जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

साहित्यदर्पण पञ्चमः परिच्छेदः मुल संस्कृत

 

पञ्चमः परिच्छेदः

 


अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते---

 

वृत्तीनां विश्रान्तेरभिधातत्पर्यलक्षणाख्यानाम् ।

अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम् ।। साद-५.१ ।।

 

अभिधायाः संकेतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्ग्यबोधने क्षमत्वम् ।

न च संकेतितो रसादिः ।

नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात् ।

यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः ।

क्वचिच्च "शृङ्गाररसो ऽयम्" इत्यादौ स्वशब्देनाभिधाने ऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् ।

अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्भर्बोधनी ।

यच्च केचिदाहुः---"सो ऽयमिषोरिव दीर्घदीर्घतरो ऽभिधाव्यापरः" इति ।

यच्चधनिकेनोक्तम्--- "तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः ।

यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम्" ।।

 

इति ।

तयोरुपरि "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति वादिभिरेव पातनीयो दण्डः ।

एवं च किमिति लक्षणापुयपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः ।

किमिति च "ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणी" इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् ।

यत्पुनरूक्तं "पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वे ऽनुपादेयत्वादुन्मत्तवाक्यवत् ।

ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशयमुखास्वाद एव कार्यत्वेनावधार्यते ।

"यत्परः शब्दः स शब्दार्थः" इति न्यायात्" इति ।

तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तद्वोधकत्वं वा ? आद्ये न विवादः, व्यङ्ग्यत्वे ऽपि तदर्थतानपायात् ।

द्वितीये तु--केयं तात्पर्याख्या वृत्तिः, अभिहितान्वयवादिभिरङ्गीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरम् ।

द्वितीये तु---नाममात्रे विवादः, तन्मते ऽपि तुरीयवृत्तिसिद्धेः ।

नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनम्-इति चेत् ? , तयोर्हेतुफलभावाङ्गीकारात् ।

यदाह मुनिः--"विभावानुभावव्यभिचारिसंयोगद्रसनिष्पत्तिः" इति ।

सहभावे च कुतः सव्येतरविषाणयोरवि कार्यकारणभावः ? पौर्वापर्यविपर्ययात् ।

"गङ्गायां घोषः" इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता ।

तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादमेतत् ।

किंच---

 

बोद्धृस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानाम् ।

आश्रयविषयादीनां भेदाद्भिन्नो ऽभिधेयतो व्यङ्ग्यः ।। साद-५.२ ।।

 

वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुणैर्वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः ।

"भम धम्मिअ--" (२४२ पृ.) इत्यादौ क्वचिद्वाच्ये विधिरूपे निषधरूपतया, क्वचित् "निः शेषच्युतचन्दनम्-" (६२ पृ.) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः ।

"गतो ऽस्तकर्कः" इत्यादौ च वाच्योर्ऽथ एक एव प्रतीयते ।

व्यङ्ग्यस्तु तद्वोद्ध्रादिभेतात् क्वचित् "कान्तमभिसर" इति, "गावो निरुध्यन्ताम्" इति, "नायकस्यायमागमनावसरः" इति, "संतापो ऽधुना नास्ति" इत्यादिरूपेणानेक इति संख्याभेदः ।

वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः ।

प्रतीतिमात्रकरणाच्चमत्कारकरणाच्च कार्यभेदः ।

केवलरूपतया चमत्कारितया च प्रतीतिभेदः ।

पूर्वपश्चाद्भावेन च कालभेदः ।

शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः ।

"कस्स व ण होइ रोसो दट्ठूणपिआएं सव्वणं अहरं ।

सब्भमरपडमग्घाइणि वारिअवामे सहसु एङ्णिं" ।।

 

इति सखीतत्कान्तविषयत्वेन विषयभेदः ।

तस्मान्नाभिधेय एव व्यङ्ग्यः ।

तथा---

 

प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे ।

किञ्चि मुख्यार्थबाधस्य विरहादपि लक्षणा ।। साद-५.३ ।।

 

"न बोधिका" इति शेषः ।

नहि को ऽपि रसनात्मकव्यापारद्भिन्नो रसादिपदप्रतिपाद्यः प्रमाणसिद्धो ऽस्ति, यमिमे लक्षणाभिधे बोधयेताम् ।

किंञ्च, यत्र"गङ्गायां घोषः" इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयो ऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।

यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यैः--- "श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ।

पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः" ।।

 

न पुनः "शून्यं वासगृहम्--" इत्यादौ (२२ पृ.) मुखायाथबाधः ।

यदि च "गङ्गायां घोषः" इत्यादौ प्रयोजनं लक्ष्यं स्यात्, तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् ।

तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरमित्यनवस्थापातः ।

न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा ।

विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् ।

नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा संभवः ।

नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् ।

आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ।। साद-५.४ ।।

 

व्यक्तिविवेककारेण हि--"यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति ।

विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते" ।

ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति ।

त एव प्रतीयमाना आस्वादपदवी गताः सन्तो लसा उच्यन्ते, इत्यवश्यंभावी तत्प्रतीतिक्रमः केवलमाशुभावितयासौ न लक्ष्यते, यतो ऽयमद्याप्यभिव्यक्तिक्रमः" इति यदुक्तम् ।

तत्र प्रष्टव्यम्--किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनयाभावकैर्भाव्यमानः स्वप्रकाशानन्दो वा ।

आद्ये न विवादः, किन्तु "रामादिगतरगादिज्ञानं रससंज्ञया नोच्यते ऽस्माभिः" इत्येव विशेषः ।

द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव ।

यच्चोक्तं तेनैव--- "यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः" इति सुग्रहैव व्याप्तिः पक्षधर्मता च ।

तया-- "यार्ऽथान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् ।

सैवानुमितिपक्षे नो गमकत्वेन संमता" ।।

 

इति ।

इदमपि नो न विरुद्धम् ।

न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनास्माकमभिमता किन्तु--स्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः ।

तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतोराभासता ।

यच्च "मम धम्मिअ--" इत्यादौ (२४२ पृ.) प्रतीयमानं वस्तु ।

"जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः ।

जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः" ।।

 

इत्यादौ च रूपकालङ्कारादयो ऽनुमेया एव ।

तथाहि---"अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविक्षव्यावृत्तत्वविशिष्टाल्लिङ्गल्लिङ्गिनो ज्ञानम् ।

ततश्च वाच्यादसंबद्धोर्ऽथंस्तावन्न प्रतीयते ।

अन्यथातिप्रसङ्गः स्यात्, इति बोध्यबोधकयोरर्थयोः कश्चित्संबन्धो ऽस्त्येव ।

ततश्च बोधकोर्ऽथो लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव ।

सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्योदवसेये ।

तस्मादत्र यद्वाच्यार्थाल्लिङ्गरूपाल्लिङ्गिनो व्यङ्ग्यार्थस्यावगमस्तदनुमान एव पर्यवस्यति" इति ।

तन्न, तथा ह्यत्र "भम अम्मिअ-" इत्यादौ (२४२ पृदृ) गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति" इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः ।

भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य संभवात्, पुश्चल्या वचनं प्रामाणिकं न वेति संदिग्धासिद्धश्च ।

"जलकेलि-" इत्यत्र "य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटसंघटनकारी स चन्द्र एव" इत्यनुमितिरेवेयमिति न वाच्यम्, उत्त्रासकादावनैकान्तिकत्वात् ।

"एवंविधोर्ऽथ एवंविधार्थबोधक एवंविधार्थत्वात्, यन्नैवं तन्नैवम्" इत्यनुमाने ऽप्याभाससमानयोगक्षेमो हेतुः ।

"एवंविधार्थत्वात्" इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः ।

तथा "दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे-" इत्यादौ (२५० पृदृ) नलग्रन्थीनां तनूल्लिखनम्, एकाकितया च स्त्रोतोगमनम्, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते॑ तच्चात्रैवाभिहितेन स्वकान्तस्नेहेनापि संभवतीत्यनैकान्तिको हेतुः ।

यच्च "निःशेषच्युतचन्दनम्--" इत्यादौ ( ६२ पृ.) दूत्यास्तत्कामुकोपभोगो ऽनुमीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसंनिहितैर्वान्यैः, तत्काव्यार्थभावनया वा सहृदयैः ।

आद्ययोर्न विवादः ।

तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः ।

ननु वक्त्राद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् ।

एवंविधव्याप्त्यनुसंधानस्याभावात् ।

किञ्चैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानावश्यकत्वेन संदिग्धासिद्धत्वं हेतोः ।

व्यक्तिवादिना चाधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम्, तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् ।

एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तम् ।

अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः ।

यथा"यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः" इत्यादि ।

किञ्चि---वस्त्रविक्रयादौ तर्जनीतोलनेन दशसंख्यादिवत्सूचनबुद्धिवेद्यो ऽप्ययं न भवति, सूचनबुद्धेरपि सङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताङ्गीकारात् ।

यच्च "संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः" इते केचित् ।

तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता ।

"दुर्गालङ्घित-" इत्यादौ (५९ पृ.) च द्वितायार्थो नास्त्येव---इति यदुक्तं महिमभटटेन तदनुभवसिद्धिमपलपतो गजनिमीलिकैव ।

तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् ।

इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् ।

तत्किंनामिकेयं वृत्तिरित्युच्यते---

 

सा चेयं व्यञ्जनानाम वृत्तिरित्युच्यते बुधैः ।

रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः ।। साद-५.५ ।।

 

एतच्च विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातम् ।

इति सहित्यर्पणो व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः ।

एक टिप्पणी भेजें

0 टिप्पणियाँ