जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

साहित्यदर्पण चतुर्थः परिच्छेदः मूल संस्कृत

 

चतुर्थः परिच्छेदः

 


अथ काव्यभेदमाह--

 

काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् ।

तत्र---

 

वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ।। साद-४.१ ।।

 

वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यते ऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।

भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।

अविवक्षितवाच्यो ऽन्यो विवक्षितान्यपरवाच्यश्च ।। साद-४.२ ।।

 

तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः ।

लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् ।

विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् ।

अन्यपरं व्यङ्ग्यनिष्ठम् ।

अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः ।

यथा---प्रदीपो घटस्य ।

अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः ।

अविवक्षितवाच्यस्य भेदावाह--

 

अर्थन्तरं संक्रमिते वाच्ये ऽत्यन्तं तिरस्कृते ।

अविवक्षितवाच्यो ऽपि ध्वनिर्द्वैविध्यमृच्छति ।। साद-४.३ ।।

 

अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।

यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति, तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् ।

यथा---"कदली कदली, करभः करभः, करिराजकरः करिराजकरः ।

भुवत्रितये ऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः" ।।

 

अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति ।

जाड्याद्यतिशयश्च व्यङ्ग्यः ।

यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।

यथा--- निऋश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।

अत्रान्धशब्दो मुख्यार्थे बाधिते ऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः ।

अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वम् ।

यथा--- भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।

गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ।।

 

अत्र "भ्रम धार्मिक--" इत्यतो भ्रमणस्य विधिः प्रकृते ऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या ।

यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः ।

यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।

तदुक्तम् --- "क्वचिद्वाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।

पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु" ।।

 

अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः ।

अत एवात्राजहत्स्वार्था लक्षणा ।

द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था ।

विवक्षिताभिधेयो ऽपि द्विभेदः प्रथमं मतः ।

असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ।। साद-४.४ ।।

 

विवक्षितान्यपरवाच्यो ऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।

तत्राद्यो रसभावादिरेक एवात्र गण्यते ।

एको ऽपि भेदो ऽनन्तत्वात् संख्येयस्तस्य नैव यत् ।। साद-४.५ ।।

 

उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः ।

अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात् क्रमो ऽवश्यमस्ति किन्तूत्पलपत्र्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते ।

एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् ।

तथाहि---एकस्यैव "शृङ्गारस्यैको ऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात् प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषाम् ।

शब्दार्थोभयशक्त्युत्थे व्यङ्क्ये ऽनुस्वानसन्निभे ।

ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ।। साद-४.६ ।।

 

क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् ।

तत्र---

 

वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा ।

अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते ।

तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा--- पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।

उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ।।

 

अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमो ऽसि तदास्स्वेति वस्तु व्यज्यते ।

अलङ्काररूपो यथा--"दुर्गालङ्घितविग्रहः" इत्यादौ (५९ पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवी-वल्लभ-भानुदेवनाम-नृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।

यथा वा--- "अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! ।

अहितः सहितः साधु यशोभिरसतामसि" ।।

 

अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः ।

व्यङ्ग्यस्यालङ्कार्यत्वे ऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते ।

वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ।। साद-४.७ ।।

 

 

कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।

षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ।। साद-४.८ ।।

 

अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ।

स्वतः सम्भवी औचित्याद् बहिरपि सम्भाव्यमानः ।

प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।

तत्र क्रमेण यथा-- दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।

एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ।।

 

अत्र स्वतः सम्भविना वस्तुना तत् प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते ।

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।

तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।।

 

अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापो ऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।

आपतन्तममुं दूरादूरीकृतपराक्रमः ।

बलो ऽवलोकयामास मातङ्गमिव केसरी ।।

 

अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।

गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः ।

ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ।।

 

अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः ।

"सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।

अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे" ।।

 

अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन् मदनविजृम्भणरूपं वस्तु व्यनक्ति ।

"इजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम्" ।।

 

अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः ।

"दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।

मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः" ।।

 

अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते ।

"धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।

एको ऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ ।

नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे" ।।

 

अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठो ऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते ।

"शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।

सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः" ।।

 

अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।

"सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः ।

वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्" ।।

 

अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते ।

"मल्लिकामुकुले चणिड ! भाति गुञ्जन् मधुव्रतः ।

प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव" ।।

 

अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते ।

"महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।

अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ" ।।

 

अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणो ऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते ।

न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता ।

एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् ।

एकः शब्दार्थशक्त्युत्थे--

 

अभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः ।

यथा--- "हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः ।

अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः" ।।

 

अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः ।

एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः ।

तदष्टादशधा ध्वनिः ।। साद-४.९ ।।

 

अविवक्षितवाच्योर्ऽथान्तरसंक्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।

विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः ।

संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः ।

एषु च--

 

वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः ।

तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा--- "धन्यः स एव तरुणो नयने तस्यैव नयने च ।

युवजनमोहनविद्य भवितेयं यस्य संमुखे सुमुखई" ।।

 

अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः ।

वाक्यगतो यथा--- "त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।

आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्" ।।

 

अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति ।

एवं वच्मीत्यनेनैव कर्तरि लब्धे ऽस्मीति पुनर्वचनम् ।

तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति ।

एतानि च स्वातिशयं व्यञ्जयन्ति ।

एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः ।

तदेवमयं वाक्यगतो ऽपर्थान्तरसंक्रमितवाच्यो ध्वनिः ।

अत्यन्ततिरस्कृतवाच्यः पदगतो यथा---"निःश्वासान्ध-" इत्यादि ।

वाक्यवतो यथा-"उपकृतं बहु तत्र-" इत्यादि ।

अन्येषां वाक्यागतत्वे उदाहृतम् ।

पदगतत्वं यथा-- "लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः ।

तदा सुधास्पदमभूदधुना तु ज्वरो महान्" ।।

 

अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः ।

तदुक्तं ध्वनिकृता--- "एकावयवसंस्थेन भूषणोनेव कामिनी ।

पदद्योत्येन सुकवेर्ध्वनिना भाति भारती" ।।

 

एवं भावादिष्वप्यूह्यम् ।

"भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।

कस्य नानन्दनिस्यन्दं विदधाति सदागमः" ।।

 

अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति ।

ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् ।

रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनम् ।

प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् ।

"अनन्यसाधारणधीर्धृताखिलवसुन्धरः ।

राजते को ऽपि जगति स राजा पुरुषोत्तमः" ।।

 

अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः ।

अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ ।

सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातो ऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः ।

आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम्" ।।

 

अत्र स्वतः संभविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते ।

तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतो ऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यम् ।

तदप्राप्तिमहादुःखविलीनाशेषपातका ।

तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ।।

 

चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् ।

निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका" ।।

 

(युग्मकम्) अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या ।

अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतः संभविता ।

"पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् ।

देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ।।

 

इदं मम ।

अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न के ऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारो ऽसंख्यपदद्योत्यः ।

एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यम् ।

तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः ।

अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः ।

प्रबन्धे ऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः ।। साद-४.१० ।।

 

प्रबन्धे महावाक्ये ।

अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः ।

यथा महाभारते गृध्रगोमायुसंवादे--- "अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले ।

कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ।।

 

न चेह जीवितःकश्चित्कालधर्ममुपागतः ।

प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई" ।।

 

इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् ।

"आदित्यो ऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् ।

बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ।।

 

अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।

गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः" ।।

 

इति निशि समर्थस्य गोमायोर्दिवसे परित्यागो ऽनभिलषित इति वाक्यसमहेन द्योत्यते ।

अत्र स्वतः संभवी व्यञ्जकः ।

एवमन्येष्वेकादशभेदेषूदाहार्यम् ।

एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम् ।

लक्ष्यार्थस्य यथा---"निःशेषच्युतचन्दनम्--" इत्यादि (पृदृ ६२) ।

व्यङ्ग्यार्थस्ययथा--"उअ णिच्चल-" इत्यादि (पृदृ ६३) ।

अनयोः स्वतः संभविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ ।

एवमन्येष्वेकादशभेदेषूदाहार्यम् ।

पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः ।

असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ।।

 

यथा--- "चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।

करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती" ।।

 

अत्र "हताः" इति न पुनः "दुःखं प्राप्तवन्तः" इति हन्प्रकृतेः ।

"मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।

मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु" ।।

 

अत्र "तु" इति निपातस्यानुतापव्यञ्जकत्वम् ।

"न्यक्कारो ह्ययमेव मे यदरः--" इत्यादौ (८ पृ.) "अरयः" इति बहुवचनस्य, "तापसः" इत्येकवचनस्य, "अत्रैव" इति सर्वनाम्नः, "निहन्ति" इति "जीवति इति च तिङः, "अहो" इत्यव्ययस्य, "ग्रामटिका" इति करूपतद्धितस्य, "विलुण्ठन" इति व्युपसर्गस्य, "भुजैः" इति बहुवचनस्य व्यञ्जकत्वम् ।

"आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः . मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि" ।।

 

अत्र तु "आहारे इति विषयसप्तम्याः, "समस्त" इति "परा" इति च विशेषणद्वयस्य, "मौनं चेदम्" इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति" इत्युपसर्गस्य "सखि" इति प्रणयस्मारणस्य "असि भोः" इति सोत्प्रासस्य "किं वा" इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, "असि" इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यम् ।

वर्णरचनयोरुदाहरिष्यते ।

प्रबन्धे यथा--महाभारते शान्तः ।

रामायणो करुणः ।

मालतीमाधवरत्नावल्यादौ शृङ्गारः ।

एवमन्यत्र ।

तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ।। साद-४.११ ।।

 

 

सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।

वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसायकाः (५३५५) ।। साद-४.१२ ।।

 

शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः ।

दिङ्मात्रं दूदाह्रियते--- "अत्युन्नतस्तयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।

सा पूर्णकुम्भनवनीरजतोरणस्त्रक्संभारमङ्गलमयत्नकृतं विधत्ते" ।।

 

अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।

"धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि ।

निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणान् इ" ।।

 

अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः ।

अथ गुणीभूतव्यङ्ग्यम्--- अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।

अपरं काव्यम् ।

अनुत्तमत्वं न्यूनतया साम्येन च संभवति ।

तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गम् ।। साद-४.१३ ।।

 

संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् ।

व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ।। साद-४.१४ ।।

 

इतरस्य रसादेरङ्गरसादिव्यङ्ग्यम् ।

यथा--"अयं सरसनोत्कर्षो पीनस्तनविमर्दनः ।

नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः" ।।

 

अत्र शृङ्गारः करुणस्याङ्गम् ।

"मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वसैन्यसागररवोद्रतकर्णतापः ।

हा !हा! कथं नु भवतो रिपुराजधानीप्रासादसंततिषु तिष्ठति कामिलोकः ।।

 

अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः ।

"जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।

कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मायाप्तं रामत्वं कुशलवसुता न त्वधिगता" ।।

 

अत्र रामत्वं प्राप्तमित्यवचने ऽपि शब्दशक्तेरेव रामत्वमवगम्यते ।

वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् ।

तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतम् ।

काक्वाक्षिप्तं यथा--- "मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः ।

संचूर्णयामि गदया न सुयोधनोरूं सन्धि करोतु भवतां नृपतिः पणेन" ।।

 

अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् ।

"दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः ।

प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः" ।।

 

अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गम् ।

"हरस्तु किंचित्परिवृत्तधैर्यः--" इत्यादौ ((२२.पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये संदेहः ।

ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।

जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते" ।।

 

अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समंप्राधान्यम् ।

"सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।

अल्लावदीननृपतौ न सन्धिर्न च विग्रहः" ।।

 

अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि भ्क्तटित्यस्फुटम् ।

"अनेन लोकगुरुणा सतां धर्मोपदेशिना ।

अहं व्रतवती स्वैरमुक्तेन किमतः परम्" ।।

 

अत्र प्रतीयमानो ऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् ।

"वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए ।

घरकम्मवावडाए बहुए सीअन्ति आङ्गाइं" ।।

 

अत्र दत्तसंकेतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात् "सीदन्त्यङ्गनि" इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ।

किञ्च यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव ।

काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् ।

तदुक्तं ध्वनिकृता-- "अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।

तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः" ।।

 

यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः ।

यथा--- "दृष्ट्या केशव ! गोपरागहृतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्बसे ।

एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्- गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम्" ।।

 

अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः ।

सलेशमिति पदस्य परित्यागे ध्वनिरेव ।

किञ्च ।

यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः ।

तदुक्तं तेनैव--- "प्रकारो ऽयं गुणीभूतव्यह्ग्यो ऽपि ध्वनिरूपताम् ।

धत्ते रसादितात्पर्यपर्यालोचनया पुनः" ।।

 

इति ।

यत्र तु---"यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः ।

संध्याभ्रमं प्राप्नुताकाण्डे ऽप्यनङ्गने पथ्यविधिं विधत्ते" ।।

 

इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वे ऽपि तैरेव गुणीभूतैः काव्यव्यवहारः ।

तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैः-वाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्" इति ।

केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति ।

तदाहुः--- "शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्" ।

इति ।

तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवाक्तम् ।

ईषद्व्यङ्ग्यत्वमिति चेत् , किं नामेषद्व्यङ्ग्यत्वम् ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः ।

द्वितीये त्वकाव्यत्वम् ।

यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् ।

तदुक्तं ध्वनिकृता--- "प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।

उभे काव्ये ततो ऽन्यद्यत्तच्चित्रमभिधीयते" ।।

 

इति ।

इति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः ।

एक टिप्पणी भेजें

0 टिप्पणियाँ