जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

राजवाहनचरित नाम प्रथम उच्छ्वासः दशकुमारचरितं उत्तरपीठिका श्रीः अन्तर्विषयाः १ दशकुमारचरितम् उत्तरपीठीकायाः प्रथमोच्छ्वासः


यह संस्कृत गद्य सम्राट दण्डी द्वारा रचित 'दशकुमारचरितम्' की उत्तरपीठिका के प्रथम उच्छ्वास का अंश है। इसमें राजकुमार राजवाहन के बंदी बनने, उनके पैरों में चाँदी की बेड़ी पड़ने और अंततः उनके मुक्त होने की कथा है।


दशकुमारचरितं उत्तरपीठिका

श्रीः

 अन्तर्विषयाः

     दशकुमारचरितम् उत्तरपीठीकायाः प्रथमोच्छ्वासः

दशकुमारचरितम् उत्तरपीठीकायाः प्रथमोच्छ्वासः

दकुच २,

श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी सस्मितमिदमभाषत-"दयित, त्वत्प्रसादादद्य मे चरितार्था श्रोत्रवृत्तिः ।

अद्य मे मनसि तमो ऽपहस्त्वया दत्तो ज्ञानप्रदीपः ।

पक्कमिदानां त्वत्पादपद्मपरिचर्याफलम् ।

अस्य च त्वत्प्रसादस्य किमुपकृत्य प्रत्युपकृतवती भवेयम् ।

अभवदीयं हि नैव किञ्चिन्मत्संबद्धम् ।

अथवास्त्येवास्यापिजनस्य क्वचित्प्रभुत्वम् ।

अशक्यं हि मादिच्छया विना सरस्वतीमुखग्रहणोच्छेषणीकृतो दशनच्छद एष चुम्बयितुम् ।

अम्बुजासनास्तनतटोपभुक्तमुरःस्थलं चेदमालिङ्गयितुम्ऽ इति प्रियोरसि प्रावृडिव नभस्युपास्तीर्णगुरुपयोधरमण्डला प्रौढकन्दलीकुड्मलमिव रूढरागरूषितं चक्षुरुल्लासयन्ती वर्हिवर्हावलीं विडम्बयता कुसुमचन्द्रकशारेण मधुकरकुलव्याकुलेन केशकलापेन स्फुरदरुणकिरणकेसरकरालं कदम्बमुकुलमिव कान्तस्याधरमणिमधीरमाचुचुम्ब ।

तदारम्भसफरितया च रागवृत्त्या भूयो ऽप्यावर्ततातिमात्रचित्रोपचारशीफरो रतिप्रबन्धः ।

सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनिगडितपादो जरठः कश्चिज्जालपादो ऽदृश्यत ।

प्रत्यबुध्येतां चौभौ ।

अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृहीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् ।

उपलभ्यैव च "किमेतत्ऽ इत्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या ।

यन च तत्सकलमेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनिरूप्यमाणतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमानगात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतो ऽवगुण्ठितकपोलतलमाकुलीबभूव ।

तुमुले चास्मिन्समये ऽनियन्त्रितप्रवेशाः "किं किम्ऽ इति सहसोपसृत्य विविशुरन्तर्वंशिकपुरुषाः ।

ददृशुश्च तदवस्थं राजकुमारम् ।

तदनुभावनिरुद्धनिग्रहेच्छास्तु सद्य एव ते तमर्थं चण्डवर्मणे निवेदयाञ्चक्रुः ।

सो ऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्योत्पन्नप्रत्यभिज्ञः "कथं स एवाष मदनुजमरणनिमित्तभूतायाः पापाया बालचन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भवस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविपरलम्भोपायपाटवावर्जितमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः ।

कथमिवैनमनुरक्ता मादृशेष्वपि पुरुषसिंहेषु सावमाना पापेयमवन्तिसुन्दरी ।

पश्यतु पतिमद्यैव शूलावतंसितमियमनार्यशीला कुलपांसनीऽ इति निर्भर्त्सयन्भीषणभ्रुकुटिदूषतललाटः काल इव काललोहदण्डकर्कशेन बाहुदण्डेनावलम्ब्य हस्ताम्बुजे रेखाम्बुजरथाङ्गलाञ्छने राजपुत्रं सरभसमाचकर्ष ।

स तु स्वभावधीरः सर्वपौरुषातिभूमिः सहिष्णुतैकप्रतिक्रियां दैवीमेव तामापदमवधार्य "स्मर तस्या हंसगामिनि, हंसकथायाः ।

सहस्व वासु, मासद्वयम्ऽिति प्राणपरित्यागरागिणीं प्राणसमां समाश्वास्यारिवश्यतामयासीत् ।

अथ विदितवार्तावार्तौ महादेवीमालवेन्द्रौ जामातरमाकारपक्षपातिनावात्मपरित्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः ।

न शेकतुस्तु तमपरभुत्वादुत्तारयितुमापदः ।

स किल चण्डशीलश्चण्जवर्मा सर्वमिदमुदन्तजातं राजराजगिरौ तपस्यते दर्पसाराय संदिश्य सर्वमेव पुष्पोद्भवकुटुम्बकं सर्वस्वहरणपूर्वकं सद्य एव बन्धने क्षिप्त्वा कृत्वा च राजवाहनं राजकेसरिकिशोरकमिव दारुपञ्जरनिबद्धं मूर्धजजालवलीनचूढामणिप्रभावविक्षिप्तक्षुत्पिपासादिखेदं च तमवधूतदुहितृप्रार्थनस्याङ्गराजस्योद्धरणायाङ्गानभियास्यन्न्यविश्वासान्निनाय ।

रुरोध च बलभरदत्तकम्पश्चम्पाम् ।

चम्पेश्वरो ऽपि सिंहवर्मा सिंह इवासह्यविक्रमः प्राकारं भेदयित्वा महता बलसमुदायेन निर्गत्य स्वप्रहितदूतव्राताहूतानां साहाय्यदानायातिसत्वरमापततां धरापतीनामचिरकालभाविन्यपि संनिधावदत्तापेक्षःस साक्षादिवावलेपो वपुष्मानक्षमापरीतः प्रतिबलं प्रतिजग्राहः ।

जगृहे च महति संपराये क्षीणसकलसैन्यमण्डलः प्रचण्डप्रहरणशतभिन्नमर्मा सिंहवर्मा करिणः करिणमवप्लुत्यातिमानुषप्राणबलेन चण्डवर्मणा ।

स च तद्दुहितर्यम्बालिकायामबलारत्नसमाख्यातायामतिमात्राभिलाषः प्राणैरेनं न व्ययूयुजत् ।

अवपि त्वनीनयदपनीताशेषशल्यमकल्यसंधो बन्धनम् ।

अजीगणच्च गणकसंघैः "अद्यैव क्षपावसाने विवाहनीया राजदुहिताऽ इति ।

कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्रतिनिवृत्त्यैणजङ्घो नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसंदेशमावेदयत्--"अयि मूढ, किमस्ति कन्यान्तःपुरदूषके ऽपि कश्चित्कृपावसारः ।

स्थविरः स राजा जराविलुप्तमानावमानचित्तो दुश्चरितदुहितृपक्षपाती यदेव किञ्चित्प्रलपति त्वयापि किं तदनुमत्या स्थातव्यम् ।

अविलम्बितमेव तस्य कामोन्मत्तस्य चित्रवधवार्ताप्रेषणेन श्रवणोत्सवो ऽस्माकं विधेयः ।

सा च दुष्टकन्या सहानुजेन कीर्तिसारेण निगडितचरणा चारके निरोद्धव्याऽ इति ।

तच्चाकर्ण्य "प्रातरेव राजभवनद्वारे स च दुरात्मा कन्यान्तःपुरदूषकः संनिधापयितव्यः ।

चण्डपोतश्च मातङ्गपतिरुपचितकल्पनोपपन्नस्तत्रैव समुपस्थापनीयः ।

कृतविवाहकृत्यश्चोत्थायाहमेव तमनार्यशीलं तस्य हस्तिनः कृत्वा क्रीडनकं तदधिरूढ एव गत्वा शत्रसाहाय्यकाय प्रत्यासीदतो राजन्यकस्य सकोशवाहनस्यावग्रहणं करिष्यामिऽ इति पार्श्वचरानवेक्षाञ्चक्रे ।

निन्ये चासावहन्यन्यस्मिन्नुन्मिषत्येवोषारोगे राजपुत्रो राजाङ्गणं रक्षिभिः ।

उतस्थे च क्षरितगण्डश्चण्डपोतः ।

क्षणे च तस्मिन्मुमुचे तदङ्घ्रियुगलं रजतशृङ्खलया ।

सा चैनं चन्द्रलेखाच्छविः काचिदप्सरा भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिर्ंव्यजिज्ञपत्--"देव, दीयतामनुग्रहार्द्रं चित्तम् ।

अहमस्मि सोमरश्मिसंभवा सुरतमञ्जरी नाम सुरसुन्दरी ।

तस्या मे नभसि नलिनलुब्ध मुग्धकलहंसानुबद्धवक्त्रायास्तन्निवारणक्षोभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया जातु हैमवते मन्दोदके मग्नोन्मग्नस्य महर्षेर्मार्कण्डेयस्य मस्तके मणिकिरणद्विगुणितपलितमपतत् ।

पातितश्च कोपितेन को ऽपि तेन मयि शापः--"पापे, भजस्व लोहजातिमजातचैतन्या सतीऽ इति ।

स पुनः प्रसाद्यमानस्त्वत्पादपद्मद्वयस्य मासद्वयमात्रं संदानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणशक्तित्वं चेन्द्रियाणामकल्पयत् ।

अनल्पेन च पाप्मना रजतशृङ्खलीभूतां मामैक्ष्वाकस्य राज्ञो वेगवतः पौत्रः, पुत्रो मानसवेगस्य, वीरशेखरो नाम विद्याधरः शङ्करगिरौ समध्यगमत् ।

आत्मसात्कृता च तेनाहमासम् ।

अथासौ पितृप्रयुक्तवैरे प्रवर्तमाने विद्याधरचक्रवर्तिनि वत्सराजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदपकारक्षमो ऽयमिति तपस्यता दर्पसारेण सह समसृज्यत ।

प्रतिश्रुतं च तेन तस्मै स्वसुरवन्तिसुन्दर्याः प्रदानम् ।

अन्यदा तु वियति व्यवदायमानचन्द्रिके मनोरथप्रियतमामवन्तिसुन्दरीं दिदृक्षुरवशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमुपासरत् ।

अन्तरितश्च तिरस्करिण्या विद्यया ।

स च तां तदा त्वदङ्कापाश्रयां सुरतखेदसुप्तगात्रीं त्रिभुवनसर्गयात्रासंहारसंबद्धाभिः कथाभिरमृतस्यन्दिनीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् ।

स तु प्रकुपितो ऽपि त्वदनुभावप्रतिबद्धनिप्रहान्तराध्यवसायः समालिङ्ग्येतरेतरमत्यन्तसुखसुप्तयोर्युवयोर्दैवदत्तोत्साहः पाण्डुलोहशृङ्खलात्मना मया पादपद्मयोर्युगलं तव निगडयित्वा सरोषरभसमपासरत् ।

अवसितश्च ममाद्य शापः ।

तच्च मासद्वयं तव पारतन्त्र्यम् ।

प्रसीदेदानीम् ।

किं तव करणीयम्ऽ इति प्रणिपतन्ती "वार्तयानया मत्प्राणसमां समाश्वासयऽ इति व्यादिश्य विससर्ज ।

तस्मिन्नेव क्षणान्तरे "हतो हतश्चण्डवर्मा सिंहवर्मदुहितुरम्बालिकायाः पाणिस्पर्शरागप्रसारिते बाहुदण्ड एव बलवदलम्ब्य सरभसमाकृष्य केनापि दुष्करकर्मणा तस्करेण नखप्रहारेण राजमन्दिरोद्देशं च शवशतमयमापादयन्नचकितगतिरसौ विहरतिऽ इति वाचः समभवन् ।

श्रुत्वा चैतत्तमेव मत्तहस्तिनमुदस्ताधोरणो राजपुत्रो ऽधिरुह्य रंहसोत्तमेन राजभवनमभ्यवर्तत ।

स्तम्बेरमरयावधूतपदातिदत्तर्त्मा च प्रविश्य वेश्याभ्यन्तरमदभ्राभ्रनिर्घोषगम्भीरेण स्वरेणाभ्यधात्--"कः स महापुरुषो यैनैतन्मानुषमात्रदुष्करं महत्कर्मानुष्ठितम् ।

आगच्छतु ।

मया सहेमं मत्तहस्तिनमारोहतु ।

अभयं मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णानस्यऽ इति ।

निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृता ञ्जलिराक्रम्य संज्ञासंकुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् ।

आरोहन्तमेवैनं निर्वर्ण्यहर्षोत्फुल्लदृष्टिः "अये, प्रियसखो ऽयमपहारवर्मैवऽ इति पश्चान्निषीदतो ऽस्य बाहुदण्डयुगलमुभयभुजमूलप्रवेशितमग्रे ऽवलम्ब्य स्वमङ्गमालिङ्गयामास ।

स्वयं च पृष्ठतो वलिताभ्यां भुजाभ्यां पर्यवेष्टयत् ।

तत्क्षणोपसंहृतालिङ्गनव्यतिकरश्चापहारवर्मा चापचक्रकणपकर्पणप्रासपट्टिशमुसलतोमरादिप्रहरणजातमुपयुञ्जानान् बलावलिप्तान्प्रतिबलवीरान्बहुप्रकारायोधिनः परिक्षिपतः क्षितौ विचिक्षेप ।

क्षणेन चाद्राक्षीत्तदपिसैन्यमन्येन समन्ततो ऽभिमुखमभिधावता बलनिकायेन परिक्षिप्तम् ।

अनन्तरं च कश्चित्कर्मिकारगौरः कुरुविन्दसवर्णकुन्तलः कमलकोमलपाणिपादः कर्णचुम्बिदुग्धधवलस्निग्धनीललोचनः कटितटनिविष्टरत्ननखः पट्टनिवसनः कृशाकृशोदरोरःस्थलः कृतहस्ततया रिपुकुलमिषुवर्षेणाभिवर्षन्पादाङ्गुष्ठनिष्ठरावघृष्टकर्णमूलेन प्रजविना गजेन संनिकृष्य पूर्वोपदेशप्रत्ययात् "अयमेव स देवो राजवाहनःऽ ति प्राञ्जलिः प्रणम्यापहारवर्मणि निविष्टदृष्टिराचष्टत्वदादिष्टेन मार्गेण संनिपातितमेतदङ्गराजसहाय्यदानायोपस्थितं राजकम् ।

अरिबलं च विहितविध्वस्तं स्त्रीबालहार्यशस्त्रं वर्तते ।

किमन्यत्कृत्यम्ऽ इति ।

हृष्टस्तु व्याजहारापहारंवर्मा--"देव, दृष्टिदानेनानुगृह्यतामयमाज्ञाकारः ।

सो ऽयमेव ह्यमुना रूपणे धनमित्राख्यया चान्तरितो मन्तव्यः स एवायं निर्गमप्यबन्धनादङ्गराजमपवर्जितं च कोशवाहनमेकीकृत्यास्मद्गृह्येणामुना सह राजन्यकेनैकान्ते सुखोपविष्टमिह देवमुपतिष्ठतु यदि न दोषःऽ इति ।

देवो ऽपि "यथा ते रोचतेऽ इति तमाभाष्य गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्वहिरतिमहतो रोहिणद्रुमस्य कस्यचित्क्षौमावदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदादवततर ।

प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमीकृते मातङ्ग इव भागीरथीपुलिनमणअडले सुखं निषसाद ।

तथा निषण्मं च तमुपहारवर्मार्थपालप्रमतिमित्र्रगुप्तमन्त्रगुप्तविश्रुतैर्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन चम्पेश्वरेण सिंहवर्मणा सहोपागतय धनमित्रः प्रणिपपात ।

देवो ऽपि हर्षाविद्धमभ्युत्थितः "कथं समस्त एष मित्रगणः समागतः को नामायमभ्युदयःऽ इति कृतयथोचितोपचारान्निर्भरतरं परिरेभे ।

काशपितिमैथिलाङ्गराजांश्चसुहृन्निवेदितान्पितृवदपश्यत् ।

तैश्च हर्षकम्पितपलितं सरभसोपगूढः परमभिननन्द ।

ततः प्रवृत्तासु प्रीतिसंकथासु प्रियवयम्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोद्भेवयाश्चरितमनुवरण्य सुहृदामपि वृत्तान्तं क्रमेण श्रोतुं कृतप्रस्तावस्तांश्च तदुक्तावन्वयुङ्क्त ।

तेषु प्रथमं प्राह स्म किलापहारवर्मा-- ।। दकुच_,१ ।।

 

इति श्रीदण्डिनः कृतौ दशकुमारचरिते राजवाहनचरित नाम प्रथम उच्छवास:


यह संस्कृत गद्य सम्राट दण्डी द्वारा रचित 'दशकुमारचरितम्' की उत्तरपीठिका के प्रथम उच्छ्वास का अंश है। इसमें राजकुमार राजवाहन के बंदी बनने, उनके पैरों में चाँदी की बेड़ी पड़ने और अंततः उनके मुक्त होने की कथा है।
यहाँ इसका शुद्ध हिंदी अनुवाद और मुख्य बिंदुओं की व्याख्या दी गई है:
हिंदी अनुवाद
राजकन्या का प्रेम और आश्चर्य:
सकल विश्व का वृत्तांत सुनकर सुंदरी अवंतिसुंदरी (राजवाहन की प्रेमिका) की आँखें विस्मय से खिल उठीं। उसने मुस्कुराते हुए कहा— "प्रियतम! आपकी कृपा से आज मेरे कानों की सुनने की इच्छा सफल हुई। आपने ज्ञान रूपी दीपक जलाकर मेरे मन का अंधकार दूर कर दिया है।" इसके बाद सघन अनुराग के साथ उसने राजवाहन का आलिंगन और चुंबन किया। उनके प्रेम-विलास के बाद जब वे सो गए, तो स्वप्न में एक वृद्ध हंस दिखाई दिया जिसके पैर कमल के नाल से बंधे थे।
राजवाहन का बंदी होना:
जब राजवाहन जागे, तो उन्होंने देखा कि उनके दोनों पैर चांदी की एक भारी जंजीर (रजत-शृंखला) से बंधे हुए हैं। यह देखकर राजकन्या भयभीत होकर विलाप करने लगी। अंतःपुर में हाहाकार मच गया। तभी दुष्ट चण्डवर्मा वहाँ पहुँचा। उसने राजवाहन को पहचान लिया कि यह वही पुष्पोद्भव का मित्र है जिसने उसके भाई की मृत्यु में सहायता की थी। क्रोधित होकर उसने राजवाहन को अपमानित किया और उन्हें लोहे के दंड के समान अपनी कठोर भुजाओं से खींचकर ले गया।
राजवाहन का धैर्य और चण्डवर्मा का अंत:
राजवाहन स्वभाव से धीर थे। उन्होंने इसे 'दैवीय विपत्ति' मानकर स्वीकार किया और अवंतिसुंदरी को सांत्वना दी— "हंस की उस कथा को याद रखना और दो महीने तक धैर्य रखना।" चण्डवर्मा ने उन्हें एक लकड़ी के पिंजरे में बंद कर दिया और चम्पा देश पर आक्रमण करने चला गया। वहाँ चण्डवर्मा ने चम्पेश्वर सिंहवर्मा को पराजित कर बंदी बना लिया और उसकी पुत्री अंबालिका से विवाह करने की तैयारी करने लगा। लेकिन विवाह से ठीक पहले, अपहारवर्मा (राजवाहन का मित्र) ने वेश बदलकर चण्डवर्मा का वध कर दिया।
श्राप मुक्ति और मिलन:
तभी राजवाहन के पैरों की वह चांदी की बेड़ी अचानक टूट गई और वह सुरतमंजरी नामक अप्सरा बन गई। उसने बताया कि महर्षि मार्कण्डेय के श्राप के कारण वह दो महीने के लिए जड़ 'लोहे' (चांदी की बेड़ी) बन गई थी। श्राप की अवधि समाप्त होते ही वह मुक्त हो गई।
अंत में, राजवाहन अपने सभी मित्रों—अपहारवर्मा, उपहारवर्मा, अर्थपाल, प्रमति, मित्रगुप्त, मंत्रगुप्त और विश्रुत से मिले। सभी राजकुमारों ने अपनी-अपनी साहसिक यात्राओं की कथाएँ सुनाईं।
प्रमुख बिंदुओं की व्याख्या
१. दार्शनिक पक्ष (ज्ञानप्रदीप):
अनुवाद की शुरुआत में अवंतिसुंदरी राजवाहन को 'ज्ञान का दीपक' कहती है। यहाँ प्रेम केवल शारीरिक नहीं, बल्कि बौद्धिक और आध्यात्मिक स्तर पर दिखाया गया है, जहाँ नायक नायिका के अज्ञान को दूर करता है।
२. दैव और पुरुषार्थ (Providence and Effort):
राजवाहन का बंदी बनना 'दैव' (भाग्य) का खेल था (श्राप के कारण)। उन्होंने संघर्ष करने के बजाय 'सहिष्णुता' दिखाई क्योंकि वे जानते थे कि यह विपत्ति केवल दो महीने की है। यह भारतीय दर्शन के 'प्रारब्ध' (Destiny) सिद्धांत को दर्शाता है।
३. रूपक और उपमा (Metaphors):
दण्डी अपनी 'पदलालित्य' (शब्दों के सौंदर्य) के लिए प्रसिद्ध हैं। जैसे:
 * 'प्रावृडिव नभस्यु': नायिका के आलिंगन की तुलना वर्षा ऋतु के बादलों से की गई है।
 * 'रजतशृङ्खला': चाँदी की बेड़ी जो वास्तव में एक अप्सरा थी, यह 'जड़' और 'चेतन' के बीच के संबंध का एक काव्यात्मक चमत्कार है।
४. वीर रस और राजनीति:
लेख के उत्तरार्ध में युद्ध का वर्णन है। चण्डवर्मा का वध और अपहारवर्मा की कूटनीति यह दर्शाती है कि एक राजकुमार को केवल बलवान ही नहीं, बल्कि चतुर और कूटनीतिज्ञ (Diplomatic) भी होना चाहिए।
५. मित्रों का पुनर्मिलन:
यह ग्रंथ 'दशकुमार' (दस कुमारों) की कथा है। प्रथम उच्छ्वास के अंत में सभी मित्रों का मिलना इस बात का संकेत है कि अब आगे के अध्यायों में हर कुमार अपनी अलग-अलग रोमांचक कहानी सुनाएगा।


एक टिप्पणी भेजें

0 टिप्पणियाँ