Ad Code

साहित्यदर्पण चतुर्थः परिच्छेदः मूल संस्कृत

 

चतुर्थः परिच्छेदः

 


अथ काव्यभेदमाह--

 

काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् ।

तत्र---

 

वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ।। साद-४.१ ।।

 

वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यते ऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।

भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।

अविवक्षितवाच्यो ऽन्यो विवक्षितान्यपरवाच्यश्च ।। साद-४.२ ।।

 

तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः ।

लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् ।

विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् ।

अन्यपरं व्यङ्ग्यनिष्ठम् ।

अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः ।

यथा---प्रदीपो घटस्य ।

अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः ।

अविवक्षितवाच्यस्य भेदावाह--

 

अर्थन्तरं संक्रमिते वाच्ये ऽत्यन्तं तिरस्कृते ।

अविवक्षितवाच्यो ऽपि ध्वनिर्द्वैविध्यमृच्छति ।। साद-४.३ ।।

 

अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।

यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति, तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् ।

यथा---"कदली कदली, करभः करभः, करिराजकरः करिराजकरः ।

भुवत्रितये ऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः" ।।

 

अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति ।

जाड्याद्यतिशयश्च व्यङ्ग्यः ।

यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।

यथा--- निऋश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।

अत्रान्धशब्दो मुख्यार्थे बाधिते ऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः ।

अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वम् ।

यथा--- भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।

गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ।।

 

अत्र "भ्रम धार्मिक--" इत्यतो भ्रमणस्य विधिः प्रकृते ऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या ।

यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः ।

यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।

तदुक्तम् --- "क्वचिद्वाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।

पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु" ।।

 

अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः ।

अत एवात्राजहत्स्वार्था लक्षणा ।

द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था ।

विवक्षिताभिधेयो ऽपि द्विभेदः प्रथमं मतः ।

असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ।। साद-४.४ ।।

 

विवक्षितान्यपरवाच्यो ऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।

तत्राद्यो रसभावादिरेक एवात्र गण्यते ।

एको ऽपि भेदो ऽनन्तत्वात् संख्येयस्तस्य नैव यत् ।। साद-४.५ ।।

 

उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः ।

अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात् क्रमो ऽवश्यमस्ति किन्तूत्पलपत्र्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते ।

एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् ।

तथाहि---एकस्यैव "शृङ्गारस्यैको ऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात् प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषाम् ।

शब्दार्थोभयशक्त्युत्थे व्यङ्क्ये ऽनुस्वानसन्निभे ।

ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ।। साद-४.६ ।।

 

क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् ।

तत्र---

 

वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा ।

अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते ।

तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा--- पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।

उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ।।

 

अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमो ऽसि तदास्स्वेति वस्तु व्यज्यते ।

अलङ्काररूपो यथा--"दुर्गालङ्घितविग्रहः" इत्यादौ (५९ पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवी-वल्लभ-भानुदेवनाम-नृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।

यथा वा--- "अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! ।

अहितः सहितः साधु यशोभिरसतामसि" ।।

 

अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः ।

व्यङ्ग्यस्यालङ्कार्यत्वे ऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते ।

वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ।। साद-४.७ ।।

 

 

कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।

षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ।। साद-४.८ ।।

 

अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ।

स्वतः सम्भवी औचित्याद् बहिरपि सम्भाव्यमानः ।

प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।

तत्र क्रमेण यथा-- दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।

एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ।।

 

अत्र स्वतः सम्भविना वस्तुना तत् प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते ।

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।

तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।।

 

अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापो ऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।

आपतन्तममुं दूरादूरीकृतपराक्रमः ।

बलो ऽवलोकयामास मातङ्गमिव केसरी ।।

 

अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।

गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः ।

ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ।।

 

अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः ।

"सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।

अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे" ।।

 

अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन् मदनविजृम्भणरूपं वस्तु व्यनक्ति ।

"इजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम्" ।।

 

अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः ।

"दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।

मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः" ।।

 

अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते ।

"धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।

एको ऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ ।

नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे" ।।

 

अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठो ऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते ।

"शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।

सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः" ।।

 

अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।

"सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः ।

वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्" ।।

 

अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते ।

"मल्लिकामुकुले चणिड ! भाति गुञ्जन् मधुव्रतः ।

प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव" ।।

 

अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते ।

"महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।

अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ" ।।

 

अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणो ऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते ।

न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता ।

एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् ।

एकः शब्दार्थशक्त्युत्थे--

 

अभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः ।

यथा--- "हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः ।

अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः" ।।

 

अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः ।

एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः ।

तदष्टादशधा ध्वनिः ।। साद-४.९ ।।

 

अविवक्षितवाच्योर्ऽथान्तरसंक्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।

विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः ।

संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः ।

एषु च--

 

वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः ।

तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा--- "धन्यः स एव तरुणो नयने तस्यैव नयने च ।

युवजनमोहनविद्य भवितेयं यस्य संमुखे सुमुखई" ।।

 

अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः ।

वाक्यगतो यथा--- "त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।

आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्" ।।

 

अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति ।

एवं वच्मीत्यनेनैव कर्तरि लब्धे ऽस्मीति पुनर्वचनम् ।

तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति ।

एतानि च स्वातिशयं व्यञ्जयन्ति ।

एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः ।

तदेवमयं वाक्यगतो ऽपर्थान्तरसंक्रमितवाच्यो ध्वनिः ।

अत्यन्ततिरस्कृतवाच्यः पदगतो यथा---"निःश्वासान्ध-" इत्यादि ।

वाक्यवतो यथा-"उपकृतं बहु तत्र-" इत्यादि ।

अन्येषां वाक्यागतत्वे उदाहृतम् ।

पदगतत्वं यथा-- "लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः ।

तदा सुधास्पदमभूदधुना तु ज्वरो महान्" ।।

 

अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः ।

तदुक्तं ध्वनिकृता--- "एकावयवसंस्थेन भूषणोनेव कामिनी ।

पदद्योत्येन सुकवेर्ध्वनिना भाति भारती" ।।

 

एवं भावादिष्वप्यूह्यम् ।

"भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।

कस्य नानन्दनिस्यन्दं विदधाति सदागमः" ।।

 

अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति ।

ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् ।

रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनम् ।

प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् ।

"अनन्यसाधारणधीर्धृताखिलवसुन्धरः ।

राजते को ऽपि जगति स राजा पुरुषोत्तमः" ।।

 

अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः ।

अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ ।

सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातो ऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः ।

आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम्" ।।

 

अत्र स्वतः संभविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते ।

तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतो ऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यम् ।

तदप्राप्तिमहादुःखविलीनाशेषपातका ।

तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ।।

 

चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् ।

निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका" ।।

 

(युग्मकम्) अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या ।

अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतः संभविता ।

"पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् ।

देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ।।

 

इदं मम ।

अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न के ऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारो ऽसंख्यपदद्योत्यः ।

एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यम् ।

तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः ।

अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः ।

प्रबन्धे ऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः ।। साद-४.१० ।।

 

प्रबन्धे महावाक्ये ।

अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः ।

यथा महाभारते गृध्रगोमायुसंवादे--- "अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले ।

कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ।।

 

न चेह जीवितःकश्चित्कालधर्ममुपागतः ।

प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई" ।।

 

इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् ।

"आदित्यो ऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् ।

बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ।।

 

अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।

गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः" ।।

 

इति निशि समर्थस्य गोमायोर्दिवसे परित्यागो ऽनभिलषित इति वाक्यसमहेन द्योत्यते ।

अत्र स्वतः संभवी व्यञ्जकः ।

एवमन्येष्वेकादशभेदेषूदाहार्यम् ।

एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम् ।

लक्ष्यार्थस्य यथा---"निःशेषच्युतचन्दनम्--" इत्यादि (पृदृ ६२) ।

व्यङ्ग्यार्थस्ययथा--"उअ णिच्चल-" इत्यादि (पृदृ ६३) ।

अनयोः स्वतः संभविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ ।

एवमन्येष्वेकादशभेदेषूदाहार्यम् ।

पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः ।

असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ।।

 

यथा--- "चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।

करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती" ।।

 

अत्र "हताः" इति न पुनः "दुःखं प्राप्तवन्तः" इति हन्प्रकृतेः ।

"मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।

मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु" ।।

 

अत्र "तु" इति निपातस्यानुतापव्यञ्जकत्वम् ।

"न्यक्कारो ह्ययमेव मे यदरः--" इत्यादौ (८ पृ.) "अरयः" इति बहुवचनस्य, "तापसः" इत्येकवचनस्य, "अत्रैव" इति सर्वनाम्नः, "निहन्ति" इति "जीवति इति च तिङः, "अहो" इत्यव्ययस्य, "ग्रामटिका" इति करूपतद्धितस्य, "विलुण्ठन" इति व्युपसर्गस्य, "भुजैः" इति बहुवचनस्य व्यञ्जकत्वम् ।

"आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः . मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि" ।।

 

अत्र तु "आहारे इति विषयसप्तम्याः, "समस्त" इति "परा" इति च विशेषणद्वयस्य, "मौनं चेदम्" इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति" इत्युपसर्गस्य "सखि" इति प्रणयस्मारणस्य "असि भोः" इति सोत्प्रासस्य "किं वा" इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, "असि" इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यम् ।

वर्णरचनयोरुदाहरिष्यते ।

प्रबन्धे यथा--महाभारते शान्तः ।

रामायणो करुणः ।

मालतीमाधवरत्नावल्यादौ शृङ्गारः ।

एवमन्यत्र ।

तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ।। साद-४.११ ।।

 

 

सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।

वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसायकाः (५३५५) ।। साद-४.१२ ।।

 

शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः ।

दिङ्मात्रं दूदाह्रियते--- "अत्युन्नतस्तयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।

सा पूर्णकुम्भनवनीरजतोरणस्त्रक्संभारमङ्गलमयत्नकृतं विधत्ते" ।।

 

अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।

"धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि ।

निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणान् इ" ।।

 

अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः ।

अथ गुणीभूतव्यङ्ग्यम्--- अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।

अपरं काव्यम् ।

अनुत्तमत्वं न्यूनतया साम्येन च संभवति ।

तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गम् ।। साद-४.१३ ।।

 

संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् ।

व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ।। साद-४.१४ ।।

 

इतरस्य रसादेरङ्गरसादिव्यङ्ग्यम् ।

यथा--"अयं सरसनोत्कर्षो पीनस्तनविमर्दनः ।

नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः" ।।

 

अत्र शृङ्गारः करुणस्याङ्गम् ।

"मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वसैन्यसागररवोद्रतकर्णतापः ।

हा !हा! कथं नु भवतो रिपुराजधानीप्रासादसंततिषु तिष्ठति कामिलोकः ।।

 

अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः ।

"जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।

कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मायाप्तं रामत्वं कुशलवसुता न त्वधिगता" ।।

 

अत्र रामत्वं प्राप्तमित्यवचने ऽपि शब्दशक्तेरेव रामत्वमवगम्यते ।

वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् ।

तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतम् ।

काक्वाक्षिप्तं यथा--- "मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः ।

संचूर्णयामि गदया न सुयोधनोरूं सन्धि करोतु भवतां नृपतिः पणेन" ।।

 

अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् ।

"दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः ।

प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः" ।।

 

अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गम् ।

"हरस्तु किंचित्परिवृत्तधैर्यः--" इत्यादौ ((२२.पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये संदेहः ।

ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।

जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते" ।।

 

अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समंप्राधान्यम् ।

"सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।

अल्लावदीननृपतौ न सन्धिर्न च विग्रहः" ।।

 

अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि भ्क्तटित्यस्फुटम् ।

"अनेन लोकगुरुणा सतां धर्मोपदेशिना ।

अहं व्रतवती स्वैरमुक्तेन किमतः परम्" ।।

 

अत्र प्रतीयमानो ऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् ।

"वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए ।

घरकम्मवावडाए बहुए सीअन्ति आङ्गाइं" ।।

 

अत्र दत्तसंकेतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात् "सीदन्त्यङ्गनि" इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ।

किञ्च यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव ।

काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् ।

तदुक्तं ध्वनिकृता-- "अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।

तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः" ।।

 

यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः ।

यथा--- "दृष्ट्या केशव ! गोपरागहृतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्बसे ।

एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्- गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम्" ।।

 

अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः ।

सलेशमिति पदस्य परित्यागे ध्वनिरेव ।

किञ्च ।

यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः ।

तदुक्तं तेनैव--- "प्रकारो ऽयं गुणीभूतव्यह्ग्यो ऽपि ध्वनिरूपताम् ।

धत्ते रसादितात्पर्यपर्यालोचनया पुनः" ।।

 

इति ।

यत्र तु---"यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः ।

संध्याभ्रमं प्राप्नुताकाण्डे ऽप्यनङ्गने पथ्यविधिं विधत्ते" ।।

 

इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वे ऽपि तैरेव गुणीभूतैः काव्यव्यवहारः ।

तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैः-वाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्" इति ।

केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति ।

तदाहुः--- "शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्" ।

इति ।

तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवाक्तम् ।

ईषद्व्यङ्ग्यत्वमिति चेत् , किं नामेषद्व्यङ्ग्यत्वम् ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः ।

द्वितीये त्वकाव्यत्वम् ।

यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् ।

तदुक्तं ध्वनिकृता--- "प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।

उभे काव्ये ततो ऽन्यद्यत्तच्चित्रमभिधीयते" ।।

 

इति ।

इति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः ।

Post a Comment

0 Comments

Ad Code