पयत् ।

उपह्वरे पुनरित्यशिक्षयं धनमित्रम्--"उपतिष्ठ सखे, एकान्त एव चर्मरत्नभस्त्रिकामिमां पुरस्कृत्याङ्गराजम् ।

आचक्ष्व च जानात्येव देवो नैककोटिसारस्य वसुमित्रस्य मां धनभि नामैकपुत्रम् ।

सो ऽहं मूलहरत्वमेत्यार्थिवर्गादस्म्यवज्ञातः ।

मदर्थमेव संवर्धितायां कुलपालिकायां मद्दारिद्षदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगादुज्झितुमसूनुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि जटाधरेण निवार्यैवमुक्तः-"किं ते साहसस्य मूलम्ऽ इति ।

मयोक्तम्--"अवज्ञासोदर्यं दारिद्षम्ऽ इति ।

स पुनरेवं कृपालुरन्वग्रहीत्--"तात्, मूढो ऽसि ।

नान्यत्पापिष्ठतममात्मत्यागात् ।

आत्मानमात्मनानवसाद्यैवोद्धरन्ति सन्तः ।

सन्त्युपाया धनार्जनस्य बहवः नैको ऽपि च्छिन्नकण्ठप्रतिसंधानबूर्वस्य प्राणलाभस्य ।

किमनेन ।

सो ऽस्म्यहं मन्त्रसिद्धः ।

साधितेयं लक्षग्राहिणी चर्मरत्नभस्त्रिका ।

चिरमहमस्याः प्रसादात्कामरूपेषु कामप्रदः प्रजानामवात्सम् ।

मत्सरिण्यां जरसि भूमिस्वर्गमत्रोद्देशे प्रवेक्ष्यन्नागतः ।

तामिमां प्रतिगृहाण ।

मदन्यत्र चेयं वणिग्भ्यो वारमुख्याभ्यो वा दुग्धे इति हि तद्गता प्रतीतिः ।

किन्तु यत्सकाशादन्यायापहृतं तत्तस्मै प्रत्यर्पणीयम् ।

न्यायार्जितं तु देवब्राह्मणेभ्यस्त्याज्यम् ।

अथेयं देवतेव शुचौ देशे निवेश्यार्च्यमाना प्रातः प्रातः सुवर्णपूर्णव दृश्यते ।

इयं च रत्नभूता चर्मभस्त्रिका देवायानिवेद्य नोपजीव्येत्यानीता ।

परन्तु देवः प्रमाणम्ऽ इति ।

राजा च नियतमेवं वक्ष्यति--"भेद्र, प्रीतो ऽस्मि ।

गच्छ ।

यथेष्टमिमामुपभुङ्क्ष्वऽ इति ।

भूयश्च ब्रूहि-"यथा न कश्चिदेनां मुष्णाति तथानुगृह्यताम्ऽ इति ।

तदप्यवश्यमसावभ्युपैष्यति ।

ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिने दिने वरिवस्यमानां स्तेयलब्धैरर्थैर्नक्तमापूर्य प्राह्णे लोकाय दर्शयिष्यसि ।

ततः कुबेरदत्तस्तृणायमत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वामुप्सतास्याति ।

अथ कुपितोर्ऽथपतिर्व्यवहर्तुमर्थगर्वादभियोक्ष्यते ।

तं च भूयश्चित्रैरुपायैः कौपीनावशेषं करिष्यावः ।

स्वकं चौर्यमनेनैवाभ्युपायेन सुप्रच्छन्नं भविष्यतिऽ इति ।

हृष्टश्च धनमित्रो यथोक्तमन्वतिष्ठत् ।

तदहरेव मन्नियोगाद्विमर्दकोर्ऽथपतिसेवाभियुक्तस्तस्योदारके वैरमभ्यवर्धयत् ।

अथलुब्धश्च कुबेरदत्तो निवृत्त्यार्थपतेर्धनमित्रायैव तनयां सानुनयं प्रादित्सत ।

प्रत्यबध्नाच्चार्थपतिः ।

एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम पञ्चवीरगोष्ठे संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमननागरजनः ।

स चाहं सह सख्याधनमित्रेण तत्र संन्यधिषि ।

प्रवृत्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभून्मनः ।

तद्दृष्टिविभ्रमोत्पलवनसच्चापाश्रयश्च पञ्चशरो भावरसानां सामग्र्यात्समुदितबल इव मामतिमात्रमव्यथयत् ।

अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमालाशृङ्खलाभिर्नीलोत्पलपलाशश्यामलाभिर्मामबध्नात् ।

नृत्योत्थिता च सा सिद्धिलाभशोभिनी-"किं विलासात्, किमभिलाषात्, किमकस्मादेव वा, न जाने,-असकृत्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमारेचितभ्रूलतमभिर्वाक्ष्य, सापदेसं च किञ्चिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलोचनमानसानुयाता प्रातिष्ठत ।

सो ऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि ।

अतिनिष्णातश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत्-"सखे, सैव धन्या गणिकादारिका, यामेवं भन्मनो ऽबिनिविशते ।

तस्याश्च मया सुलक्षिता भाववृत्तिः ।

तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति ।

स्थानाबिनिवेशिनोश्च वामयत्नसाध्यः समागमः ।

किन्तु सा किल वारकन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत-"गुणशुल्काहम्, न धनशुल्का ।

न च पाणिग्रहणादृते ऽन्यभोग्यं यौवनम्ऽ इति ।

तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी काममञ्जरीमाता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम्-"देव, युष्मद्दासी रागमञ्जरो रूपानुरूपशीलशिल्पकौशला पूरयिष्यति मनोरथानित्यासीदस्माकमतिमहत्याशा साद्य मूलच्छिन्ना ।

यदियमतिक्रम्य स्वकुलधर्ममर्थनिरपेक्षा गुणेभ्य एवं स्वं यौवनं विचिक्रीषते कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठासति ।

सा चेदियं देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्ऽ इति ।

राज्ञा च तदनुरोधात्तथानुशिष्टा सत्यप्यनाश्रवैव सा यदासीत्, तदास्याः स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरताम्-"यदि कश्चिद्भुजङ्गो ऽस्मदिच्छया विनैनां बालां विप्रलभ्य नाशयिष्यति स तस्करवद्वध्यःऽ इति ।

तदेवं स्थिते धनादृतेन तत्स्वतनो ऽनुमन्यते ।

न तु धनदायासावभ्युपगच्छतीति विचिन्त्यो ऽत्राभ्युपायःऽ इति ।

अथ मोयक्तम्-"किमत्र चिन्त्यम् ।

गुणैस्तामावर्ज्य गूढं धनैस्तत्स्वजनं तोषयावःऽ इति ।

ततश्च काञ्चित्काममञ्जर्याः प्रधानदूतीं धर्मरक्षितां नाम शाक्यभिक्षुकीं चीवरपिण्डदानादिनोपसंगृह्य तन्मुखेन तया बन्धक्या पणबन्धमकरवम्--"अजिनरत्नमुदारकान्मुषित्वा मया तुभ्यं देयम्, यदि प्रतिदानं रागमञ्जरीऽ इति ।

सो ऽहंसंप्रतिपन्नायां च तस्यां तथा तदर्थं संपाद्यमद्गुणोन्मादिताया रागमञ्जर्याः करकिसलयमग्रहीषम् ।

यस्यां च निशि चर्मरत्नस्तेयवादस्तस्याः प्रारम्भे कार्यान्तरापदेशेनाहूतेषु शृण्वत्स्वेव नागरमुख्येषु मत्प्रणिधिर्विमर्दकोर्ऽथपतिगृह्यो नामभूत्वा धनमित्रमुल्लङ्घ्य बह्वर्तयत् ।

उक्तं च धनमित्रेण-"भेद्र, कस्तवार्थो यत्परस्य हेतोर्मामाक्रोशसि ।

न स्मरामि स्वल्पमपि तवापकारं मत्कृतम्ऽ इति ।

स भूयो ऽपि तर्जयन्निवाब्रवीत्--"स एष धनगर्वो नाम, यत्परस्य भार्यां शुल्कक्रीतां पुनस्तत्पितरौ द्रव्येण विलोभ्य स्वीचिकीर्षसि ।

ब्रवीषि च-"कस्तवापकारो मत्कृतःऽ इति, ननु प्रतीतमेवैतत् "सार्थवाहस्यार्थपतेर्विमर्दको बहिश्चराः प्राणाःऽ इति ।

सो ऽहं तत्कृते प्राणानपि परित्यजामि ।

ब्रह्महत्यामपि न परिहरामि ।

"ममैकरात्रजागरप्रतीकारस्तवैष चर्मरत्नाहङ्कारदाहज्वरःऽ इति ।

तथा ब्रुवाणश्च पौरमुख्यैः सामर्षं निषिध्यापवाहितो ऽभूत् ।

इयं च वार्ता कृत्रिमार्तिना धनमित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य पार्थिवाय निवेदिता ।

स चार्थपतिमाहूयोपह्वरे पृष्टवान् "अङ्ग, किमस्ति कश्चिद्विमर्दको नामात्रभवतःऽ इति ।

तेन च मूढात्मना "अस्ति देव, परं मित्रम्ऽ ।

कश्च तेनार्थःऽ इति कथिते राज्ञोक्तम्-"अपि शक्नोषि तमाह्वातुम्ऽ इति ।

"बाढमस्मि शक्तःऽ इति निर्गत्य स्वगृहे वेशवाटे द्यूतसभायामापणे च निपुणमन्विष्यन्नोपलब्धवान् ।

कथं वोपलभ्येत स वराकः ।

स खलु विमर्दको मद्ग्राहितत्वदभिज्ञानचिह्नो मन्नियोगात्त्वदन्वेषणायोज्जयिनीं तदहरेव प्रातिष्ठत ।

अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसंबद्धं मत्वा मोहाद्भयाद्वा प्रत्याख्याय पुनर्धनमित्रेण विभाविते कुपितेन राज्ञा निगृह्य निगडबन्धनमनीयत ।

तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा काममञ्जरी पूर्वदुग्धं क्षणणीभूतं विरूपकं रहस्युपसृत्य ततो ऽपहृतं सर्वमर्थजातं तस्मै प्रत्यर्प्य सप्रश्रयं च बह्वनुनीय प्रत्यागमत् ।

सो ऽपि कथञ्चिन्निर्ग्रन्थिकग्रहान्मोचितात्मा मदनुशिष्टो हृष्टतमः स्वधर्ममेव प्रत्यपद्यत ।

काममञ्जर्यपि कतिपयैरेवाहोभिरश्मन्तकशेषमजिनरत्नदोहाशया स्वमभ्युदयमकरोत् ।

अथ मत्प्रयुक्तो धनमित्रः पार्थिवं भिथो व्यज्ञापयत्-"देव, येयं गणिका काममञ्जरी लोभोत्कर्षाल्लोभमञ्जरीति लोकावक्रोशपात्रमासीत्, साद्य मुसलोऌखलान्यपि निरपेक्षं त्यजति ।

तन्मन्ये मच्चर्मरत्नालाभं हेतुम् ।

तस्य खलु कल्पस्तादृशः ।

वणिग्भ्यो वारमुख्याभ्यश्च दुग्धे नान्येभ्य इति हि तद्गता प्रतीतिः ।

अतो ऽमुष्यामस्ति मे शङ्काऽ इति ।

सा सद्य एव राज्ञा सह जनन्या समाहूयत ।

व्यथितवर्णेनेव मयोपह्वरे कथितम्-"नूनमार्ये, सर्वस्वत्यागादतिप्रकाशादाशङ्कनीयचर्मरत्नलाभा ।

तदनुयोगायाङ्गराजेन समाहूयसे ।

भूयोभूयश्च निर्बद्धया त्वया नियतमस्मि तदागतित्वेनाहमपदेश्यः ।

ततश्च मे भावी चित्रवधः ।

मृते च मयि न जीविष्यत्येव ते भगिनी ।

त्वं च निःस्वीभूता ।

चमरत्नं च धनमित्रमेव प्रतिभजिष्यति ।

तदियमापत्समन्ततो ऽनर्थानुबन्धिनी ।

तत्किमत्र प्रतिविधेयम्ऽ इति ।

तया तज्जनन्या चाश्रूणि विसृज्योक्तम्-"अस्त्येवैतदस्मद्वालिश्यान्निर्भिन्नप्रायं रहस्यम् ।

राज्ञश्च निर्बन्धाद्द्विश्त्रिश्चतुर्निह्नुत्यापि नियतमागतिरपदेश्यैव चोरितस्य त्वयि ।

त्वयि त्वपदिष्टे सर्वमस्मत्कुटुम्बमवसीदेत् ।

अर्थपतौ च तदपयशो रूढम् ।

अङ्गपुरप्रसिद्धं च तस्य कीनाशस्यास्माभिः संगतम् ।

अमुनैव तदस्मभ्यं दत्तमित्यपदिश्य वरमात्मा गोपायितुम्ऽ इति मामभ्युपगमय्य राजकुलमगमताम् ।

राज्ञानुयुक्ते च "नैष न्यायो वेशकुलसय यद्दातुरपदेशः ।

न ह्यर्थैर्न्यायार्जितैरेव पुरुषा वेशमुपतिष्ठन्तिऽत्यिसकृततिप्रणुद्य कर्णनासाच्छेदोपक्षेपभीषिताभ्यां दग्धबन्धकीभ्यां स एव तपस्वी तस्करत्वेनार्थपतिरग्राह्यत ।

कुपितेन च राज्ञा तस्य प्राणेषूद्यतो दण्डः ।

प्राञ्जलिना धनमित्रेणैव प्रत्यषिध्यत-"आर्य, मौर्यदत्त एष वरो वणिजाम् रिदृशेष्वपराधेष्वसुभिरवियोगः ।

यदि कुपितो ऽसि हृतसर्वस्वो निर्वासनीयः पाप एषःऽ इति ।

तन्मूला च धनमित्रस्य कीर्तिरप्रथत ।

अप्रीयत च भर्ता ।

पटच्चरच्छेदशेषोर्ऽथपतिरर्थमत्तः सर्वपौरजनसमक्षं निरवास्यत ।

तस्यैव द्रव्याणां तु केनचिदवयवेन सा वराकी काममञ्जरी चर्मरत्नमृगतृष्णिकापविद्धसर्वस्वा सानुकम्पं धनमित्राभिनोदितेन भूपेनान्वगृह्यत ।

धनमित्रश्चाहनि गुणिनि कुलपालिकामुपायंस्त ।

तदेवं सिद्धसंकल्पो रागमञ्जरीगृहं हेमरत्नपूर्णमकरवम् ।

अस्मिंश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः स्वैरेव धनैर्मद्विश्राणितैः समृद्धीकृतस्यार्थवर्गस्य गृहेषु भिक्षार्थमभ्रमत् ।

न ह्यलमतिनिपुणो ऽपि पुरुषो नियतिलिखितां लेखामतिक्रमितुम् ।

यतो ऽहमेकदा रागमञ्जर्याः पमास्वादमास्वादं मदेनास्पृश्ये ।

शीलं हि मदोन्मादयोरमार्गेणाप्युचितकर्मस्वेव प्रवर्तनम् ।

यदहमुपोढमदः "नगरमिदमेकयैव शर्वर्या निर्धनीकृत्य त्वद्भवनं पूरयेयम्ऽ इति प्रव्यथितप्रियतमाप्रणामाञ्जलिशपथशतातिवर्ती मत्तवारण इव रभसच्छिन्नशृङ्खलः कयापि धात्र्या शृगालिकाङ्ख्ययानुगम्यमानो नातिपरिकरो ऽसिद्धितीयो रंहसा परेणोदचलम् ।

अभिपततो ऽपि नागरिकपुरुषानशङ्कमेव विगृह्य तस्कर इति तैरभिहन्यमानो ऽपि नातिकुपितः क्रीडन्निव मदावसन्नहस्तपतितेन निस्त्रिंशेन द्वित्रानेव हत्वावघूर्णमानताम्रदृष्टिरपतम् ।

अनन्तरमार्तरवान्विसृजन्ती शृगालिका ममाभ्याशमागमत् ।

अबध्ये चाहमरिभिः ।

आपदा तु मदापहारिण्या सद्य एव बोधितस्तत्क्षणोपजातया प्रतिभया व्यचीचरम्-"अहो, ममेयं मोहमूला महत्यापदापतिता ।

प्रसृततरं च सख्यं मया सह धनमित्रस्य, मत्परिग्रहत्वं च रागमञ्जर्याः ।

मदेन सा च तौ प्रोर्णुतौ श्वो नियतं निग्रहिष्येते ।

तदियमिह प्रतिपत्तिर्ययानुष्ठीयमानया मन्नियोगतस्तौ परित्रास्येते ।

मां च कदाचिदनर्थादितस्तारयिष्यतिऽ इति कमप्युपायमात्मनैव निर्णीय शृगालिकामर्गादिषम्-"अपेहि जरतिके, या तामर्थलुब्धां दग्धगणिकां राजमञ्जरिकामजिनरत्नमत्तेन शत्रुणा मे मित्रचछद्मना धनमित्रेण संगमितवती, सा हतासि ।

तस्य पापस्य चर्मरत्नमोषाद्दुहितुश्च ते साराभरणापहारादहमद्य निःशल्यमुत्सृजेयं जीवितम्ऽ इति ।

सा पुनरुद्धटितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान् पुरुषान्सप्रणाममासादितवती सामपूर्वं मम पुरस्तादयाचत-"भद्रकाः, प्रतीक्ष्यतां कञ्चित्कालं यावदस्मादस्मदीयं सर्वं मुषितमर्थजातमवगच्छेयम्ऽ इति ।

तथेति तैः प्रतिपन्ने पुनर्मत्समीपमासाद्य "सौम्य, क्षमस्वास्य दासीजनस्यैकमपराधम् ।

अस्तु स कामं त्वत्कलत्राभिमर्शी वैरास्पदं धनमित्रः ।

स्मरंस्तु चिरकृतां ते परिचर्यामनुग्रहीतुमर्हसि दासीं रागमञ्जरीम् ।

आकल्पसारो हि रूपाजीवाजनः ।

तद्ब्रूहि क्व निहितमस्यां भूषणम्ऽ इति पादयोरपतत् ।

ततो दयमान इवाहमव्रवम्-"भवतु, मृत्युहस्तवर्तिनः किं ममामुप्या वैरानुबन्धेनऽ इति तद्व्रुवन्निव कर्ण एवैनामशिक्षयम्-"एवमेवं प्रतिपत्तव्यम्ऽ इति ।

सा तु प्रतिपन्नार्थेव जीव चिरम्, प्रसीदन्तु ते देवताः, देवो ऽप्यङ्गराजः पौरुषप्रीतो मोचयतु त्वाम्, एते ऽपि भद्रमुखास्तव दयन्ताम्, इति क्षणादपासरत् ।

आनीये चाहमारक्षकनायकस्य शासनाच्चारकम् ।

अथोत्तरेद्युरागत्य दृप्ततरः सुभगमानी सुन्दरंमन्यः पितुरत्ययादचिराधिष्ठताधिकारस्तारुण्यमदादनतिपक्वः कान्तको नाम नागारेकः किञ्चिदिव भर्त्सयित्वा मां समभ्यधत्त--"न चेद्धनमित्रस्याजिनरत्नं प्रतिप्रयच्छसि, न चेद्वा नागरिकेभ्यश्चोरितकानि परत्यर्पयसि, द्रक्ष्यसि पारमष्टादशानां कारणानामन्ते च मृत्युमुखम्ऽ इति मया तु स्मयमानेनाभिहितम्--"सौम्य, यद्यपि दद्यामाजन्मनो मुपितं धनं न त्वर्थपतिदारापहारिणः शत्रोर्मे मित्रमुखरय धननित्रस्य चर्मरत्नप्रत्याशां पूरयेयम् ।

अदत्त्वैव तदयुतमपि यातनानामनुभवेयम् ।

इयं नेसाथीयसी सन्धाऽ इति ।

तेनैव क्रमेण वर्तमाने सान्त्नतर्जनप्राये प्रतिदिनमनुयोगव्यतिकरे ऽनुगुणान्नपानलाभात्कतिपयैरेवहोभिर्विरोपि तत्रणः प्रकृतिस्थो ऽहमासम् ।

अथ कदाचिदच्युताम्बरपीतातपत्विपि क्षयिणि वासरे हृष्टवर्णा शृगालिकोज्ज्वलेन वेषेणोपसृत्य दूरस्थानुचरा मामुपश्लिष्याव्रवीत्--"आर्य, दिष्ट्या वधस ।

फलिता तव सुनीतिः ।

यथा त्वयादश्ये तथा धनमित्रमेत्यात्रवम्-- आर्य तवैवमापन्नः सुहृदित्युवाच-"अहमद्य वेशसंसर्गसुलभात्पानदोषाद्वद्धः ।

त्वया पुनरविशङ्कमद्यैव राजा विज्ञापनीयः--"देव, देवप्रसादादेव पुरापि तदजिनरत्नमर्थपतिमुषितमासादितम् ।

अथ तु भर्ता रागमञ्जर्याः कश्चिदक्षधूर्तः कलासु कवित्वेषु लोकवार्तासु चातिवैचक्षण्यान्मया समसृज्यत तत्सम्बन्धाच्च वस्त्राभरणप्रेषणादिना तद्भार्यां प्रतिदिनमन्ववर्ते ।

तदसावशङ्किष्ट निकृष्टाशयः कितवः ।

तेन च कुपितेन हृतं तच्चर्मरत्नमामरणसमुद्गकश्च तस्याः ।

स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिकपुरुषैः ।

आपन्नैन चामुनानुसृत्य रुदत्यै रागमञ्जरीपरिचारिकायै पूर्वप्रणयानुवर्तिना तद्भाण्जनिधानोद्देशः कथितः ।

ममापि चर्मरत्नमुपायोपक्रान्तो यदि प्रयच्छेदह देव पादः प्रसादः कार्यः इति ।

तथा निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव संवं ते दापयितुं प्रयतिष्यते तन्नः पथ्यम्ऽ इति ।

श्रुत्वैव च त्वदनुभावप्रत्ययादनतित्रस्नुना तेन तत्तथैव संपादितम् ।

अथाहं त्वदभिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यर्थष्सितानि वसूनि लभमाना राजदुहितुरम्बालिकाया धात्रीं माङ्गलिकां त्वदादिष्टेन मार्गेणान्वरञ्जयम् ।

तामेव च संक्रमीकृत्य रागमञ्जर्याश्चाम्बालिकायाः सख्यं परमवीवृधम् ।

अहरङश्च नवनवानि प्राभृतान्युपहरन्ती कथाश्चित्राश्चित्तहारिणीः कथयन्ती तस्याः परं प्रसादपात्रमासम् ।

एकदा च हर्म्यगतायास्तस्याः स्थानस्थितमपि कर्णकुवलयं स्रस्तमिति समादधत्ती प्रमत्तेव प्रच्याव्य पुनरुत्क्षिष्य भूमेस्तेनोपकन्यापुरं कारणेन केनापि भवनाङ्गणं प्रविष्टस्य कान्तकस्योपरि प्रवृत्तिकुहरपारावतत्रासनापदेशात्प्रहसन्ती प्राह्र्षम् ।

सो ऽपि ते धन्यंमन्यः किञ्चिदुन्मुखः स्मयमानो मत्कर्मप्रहासितायाराजदुहितार्विलासप्रायमाकारमात्माभिलाषमूलमिव यथा संकल्पयेत्तथा मयापि संज्ञयैव किमपि चतुरमाचेष्टितम् ।

आकृष्टधन्वना च मनसिजेन विद्धः सन्दिग्धफलेन पत्रिणातिमुग्धः कथङ्कथमप्यपासरत् ।

सायं च राजकन्याङ्गुलीयकमुद्रितां वासताम्बूलपट्टांशुकयुगलभूषणावयवगर्भां च वङ्गेरिकां कयाचिद्वालिकया ग्राहयित्वा रागमञ्जर्या इति नीत्वा कान्तकस्यागारमगाम् ।

अगाधे च रागसागरे मग्नो नावमिव मामुपलभ्य परमहृष्यत् अवस्थान्तराणि च राजदुहितुः सुदारुणानि व्यावर्णयन्त्या मया स दुर्मतिः सुदूरमुदमाद्यत ।

तत्प्रार्थिता चाहं त्वत्प्रियाप्रहितमिति ममैव मुखताम्बूलोच्छिष्टानुलेपनं निर्माल्यं मलिनांशुकं चान्येद्युरुपाहरम् ।

तदीयानि च राजकन्यार्थमित्युपादाय च्छन्नमेवापोढानि ।

इत्थं च सन्धुक्षितमन्मथाग्निः स एवैकान्ते मयोपमन्त्रितो ऽभूत्--"आर्य, लक्षणान्येव तवाविसंवादीनि ।

तथा हि मत्प्रातिवेश्यः कश्चित्कार्तान्तिकः "कान्तकस्य च त्वामियं राजकन्यका कामयते ।

तदेकापत्यश्च राजा तया त्वां समागतमुपलभ्य कुपितो ऽपि दुहितुर्मरणभयान्नोच्छेत्स्यति ।

प्रत्युत प्रापयिष्यत्येव यौवराज्यम् ।

इत्थं चायमर्थोर्ऽथानुबन्धी ।

किमिति तात्, नाराध्यते ।

यदि कुमारीपुरप्रवेशाभ्युपायं नावबुध्यसे ।

ननु बन्धनागारभित्तेव्यमित्रयमन्तरालमारमप्राकारस्य केनचित्तु हस्तवतैकागारिकेण तावतीं सुरङ्गां कारयित्वा प्रविष्टस्योपवनं तवोपरिष्टादस्मदायत्तैव रक्षा ।

"रक्ततरो हि तस्याः परिजनो न रहस्यं भेत्स्यतिऽ इति ।

सो ऽव्रवीत्--"साधु भेद्र, दर्शितम् ।

अस्ति कश्चित्तस्करः खननकर्मणि सगरसुतानामिवान्यतमः स चेल्लब्धः क्षणेनैतत्कर्म साधयिष्यतिऽ इति ।

"कतमो ऽसौ, किमिति लभ्यते इति मयोक्त "येन तद्धनमित्रस्य चर्मरत्नं मुषितम्ऽ इति त्वामेव निरदिक्षत् ।

यद्येवमेहि, त्वयास्मिन्कर्मणि साधित चित्रैरुपायैस्त्वामहं मोचयिष्यामीति शपथपूर्वं तेनाभिसन्दाय सिद्धेर्ऽथे भूयो ऽपि निगडियित्वा "यो ऽसौ चारेः स सर्वथोपक्रान्तः न तु धार्ष्ट्यभूमिः प्रकृष्टवैरस्तदजिनरत्नं दर्शयिष्यतिऽ इति राज्ञे विज्ञाप्य "चित्रमेनं हनिप्यसि, तथा च सत्यर्थः सिद्ध्यति, रहस्यं च न स्रवतिऽ इति मयोक्ते सो ऽतिहृष्टः प्रतिपद्य मानेव त्वदुपप्रलोभने नियुज्य बरिरवस्थितः प्राप्तमितः परं चिन्त्यताम्ऽ इति प्रीतेन च मयोक्तम्, "मदुक्तमल्पम्, त्वन्नय एवात्र भूयान् आनयैनम्ऽ इति ।

अथानीतेनामुनामन्मोचनाय शपथः कृतः, अहं च रहस्यानिर्भेदाय विनिगजीकृतश्च स्नानभोजनविलोपनान्यनुभूय नित्यान्धकाराद्भित्तिकोणादारभ्योरगास्येन सुरङ्गामकरत्रम् ।

अचिन्तयं चैम्-"हन्तुमनसैवामुना मन्मोचनाय शपथः कृतः तदेनं हत्वापि नासत्यवाददोषेण स्पृश्येऽ इति ।

निष्पततश्च मे निगजनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य पतितसय तस्यैवासिधेन्वा शिरो न्यकृन्तम् ।

अकथयं च शृगालिकाम्-"भण भद्रे, कथंभूतःकन्यापुरसंनिवेशः? महानयं प्रयासो मा वृथैव भूत् ।

अमुत्र किञ्चिच्चोरयित्वा निवर्तिष्येऽ इति ।

तदुपदर्शितविभागे चावगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणिप्रदीपेषु नैकक्रीडाखेदसुप्रस्य परजनस्य मध्ये महितमहार्घरत्नप्रत्युप्तसिंहाकारदन्तपादे हंसतूलगर्भशय्योपधानशालिनि कुसुमविच्छुरितपर्यन्ते पर्यङ्कगले दक्षिणपादपार्प्ण्यधोभागानुवलितेतरचरणाग्रपृष्टम् रिषद्विवृत्तमधुरगुलफसंधि, परस्पराश्लिष्टजङ्घाकाण्डम्, आकुञ्चितकोमलोभयजानुकिञ्चिद्वेल्लितोरुदण्डयुगलम्, अधिनितम्बस्रस्तमुक्तैकभुजलताग्रपेशलम्, अपाश्रयान्तनिमिताकुञ्चितेतरभुजलतोत्तानतलकरकिसलयम्, आमुग्नश्रोणिमण्डलम्, अतिश्लिष्टचीनांशुकान्तरीयम्, अनतिवलिततनुतरोदरम्, अतनुतरनिःश्वासारम्भकम्पमानकठोरकुचकुङ्मलम्, अतिरश्चीनबन्धुरशिरोधरोद्देशदृश्यामाननिष्टप्ततपनीयसूत्रपर्यस्तपद्मरागरुचकम्, अर्धलक्ष्याधरकर्णपाशनिभृतकुण्डलम्, उपरिपरावृत्तश्रवणपाशरत्नकर्णिकाकिरणमञ्जरीपिञ्जरितविषयव्याविद्धाशिथिलशिखण्डबन्धम्, आत्मप्रभापटलदुर्लक्ष्यपाटलोत्तराधरविवरम्, गण्डस्थलीसंक्रान्तहस्तपल्लवदर्शितकर्णावतंसकृत्यम्, उपरिकपोलादर्शतलनिषक्तचित्रवितानपत्रजातजनितविशेषकक्रियम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रूपताकम्, उद्भिद्यमानश्रमजलपुलकभिन्नशिथिलचन्दनतिलकम्, आननेन्दुसंमुखालकलतं च विश्रब्धप्रसुप्तामतिधवलोत्तरच्छदनिमग्नप्रयैकपार्श्वतया चिरविलसनखेदनिश्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामिनीं राजकन्यामपश्यम् ।

दृष्ट्वै स्फुरदनङ्गरागश्चकितश्चोरयितवयनिस्पृहस्तयैव तावच्छोर्यमाणहृदयः किङ्कर्तव्यतामूढः क्षणमतिष्ठम् ।

अतर्कयं च-"न चेदिमां वामलोचनामाप्नुयां न मृष्यति मां जीवितु वसन्तबन्धुः असंकेतितपरामृष्टा चेयमतिबाला व्यक्तमार्तस्वरेण निहन्यान्मे मनोरथम् ।

ततो ऽहमेवाहन्येय ।

तदियमत्र प्रतिपत्तिःऽ इति ।

नागदन्तलग्ननिर्यासकल्कवर्णितं फलकमादाय मणिसमुद्गकाद्वर्णवर्तिकामुद्धृत्य तां तथाशयानां तस्याश्च मामावद्धञ्जालिं चरणलग्नमालिखमार्यां चैताम्- "त्वामयमाबद्धाञ्जलि दासजनस्तमिममर्थमर्थयते ।

स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम्ऽ ।। हेमकरण्डकाच्चवासताम्बूलवीटिकां कपूरस्फुटिकां पारिजातकं चोपयुज्यालक्तकपाटलेन तद्रसेन सुधाभितौ चक्रवाकमिथुनं निरष्ठीवम् ।

अङ्गुलीयकविनिमयं च कृत्वा कथङ्कथमपि निरगाम् ।

सुरङ्गया च प्रत्येत्य बन्धागारं तत्र बद्धस्य नागरिकवरस्य सिंहघोषनाम्नस्तेष्वेव दिनेषु मित्रत्वेनोपचरितस्य "एवं मया हतस्तपस्वी कान्तकः, तत्त्वया प्रतिभिद्य रहस्यं लब्धव्यो मोक्षःऽ इत्युपदिश्य सह शृगालिकया निरक्रामिषम् ।

नृपतिपथे च समागत्य रक्षिकपुरुषैरगृह्ये ।

अचिन्तयं च-"अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिः ।

एषा पुनर्वराकी गृह्येत ।

तदिदमत्र प्राप्तरूपम्ऽ इति तानेव चपलमभिपत्य स्वपृष्ठसमर्पितकूर्परः पराङ्मुखः स्थित्वा "भद्राः, यद्यहमस्मि तस्करः बध्नीत माम् ।

युष्माकमयमधिकारः, न पुनरस्या वर्षियस्याःऽ इत्यवादिषम् ।

सा तु तावतैवोन्नीतमदभिप्राया तान्सप्रणाममभ्येत्य "भद्रमुखाः, ममैष पुत्रो वायुग्रस्तश्चिरं चिकित्सितः ।

पूर्वेद्यः प्रसन्नकल्पः प्रकृतिश्थ एव जातः ।

जातास्थया मया बन्धनान्निष्क्रमय्य स्नापितो ऽनुलेपितश्चपरिधाप्यनिष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरे ऽद्यकामचारः कृतो ऽभूत् ।

अथ निशीथे भूय एव वायुनिघ्नः "निहत्य कान्तकं नृपतिदुहित्रा रमेयऽ इति रंहसा परेण राजपथमभ्यपतत् ।

निरूप्य चाहं पुत्रमेवङ्गतमस्यां वेलायामनुधावामि ।

तत्प्रसीदत ।

बद्ध्वैनं मह्यमर्पयतऽ इति यावदसौक्रन्दति तावदहं "स्थविरे, केन देवो मातरिश्वा बद्धपूर्वः ।

किमेते काकाःशौङ्गेयस्य मे निग्रहीतारः ।

शान्तं पापम्ऽ इत्यभ्यधावम् ।

असावप्यमीभिः "त्वमेवोन्मत्ता यानुन्मत्त इत्युन्मत्तं मुक्तदवती ।

कस्तमिदानीं बध्नातिऽ इति निन्दिता कदर्थिता रुदत्येवमामन्वधावत् ।

गत्वा च रागमञ्जरीगृहं चिरविरहखेदविह्वलामिमां बहुविधं समाश्वास्य तं निशाशेषमनयम् ।

प्रत्यूषे पुनरुदारकेण च समगच्छे ।

अथ भगवन्तं मरीचिं वेशकृच्छुदुत्थाय पुनः प्रतितप्ततपःप्रभावप्रत्यापन्नादिव्यचक्षुषमुपसंगम्य तेनास्म्येवंभूतत्वद्दर्शनमवगमितः ।

सिंहघोषश्च कान्तकापचारं निर्भिद्य ततपदे प्रसन्नेन राज्ञा प्रतिष्ठापितः तेनैव चारकसुरङ्गापथेन कन्यापुरप्रवेशं भूयो ऽपि मे समपादयत् ।

समगंसि चाहं शृगालिकामुखनिःसृतवार्तानुरक्तया राजदुहित्रा ।

तष्वेवे दिवसेषु चण्डवर्मा सिंहवर्मावधूतदुहितृप्रार्थनः कुपितो ऽभियुज्य पुरमवारुणत् ।

अमर्षणश्चाङ्गराजो यावदरिः पारग्रामिकं विधिमाचिकीर्षति तावत्स्वयमेव प्राकारं निर्भिद्य प्रत्यासन्नानपि सहायानप्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति संपराये भिन्नवर्मा सिंहवर्मा बलादगृह्यत ।

अम्बालिका च बलवदभिगृह्य चण्डवर्मणा हठात्परिणेतुमात्मभवनमनीयत् ।

कौतुकं च स किल क्षपावसाने विवाह इत्यबध्नात् ।

अहं च धनमित्रगृहे तद्विवाहायैव पिनद्धमङ्गलप्रतिसरस्तमेवमवोचम्-"सखे, समापतितमेवाङ्गराजाभिसरं राजमण्डलम् ।

सुगूढमेव संभूय पौरवृद्धैस्तदुपावर्तय ।

उपावृत्तश्च कृत्तशिरसमेव शुत्रुं द्रक्ष्यसिऽ इति ।

"तथाऽ इति तेनाभ्युपगते गतायुषो ऽमुष्य भवनमुत्सवाकुलमुपसमाधीयमानपरिणयोपकरणमिस्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाधमलक्ष्यशस्त्रिकः सह प्रविश्य मङ्गलपाठकैरम्बलिकापाणिपल्लवमग्नौ साक्षिण्याथर्वणेन विधिनार्प्यमाणमादित्समानस्यायामिनं बाहुदुण्डमाकृष्य च्छुरिकयोरसि प्राहर्षम् ।

स्फुरतश्च कतिपयानन्यानपि यमविषयमगमयम् ।

हतविध्वस्तदं च तद्गृहमन् विचरन्वेपमानमधुरगात्रीं विशाललोचनामभिनिशाम्य तदालिङ्गनसुखमनुबुभूषुस्तामादाय गर्भगृहमविक्षम् ।

अस्मिन्नेव क्षणे तवास्मि नवाम्बुवाहस्तनितगम्भीरेण स्वरेणानुगृहीतःऽ इति ।

श्रुत्वा च स्मित्वा च देवो ऽपि रजवाहनः "कथमसि कार्कस्येन कर्णीसुतमप्यतिक्रान्तःऽ इत्यभिधाय पुनरवेक्ष्योपहारवर्माणम् आचक्ष्व, तवेदानीमवसरःऽ इत्यभाषत ।

सो ऽपि सस्मितं प्रणस्यारभताभिधातुम् ।। दकुच_,२ ।।

 

 

इति श्रीदण्डिनः कृतौ दशकुमारचरिते ऽपहारवर्मचरितं नाम द्वितीय उच्छ्वासः


एक टिप्पणी भेजें

0 टिप्पणियाँ