Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

भोजप्रबन्धः । स्वस्ति श्रीमहाराजाधिराजस्य भोजराजस्य प्रबन्धः कथ्यते-

 ॥ श्रीः ॥


भोजप्रबन्धः ।




 स्वस्ति श्रीमहाराजाधिराजस्य भोजराजस्य प्रबन्धः कथ्यते-


 आदौ धाराराज्ये सिन्धुलसंज्ञो राजा चिरं प्रजाः पर्यपालयत् । तस्य वृद्धत्वे भोज इति पुत्रः समजनि । स यदा पञ्चवार्षिकस्तदा पिता ह्यात्मनो जरां ज्ञात्वा मुख्यामात्यानाहूयानुजं मुञ्जं महाबलमालोक्य पुत्रं च बालं वीक्ष्य विचारयामास–'यद्यहं राज्यलक्ष्मीभारधारणसमर्थं सोदरमपहाय राज्यं पुत्राय प्रयच्छामि, तदा लोकापवादः। अथवा बालं मे पुत्रं मुञ्जो राज्यलोभाद्विषादिना मारयिष्यति, तदा दत्तमपि राज्यं वृथा । पुत्रहानिर्वंशोच्छेदश्च ।


  लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च ।

  द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥ १ ॥

  लोभात्क्रोधः प्रभवति क्रोधाद् द्रोहः प्रवर्तते ।

  द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः ॥ २ ॥

  मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् ।

  लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम् ॥ ३ ॥


इति विचार्य राज्यं मुञ्जाय दत्त्वा तदुत्सङ्गे भोजमात्मजं मुमोच । ततः क्रमाद्राजनि दिवं गते सम्प्राप्तराज्यसम्पत्तिर्मुञ्जो मुख्यामात्यं बुद्धिसागरनामानं व्यापारमुद्रया दूरीकृत्य तत्पदेऽन्यं नियोजयामास । ततो गुरुभ्यः क्षितिपालपुत्रं वाचयति । ततः क्रमेण सभायां ज्योतिःशास्त्रपारङ्गतः सकलविद्याचातुर्यवान्ब्राह्मणः समागम्य राज्ञे 'स्वस्ति' इत्युक्त्वोपविष्टः । स चाह–'देव, लोकोऽयं मां सर्वज्ञं वक्ति । तत्किमपि पृच्छ ।


  कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः ।

  या गुरौ पुस्तके विद्या तया मूढः प्रतायते ॥ ४ ॥


 इति राजानं प्राह । ततो राजापि विप्रस्याहम्भावमुद्रया चमत्कृतां तद्वार्तां श्रुत्वा 'अस्माकं जन्मारभ्यैतत्क्षणपर्यन्तं यद्यन्मयाचरितं यद्यत्कृतं तत्तत्सर्वं वदसि यदि, भवान्सर्वज्ञ एव' इत्युवाच । ततो ब्राह्मणोऽपि राज्ञा यद्यत्कृतं तत्तत्सर्वमुवाच गूढव्यापारमपि । ततो राजापि सर्वाण्यप्यभिज्ञानानि ज्ञात्वा तुतोष । पुनश्च पञ्चषट्पदानि गत्वा पादयोः पतित्वेन्द्रनीलपुष्यरागमरकतवैडूर्यखचितसिंहासन उपवेश्य राजा प्राह-

  'मातेव रक्षति पितेव हिते नियुङ्क्ते

   कान्तेव चाभिरमयत्यपनीय खेदम् ।

  कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं

   किं किं न साधयति कल्पलतेव विद्या' ॥५॥


 ततो विप्रवराय दशाश्वाना जानेयान्ददौ ।


 ततः सभायामासीनो बुद्धिसागरः प्राह राजानम्- 'देव, भोजस्य जन्मपत्रिकां ब्राह्मणं पृच्छ' इति । ततो मुञ्जः प्राह-भोजस्य जन्मपत्रिकां विधेहि' इति । ततोऽसौ ब्राह्मण उवाच-'अध्ययनशालायां भोज आनेतव्यः' इति । मुञ्जोऽपि ततः कौतुकादध्ययनशालामलङ्कुर्वाणं भोजं भटैरानाययामास । ततः साक्षात्पितरमिव राजानमानम्य सविनयं तस्थौ । ततस्तद्रूपलावण्यमोहिते राजकुमारमण्डले प्रभूतसौभाग्यं महीमण्डलमागतं महेन्द्रमिव, साकारं मन्मथमिव, मूर्तिमत्सौभाग्यमिव, भोजं निरूप्य राजानं प्राह दैवज्ञः-'राजन् , भोजस्य भाग्योदयं वक्तुं विरिञ्चिरपि नालम्, कोऽहमुदरम्भरिब्राह्मणः । किञ्चित्तथापि वदामि स्वमत्यनुसारेण । भोजमितोऽध्ययनशालायां प्रेषय ।'ततो राजाज्ञया भोजे ह्यध्ययनशालां गते विप्रः प्राह-


  'पञ्चाशत्पञ्चवर्षाणि सप्तमासदिनत्रयम् ।

  भोजराजेन भोक्तव्यः सगौडो दक्षिणापथः ॥ ६ ॥


 इति । तत्तदाकर्ण्य राजा चातुर्यादपहसन्निव सुमुखोऽपि विच्छायवदनोऽभूत् । ततो राजा ब्राह्मणं प्रेषयित्वा निशीथे शयनमासाद्यैकाकीसन्व्यचिन्तयत्-'यदि राज्यलक्ष्मीर्भोजकुमारं गमिष्यति, तदाहं जीवन्नपि मृतः।


  तानीन्द्रियाण्यविकलानि तदेव नाम

   सा बुद्धिरप्रतिहता वचनं तदेव ।

  अर्थोष्मणा विरहितः पुरुषः क्षणेन

   सोऽप्यन्य एव भवतीति विचित्रमेतत् ॥ ७ ॥


 किञ्च-शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः ।


  बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ॥ ८ ॥

  असूयया हतेनैव पूर्वोपायोद्यमैरपि ।

  कर्तृणां गृह्यते सम्पत्सुहृद्भिर्मन्त्रिभिस्तथा ॥ ९ ॥


 तत्रोद्यमे किं दुःसाध्यम् ।


  अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे ।

  परापवादभीरूणां दूरतो यान्ति सम्पदः ॥ १० ॥


 किञ्च- आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।

  क्षिप्रमक्रियमाणस्य कालः पिबति सम्पदः ॥ ११ ॥

  अवमानं पुरस्कृत्य मानं कृत्वा च पृष्ठतः ।

  स्वार्थं समुद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १२ ॥

  न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः ।

  एतदेवातिपाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥ १३ ॥

  जातमात्रं न यः शत्रुं व्याधिं वा प्रशमं नयेत् ।

  अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥ १४ ॥

  प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः ।

  हस्तन्यस्तातपत्रस्य वारिधारा इवारयः ॥ १५ ॥

  अफलानि दुरन्तानि समव्ययफलानि च ।

  अशक्यानि च वस्तूनि नारभेत विचक्षणः ॥ १६ ॥


ततश्चैवं विचिन्तयन्नभुक्त एव दिनस्य तृतीये याम एक एव मन्त्रयित्वा वङ्गदेशाधीश्वरस्य महाबलस्य वत्सराजस्याकारणाय स्वमङ्गरक्षकं प्राहिणोत् । स चाङ्गरक्षको वत्सराजमुपेत्य प्राह-'राजा त्वामाकारयति' इति । ततः स रथमारुह्य परिवारेण परिवृतः समागतो रथादवतीर्य राजानमवलोक्य प्रणिपत्योपविष्टः । राजा च सौधं निर्जनं विधाय वत्सराजं प्राह-


  'राजा तुष्टोऽपि भृत्यानां मानमात्रं प्रयच्छति ।

  ते तु सम्मानितास्तस्य प्राणैरप्युपकुर्वते ॥ १७ ॥


 ततस्त्वया भोजो भुवनेश्वरीविपिने हन्तव्यः प्रथमयामे निशायाः । शिरश्चान्ते पुरमानेतव्यम्' इति । स चोत्थाय नृपं नत्वाऽऽह–'देवादेशः प्रमाणम् । तथापि भवल्लालनात्किमपि वक्तुकामोऽस्मि । ततः सापरारिमे वचः क्षन्तव्यम् ।


  भोजे द्रव्यं न सेना वा परिवारो बलान्वितः ।

  परं पोत इवास्तेऽद्य स हन्तव्यः कथं प्रभो ॥ १८ ॥

  पारम्पर्य इवासक्तस्त्वत्पाद उदरम्भरिः ।

  तद्वधे कारणं नैव पश्यामि नृपपुङ्गव' ॥ १९ ॥


 ततो राजा सर्वं प्रातः सभायां प्रवृत्तं वृत्तमकथयत् । स च श्रुत्वा हसन्नाह-


  'त्रैलोक्यनाथो रामोऽस्ति वसिष्ठो ब्रह्मपुत्रकः ।

  तेन राज्याभिषेके तु मुहूर्तः कथितोऽभवत् ॥ २० ॥

  तन्मुहूर्तेन रामोऽपि वनं नीतोऽवनीं विना ।

  सीतापहारोऽप्यभवद्वैरिञ्चिवचनं वृथा ॥ २१ ॥

  जातः कोऽयं नृपश्रेष्ठ किञ्चिज्ज्ञ उदरम्भरिः ।

  यदुक्त्या मन्मथाकारं कुमारं हन्तुमिच्छसि ॥ २२ ॥


 किञ्च-- किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।

  इति सञ्चिन्त्य मनसा प्राज्ञः कुर्वीत वा न वा ॥ २३ ॥


  उचितमनुचितं वा कुर्वता कार्यजातं

   परिणतिरवधार्या यत्नतः पण्डितेन ।


  अतिरभसकृतानां कर्मणामाविपत्ते-

   र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ २४ ॥


 किञ्च-येन सहासितमशितं हसितं कथितं च रहसि विश्रब्धम् ।

  तं प्रति कथमसतामपि निवर्तते चित्तमामरणात् ॥ २५ ॥


 किञ्च-अस्मिन्हते वृद्धस्य राज्ञः सिन्धुलस्य परमप्रीतिपात्राणि महाचीरास्तवैवानुमते स्थिताः, ते त्वन्नगरमुल्लोलकल्लोलाः पयोधरा इव प्लावयिष्यन्ति । चिराद्बद्धमूलोऽपि त्वयि प्रायः पौरा भोजं भुवो भर्तारं भावयन्ति।


 किञ्च-सत्यपि च सुकृतकर्मणि दुर्नीतिश्चेच्छ्रियं हरत्येव ।

  तैलैः सदोपयुक्तां दीपशिखां विदलयति हि वातालिः ॥२६॥


 देव, पुत्रवधः क्वापि न हिताय ।'इत्युक्तं वत्सराजवचनमाकर्ण्य राजा कुपितः प्राह-- त्वमेव राज्याधिपतिः, न तु सेवकः।


  स्वाम्युक्ते यो न यतते स भृत्यो भृत्यपाशकः ।

  तज्जीवनमपि व्यर्थमजागलकुचाविव' ।। २७ ॥


इति । ततो वत्सराजः 'कालोचितमालोचनीयम्' इति मत्वा तूष्णीं बभूव ।


 अथ लम्बमाने दिवाकर उत्तुङ्गसौधोत्सङ्गादवतरन्तं कुपितमिव कृतान्तं वत्सराजं वीक्ष्य समेता अपि विविधेन मिषेण स्वभवनानि प्रापुर्भीताः सभासदः । ततः स्वसेवकान्स्वागारपरित्राणार्थं प्रेषयित्वा रथं भुवनेश्वरीभवनाभिमुखं विधाय भोजकुमारोपाध्यायाकारणाय प्राहिणोदेकं वत्सराजः । स चाह पण्डितम्-'तात, त्वामाकारयति वत्सराजः' इति । सोऽपि तदाकर्ण्य वज्राहत इव, भूताविष्ट इव, ग्रहग्रस्त इव, तेन सेवकेन करेण धृत्वानीतः पण्डितः । तं च बुद्धिमान्वत्सराजः सप्रणाममित्याह— 'पण्डित, तात, उपविश । राजकुमारं जयन्तमध्ययनशालाया आनय' इति । आयान्तं जयन्तं कुमारं किमप्यधीतं पृष्ट्वानैषीत् । पुनः प्राह पण्डितम्-- 'विप्र, भोजकुमारमानय' इति । ततो विदितवृत्तान्तो भोजः कुपितो ज्वलन्निव शोणितेक्षणः समेत्याह-'आः पाप, राज्ञो मुख्यकुमारमेकाकिनं मां राजभवनाद्बहिरानेतुं तव का नाम शक्तिः इति वामचरणपादुकामादाय भोजेन तालुदेशे हतो वत्सराजः। ततो वत्सराजः प्राह--'भोज, वयं, राजादेशकारिणः ।' इति बालं रथे निवेश्य खड्गमपकोशं कृत्वा जगामाशु महामायाभवनम् । ततो गृहीते भोजे लोकाः कोलाहलं चक्रुः । हुम्भावश्च प्रवृत्तः । 'किं किम्' इति ब्रुवाणा भटा विक्रोशन्त आगत्य सहसा भोजं वधाय नीतं ज्ञात्वा हस्तिशालामुष्ट्रशालां वाजिशालां रथशालां प्रविश्य सर्वाञ्जघ्नुः । ततः प्रतोलीषु राजभवनप्राकारवेदिकासु बहिारविटङ्केषु पुरसमीपेषु भेरीपटहमुरजमड्डुकडिण्डिमनिनदाडम्बरेणाम्बरं विडम्बितमभूत् । केचिद्विमलासिना केचिद्विषेण केचित्कुन्तेन केचित्पाशेन केचिद्वह्निना केचित्परशुना केचिद्भल्लेन केचित्तोमरेण केचित्प्रासेन केचिदम्भसा केचिद्धारायां ब्राह्मणयोषितो राजपुत्रा राजसेवका राजानः पौरांश्च प्राणपरित्यागं दधुः । ततः सावित्रीसंज्ञा भोजस्य जननी विश्वजननीव स्थिता दासीमुखात्स्वपुत्रस्थितिमाकर्ण्य कराभ्यां नेत्रे पिधाय रुदती प्राह–'पुत्र, पितृव्येन कां दशां गमितोऽसि । ये मया नियमा उपवासाश्च त्वत्कृते कृताः, तेऽद्य मे, विफला जाताः । दशापि दिशामुखानि शून्यानि । पुत्र, देवेन सर्वज्ञेन सर्वशक्तिनामृष्टाः श्रियः । पुत्र, एनं दासीवर्गं सहसा विच्छिन्नशिरसं पश्य' इत्युक्त्वा भूमावपतत् ।


 ततः प्रदीप्ते वैश्वानरे समुद्भूतधूमस्तोमेनैव मलीमसे नभसि पापत्रासादिव पश्चिमपयोनिधौ मग्ने मार्तण्डमण्डले महामायाभवनमासाद्य प्राह भोजं वत्सराजः-'कुमार, भृत्यानां दैवत, ज्योतिःशास्त्रविशारदेन केनचिद्ब्राह्मणेन तव राज्यप्राप्तावुदीरितायां राज्ञा भवद्वधो व्यादिष्टः इति । भोजः प्राह-


  'रामे प्रव्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं

  वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् ।

  कारागारनिषेवणं च वरणं सञ्चिन्त्य लङ्केश्वरे

  सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ २८ ॥

  लक्ष्मीकौस्तुभपारिजातसहजः सूनुः सुधाम्भोनिधे-

  र्देवेन प्रणयप्रसादविधिना मूर्ध्ना धृतः शम्भुना ।


  अद्याप्युज्झति नैव दैवविहितं क्षण्यं क्षपावल्लभः

  केनान्येन विलङ्घयते विधिगतिः पाषाणरेखासखी ॥ २९ ॥

  विकटोर्व्यामप्यटनं शैलारोहणमपान्निधेस्तरणम् ।

  निगडं गुहाप्रवेशो विधिपरिपाकः कथं नु सन्तार्यः ॥ ३० ॥

  अम्भोधिः स्थलतां स्थलं जलधितां धूलालवः शैलतां

  मेरुर्मत्कुणतां तृणं कुलिशतां वज्रं तृणप्रायताम् ।

  वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया

  लीलादुर्ललिताद्भुतव्यसनिने देवाय तस्मै नमः' ॥ ३१ ॥


 ततो वटवृक्षस्य पत्र आदायैकं पुटीकृत्य जङ्गां छुरिकया छित्त्वा तत्र पुटके रक्तमारोप्य तृणेनैकस्मिन्पत्रे कञ्चन श्लोकं लिखित्वा वत्सं प्राह-- "महाभाग, एतत्पत्रं नृपाय दातव्यम् । त्वमपि राजाज्ञां विधेहि' इति । ततो 'वत्सराजस्यानुजो भ्राता भोजस्य प्राणपरित्यागसमये दीप्यमानमुखश्रियमवलोक्य प्राह--


  'एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।

  शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ ३२ ॥

  न ततो हि सहायार्थे माता भार्या च तिष्ठति ।

  न पुत्रमित्रौ न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ ३३ ॥

  बलवानप्यशक्तोऽसौ धनवानपि निर्धनः।

  श्रुतवानपि मूर्खश्च यो धर्मविमुखो जनः ॥ ३४ ॥

  इहैव नरकव्याधेश्चिकित्सां न करोति यः ।

  गत्वा निरौषधस्थानं स रोगी किं करिष्यति ॥ ३५ ॥

  जरां मृत्युं भयं व्याधिं यो जानाति स पण्डितः ।

  स्वस्थस्तिष्ठेन्निषीदेद्वा स्वपेद्वा केनचिद्धसेत् ॥ ३६ ॥

  तुल्यजातिवयोरूपान्हृतान्पश्यति मृत्युना ।

  नहि तत्रास्ति ते त्रासो वज्रवद्धृदयं तव' ॥ ३७ ॥


 इति । ततो वैराग्यमापन्नो वत्सराजो भोजं 'क्षमस्व' इत्युक्त्वा प्रणम्य तं च रथे निवेश्य नगराद्बहिर्घने तमसि गृहमागमय्य भूमिगृहान्तरे निक्षिप्य भोजं ररक्ष । स्वयमेव कृत्रिमविद्याविद्भिः सुकुण्डलं स्फुरद्वक्त्रं निमीलितनेत्रं भोजकुमारमस्तकं कारयित्वा तच्चादाय कनिष्ठो राजभवनं गत्वा राजानं नत्वा प्राह-'श्रीमता यदादिष्टं तत्साधितम्' इति । ततो राजा च पुत्रवधं ज्ञात्वा तमाह-'वत्सराज, खड्गप्रहारसमये तेन पुत्रेण किमुक्तम्' इति । वत्सस्तत्पत्रमदात् । राजा स्वभार्याकरेण दीपमानीय तानि पत्राक्षराणि वाचयति-


  'मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः

  सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः ।

  अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते

  नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति ॥ ३८ ॥


 राजा च तदर्थं ज्ञात्वा शय्यातो भूमौ पपात । ततश्च देवीकरकमलचालितचेलाञ्चलानिलेन ससंज्ञो भूत्वा 'देवि, मा मां स्पृश हा हा पुत्रघातिनम्' इति विलपन्कुरर इव द्वारपालानानाय्य 'ब्राह्मणानानयत' इत्याह । ततः स्वाज्ञया समागतान्ब्राह्मणान्नत्वा 'मया पुत्रो हतः, तस्य प्रायश्चित्तं वदध्वम्' इति वदन्तं ते तमूचुः-'राजन् , सहसा वह्निमाविश' इति । ततः समेत्य बुद्धिसागरः प्राह–'यथा त्वं राजाधमः, तथैवामात्याधमो वत्सराजः । तव किल राज्यं दत्त्वा सिन्धुलनृपेण तेन त्वदुत्सङ्गे भोजः स्थापितः । तच्च त्वया पितृव्येणान्यत्कृतम् ।


  कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः ।

  विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ ३९ ॥

  सन्तस्तृणोत्सारणमुत्तमाङ्गात्सुवर्णकोट्यर्पणमामनन्ति ।

  प्राणव्ययेनापि कृतोपकाराः खलाः परे वैरमिवोद्वहन्ति ॥ ४० ॥

  उपकारश्चापकारो यस्य व्रजति विस्मृतिम् ।

  पाषाणहृदयस्यास्य जीवतीत्यभिधा मुधा ॥ ४१ ॥

  यथाङ्कुरः सुसूक्ष्मोऽपि प्रयत्नेनाभिरक्षितः ।

  फलप्रदो भवेत्काले तथा लोकः सुरक्षितः ॥ ४२ ॥

  हिरण्यधान्यरत्नानि धनानि विविधानि च ।

  तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्युर्महीभृताम् ॥ ४३ ॥

  राज्ञि धर्मिणि धर्मिष्ठाः पापे पापपराः सदा ।


   राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ ४४ ॥


 ततो रात्रावेव वहिप्रवेशने निश्चिते राज्ञि सर्वे सामन्ताः पौराश्च मिलिताः 'पुत्रं हत्वा पापभयाद्भीतो नृपतिर्वह्निं प्रविशति' इति किंवदन्ती सर्वत्राजनि । ततो बुद्धिसागरो द्वारपालमाहूय 'न केनापि भूपालभवनं प्रवेष्टव्यम्' इत्युक्त्वा नृपमन्तःपुरे निवेश्य सभायामेकाकी सन्नुपविष्टः । ततो राजमरणवार्तां श्रुत्वा वत्सराजः सभागृहमागत्य बुद्धिसागरं नत्वा शनैः प्राह 'तात, मया भोजराजो रक्षितः' इति । बुद्धिसागरश्च कर्णे तस्य किमप्यकथयत् । तच्छ्रुत्वा वत्सराजश्च निष्क्रान्तः ।


 ततो मुहूर्तेन कोऽपि करकलितदन्तीन्द्रदन्तदण्डो विरचितप्रत्यग्रजटाकलापः कर्पूरकरम्बितभसितोद्वर्तितसकलतनुर्मूर्तिमान्मन्मथ इव स्फटिककुण्डलमण्डितकर्णयुगलः कौशेयकौपीनो मूर्तिमांश्चन्द्रचूड इव सभां कापालिकः समागतः । तं वीक्ष्य बुद्धिसागरः प्राह-योगीन्द्र, कुत आगम्यते । कुत्र ते निवेशश्च । कापालिके त्वयि यच्चमत्कारकारी कलाविशेष औषधविशेषोऽप्यस्ति ।' योगी प्राह


  देशे देशे भवनं भवने भवने तथैव भिक्षान्नम् ।

  सरसि च नद्यां सलिलं शिव शिव तत्त्वार्थयोगिनां पुंसाम् ॥ ४५ ॥

  ग्रामे ग्रामे कुटी रम्या निर्झरे निर्झरे जलम् ।

  भिक्षायां सुलभं चान्नं विभवैः किं प्रयोजनम् ॥ ४६ ॥


 देव, अस्माकं नैको देशः। सकलभूमण्डलं भ्रमामः । गुरूपदेशे तिष्ठामः । निखिलं भुवनतलं करतलामलकवत्पश्यामः । सर्पदष्टं विषव्याकुलं रोगग्रस्तं शस्त्रभिन्नशिरस्कं कालशिथिलितं तात, तत्क्षणादेव विगतसकलव्याधिसञ्चयं कुर्मः इति । राजापि कुड्यन्तर्हित एव श्रुतसकलवृत्तान्तः सभामागतः कापालिकं दण्डवत्प्रणम्य, योगीन्द्र, रुद्रकल्प, परोपकारपरायण, महापापिना मया हतस्य पुत्रस्य प्राणदानेन मां रक्ष' इत्याह । अथ कापालिकोऽपि 'राजन् , मा भैषीः । पुत्रस्ते न मरिष्यति । शिवप्रसादेन गृहमेष्यति । परं श्मशानभूमौ बुद्धिसागरेण सह होमद्रव्याणि प्रेषय' इत्यवोचत् । ततो राज्ञा 'कापालिकेन यदुक्तं तत्सर्वं तथा कुरु' इति बुद्धिसागरः प्रेषितः । ततो रात्रौ गूढरूपेण भोजोऽपि तत्र नदीपुलिने नीतः । 'योगिना भोजो जीवितः' इति प्रथा च समभूत् । ततो गजेन्द्रारूढो बन्दिभिः स्तूयमानो भेरीमृदङ्गादिघोषैर्जगद्वधिरीकुर्वन्पौरामात्यपरिवृतो भोजराजो राजभवनमगात् । राजा च तमालिङ्गय रोदिति । भोजोऽपि रुदन्तं मुञ्जं निवार्यास्तौषीत् । ततः सन्तुष्टो राजा निजसिंहासने तस्मिन्निवेशयित्वा छत्रचामराभ्यां भूषयित्वा तस्मै राज्यं ददौ । निजपुत्रेभ्यः प्रत्येकमेकैकं ग्रामं दत्त्वा परमप्रेमास्पदं जयन्तं भोजनिकाशे निवेशयामास । ततः परलोकपरित्राणो मुञोऽपि निजपट्टराज्ञीभिः सह तपोवनभूमिं गत्वा परं तपस्तेपे । ततो भोजभूपालश्च देवब्राह्मणप्रसादाद्राज्यं पालयामास ।


   इति भोजराजस्य राज्यप्राप्तिप्रबन्धः ।


ततो मुञ्जे तपोवनं याते बुद्धिसागरं मुख्यामात्यं विधाय स्वराज्यं बुभुजे भोजराजभूपतिः । एवमतिक्रामति काले कदाचिद्राज्ञा क्रीडतोद्यानं गच्छता कोऽपि धारानगरवासी विप्रो लक्षितः । स च राजानं वीक्ष्य नेत्रे निमील्यागच्छन्राज्ञा पृष्टः- 'द्विज, त्वं मां दृष्ट्वा न स्वस्तीति जल्पसि । विशेषेण लोचने निमीलयसि । तत्र को हेतुः' इति । विप्र आह- 'देव, त्वं वैष्णवोऽसि । विप्राणां नोपद्रवं करिष्यसि ततस्त्वत्तो न मे भीतिः। किं तु कस्मैचित्किमपि न प्रयच्छसि; तेन तव दाक्षिण्यनामानं नास्ति । अतस्ते किमाशीर्वचसा । किं च प्रातरेव कृपणमुखावलोकनात्परतोऽपि लाभहानिः स्यादिति लोकोक्त्या लोचने निमीलिते ।


अपि च-प्रसादो निष्फलो यस्य कोपश्चापि निरर्थकः ।

  न तं राजानमिच्छन्ति प्रजाः षण्ढमिव स्त्रियः ॥ ४७ ॥

  अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् ।

  यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि ॥ ४८ ॥


 देव, मत्पिता वृद्धः काशीं प्रति गच्छन्मया शिक्षा पृष्टः- 'तात, मया किं कर्तव्यम्' इति । पित्रा चेत्थमभ्यधायि-


  'यदि तव हृदयं विद्वन्सुनयं स्वप्नेऽपि मा स्म सेविष्ठाः ।

  सचिवजितं षण्ढजितं युवतिजितं चैव राजानम् ॥ ४९ ॥

  पातकानां समस्तानां द्वे परे तात पातके ।

  एकं दुःसचिवो राजा द्वितीयं च तदाश्रयः ॥ ५० ॥


  अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः ।

  यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ ५१ ॥

  राजा सम्पत्तिहीनोऽपि सेव्यः सेव्यगुणाश्रयः ।

  भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥ ५२ ॥


 अदातुर्दाक्षिण्यं नहि भवति । देव, पुरा कर्ण-दधिचि-शिबि-विक्रम-प्रमुखाः क्षितिपतयो यथा परलोकमलङ्कुर्वाणा निजदानसमुद्भूतदिव्यनवगुणैर्निवसन्ति महीमण्डले, तथा किमपरे राजानः ।


  देहे पातिनि का रक्षा यशो रक्ष्यमपातवत् ।

  नरः पतितकायोऽपि यशःकायेन जीवति ॥ ५३ ॥

  पण्डिते चैव मूर्खे च बलवत्यपि दुर्बले ।

  ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता ॥ ५४ ॥

  निमेषमात्रमपि ते वयो गच्छन्न तिष्ठति ।

  तस्माद्देहेष्वनित्येषु कीर्तिमेकामुपार्जयेत् ॥ ५५ ॥

  जीवितं तदपि जीवितमध्ये गण्यते सुकृतिभिः किमु पुंसाम् ।

  ज्ञानविक्रमकलाकुललज्जा त्यागभोगरहितं विफलं यत्' ॥ ५६ ॥


 राजापि तेन वाक्येन पीयूषपूरस्नात इव, परब्रह्मणि लीन इव, लोचनाभ्यां हर्षाश्रूणि मुमोच । प्राह च द्विजम्-'विप्रवर, शृणु-


  सुलभाः पुरुषा लोके सततं प्रियवादिनः ।

  अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ५७ ॥


मनीषिणः सन्ति न ते हितैषिणो हितैषिणः सन्ति न ते मनीषिणः ।

सुहृच्च विद्वानपि दुर्लभो नृणां यथौषधं स्वादु हितं च दुर्लभम्' ॥ ५८ ॥


 इति विप्राय लक्षं दत्त्वा 'किं ते नाम' इत्याह । विप्रः स्वनाम भूमौ लिखति 'गोविन्दः' इति । राजा वाचयित्वा 'विप्र, प्रत्यहं राजभवनमागन्तव्यम् । न ते कश्चिन्निषेधः । विद्वांसः कवयश्च कौतुकात्सभामानेतव्याः । कोऽपि विद्वान्न खलु दुःखभागस्तु, एनमधिकारं पालय' इत्याह ।


 एवं गच्छत्सु कतिपयदिवसेषु राजा विद्वत्प्रियो दानवित्तेश्वर इति यामास।


प्रथामगात् । ततो राजानं दिदृक्षवः कवयो नानादिग्भ्यः समागताः । एवं वित्तादिव्ययं कुर्वाणं राजानं प्रति कदाचिन्मुख्यामात्येनेत्थमभ्यधायि-'देव, राजानः कोशबला एव विजयिनः । नान्ये ।


  स जयी वरमातङ्गा यस्य तस्यास्ति मेदिनी ।

  कोशो यस्य स दुर्धर्षो दुर्गं यस्य स दुर्जयः ॥ ५९ ॥


 देव, लोकं पश्य-


  प्रायो धनवतामेव धने तृष्णा गरीयसी ।

  पश्य कोटिद्वयासक्तं लक्षाय प्रवणं धनुः' ॥ ६० ॥


 इति राजा च तमाह-


  'दानोपभोगवन्ध्या या सुहृद्भिर्या न भुज्यते ।

  पुंसा समाहिता लक्ष्मीरलक्ष्मीः क्रमशो भवेत् ॥ ६१ ॥


 इत्युक्त्वा राजा तं मन्त्रिणं निजपदादूरीकृत्य तत्पदेऽन्यं निवेशयामास ।


-आह च तम्-'लक्षं महाकवेर्देयं तदर्धं विबुधस्य च ।

  देयं ग्रामैकमर्धस्य तस्याप्यर्धं तदर्थिनः ॥ ६२ ॥


 यश्च मेऽमात्यादिषु वितरणनिषेधमनाः स हन्तव्यः । उक्तं च-


  यद्ददाति यदश्नाति तदेव धनिनां धनम् ।

  अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ ६३ ॥

  प्रियः प्रजानां दातैव न पुनर्द्रविणेश्वरः ।

  अयच्छन्काङ्क्षते लोकैर्वारिदो न तु वारिधिः ॥ ६४ ॥

  सङ्ग्रहैकपरः प्रायः समुद्रोऽपि रसातले ।

  दातारं जलदं पश्य गर्जन्तं भुवनोपरि' ॥ ६५ ॥


 एवं वितरणशालिनं भोजराजं श्रुत्वा कश्चित्कलिङ्गदेशात्कविरुपेत्य मासमात्रं तस्थौ । न च क्षोणीन्द्रदर्शनं भवति । आहारार्थे पाथेयमपि नास्ति । ततः कदाचिद्राजा मृगयाभिलाषी बहिर्निर्गतः । स कविर्दृष्ट्वा राजानमाह-


  'दृष्टे श्रीभोजराजेन्द्रे गलन्ति त्रीणि तत्क्षणात् ।

  शत्रोः शस्त्रं कवेः कष्टं नीवीबन्धो मृगीदृशाम्' ॥ ६६ ॥


 राजा लक्षं ददौ । ततस्तस्मिन्मृगयारसिके राजनि कश्चन पुलिन्दपुत्रो गायति । तद्गीतमाधुर्येण तुष्टो राजा तस्मै पुलिन्दपुत्राय पञ्चलक्षं ददौ । तदा कविस्तद्दानमत्युन्नतं किरातपोतं च दृष्ट्वा नरेन्द्रपाणिकमलस्थपङ्कजमिषेण राजानं वदति-

  एते हि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति ।

  यल्लक्ष्मीवसतेस्तव मधुपैरुपभुज्यते कोशः' ६७ ॥


भोजस्तमभिप्रायं ज्ञात्वा पुनर्लक्षमेकं ददौ । ततो राजा ब्राह्मणमाह-


  'प्रभुभिः पूज्यते विप्र कलैव न कुलीनता ।

  कलावान्मान्यते मूर्ध्नि सत्सुादेवेषु शम्भुना' ।। ६८ ।।


 एवं वदति भोजे कुतोऽपि पञ्चषाः कवयः समागताः । तान्दृष्ट्वा राजा विलक्षण इवासीत्-'अद्यैव मयैतावद्वित्तं दत्तम्' इति । ततः कविस्तमभिप्रायं ज्ञात्वा नृपं पद्ममिषेण पुनः प्राह-


  'किं कुप्यसि कस्मैचन सौरभसाराय कुप्य निजमधुने ।

  यस्य कृते शतपत्र प्रतिपत्रं तेऽद्य मृग्यते भ्रमरैः' ॥ ६९ ॥


ततः प्रभु प्रसन्नवदनमवलोक्य प्रकाशेन प्राह-


  'न दातुं नोपभोक्तुं च शक्नोति कृपणः श्रियम् ।

  किन्तु स्पृशति हस्तेन नपुंसक इव स्त्रियम् ॥ ७० ॥

  याचितो यः प्रहृष्येत दत्त्वा यः प्रीतिमान्भवेत् ।

  तं दृष्ट्वाप्यथवा श्रुत्वा नरः स्वर्गमवाप्नुयात्' ॥ ७१ ॥


 ततस्तुष्टो राजा पुनरपि कलिङ्गदेशवासिकवये लक्षं ददौ । ततः पूर्वकविः पुरःस्थितान्षट्कवीन्द्रान्दृष्ट्वाह–'हे कवयः, अत्र महासरः सेतुभूमौवासी राजा यदा भवनं गमिष्यति तदा किमपि ब्रूत' इति । ते च सर्वे महाकवयोऽपि सर्वे राज्ञः प्रथमचेष्टितं ज्ञात्वावर्तन्त । तेष्वेकः सरोमिषेण नृपं प्राह--


  'आगतानामपूर्णानां पूर्णानामपि गच्छताम् ।

  यदध्वनि न सङ्घट्टो घटानां तत्सरो वरम्' ॥ ७२ ॥


 इति । तस्य राजा लक्षं ददौ । ततो गोविन्दपण्डितस्तान्कवीन्द्रान्दृष्ट्वा


चुकोप । तस्य कोपाभिप्रायं ज्ञात्वा द्वितीयः कविराह

  'कस्य तृषं न क्षपयसि पिबति न कस्तव पयः प्रविश्यान्तः ।

  यदि सन्मार्गसरोवरनक्रो न क्रोडमधिवसति' ॥ ७३ ॥


राजा तस्मै लक्षद्वयं ददौ । तं च गोविन्दपण्डितं व्यापारपदादूरीकृत्य त्वयापि सभायामागन्तव्यम् , परंतु केनापि दौष्ट्यं न कर्तव्यम्' इत्युक्त्वा ततस्तेभ्यः प्रत्येकं लक्षं दत्त्वा स्वनगरमागतः। ते च यथायथं गताः।


 ततः कदाचिद्राजा मुख्यामात्यं प्राह--


  'विप्रोऽपि यो भवेन्मूर्खः स पुराद्बहिरस्तु मे ।

  कुम्भकारोऽपि यो विद्वान्स तिष्ठतु पुरे मम' ॥ ७४ ॥


इति । अतः कोऽपि न मूर्योऽभूद्धारानगरे


 ततः क्रमेण पञ्चशतानि विदुषां वररुचि-बाण-मयूर-रेफण-हरि-शंकर-कलिङ्ग-कर्पूर-विनायक-मदन-विद्या-विनोद-कोकिल-तारेन्द्रमुखाः सर्वशास्त्रविचक्षणाः सर्वे सर्वज्ञाः श्रीभोजराजसभामलंचक्रुः । एवं स्थिते कदाचिद्विद्वद्वृन्दवन्दिसिंहासनासीने कविशिरोमणौ कवित्वप्रिये विप्रप्रियबान्धवे भोजेश्वरे द्वारपाल एत्य प्रणम्य व्यजिज्ञपत्–'देव, कोऽपि विद्वान्द्वारि तिष्ठति' इति । अथ राज्ञा 'प्रवेशय तम्' इत्याज्ञप्ते सोऽपि दक्षिणेन पाणिना समुन्नतेन विराजमानो विप्रः प्राह-'राजन्नभ्युदयोऽस्तु'

राजा-'शंकरकवे किं पत्रिकायामिदम्'

कविः-'पद्यम्'

राजा-कस्य'

कविः-'तवैव भोजनृपते'

राजा-'तत्पठ्यताम्'

कविः-'पठ्यते'

  एतासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना-

  दुद्वेल्लभुजवल्लिकङ्कणझणत्कारः क्षणं वार्यताम् ॥ ७५ ॥


यथा यथा भोजयशो विवर्धते सितां त्रिलोकीमिव कर्तुमुद्यतम् ।

तथा तथा मे हृदयं विदूयते प्रियालकालीधवलत्वशङ्कया' ॥ ७६ ॥


 ततो राजा शंकरकवये द्वादशलक्षं ददौ । सर्वे विद्वांसश्च विच्छायवदना बभूवुः । परं कोऽपि राजभयान्नावदत् । राजा च कार्यवशाद्गृहं गतः ।  ततो विभूपालां सभां दृष्ट्वा विबुधगणस्तं निनिन्द–'अहो नृपतेरज्ञता। किमस्य सेवया । वेदशास्त्रविचक्षणेभ्यः स्वाश्रयकविभ्यो लक्षमदात् । किमनेन वितुष्टेनापि । असौ च केवलं ग्राम्यः कविः शंकरः । किमस्य प्रागल्भ्यम् ।' इत्येवं कोलाहलरवे जाते कश्चिदभ्यगात् कनकमणिकुण्डलशाली दिव्यांशुकप्रावरणो नृपकुमार इव मृगमदपङ्ककलङ्कितगात्रो नवकुसुमसमभ्यर्चितशिराश्चन्दनाङ्गरागेण विलोभयन्विलास इव मूर्तिमान्कवितेव तनुमाश्रितः शृङ्गाररसस्य स्यन्द इव सस्पन्दो महेन्द्र इव महीवलयं प्राप्तो विद्वान् । तं दृष्ट्वा सा विद्वत्परिषद्भयकौतुकयोः पात्रमासीत् । स च सर्वान्प्रणिपत्य प्राह–'कुत्र भोजनृपः' इति । ते तमूचुः- 'इदानीमेव सौधान्तरगतः' इति । ततोऽसौ प्रत्येकं तेभ्यस्ताम्बूलं दत्त्वा गजेन्द्रकुलगतो मृगेन्द्र इवासीत् । ततः स महापुरुषः शंकरकविप्रदानेन कुमितांस्तान्बुद्ध्वा प्राह भवद्भिः शंकरकवये द्वादशलक्षाणि प्रदत्तानीति न मन्तव्यम् । अभिप्रायस्तु राज्ञो नैव बुद्धः। यतः शंकरपूजने प्रारब्धे शंकरकविस्त्वेकेनैव लक्षेण पूजितः । किं तु तन्निष्ठांस्तन्नाम्ना विभ्राजितानेकादशरुद्राशंकरानपरान्मूर्तीन्प्रत्यक्षाञ्ज्ञात्वा तेषां प्रत्येकमेकैकं लक्षं तस्मै शंकरकवय एव शंकरमूर्तये प्रदत्तमिति राज्ञोऽभिप्रायः' इति । सर्वेऽपि चमत्कृतास्तेन ।


 ततः कोऽपि राजपुरुषस्तद्विद्वत्स्वरूपं द्राग्राज्ञे निवेदयामास । राजा च स्वमभिप्रायं साक्षाद्विदितवन्तं तं महेशमिव महापुरुषं मन्यमानः सभामभ्यगात् । स च 'स्वस्ति'-इत्याह राजानम् । राजा च तमालिङ्ग्य प्रणम्य निजकरकमलेन तत्करकमलमवलम्ब्य सौधान्तरं गत्वा प्रोत्तुङ्गगवाक्ष उपविष्टः प्राह–'विप्र भवन्नाम्ना कान्यक्षराणि सौभाग्यावलम्बितानि । कस्य वा देशस्य भवद्विरहः सुजनान्बाधते' इति । ततः कविर्लिखति राज्ञो हस्ते 'कालिदासः' इति । राजा वाचयित्वा पादयोः पतति ।


 ततस्तत्रासीनयोः कालिदासभोजराजयोरासीत्सन्ध्या । राजा-सखे, 'सन्ध्यां वर्णय' इत्यवादीत् । कालिदासः-


  'व्यसनिन इव विद्या क्षीयते पङ्कजश्री-

   र्गुणिन इव विदेशे दैन्यमायान्ति भृङ्गाः।

  कुनृपतिरिव लोकं पीडयत्यन्धकारो


   धनमिव कृपणस्य व्यर्थतामेति चक्षुः' ॥ ७७ ॥


पुनश्च राजानं स्तौति कविः-


  'उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः ।

  उत्पन्नसौहृदानामुपचारः कैतवं भवति ॥ ७८ ॥

  दत्ता तेन कविभ्यः पृथ्वी सकलापि कनकसम्पूर्णा ।

  दिव्यां सुकाव्यरचनां क्रमं कवीनां च यो विजानाति ॥ ७९ ॥

  सुकवेः शब्दसौभाग्यं सत्कविर्वेत्ति नापरः ।

  वन्ध्या न हि विजानाति परां दौर्हदसम्पदम्' ॥ ८० ॥


इति । ततः क्रमेण भोजकालिदासयोः प्रीतिरजायत ।


 ततः कालिदासं वेश्यालम्पटं ज्ञात्वा तस्मिन्सर्वे द्वेषं चक्रः । न कोऽपि तं स्पृशति । अथ कदाचित्सभामध्ये कालिदासमालोक्य भोजेन मनसा चिन्तितम्-'कथमस्य प्राज्ञस्यापि स्मरपीडाप्रमादः' इति । सोऽपि तदभिप्रायं ज्ञात्वा प्राह-


 'चेतोभुवश्चापलताप्रसङ्गे का वा कथा मानुषलोकभाजाम् ।

 यद्दाहशीलस्य पुरां विजेतुस्तथाविधं पौरुषमर्धमासीत् ॥ ८१ ॥


 ततस्तुष्टो भोजराजः प्रत्यक्षरं लक्षं ददौ ।


 ततः कालिदासो भोजं स्तौति-


  'महाराज श्रीमञ्जगति यशसा ते धवलिते

   पयः पारावारं परमपुरुषोऽयं मृगयते ।

  कपर्दी कैलासं करिवरमभौमं कुलिशभृ-

   त्कलानाथं राहुः कमलभवनो हंसमधुना ॥ ८२ ॥


 नीरक्षीरे गृहीत्वा निखिलखगततीर्याति नालीकजन्मा

  चक्रं धृत्वा तु सर्वानटति जलनिधींश्चक्रपाणिर्मुकुन्दः ।

 सर्वानुत्तुङ्गशैलान्दहति पशुपतिः फालनेत्रेण पश्यन्

  व्याप्ता त्वत्कीर्तिकान्ता त्रिजगति नृपते भोजराज क्षितीन्द्र ॥ ८३ ॥

 विद्वद्राजशिखामणे तुलयितुं धाता त्वदीयं यशः

  कैलासं च निरीक्ष्य तत्र लघुतां निक्षिप्तवान्पूर्तये ।

 उक्षाणं तदुपर्युमासहचरं तन्मूर्ध्नि गङ्गाजलं


   तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितिम् ॥ ८४ ॥

  स्वर्गाद्गोपाल कुत्र व्रजसि सुरमुने भूतले कामधेनो-

   र्वत्सस्यानेतुकामस्तृणचयमधुना मुग्ध दुग्धं न तस्याः।

  श्रुत्वा श्रीभोजराजप्रचुरवितरणं व्रीडशुष्कस्तनी सा

   व्यर्थो हि स्यात्प्रयासस्तदपि तदरिभिश्चर्वितं सर्वमुाम् ॥ ८५ ॥


तुष्टो राजा प्रत्यक्षरं लक्षं ददौ ।


 ततः कदाचिच्छ्रुतिस्मृतिपारंगताः केचिद्राजानं कवित्वप्रियं ज्ञात्वा क्वचिन्नगराद्बहिः भुवनेश्वरीप्रसादेन कवित्वं करिष्यामः' इत्युपविष्टाः । तेष्वेकेन पण्डितम्मन्येनैकश्चरणोऽपाठि-


  'भोजनं देहि राजेन्द्र'


इति । अन्येनापाठि-     'घृतसूपसमन्वितम् ।'


 इति । उत्तरार्धं न स्फुरति । ततो देवताभवनं कालिदासः प्रणामार्थमगात् । तं वीक्ष्य द्विजा ऊचुः--'अस्माकं समग्रवेदविदामपि भोजः किमपि नार्पयति । भवादृशां हि यथेष्टं दत्ते । ततोऽस्माभिः कवित्वविधानधियात्रागतम् । चिरं विचार्य पूर्वार्धमभ्यधायि, उत्तरार्धं कृत्वा देहि । ततोऽस्मभ्यं किमपि प्रयच्छति ।' इत्युक्त्वा तत्पुरस्तादर्धमभाणि । स च तच्छ्रुत्वा।


  'माहिषं च शरच्चन्द्रचन्द्रिकाधवलं दधि' ॥ ८६ ॥


 इत्याह । ते च राजभवनं गत्वा दौवारिकानूचुः 'वयं कवितां कृत्वा समागताः । राजानं दर्शयत' इति । ते च कौतुकाद्धसन्तो गत्वा राजानं प्रणम्य प्राहुः--


  'राजमाषनिभैर्दन्तैः कटिविन्यस्तपाणयः ।

  द्वारि तिष्ठन्ति राजेन्द्र च्छान्दसाः श्लोकशत्रवः' ॥ ८७ ॥


 इति । राज्ञा प्रवेशितास्ते दृष्टराजसंसदो मिलिताः सन्तः सहैव कवित्वं पठन्ति स्म । राजा तच्छ्रुत्वोत्तरार्धं कालिदासेन कृतमिति ज्ञात्वा विप्रानाह–'येन पूर्वार्धं कारितं तन्मुखात्कवित्वं कदाचिदपि न करणीयम् । उत्तरार्धस्य किञ्चिद्दीयते, न पूर्वार्धस्य ।'इत्युक्त्वा प्रत्यक्षरं लक्षं ददौ । तेषु च दक्षिणामादाय गतेषु कालिदासं वीक्ष्य राजा प्राह-कवे उत्तरार्धं त्वया कृतम्' इति । कविराह-


  'अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोश्च तैक्ष्ण्यं च ।

  कवितायां परिपाकं ह्यनुभवरसिको विजानाति' ॥ ८८ ॥


राजा च-'सुकवे, सत्यं वदसि ।


   अपूर्वो भाति भारत्याः काव्यामृतफले रसः ।

   चर्वणे सर्वसामान्ये स्वादुवित्केवलः कविः ॥ ८९ ॥


  सञ्चिन्त्य सञ्चिन्त्य जगत्समस्तं त्रयः पदार्था हृदयं प्रविष्टाः ।

  इक्षोर्विकारा मतयः कवीनां मुग्धाङ्गनापाङ्गतरङ्गितानि ॥ ९० ॥


 ततः कदाचिद् द्वारपालकः प्रणम्य भोजं प्राह-- राजन्, द्रविडदेशात्कोऽपि लक्ष्मीधरनामा कविर्द्वारमध्यास्ते' इति । राजा 'प्रवेशय' इत्याह । प्रविष्टमिव सूर्यमिव विभ्राजमानं चिरादप्यविदितवृत्तान्तं प्रेक्ष्य राजा विचारयामास । आह च-


  'आकारमात्रविज्ञानसम्पादितमनोरथाः ।

  धन्यास्ते ये न शृण्वन्ति दीनाः क्वाप्यर्थिनां गिरः' ॥ ९१ ॥


 स चागत्य तत्र राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः प्राह- 'देव, इयं ते पण्डितमण्डिता सभा । त्वं च साक्षाद्विष्णुरसि । ततः किं नाम पाण्डित्यं तथाऽपि किञ्चिद्वच्मि-


  भोजप्रतापं तु विधाय धात्रा शेषैर्निरस्तैः परमाणुभिः किम् ।

  हरेः करेऽभूत्पविरम्बरे च भानुः पयोधेरुदरे कृशानुः ॥ ९२ ॥


 इति । ततस्तेन परिषच्चत्कृता। राजा च तस्य प्रत्यक्षरं लक्षं ददौ । पुनः कविराह-'देव, मया सकुटुम्बेनात्र निवासाशया समागतम् ।


  क्षमी दाता गुणग्राही स्वामी पुण्येन लभ्यते ।

  अनुकूलः शुचिर्दक्षः कविर्विद्वान्सुदुर्लभः ॥ ९३ ॥


 इति । ततो राजा मुख्यामात्यं प्राह–'अस्मै गृहं दीयताम्' इति । ततो निखिलमपि नगरं विलोक्य कमपि मूर्खममात्यो नापश्यत् , यं निरस्य विदुषे गृहं दीयते । तत्र सर्वत्र भ्रमन्कस्यचित्कुविन्दस्य गृहं वीक्ष्य कुविन्दं प्राह--'कुविन्द, गृहान्निःसर । तव गृहं विद्वानेष्यति' इति । ततः कुविन्दो राजभवनमासाद्य राजानं प्रणम्य प्राह-'देव, भवदमात्यो मां मूर्खं कृत्वा गृहान्निःसारयति, त्वं तु पश्य मूर्खः पण्डितो वेति ।


  काव्यं करोमि नहि चारुतरं करोमि

   यत्नात्करोमि यदि चारुतरं करोमि ।

  भूपालमौलिमणिमण्डितपादपीठ

   हे साहसाङ्क कवयामि वयामि यामि ॥ ९४ ॥


 ततो राजा त्वङ्कारवादेन वदन्तं कुविन्दं प्राह-'ललिता ते पदपङ्क्तिः, कवितामाधुर्यं च शोभनम्, परन्तु कवित्वं विचार्य वक्तव्यम्' इति । ततः कुपितः कुविन्दः प्राह-'देव, अत्रोत्तरं भाति किन्तु न वदामि । राजधर्मः पृथग्विद्वद्धर्मात्' इति । राजा प्राह–'अस्ति चेदुत्तरं ब्रूहि' इति । कुविन्दः प्राह-देव , कालिदासादृतेऽन्यं कविं न मन्ये । कोऽस्ति ते सभायां कालिदासादृते कवितातत्त्वविद्विद्वान् ।


  यत्सारस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं

   तल्लभ्यं कविनैव नैव हठतः पाठप्रतिष्ठाजुषाम् ।

  कासारे दिवसं वसन्नपि पयःपूरं परं पङ्किलं

   कुर्वाणः कमलाकरस्य लभते किं सौरभं सैरिभः ॥९५॥

  अयं मे वाग्गुम्फो विशदपदवैदग्ध्यमधुरः

   स्फुरद्बन्धो वन्ध्यः परहृदि कृतार्थः कविहृदि ।

  कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः

   कुमारे निःसारः स तु किमपि यूनः सुखयति ॥ १६ ॥ इति


 विद्वज्जनवन्दिता सीता प्राह-


  विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे ।

  निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी ॥ ९७ ॥


 ततः कुविन्दः प्राह- बाल्ये सुतानां सुरतेऽङ्गनानां स्तुतौ कवीनां समरे भटानाम् । त्वंकारयुक्ता हि गिरः प्रशस्ताः कस्ते प्रभो मोहभरः स्मर त्वम् ।। ९८॥


 ततो राजा 'साधु भोः कुविन्द' इत्युक्त्वा तस्याक्षरलक्षं ददौ। 'मा भैषीः, इति पुनः कुविन्दं प्राह ।


एंवंक्रमेणातिक्रान्ते कियत्यपि काले बाणः पण्डितवरः परं राज्ञा मान्यमानोऽपि प्राक्तनकर्मतो दारिद्र्यमनुभवति । एवं स्थिते नृपतिः कदाचिद्रात्रावेकाकी प्रच्छन्नवेषः स्वपुरे चरन्बाणगृहमेत्यातिष्ठत् । तदा निशीथे बाणो दारिद्र्याद्व्याकुलतया कान्तां वक्ति-'देवि,राजा कियद्वारं मम मनोरथमपूरयत् । अद्यापि पुनः प्रार्थितो ददात्येव । परन्तु निरन्तरप्रार्थनारसे मूर्खस्यापि जिह्वा जडीभवति ।' इत्युक्त्वा मुहूर्तार्धमौनेन स्थितः। पुनः पठति-


  हर हर पुरहर परुषं क हलाहलफल्गु याचनावचसोः ।

  एकैव तव रसज्ञा तदभयरसतारतम्यज्ञा ॥ ९९ ॥


देवि,


  दारिद्र्यस्यापरा मूर्तिर्याच्या न द्रविणाल्पता ।

  अपि कौपीनवाशंभुस्तथापि परमेश्वरः ॥ १०० ॥


 सेवा सुखानां व्यसनं धनानां याच्या गुरूणां कुनृपः प्रजानाम् ।

 प्रणष्टशीलस्य सुतः कुलानां मूलावघातः कठिनः कुठारः ॥ १०१ ॥


तत्सत्यपि दारिद्र्यं राज्ञो वक्तुं मया स्वयमशक्यम् ।


  यच्छन्क्षणमपि जलदो वल्लभतामेति सर्वलोकस्य ।

  नित्यप्रसारितकरः करोति सूर्योऽपि सन्तापम् ॥ १०२ ॥


 किं च देवि, वैश्वदेवावसरे प्राप्ताः क्षुधार्ताः पश्चाद्यान्तीति तदेव मे हृदयं दुनोति।


  दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा ।

  याचकाशाविघातान्तर्दाहः केनोपशाम्यते ॥ १०३ ॥


 राजा चैतत्सर्वं श्रुत्वा 'नेदानीं किमपि दातुं योग्यः । प्रातरेव बाणं पूर्णमनोरथं करिष्यामि ।' इति निष्क्रान्तो राजा-


  'कृतो यैर्न च वाग्मी च व्यसनी तं न यैः पदम् ।

  यैरात्मसदृशो नार्थी किं तैः काव्यैर्बलैर्धनैः ॥ १०४॥


 एवं पुरे परिभ्रममाणे राजनि वर्त्मनि चोरद्वयं गच्छति । तयोरेकः प्राह शकुन्तः-'सखे, स्फारान्धकारविततेऽपि जगत्यञ्जनवशात्सर्वं परमाणुप्रायमपि वसु सर्वत्र पश्यामि । परन्तु सम्भारगृहानीतकनकजातमपि न मे सुखाय' इति । द्वितीयो मरालनामा चोर आह- आहृतं सम्भारगृहात्कनकजातमपि न हितमिति कस्माद्धेतोरच्यते' इति । ततः शकुन्तः प्राह-'सर्वतो नगररक्षकाः परिभ्रमन्ति । सर्वोऽपि जागरिष्यत्येषां भेरीपटहादीनां निनादेन । तस्मादाहृतं विभज्य स्वस्वभागगतं धनमादाय शीघ्रमेव गन्तव्यम्' इति । मरालः प्राह-सखे, त्वमनेन

कोटिद्वयपरिमितमणिकनकजातेन किं करिष्यसि' इति ।


 शकुन्तः 'एतद्धनं कस्मैचिद्विजन्मनेद् दास्यामि यथायं वेदवेदाङ्गपारणोऽन्यं न प्रार्थयति ।'


 मराल:-"सखे चारु।


  ददतो युध्यमानस्य पठतः पुलकोऽथ चेत् ।

  आत्मनश्च परेषां च तद्दानं पौरुषं स्मृतम् ॥ १०५॥


 अनेन दानेन तव कथं पुण्यफलं भविष्यति ।'


 शकुन्तः–'अस्माकं पितृपैतामहोऽयं धर्मः, यच्चौर्येण वित्तमानीयते'


 मराल:- 'शिरश्छेदमङ्गीकृत्यार्जितं द्रव्यं निखिलमपि कथं दीयते ।'


 शकुन्तः–'मूर्खो नहि ददात्यर्थं नरो दारिद्र्यशङ्कया ।

  प्राज्ञस्तु वितरत्यर्थं नरो दारिद्रयशङ्कया' ॥ १०६ ॥


 मरालः-'किश्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् ।

  पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ १०७ ॥


 शकुन्तः-'अनेन वित्तेन किं करिष्यति भवान् ।'


 मरालः-सखे, काशीवासी कोऽपि विप्रबटुरत्रागात् । तेनास्मत्पितुः पुरः काशीवासफलं व्यावर्णितम् । ततोऽस्मत्तातो बाल्यादारभ्य चौर्य कुर्वाणो दैववशात्स्वपापानिवृत्तो वैराग्यात्सकुटुम्बः काशीमेष्यति । तदर्थमिदं द्रविणजातम् ।


 शकुन्तः-'महद्भाग्यं तव पितुः । तथा हि-


  वाराणसीपुरीवासवासनावासितात्मना।

  किं शुना समतां याति वराकः पाकशासनः ॥ १०८।।


  ऊषरं कर्मसस्यानां क्षेत्रं वाराणसी पुरी ।

  यत्र सँल्लभ्यते मोक्षः समं चण्डालपण्डितैः ॥ १०९ ॥

  मरणं मङ्गलं यत्र विभूतिश्च विभूषणम् ।

  कौपीनं यत्र कौशेयं सा काशी केन मीयते ॥ ११० ॥


 एवमुभयोः संवादं श्रुत्वा राजा तुतोष । अचिन्तयच्च मनसि-कर्मणां गतिः सर्वथैव विचित्रा उभयोरपि पवित्रा मतिः' इति ।


 ततो राजा विनिवृत्त्य भवनान्तरे पितृपुत्रावपश्यत् । तत्र पिता पुत्रं प्राह-'इदानीं परिज्ञातशास्त्रतत्त्वोऽपि नृपतिः कार्पण्येन किमपि न प्रयच्छति । किं तु-


 अर्थिनि कवयति कवयति पठति च पठति स्तवोन्मुखे स्तौति ।

 पश्चाद्यामीत्युक्ते मौनी दृष्टिं निमीलयति' ॥ १११ ॥


राजाप्येतच्छ्रुत्वा तत्समीपं प्राप्य 'मैवं वद' इति स्वगात्रात्सर्वाभरणान्युत्तार्य दत्त्वा तस्मै; ततो गृहमासाद्य कालान्तरे सभामुपविष्टः कालिदासं प्राह- -'सखे,


  'कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि ।'


ततः कविराह-


  'यत्र हंसवयांसीव भुवनानि चतुर्दश' ॥ ११२ ॥


ततो राजा प्रत्यक्षरमुक्ताफललक्षं ददौ ।


 ततः प्रविशति द्वारपाल:-'देव, कोऽपि कौपीनावशेषो विद्वान्द्वारि तिष्ठति' इति । राजा-'प्रवेशय ।' ततः प्रवेशितः कविरागत्य 'स्वस्ति' इत्युक्त्वानुक्त एवोपविष्टः प्राह-


  इह निवसति मेरुः शेखरो भूधराणा-

   मिह हि निहितभाराः सागराः सप्त चैव ।

  इदमतुलमनन्तं भूतलं भूरिभूतो-

   द्भवधरणसमर्थं स्थानमस्मद्विधानाम् ॥ ११३ ॥


 राजा-महाकवे, किं ते नाम ? अभिधत्स्व ।


 कविः-नामग्रहणं नोचितं पण्डितानाम् । तथापि वदामो यदि जानासि ।


  नहि स्तनन्धयी बुद्धिर्गम्भीरं गाहते वचः ।


   तलं तोयनिधेर्द्रष्टुं यष्टिरस्ति न वैणवी ॥ ११४ ॥


देव, आकर्णय-


  च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं

   समं चक्रीकृत्य प्रहसितमुखी शैलतनया ।

  अवोचद्यं पश्येत्यवतु गिरिशः सा च गिरिजा

   स च क्रीडाचन्द्रो दशनकिरणामूरिततनुः ॥ ११५ ।।


 कालिदासः-'सखे क्रीडाचन्द्र, चिराद्दृष्टोऽसि । कथमीदृशी ते दशा मण्डले विराजत्यपि राजनि बहुधनवति ।'


 क्रीडाचन्द्रः-


  धनिनोऽप्यदानविभवा गण्यन्ते धुरि महादरिद्राणाम् ।

  हन्ति न यतः पिपासामतः समुद्रोऽपि मरुरेव ॥ ११६ ॥


 किं च-


  उपभोगकातराणां पुरुषाणामर्थसञ्चयपराणाम् ।

  कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥ ११७ ॥

  सुवर्णमणिकेयूराडम्बरैरन्यभूभृतः ।

  कलयैव पदं भोज तेषामाप्नोति सारवित् ॥ ११८ ॥


 सुधामयानीव सुधां गलन्ति विदग्धसंयोजनमन्तरेण ।

 काव्यानि निर्व्याजमनोहराणि वाराङ्गनानामिव यौवनानि ॥ ११९॥

  ज्ञायते जातु नामापि न राज्ञः कवितां विना ।

  कवेस्तद्व्यतिरेकेण न कीर्तिः स्फुरति क्षितौ ॥ १२० ॥


 मयूरः-


  'ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः।

  यैर्निबद्धानि काव्यानि ये च काव्ये प्रकीर्तिताः ॥ १२१ ।।


 वररुचिः-


  पदव्यक्तिव्यक्तीकृतसहृदयाबन्धललिते

   कवीनां मार्गेऽस्मिन्स्फुरति बुधमात्रस्य धिषणा।

  न च क्रीडालेशव्यसनपिशुनोऽयं कुलवधू-

   कटाक्षाणां पन्थाः स खलु गणिकानामविषयः ॥ १२२ ।।


 राजा क्रीडाचन्द्राय विंशतिगजेन्द्रान्यामपञ्चकं च ददौ। ततो राजानं

कविः स्तौति-


  'कङ्कणं नयनद्वन्द्वे तिलकं करपल्लवे ॥

  अहो भूषणवैचित्र्यं भोजप्रत्यर्थियोषिताम् ॥ १२३ ॥


तुष्टो राजा पुनरक्षरं लक्षं ददौ ।


 ततः कदाचित्कोऽपि जराजीर्णसर्वाङ्गसन्धिः पण्डितो रामेश्वरनामा सभामभ्यगात् । स चाह-


  पञ्चाननस्य सुकवेर्गजमांसैनृपश्रिया ।

  पारणा जायते क्वापि सर्वत्रैवोपवासिनः ॥ १२४ ॥

  वाहानां पण्डितानां च परेषामपरो जनः ।

  कवीन्द्राणां गजेन्द्राणां ग्राहको नृपतिः परः ॥ १२५ ॥


एवं हि-


  सुवर्णैः पट्टचेलैश्च शोभा स्याद्वारयोषिताम् ।

  पराक्रमेण दानेन राजन्ते राजनन्दनाः ॥ १२६ ॥


इत्याकर्ण्य राजा रामेश्वरपण्डिताय सर्वाभरणान्युत्तार्य लक्षद्वयं प्रायच्छत् ।


 ततःस्तौति कविः-


  भोज त्वत्कीर्तिकान्ताय नभोभालस्थितं महत् ।

  कस्तूरीतिलकं राजन्गुणाकर विराजते ॥ १२७ ॥

  बुधाग्रे न गुणान्ब्रूयाॉत्साधु वेत्ति यतः स्वयम् ।

  मूर्खाग्रेऽपि च न ब्रूयाद्बुधप्रोक्तं न वेत्ति सः ॥ १२८ ॥


तेन चमत्कृताः सर्वे।


रामेश्वरकविः-


  ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् ।

  पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति' ॥ १२९ ॥


ततस्तुष्टो राजा प्रत्यक्षरं लक्षं ददौ । राजेन्द्र कविः प्राह-


  'कवित्वं न शृणोत्येव कृपणः कीर्तिवर्जितः।

  नपुंसकः किं कुरुते पुरःस्थितमृगीदृशा' ॥ १३० ॥


- सीता प्राह- -


  'हता देवेन कवयो वराकास्ते गजा अपि ।


  शोभा न जायते तेषां मण्डलेन्द्रगृहं विना' ॥ १३१ ॥

 कालिदासः-


  'अदातृमानसं क्वापि न स्पृशन्ति कवेर्गिरः।

  दुःखायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥ १३२ ॥


 राजा प्रतिपण्डितं लक्षं दत्तवान् ।


 ततः कदाचिद्राजा समस्तादपि कविमण्डलादधिकं कालिदासमवलोक्यायान्तं परं वेश्यालोलत्वेन चेतसि खेदलवं चक्रे । तदा सीता विद्वद्वृन्दवन्दिता तदभिप्रायं ज्ञात्वा प्राह- -'देव,


  दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते ।

  प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि ॥ १३३ ॥


तुष्टो राजा सीतायै लक्षं ददौ । तथापि कालिदासं यथापूर्वं न मानयति यदा, तदा स च कालिदासो राज्ञोऽभिप्रायं विदित्वा तुलामिषेण प्राह-


  'प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते ।

  नयसि गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे ॥ १३४ ॥


 पुनराह-


  'यस्यास्ति सर्वत्र गतिः स कस्मात्स्वदेशरागेण हि याति खेदम् ।

  तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति' ॥ १३५ ॥


 ततो राज्ञा कृतामवज्ञां मनसि विदित्वा कालिदासो दुर्मना निजवेश्म ययौ।


  अवज्ञास्फुटितं प्रेम समीकर्तुं क ईश्वरः ।

  सन्धिं न याति स्फुटितं लाक्षालेपेन मौक्तिकम् ॥ १३६ ॥


 ततो राजापि खिन्नः स्थितः । ततो लीलावती खिन्नं दृष्ट्वा राजानं विषादकारणमपृच्छत् । राजा च रहसि सर्वं तस्यै प्राह । सा च राजमुखेन कालिदासावज्ञां ज्ञात्वा पुनः प्राह–'देव प्राणनाथ, सर्वज्ञोऽसि ।


  स्नेहो हि वरमघटितो न वरं सञ्जातविघटितस्नेहः ।

  हृतनयनो हि विषादी न विषादी भवति जात्यन्धः ॥ १३७ ॥


परन्तु कालिदासः कोऽपि भारत्याः पुरुषावतारः । तत्सर्वभावेन सम्मानयैनं विद्वद्भ्यः । पश्य

  दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि

   मित्रावसानसमये विहितोदयोऽपि ।

  चन्द्रस्तथापि हरवल्लभतामुपैति

   नैवाश्रितेषु गुणदोषविचारणा स्यात् ॥ १३८ ॥


 राजा-'प्रिये, सर्वमेतत्सत्यमेव' इत्यङ्गीकृत्य 'श्वः कालिदासं प्रातरेव सन्तोषयिष्यामि' इत्यवोचत् ।


 अन्येद्यू राजा दन्तधावनादिविधिं विधाय निवर्तितनित्यकृत्यः सभां प्राप । पण्डिताः कवयश्च गायका अन्ये प्रकृतयश्च सर्वे समाजग्मुः। कालिदासमेकमनागतं वीक्ष्य राजा स्वसेवकमेकं तदाकारणाय वेश्यागृहं प्रेषयामास । स च गत्वा कालिदासं नत्वा प्राह–'कवीन्द्र, त्वामाकारयति भोजनरेन्द्रः' इति । ततः कविरचिन्तयत्-'गतेऽह्नि नृपेणावमानितोऽहमद्य प्रातरेवाकारणे किं कारणमिति ।


  यं यं नृपोऽनुरागेण सम्मानयति संसदि ।

  तस्य तस्योत्सारणाय यतन्ते राजवल्लभाः ॥ १६९ ॥


 किन्तु विशेषतो राज्ञान्वहं मान्यमाने मयि मायाविनो मत्सराद्वैरं बोधयन्ति ।


  अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः ।

  यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ १४० ॥


 इति विचारयन्सभामागच्छत् । ततो दूरे समायान्तं वीक्ष्य सानन्दमासनादुत्थाय 'सुकवे, मत्प्रियतम, अद्य कथं विलम्बः क्रियते' इति भाषमाणः पञ्चषट्पदानि सम्मुखो गच्छति । ततो निखिलाऽपि सभा स्वासनादुत्थिता । सर्वे सभासदश्च चमत्कृताः । वैरिणश्चास्य विच्छायवदना बभूवुः । ततो राजा निजकरकमलेनास्य करकमलमवलम्ब्य स्वासनदेशं प्राप्य तं च सिंहासनमुपवेश्य स्वयं च तदाज्ञया तत्रैवोपविष्टः । ततो राजसिंहासनारूढे कालिदासे बाणकविर्दक्षिणं बाहुमुद्धृत्य प्राह-


  'भोजः कलाविद्रुद्रो वा कालिदासस्य माननात् ।

  विबुधेषु कृतो राजा येन दोषाकरोऽप्यसौ' ॥ १४१ ॥


 ततोऽस्य विशेषेण विद्वद्भिः सह वैरानलः प्रदीप्तः ।  ततः कैश्चिबुद्धिमद्भिर्मन्त्रयित्वा सर्वैरपि विद्वद्भिर्भोजस्य ताम्बूलवाहिनी दासी धनकनकादिना सम्मानिता । ते च तां प्रत्युपायमूचुः- 'सुभगे, अस्मत्कीर्तिमसौ कालिदासो गलयति । अस्मासु कोऽपि नैतेन कलासाम्यं प्रवहते । वत्से, यथैनं राजा देशान्तरं निःसारयति तद्भवत्या कर्तव्यम्' इति । दासी प्राह-'भवद्भयो हारं प्राप्य मया युष्मत्कार्यं क्रियते । तन्मम प्रथमं हारो दातव्यः' इति । ततः सा ताम्बूलवाहिनी तैर्दत्तं हारमादाय व्यचिन्तयत् । तथा हि-'बुधैरसाध्यं किं वास्ति । 'ततः समतिक्रामत्सु कतिपयवासरेषु दैवादेकाकिनि प्रसुप्ते राजनि चरणसंवाहनादिसेवामस्य विधाय तत्रैव कपटेन नेत्रे निमील्य सुप्ता । ततश्चरणचलनेन राजानमीषज्जागरूकं सम्यग्ज्ञात्वा प्राह-'सखि मदनमालिनि, स दुरात्मा कालिदासो दासीवेषेणान्तः पुरं प्राप्य लीलादेव्या सह रमते । राजा तच्छ्रुत्वोत्थाय प्राह–'तरङ्गवति, किं जागर्षि' इति । सा च निद्राव्याकुलेव न शृणोति । राजा च तस्या अपध्वनिं श्रुत्वा व्यचिन्तयत्-'इयं तरङ्गवती निद्रायां स्वप्नवशंगता वासनावशाद्देव्या दुश्चरितं प्राह । स च स्त्रीवेषेणान्तःपुरमागच्छतीत्येतदपि सम्भाव्यते । को नाम स्त्रीचरितं वेद' इति । ततश्चेत्थं विचार्य राजा परेद्युः प्रातरात्मनि कृत्रिमज्वरं विधाय शयानः कालिदासं दासीमुखेनानाय्य तदागमनानन्तरं तयैव लीलादेवीं चानाय्य देवीं प्रत्यवदत्-'प्रिये, इदानीमेव मया पथ्यं भोक्तव्यम्' इति । इत्युक्ते सापि तथैव' इति पथ्यं गृहीत्वा राज्ञे रजतपात्रे दत्त्वा तत्र मुद्गदालीं प्रत्यवेषयत् । ततो राजापि तयोरभिप्रायं जिज्ञासमानः श्लोकार्धं प्राह-


  'मुद्गदाली गदव्याली कवीन्द्र वितुषा कथम् ।' इति ।


ततः कालिदासो देव्यां समीपवर्तिन्यामप्युत्तरार्धं प्राह-


  'अन्धवल्लभसंयोगे जाता विगतकञ्चुकी' ॥ १४२ ॥


 देवी तच्छ्रुत्वा परिज्ञातार्थस्वरूपा सरस्वतीव तदर्थं विदित्वा स्मेरमुखी मनागिव बभूव । राजाप्येतद् दृष्ट्वा विचारयामास-'इयं पुरा कालिदासे स्निह्यति । अनेनैतस्यां समीपवर्तिन्यामपीत्थमभ्यधायि। इयं च स्मेरमुखी बभूव । स्त्रीणां चरित्रं को वेद ।

 अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् ।

 अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः ॥ १४३ ॥


 किन्त्वयं ब्राह्मणो दारुणापराधित्वेऽपि न हन्तव्य इति विशेषेण सरस्वत्याः पुरुषावतारः' इति विचार्य कालिदासं प्राह 'कवे, सर्वथास्मद्देशे न स्थातव्यम् । किं बहुनोक्तेन । प्रतिवाक्यं किमपि न वक्तव्यम् ।'ततः कालिदासोऽपि वेगेनोत्थाय वेश्यागृहमेत्य तां प्रत्याह-'प्रिये, अनुज्ञां देहि । मयि भोजः कुपितः स्वदेशे न स्थातव्यमित्युवाच । अहह--


  अघटितघटितं घटयति सुघटितघटितानि दुर्घटीकुरुते ।

  विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ १४४ ॥


किं च किमपि विद्वद्वृन्दचेष्टितमेवेति प्रतिभाति । तथा हि-


  बहूनामल्पसाराणां समवायो दुरत्ययः ।

  तृणैर्विधीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥ १४५ ॥


ततो विलासवती नाम वेश्या तं प्राह-


  तदेवास्य परं मित्रं यत्र सङ्क्रामति द्वयम् ।

  दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ १४६॥


 दयित, मयि विद्यमानायां किं ते राज्ञा, किं वा राजदत्तेन वित्तेन कार्यम् । सुखेन निःशङ्क तिष्ठ मद्गृहान्तः कुहरे' इति । ततः कालिदासस्तत्रैव'वसन्कतिपयदिनानि गमयामास ।


 ततः कालिदासे गृहान्निर्गते राजानं लीलादेवी प्राह–'देव, कालिदासकविना साकं नितान्तं निबिडतमा मैत्री । तदिदानीमनुचितं कस्मात्कृतं यस्य देशेऽप्यवस्थानं निषिद्धम् ।


  इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।

  तद्वत्सज्जनमैत्री विपरीतानां च विपरीता ॥ १४७ ॥

  शोकारातिपरित्राणं प्रीतिविस्रम्भभाजनम् ।

  केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १४८ ॥


 राजाप्येतल्लीलादेवीवचनमाकर्ण्य प्राह-'देवि, केनापि ममेत्यभिधायि यत्कालिदासो दासीवेषेणान्तःपुरमासाद्य देव्या सह रमते' इति । मया चैतद्व्यापारजिज्ञासया कपटज्वरेणायं भवती च वीक्षितौ । ततः समीपवर्तिन्यामपि त्वय्युत्तरार्धमित्थं प्राह । तच्चाकर्ण्य त्वयापि कृतो हासः । ततश्च सर्वमेतद्दृष्ट्वा ब्राह्मणहननभीरुणा मया देशान्निःसारितः । त्वां च न दाक्षिण्येन हन्मि' इति । ततो हासपरा देवी चमत्कृता प्राह- -निःशङ्कं देव, अहमेव धन्या यस्यास्त्वं पतिरीशः । यत्त्वया भुक्तशीलाया मम मनः कथमन्यत्र गच्छति । यतःसर्वकामिनीभिरपि कान्तोपभोगे स्मर्तव्योऽसि । अहह देव, त्वं यदि मां सतीमसतीं वा कृत्वा गमिष्यसि, तर्ह्यहं सर्वथा मरिष्ये' इति । ततो राजापि 'प्रिये, सत्यं वदसि' इति । ततः स नृपतिः पुरुषैरहिमानयामास । तप्तं लोहगोलकं कारयामास । धनुश्च सजं चक्रे । ततो देवी स्नाता निजपातिव्रत्यानलेन देदीप्यमाना सुकुमारगात्री सूर्यमवलोक्य प्राह-'जगच्चक्षुस्त्वं सर्वं वेत्सि ।


  जाग्रति स्वप्नकाले च सुषुप्तौ यदि मे पतिः ।

  भोज एव परं नान्यो मच्चित्ते भावितोऽस्ति न -॥ १४९ ॥


 इत्युक्त्वा ततो दिव्यत्रयं चक्रे । ततःशुद्धायामन्तःपुरे लीजावत्यां लज्जानतशिरा नृपतिः पश्चात्तापात्पुरः 'देवि, क्षमस्व पापिष्ठं माम् । किं वदामि' इति कथमायास । राजा च तदाप्रभृति न निद्राति, न च भुङ्क्ते, न केनचिद्वक्ति । केवलमुद्विग्नमनाः स्थित्वा दिवानिशं प्रविलपति-'किं नाम मम लज्जा, किं नाम दाक्षिण्यम्, क्व गाम्भीर्यम् । हा हा कवे, कवि कोटिमुकुटमणे, कालिदास, हा मम प्राणसम, हा । मूर्खेण किमश्राव्यं श्रावितोऽसि । अवाच्यमुक्तोऽसि' इति प्रसुप्त इव ग्रहग्रस्त इव, मायाविध्वस्त इव, पपात । ततः प्रियाकरकमलसिक्तजलसञ्जातसंज्ञः कथमपि तामेव प्रियां वीक्ष्य स्वात्मनिन्दापरः परमतिष्ठत् । ततो निशानाथहीनेव निशा, दिनकरहीनेव दिनश्रीः, वियोगिनीव योषित्, शक्ररहितेव सुधर्मा, न भाति भोजभूपालसभा रहिता कालिदासेन । तदाप्रभृति न कस्यचिन्मुखे काव्यम् । न कोऽपि विनोदसुन्दरं वचो वक्ति ।


 ततो गतेषु केषुचिद्दिनेषु कदाचिद्राकापूर्णेन्दुमण्डलं पश्यन्पुरश्च लीलादेवीमुखेन्दं वीक्ष्य प्राह-


  'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।'


 कुत्र च पूर्णेऽपि चन्द्रमसि नेत्रविलासाः, कदा वाचो विलसितम् । प्रातश्चोत्थितः प्रातर्विधीर्विधाय सभां प्राप्य राजा विद्वद्वरान्प्राह-'अहो कवयः, इयं समस्या पूर्यताम् ।' ततः पठति-


  'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।

 तुलनामन्वनुसरति, ग्लौसो मुखचन्द्रस्य खल्वेतस्याः'


पुनराह-'इयं चेत्समस्या न पूर्यते भवद्भिर्मद्देशे न स्थातव्यम्' इति । ततो भीतास्ते कवयः स्वानि गृहाणि जग्मुः । चिरं विचारितेऽप्यर्थे कस्यापि नार्थसङ्गतिः स्फुरति । ततः सर्वैमिलित्वा बाणः प्रेषितः । ततः सभां प्राप्याह राजानम्-'देव, सर्वैर्विद्वद्भिरहं प्रेषितः। अष्टवासरानवधिमभिधेहि । नवमेऽह्नि पूरयिष्यन्ति ते । न चेद्देशान्निर्गच्छन्ति ।' ततो राजा 'अस्तु' इत्याह । ततो बाणस्तेषां विज्ञाप्य राजसन्देशं स्वगृहमगात् । ततोऽष्टौ दिवसा अतीताः । अष्टमदिनरात्रौ मिलितेषु तेषु कविषु बाणः प्राह-'अहो तारुण्यमदेन राजसंनप्रमादेन किञ्चिद्विद्यामदेन कालिदासो निःसारितोऽभवत् । समे भवन्तः सर्व एव कवयः। विषमे स्थाने तु स एक एव कविः । तं निःसार्येदानीं किं नाम महत्त्वमासीत् । स्थिते तस्मिन्कथमियमवस्थास्माकं भवेत् । तन्निःसारे या या बुद्धिः कृता सा भवद्भिरेवानुभूयते ।


  सामान्यविप्रविद्वेषे कुलनाशो भवेत्किल ।

  उमारूपस्य विद्वेषे नाशः कविकुलस्य हि ॥ १५० ॥


 ततः सर्वे गाढं कलहायन्ते स्म मयूरादयश्च । ततस्ते सर्वान्कलहान्निवार्य सद्यः प्राहुः-'अद्यैवावधिः पूर्णः कालिदासमन्तरेण न कस्यचित्सामर्थ्यमस्ति समस्यापूरणे ।


  सङ्ग्रामे सुभटेन्द्राणां कवीनां कविमण्डले ।

  दीप्तिर्वा दीप्तिहानिर्वा मुहूर्तेनैव जायते ॥ १५१ ॥


 यदि रोचते ततोऽद्यैव मध्यरात्रे प्रमुदितचन्द्रमसि निगूढमेव गच्छामः सम्पत्तिसम्भारमादाय । यदि न गम्यते श्वो राजसेवका अस्मान् बलान्निसारयन्ति । तदा देहमात्रेणैवास्माभिर्गन्तव्यम् । तदद्य मध्यरात्रे गमिष्यामः ।' इति सर्वे निश्चित्य गृहमागत्य बलीवर्दव्यूढेषु शकटेषु सम्पद्भारमारोप्य रात्रावेव निष्क्रान्ताः। ततः कालिदासस्तत्रैव रात्रौ विलासवतीसदनोद्याने वसन् पथि गच्छतां तेषां गिरं श्रुत्वा वेश्याचेटीं प्रेषि- । तवान्-'प्रिये, पश्य क एते गच्छन्ति ब्राह्मणा इव ।' ततः सा समेत्य सर्वानपश्यत् । उपेत्य च कालिदासं प्राह-


  एकेन राजहंसेन या शोभा सरसोऽभवत् ।

  न सा बकसहस्रेण परितस्तीरवासिना ॥ १५२ ॥


 सर्वे च बाणमयूरप्रमुखाः पलायन्ते, नात्र संशयः' इति । कालिदासः- 'प्रिये, वेगेन वासांसि भवनादानय, यथा पलायमानान्विप्रान्रक्षामि । किं पौरुषं रक्षति यो न वार्तान् किं वा धनं नार्थिजनाय यत्स्यात् । सा किं क्रिया या न हितानुबद्धा किं जीवितं साधुविरोधि यद्वै ॥ १५३ ॥


 ततः स कालिदासश्चारवेषं विधाय खङ्गमुद्वहन्क्रोशार्धमुत्तरं गत्वा तेषामभिमुखमागत्य सर्वान्निरूप्य 'जय' इत्याशीर्वचनमुदीर्य पप्रच्छ चारणभाषया-'अहो विद्यावारिधयः, भोजसभायां सम्प्राप्तमहत्त्वातिशयाः, बृहस्पतय इव सम्भूय कुत्र जिगमिषवो भवन्तः । कञ्चित्कुशलं वः । राजा च कुशली । अस्माभिः काशीदेशादागम्यते भोजदर्शनाय वित्तस्पृहया च । ततः परिहासं कुर्वन्तः सर्वे निष्कान्ताः । ततस्तेषु कश्चित्तद्गिरमाकर्ण्य तं च चारणं मन्यमानः कुतूहलेन विपश्चित्प्राह-'अहो चारण' शृणु । 'त्वया पश्चादपि श्रोष्यत एव । अतो मयाद्यैवोच्यते । राज्ञा किलैभ्यो विद्वद्भयः पूरणाय समस्योक्ता । तत्पूरणाशक्ताः कुपितराज्ञो भयाद्देशान्तरे क्वचिजिगमिषव एते निश्चक्रमुः। चारणः- राज्ञा का वा समस्या प्रोक्ता ।' ततः पठति स विपश्चित्-


  'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।'


चारणः- एतत्साध्वेव गूढार्थम् । एतत्पूर्णेन्दुमण्डलं वीक्ष्य राज्ञापाठि । एतस्योत्तरार्धमिदं भवितुमर्हति-


  'अणु इदि वण्णयदि कहं अणुकिदि तस्स प्पडिपदि चन्दस ॥


 सर्वे श्रुत्वा चमत्कृताः । ततश्चारणःसर्वान्प्रणिपत्य निर्ययौ । ततः सर्वे विचारयन्ति स्म-अहो, इयं साक्षात्सरस्वती पुंरूपेण सर्वेषामस्माकं परित्राणायागता । नायं भवितुमर्हति मनुष्यः। अद्यापि किमपि केनापि न ज्ञायते । ततः शीघ्रमेव गृहमासाद्य शकटेभ्यो भारमुत्तार्य प्रातः सर्वैरपि राजभवनमागन्तव्यम् । न चेच्चारण एव निवेदयिष्यति । ततो झटिति गच्छामः।' इति योजयित्वा तथा चक्रुः । ततो राजसभां गत्वा राजानमालोक्य 'स्वस्ति' इत्युक्त्वा विविशुः । ततो बाणः प्राह–'देव, सर्वज्ञेनयत्त्वया पठ्यते तदीश्वर एव वेद । केऽमी वराका उदरम्भरयो द्विजाः।  तथाप्युच्यते-


  तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।

  अणु इदि वण्णयदि कहं अणुकिदि तस्स प्पडिपदि चन्दस्स ॥ १५४ ॥

  तुलनामन्वनुसरति ग्लौसो मुखचन्द्रस्य खल्वेतस्याः।

  अन्विति वर्ण्यते कथमनुकृतिस्तस्य प्रतिपदि चन्द्रस्य ॥ इति च्छाया ।


राजा यथाव्यवसितस्याभिप्रायं विदित्वा 'सर्वथा कालिदासो दिवसप्राप्यस्थाने निवसति । उपायैश्च सर्वं साध्यम्' इत्याह । ततो बाणाय रुक्माणां पञ्चदशलक्षाणि प्रादात् । सन्तोषमिषेणैव विद्वद्वृन्दं स्वं स्वं सदनं प्रति प्रेषितम् ।


 गते च विद्वन्मण्डले शनैर्द्वापालायादिष्टं राज्ञा-'यदि केचिद्विजन्मान आयास्यन्ति; तदा गृहमध्यमानेतव्याः । ततः सर्वमपि वित्तमादाय स्वगृहं गते बाणे केचित्पण्डिता आहुः-'अहो, बाणेनानुचितं व्यवधायि । यदसावप्यस्माभिः सह नगरान्निष्कान्तोऽपि सर्वमेव धनं गृहीतवान् । सर्वथा भोजस्य बाणस्वरूपं ज्ञापयिष्यामः । यथा कोऽपि नान्यायं विधत्ते विद्वत्सु ।' ततस्ते राजानमासाद्य ददृशुः । राजा तान्प्राह- एतत्स्वरूपं ज्ञातमेव । भवद्भिर्यथार्थतया वाच्यम् ।' ततस्तैः सर्वमेव निवेदितम् । ततो राजा विचारितवान्-'सर्वथा कालिदासश्चारणवेषेण मद्भयान्मदीयनगरमध्यस्ते। 'ततश्चाङ्गरक्षकानादिदेश-'अहो, पलाय्यन्तां तुरङ्गाः । ततः क्रीडोद्यानप्रयाणे पटहध्वनिरभवत्-'अहो, इदानीं राजा देवपूजाव्यग्र इति शुश्रुमः । पुनरिदानीं क्रीडोद्यानं गमिष्यति' इति व्याकुलाः सर्वे भटाः सम्भूय पश्चाद्यान्ति । ततो राजा तैर्विद्वद्भिः सहाश्वमारुह्य रात्रौ यत्र चारणप्रसङ्गः समजनि, तत्प्रदेशं प्राप्तः । ततो राजा चरतां चौराणां पदज्ञाननिपुणानाहूय प्राह-'अनेन वर्मना यः कोऽपि रात्रौ निर्गतस्तस्य पदान्यद्यापि दृश्यन्ते, तानि पश्यन्तु' इति । ततो राजा प्रतिपण्डितं लक्षं दत्त्वा तान्प्रेषयित्वा च स्वभवनमगात् । ते च पदज्ञा राजाज्ञया सर्वतश्चरन्तोऽपि तमनवेक्षमाणा विमूढा इवासन् । ततश्च लम्बमाने सवितरि कामपि दासीमेकं पदत्राणं त्रुटितमादाय चर्मकारवेश्म गच्छन्तीं दृष्ट्वा तुष्टा इवासन् । ततस्तत्पदत्राणं तया चर्मकारकरे न्यस्तं वीक्ष्य तैश्च तस्याः करान्मिषेणादाय रेणुपूर्णे पथि मुक्त्वा तदेव पदं तस्येति ज्ञात्वा तां च दासीं क्रमेण, वेश्याभवनं विशन्तीं वीक्ष्य तस्या मन्दिरं परितो वेष्टयामासुः । ततश्च तैः क्षणेन भोजश्रवणपथविषयमभिज्ञानवार्ता प्रापिता । ततो राजा सपौरः सामात्यः पद्भ्यामेव विलासवतीभवनमगात् । ततस्तच्छ्रुत्वा विलासवतीं प्राह कालिदासः-'प्रिये, मत्कृते किं कष्टं ते पश्य ।'विलासवती-सुकवे,


उपस्थिते विप्लव एव पुंसां समस्तभावः परिमीयतेऽतः ।

अवाति वायौ नहि तूलराशेर्गिरेश्च कश्चित्प्रतिभाति भेदः ॥ १५५ ॥


  मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।

  आपन्निकषपाषाणे जनो जानाति सारताम् ॥ १५६ ॥

  अप्रार्थितानि दुःखानि यथैवायान्ति देहिनः ।

  सुखानि च तथा मन्ये दैन्यमत्रातिरिच्यते ॥ १५७ ॥


 सुकवे, राज्ञा त्वयि मनाङ्निराकृते वचसापि मया सदेहं दासीवृन्दं प्रदीप्तवह्नौ पतिष्यति ।' कालिदासः-'प्रिये, नैवं मन्तव्यम् । मां दृष्ट्वा विकासीकृतास्यो भोजः पादयोः पतिष्यति' इति । ततो वेश्यागृहं प्रविश्य भोजः कालिदासं दृष्ट्वा सम्भ्रममाश्लिष्य पादयोः पतति । स राजा पठति च-


  'गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा।

  मा भून्मनः कदाचिन्मे त्वया विरहितं कवे' ॥ १५८ ॥


 कालिदासस्तच्छ्रुत्वा ब्रीडावनताननस्तिष्ठति । राजा च कालिदासमुखमुन्नमय्याह-


  'कालिदास कलावास दासवच्चालितो यदि ।

  राजमार्गे व्रजन्नत्र परेषां तत्र का जपा ॥ १५९ ॥

  धन्यां विलासिनीं मन्ये कालिदासो यदेतया ।

  निबद्धः स्वगुणैरेष शकुन्त इव पञ्जरे' ॥ १६० ॥


 राजा नेत्रयोहर्षाश्रु मार्जयति कराभ्यां कालिदासस्य । ततस्तत्प्राप्तिप्रसन्नो राजा ब्राह्मणेभ्यः प्रत्येकं लक्षं ददौ । निजतुरगे च कालिदासमारोप्य सपरिवारो निजगृहं ययौ ।


 कियत्यपि कालेऽतिक्रान्ते राजा कदाचित्सन्ध्यामालोक्य पाह-


  'परिपतति पयोनिधौ पतङ्गः'


ततो बाणः प्राह-


   'सरसिरुहामुदरेषु मत्तभृङ्गः।


ततो महेश्वरकविः-


  'उपवनतरुकोटरे विहङ्गः'


ततः कालिदासः प्राह-


   'युवतिजनेषु शनैःशनैरनङ्गः ॥ १६१ ॥


 तुष्टो राजा लक्षं लक्षं ददौ । चतुर्थचरणस्य लक्षद्वयं ददौ ।


 कदाचिद्राजा बहिरुद्यानमध्ये मार्गं प्रत्यागच्छन्तं कमपि विप्रं ददर्श । तस्य करे चर्ममयं कमण्डलुं वीक्ष्य तं चातिदरिद्रं ज्ञात्वा मुखश्रिया विराजमानं चावलोक्य तुरङ्गं तदग्रे निधायाह-'विप्र, चर्मपात्रं किमर्थं पाणौ वहसि' इति । स च विप्रो नूनं मुखशोभया मृदूक्त्या च भोजं इति विचार्याह' देव, वदान्यशिरोमणौ भोजे पृथ्वीं शासति लोहताम्राभावः समजनि । तेन चर्ममयं पात्रं वहामि' इति । राजा- भोजे शासति लोहताम्राभावे को हेतुः । तदा विप्रः पठति-


  'अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् ।

  शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्रकैः' ॥ १६२ ॥


ततस्तुष्टो राजा प्रत्यक्षरं लक्षं ददौ ।


 कदाचिद् द्वारपालः प्राह--'धारेन्द्र, दूरदेशादागतः कश्चिद्विद्वान्द्वारि तिष्ठति, तत्पत्नी च । तत्पुत्रः सपत्नीकः । अतोऽतिपवित्रं विद्वत्कुटुम्बं द्वारि तिष्ठति' इति । राजा-'अहो गरीयसी शारदाप्रसादपद्धतिः । तस्मिन्नवसरे गजेन्द्रपाल आगत्य राजानं प्रणम्य प्राह-'भोजेन्द्र, सिंहलदेशाधीश्वरेण सपादशतं गजेन्द्राः प्रेषिताः षोडश महामणयश्च ।' ततो बाणः प्राह-


 'स्थितिः कवीनामिव कुञ्जराणां स्वमन्दिरे वा नृपमन्दिरे वा ।


सम

 गृहे गृहे किं मशका इवैते भवन्ति भूपालविभूषिताङ्गाः' ॥ १६३ ॥


 ततो राजा गजानवलोकनाय बहिरगात् । ततस्तद्विद्वत्कुटुम्बं वीक्ष्य चोलपण्डितो राज्ञः प्रियोऽहमिति गर्वं दधार । यन्मया राजभवनमध्यं गम्यते । विद्वत्कुटुम्बं तु द्वारपालज्ञापितमपि बहिरास्ते । तदा राजा तच्चेतसि गर्वं विदित्वा चोलपण्डितं सौधाङ्गणान्निःसारितवान् ।


 काशीदेशवासी कोऽपि तण्डुलदेवनामा राज्ञे 'स्वस्ति' इत्युक्त्वातिष्ठत् । राजा च तं पप्रच्छ-- सुमते, कुत्र निवासः ।' तण्डुलदेवः--


  वर्तते यत्र सा वाणी कृपाणीरिक्तशाखिनः ।

  श्रीमन्मालवभूपाल तत्र देशे वसाम्यहम् ॥ १६४ ॥


 तुष्टो राजा तस्मै गजेन्द्रसप्तकं ददौ ।


ततः कोऽपि विद्वानागत्य प्राह-


  'तपसः सम्पदः प्राप्यास्तत्तपोऽपि न विद्यते ।

  येन त्वं भोज कल्पद्रुर्दृग्गोचरमुपैष्यसि ॥ १६५ ॥


 तस्मै राजा दशगजेन्द्रान्ददौ ।


 ततः कश्चिद्ब्राह्मणपुत्रो भूम्भारवं कुर्वाणोऽभ्येति । ततः सर्वे सम्भ्रान्ताः कथं भूम्भारवं करोषि' इति । राज्ञा स्वदृग्गोचरमानीतः पृष्टः । स प्राह-


  "देव त्वद्दानपाथोधौ दारिद्र्यस्य निमज्जतः ।

  न कोऽपि हि करालम्ब दत्ते मत्तेभदायक' ॥ १६६ ॥


 ततस्तुष्टो राजा तस्मै त्रिंशद्गजेन्द्रान्प्रादात् ।


 ततः प्रविशति पत्नीसहितः कोऽपि विलोचनो विद्वान् ‘स्वस्ति' इत्युक्त्वा प्राह-


  "निजानपि गजान्भोजं ददानं प्रेक्ष्य पार्वती ।

  गजेन्द्रवदनं पुत्रं रक्षत्यद्य पुनः पुनः' ॥ १६७ ॥


 ततो राजा सप्त गजांस्तस्मै ददौ ।


 ततो राजा विद्वत्कुटुम्बं तदैव पुरतः स्थितं वीक्ष्य ब्राह्मणं प्राह-


  'क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।'


वृद्धद्विजः प्राह


  'घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो


   वने वासः कन्दादिकमशनमेवंविधगुणः ।

  अगस्त्यः पाथोधिं यदकृत कराम्भोजकुहरे

   क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १६८ ॥


 ततो राजा बहुमूल्यानपि षोडशमणीस्तस्यै ददौ । ततस्तत्पत्नीं प्राह राजा-'अम्ब, त्वमपि पठ।' देवी-


  'रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा

   निरालम्बो मार्गश्चरणविकलः सारथिरपि ।

  रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः

   क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १६६ ॥


राजा तुष्टः सप्तदश गजान्सप्त रथांश्च तस्यै ददौ । ततो विप्रपुत्रं प्राह राजा-'विप्रसुत, त्वमपि पठ ।' विप्रसुतः-


  'विजेतव्या लङ्का चरणतरणीयो जलनिधि-

   र्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।

  पदातिर्मर्त्योऽसौ सकलमवधीद्राक्षसकुलं

   क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ १७० ॥


 तुष्टो राजा विप्रसुतायाष्टादश गजेन्द्रान्प्रादात् । ततः सुकुमारमनोज्ञनिखिलाङ्गावयवालङ्कृतां शृङ्गाररसोपजातमूर्तिमिव चम्पकलतामिव लावण्यगात्रयष्टिं विप्रस्नुषां वीक्ष्य 'नूनं भारत्याः काऽपि लीलाकृतिरियम्' इति चेतसि नमस्कृत्य राजा प्राह- मातः त्वमप्याशिषं वद ।

विप्रस्नुषा-'देव, शृणु।


  धनुः पौष्पं मौर्वी मधुकरमयी चञ्चलदृशां

   दृशां कोणो बाणः सुहृदपि जडात्मा हिमकरः ।

  स्वयं चैकोऽनङ्गः सकलभुवनं व्याकुलयति

   क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १७१ ॥


 चमत्कृतो राजा लीलादेवीभूषणानि सर्वाण्यादाय तस्यै ददौ । अनर्घ्यांश्च सुवर्णमौक्तिकवेड्यावालांश्च प्रददौ ।


 ततः कदाचित्सीमन्तनामा कविः प्राह-


'पन्थाः संहर दीर्घतां त्यजनिजं तेजः कठोरं रवे


   श्रीमन्विन्ध्यगिरे प्रसीद सदयं सद्यः समीपे भव ।

  इत्थं दूरपलायनश्रमवतीं दृष्ट्वा निजप्रेयसीं

   श्रीमन्भोज तव द्विषः प्रतिदिनं जल्पन्ति मूर्छन्ति च ॥ १७२ ॥


 तस्मिन्नेव क्षणे कश्चित्सुवर्णकारः प्रान्तेषु पद्मरागमणिमण्डितं सुवर्णभाजनमादाय राज्ञः पुरो मुमोच । ततो राजा सीमन्तकविं प्राह-'सुकवे, इदं भाजनं कामपि श्रियं दर्शयति ।' ततः कविराह-


  धारेश त्वत्प्रतापेन पराभूतस्त्विषांपतिः।

  सुवर्णपात्रव्याजेन देव त्वामेव सेवते ॥ १३ ॥


 ततस्तुष्टो राजा तदेव पात्रं मुक्ताफलैरापूर्य प्रादात् ।


 कदाचिद्राजा मृगयारसेन पुरः पलायमानं वराहं दृष्ट्वा स्वयमेकाकितया दूरं वनान्तमासादितवान् । तत्र कञ्चन द्विजवरमवलोक्य प्राह- "द्विज, कुत्र गन्तासि ।'

द्विजः-'धारानगरम् ।'

भोजः-'किमर्थम् ।

द्विजः-'भोजं द्रष्टुं द्रविणेच्छया । स पण्डिताय दत्ते । अहमपि मूर्खं न याचे ।

भोजः-विप्र, तहिं त्वं विद्वान्कविर्वा ।

द्विजः-महाभाग, कविरहम् ।

भोजः-तर्हि किमपि पठ ।

द्विजः-भोजं विना मत्पदसरणिं न कोऽपि जानाति ।

राजा-ममाप्यमरवाणीपरिज्ञानमस्ति । राजा च मयि स्निह्यति । त्वद्गुणं च श्रावयिष्यामि । किमपि कलाकौशलं दर्शय ।

विप्रः-किं वर्णयामि ।

राजा-कलमानेतान्वर्णय

विप्रः-'कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकल्हाराः ।

 पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ १७४ ॥


राजा तस्मै सर्वाभरणान्युत्तार्य ददौ ।


 ततः कदाचित्कुम्भकारवधू राजगृहमेत्य द्वारपालं प्राह-'द्वारपाल, राजा द्रष्टव्यः। स आह–'किं ते राज्ञा कार्यम्'। सा चाह-'न तेऽभि धास्यामि । नृपाग्र एव कथयामि ।' स सभायामागत्य प्राह-'देव, कुम्भकारप्रिया काचिद्राज्ञो दर्शनाकाङ्क्षिणी न वक्ति मत्पुरः कार्यम् । भवत्पुरतः कथयिष्यति ।' राज्ञा–प्रवेशय ।' सा चागत्य नमस्कृत्य वक्ति-


  'देव मृत्खननाद्दृष्टं निधानं वल्लभेन मे ।

  स पश्यन्नेव तत्रास्ते त्वां ज्ञापयितुमभ्यगाम्' ॥ १७५ ॥


 राजा च चमत्कृतो निधानकलशमानयामास । तद्द्वारमुद्धाट्य यावत्पश्यति राजा तावत्तदन्तर्वर्तिद्रव्यमणिप्रभामण्डलमालोक्य कुम्भकारं पृच्छति-'किमेतत्कुम्भकार ।' स चाह


  'राजचन्द्रं समालोक्य त्वां तु भूतलमागतम् ।

  रत्नश्रेणिमिषान्मन्ये नक्षत्राण्यभ्युपागमन् ॥ १७६ ॥


 राजा कुम्भकारमुखाच्छ्लोकं लोकोत्तरमाकर्ण्यचमत्कृतस्तस्मै सर्वं ददौ ।


 ततः कदाचिद्राजा रात्रावेकाकी सर्वतो नगरचेष्टितं पश्यन्पौरगिरमाकर्णयंश्चचार। तदा क्वचिद्वैश्यगृहे वैश्यः स्वप्रियां प्राह-'प्रिये, राजा स्वल्पदानरतोऽप्युज्जयिनीनगराधिपतेर्विक्रमार्कस्य दानप्रतिष्ठां काङ्क्षते । सा किं भोजेन प्राप्यते । कैश्चित्स्तोत्रपरायणैर्मयूरादिकविभिर्महिमानं प्रापितो भोजः । परन्तु भोजो भोज एव । प्रिये, शृणु ।


आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो यदि पदं मृगवैरिणः श्वा ।

मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ १७७ ॥


 राजा श्रुत्वा विचारितवान्—'असौ सत्यमेव वदति ।' ततः पुनः पुनर्वदन्तं शृणोति-


  'आपन्न एव पात्रं देहीत्युच्चारणं न वैदुष्यम् ।

  उपपन्नमेव देयं त्यागस्ते विक्रमार्क किमु वर्ण्यः ॥ १७८ ॥

  विक्रमार्क त्वया दत्तं श्रीमन्ग्रामशताष्टकम् ।

  अर्थिने द्विजपुत्राय भोजे त्वन्महिमा कुतः ॥ १७९ ॥

  प्राप्नोति कुम्भकारोऽपि महिमानं प्रजापतेः ।

  यदि भोजेऽप्यवाप्नोति प्रतिष्ठां तव विक्रमः' ॥ १८० ॥


राजा-'लोके सर्वोऽपि जनः स्वगृहे निःशङ्कं सत्यं वदति । मया वान्येन वा सर्वथा विक्रमार्कप्रतिष्ठा न शक्या प्राप्तुम् ।  ततः कदाचित्कश्चित्कवी राजद्वारं समागत्याह-'राजा द्रष्टव्यः' इति । ततः प्रवेशितो राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः पठति-


'कविषु वादिषु भोगिषु देहिषु द्रविणवत्सु सतामुपकारिषु ।

धनिषु धन्विषु धर्मधनेष्वपि क्षितितले नहि भोजसमो नृपः' ॥ १८१ ॥


 राजा तस्मै लक्षं प्रादात् । सर्वाभरणान्युत्तार्य तं च तुरगं ददौ ।


 ततः कदाचिद्राजा क्रीडोद्यानं प्रस्थितो मध्ये मार्गं कामपि मलिनांशुवसनां तीक्ष्णतरतपनकरविदग्धमुखारविन्दं सुलोचनां लोचनाभ्यामालोक्य पप्रच्छ--    'का त्वं पुत्रि' इति ।

‘सा च तं श्रीभोजभूपालं मुखश्रिया विदित्वा तुष्टा प्राह-

   'नरेन्द्र, लुब्धकवधूः

हर्षसम्भृतो राजा तस्याः पटुप्रबन्धानुबन्धेनाह-

   'हस्ते किमेतत्'

सा चाह- 'पलम्'

राजाह - "क्षामं किम्'

सा चाह- 'सहजं ब्रवीमि नृपते यद्यादराच्छ्रूयते ।

  गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना ।

  गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलम्' ॥ १८२ ॥


 राजा तस्यै प्रत्यक्षरं लक्षं प्रादात् ।


 ततो गृहमागत्य गवाक्ष उपविष्टः । तत्र चासीनं भोजं दृष्ट्वा राजवर्त्मनि स्थित्वा कश्चिदाह-'देव, सकलमहीपाल, आकर्णय ।


  इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे

   धरित्री दुर्लङ्घ्या बहुलहिमपङ्को गिरिरयम् ।

  इदानीं निर्वृत्ते करितुरगनीराजनविधौ

   न जाने यातारस्तव च रिपवः केन च पथा' ॥ १८३ ॥


 तुष्टो भोजो वर्त्मनि स्थितायैव तस्मै वंश्यान्पञ्च गजान्ददौ । कदाचिद्राजा मृगयारसपराधीनो हयमारुह्य प्रतस्थे ।

   ततो नदीं समुत्तीर्णं शिरस्यारोपितेन्धनम् ।

   वेषेण ब्राह्मणं ज्ञात्वा राजा पप्रच्छ सत्वरम् ॥ १८४ ॥

   "कियन्मानं जलं विप्र'


स आह-'जानुदघ्नं नराधिप ।'

चमत्कृतो राजाह-'ईदृशी किमवस्था ते'

स आह-नहि सर्वे भवादृशाः' ॥ १८५ ॥

 राजा प्राह कुतूहलात्–'विद्वन्, याचस्व कोशाधिकारिणम् । लक्षं दास्यति मद्वचसा ।' ततो विद्वान्काष्ठं भूमौ निक्षिप्य कोशाधिकारिणं गत्वा प्राह-महाराजेन प्रेषितोऽहम् । लक्षं मे दीयताम् ।' ततः स हसन्नाह- विप्र, भवन्मूर्तिर्लक्षं नार्हति ।' ततो विषादी स राजानमेत्याह- 'स पुनर्हसति देव, नार्पयति ।' राजा कुतूहलादाह-'लक्षद्वयं प्रार्थय दास्यति ।' पुनरागत्य विप्रः 'लक्षद्वयं देयमिति राज्ञोक्तम्' इत्याह । स पुनर्हसति । विप्रः पुनरपि भोजं प्राप्याह-'स पापिष्ठो मां हसति नार्पयति । ततः कौतूहली लीलानिधिर्महीं शासञ्श्रीभोजराजः प्राह–'विप्र, लक्षत्रयं याचस्व । अवश्यं स दास्यति ।' स पुनरेत्य प्राह-राजा मे लक्षत्रयं दापयति । स पुनर्हसति । ततः क्रुद्धो विप्रः पुनरेत्याह-'देव, स नार्पयत्येव।


  राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति ।

  अभाग्यच्छत्रसंछन्ने मयि नायान्ति बिन्दवः ॥ १८६ ॥

  त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।

  अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १८७ ॥

  एकमस्य परमेकमुद्यम निस्त्रपत्वमपरस्य वस्तुनः ।

  नित्यमुष्णमहसा निरस्यते नित्यमन्धतमसं प्रधावति' ॥ १८८ ॥


ततो राजा प्राह-


  'क्रोधं मा कुरु मद्वाक्याद्गत्वा कोशाधिकारिणम् ।

  लक्षत्रयं गजेन्द्राश्च दश ग्राह्यास्त्वया द्विज' ॥ १८९ ॥


ततस्त्वङ्गरक्षकं प्रेषयति । ततः कोशाधिकारी धर्मपत्रे लिखति-


  'लक्षं लक्षं पुनर्लक्षं मत्ताश्च दश दन्तिनः ।

  दत्ता भोजेन तुष्टेन जानुदघ्नप्रभाषणात् ॥ १९० ॥


 ततः सिंहासनमलङ्कुर्वाणे श्रीभोजनृपतौ द्वारपाल आगत्य प्राह-

 'राजन् कोऽपि शुकदेवनामा कविर्दारिद्र्यविडम्बितो द्वारि वर्तते । राजा बाणं प्राह–'पण्डितवर, सुकवे, तत्त्वं विजानासि ।' बाणः- शुकदेवपरिज्ञानसामर्थ्याभिज्ञः कालिदास एव, नान्यः । 'राजा- 'सुकवे, सखे कालिदास, किं विजानासि शुकदेवकविम् ।' इत्याह । कालिदासः-'देव,


  सुकविर्द्वितयं जाने निखिलेऽपि महीतले ।

  भवभूतिः शुकश्चायं वाल्मीकिस्त्रितयोऽनयोः' ।। १९१


ततो विद्वद्वन्दवन्दिता सीता प्राह-


  'काकाः किं किं न कुर्वन्ति क्रोङ्कारं यत्र तत्र वा ।

  शुक एव परं वक्ति नृपहस्तोपलालितः' ॥ १९२ ॥


ततो मयूरः प्राह-


  'अपृष्टस्तु नरः किञ्चिद्यो ब्रूते राजसंसदि ।

  न केवलमसम्मानं लभते च विडम्बनाम् ॥ १९३ ॥


देव, तथाप्युच्यते-


  का सभा किं कविज्ञानं रसिकाः कवयश्च के ।

  भोज किं नाम ते दानं शुकस्तुष्यति येन सः ॥ १९४ ॥


 तथापि भवनद्वारमागतः शुकदेवः सभायामानेतव्य एव ।' तदा राजा विचारयति शुकदेवसामर्थ्यं श्रुत्वा हर्षविषादयोः पात्रमासीत् । महाकविरवलोकित इति हर्षः । अस्मै सत्कविकोटिमुकुटमणये किं नाम देयमिति च विषादः । 'भवतु । द्वारपाल, प्रवेशय ।' तत आयान्तं शुकदेवं दृष्ट्वा राजा सिंहासनादुदतिष्ठत् । सर्वे पण्डितास्तं शुकदेवं प्रणम्य सविनयमुपवेशयन्ति । स च राजा तं सिंहासन उपवेश्य स्वयं तदाज्ञयोपविष्टः । ततः शुकदेवः प्राह–'देव, धारानाथ, श्रीविक्रमनरेन्द्रस्य या दानलक्ष्मीस्त्वामेव सेवते । देव, मालवेन्द्र एव धन्यः नान्ये भूभुजः, यस्य ते कालिदासादयो महाकवयः सूत्रबद्धाः पक्षिण इव निवसन्ति ।' ततः पठति-


  'प्रतापभीत्या भोजस्य तपनो मित्रतामगात् ।

  और्वो वाडवतां धत्ते तडित्क्षणिकतां गता' ॥ १९५ ॥


राजा-'तिष्ठ सुकवे, नापरः श्लोकः पठनीयः ।'

  'सुवर्णकलशं प्रादाद्दिव्यमाणिक्यसम्भृतम् ।

  भोजः शुकाय सन्तुष्टो दन्तिनश्च चतुःशतम् ॥ १९६ ॥


 इति पुण्यपत्रे लिखित्वा सर्वं दत्त्वा कोशाधिकारी शुकं प्रस्थापयामास ।

 राजा स्वदेशं प्रति गतं शुकं ज्ञात्वा तुतोष । सा च परिषत्सन्तुष्टा ।

 अन्यदा वर्षाकाले वासुदेवो नाम कविः कश्चिदागत्य राजानं दृष्टवान् । राजाह-सुकवे, पर्जन्यं पठ ।' ततः कविराह-


  'नो चिन्तामणिभिर्न कल्पतरुभिर्नो कामधेन्वादिभि-

   र्नो देवैश्च परोपकारनिरतैः स्थूलैर्न सूक्ष्मैरपि ।

  अम्भोदेह निरन्तरं जलभरैस्तामुर्वरां सिञ्चतां

   धौरेयेण धुरं त्वयाद्य वहता मन्ये जगज्जीवति' ॥ १९७ ॥


राजा लक्षं ददौ ।

 कदाचिद्राजानं निरन्तरं दीयमानमालोक्य मुख्यामात्यो वक्तुमशक्तो राज्ञः शयनभवनभित्तौ व्यक्तान्यक्षराणि लिखितवान्-


  'आपदर्थं धनं रक्षेत्'


 राजा शयनादुत्थितो गच्छन्भित्तौ तान्यक्षराणि वीक्ष्य स्वयं द्वितीय- चरणं लिलेख- श्रीमतामापदः कुतः ।


 अपरेद्युरमात्यो द्वितीय चरणं लिखितं दृष्ट्वा स्वयं तृतीयं लिलेख-


  “सा चेदपगता लक्ष्मी


परेद्यू राजा चतुर्थं चरणं लिखति–'सञ्चितार्थो विनश्यति' ॥ १९८ ॥


 ततो मुख्यामात्यो राज्ञः पादयोः पतति–'देव, क्षन्तव्योऽयं ममापराधः ।


 अन्यदा धाराधीश्वरमुपरि सौधभूमौ शयानं मत्वा कश्चिद्द्विजचोरः खातपातपूर्वं राज्ञः कोशगृहं प्रविश्य बहूनि विविधरत्नानि वैडूर्यादीनि हृत्वा तानि परलोकऋणानि मत्वा तत्रैव वैराग्यमापन्नो विचारयामास-


  'यद्व्यङ्ग्याः कुष्ठिनश्चान्धाः पङ्गवश्च दरिद्रिणः ।

  पूर्वोपार्जितपापस्य फलमश्नन्ति देहिनः ॥ १९९ ॥


 ततो राजा निद्राक्षये दिव्यशयनस्थितो विविधमणिकङ्कणालङ्कृतं दयितवर्गं दर्शनीयमालोक्य गजतुरगरथपदातिसामग्रीं च चिन्तयन्राज्यसुखसन्तुष्टः प्रमोदभरादाह-


  'चेतोहरा युवतयः सुहृदोऽनुकूलाः

   सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः।

  वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः'


 इति चरणत्रयं राज्ञोक्तम् । चतुर्थचरणं राज्ञो मुखान्न निःसरति तदा चोरेण श्रुत्वा पूरितम्-


  'सम्मीलने नयनयोर्नहि किञ्चिदस्ति' ॥ २०० ॥


 ततो ग्रथितग्रन्थो राजा चोरं वीक्ष्य तस्मै वीरवलयमदात् । ततस्तस्करो वीरवलयमादाय ब्राह्मणगृहं गत्वा शयानं ब्राह्मणमुत्थाप्य तस्मै दत्त्वा प्राह–'विप्र, एतद्राज्ञः पाणिवलयं बहुमूल्यम् अल्पमूल्येन न विक्रेयम् । ततो ब्राह्मणः पण्यवीथ्यां तद्विक्रीय दिव्यभूषणानि पट्टदुकूलानि च जग्राह । ततो राजकीयाः केचनैनं चोरं मन्यमाना राज्ञो निवेदयन्ति । ततो राजनिकटे नीतः। राजा पृच्छति 'विटधार्य पटमपि नास्ति । अद्य प्रातरेव दिव्यकुण्डलाभरणपट्टदुकूलानि कुतः ?' विप्रः प्राह-


  'भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः

   पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।

  तस्मिञ्शुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं

   यत्राकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ २०१ ॥


तुष्टो राजा तस्मै वीरवलयं चोरप्रदत्तं निश्चित्य स्वयं च लक्षं ददौ ।


 अन्यदा कोऽपि कवीश्वर विष्ण्वाख्यो राजद्वारि समागत्य तैः प्रवेशितो राजानं दृष्ट्वा स्वस्तिपूर्वकं प्राह-


  'धाराधीश धरामहेन्द्रगणनाकौतूहलीयानयं

   वेधास्त्वद्गणने चकार खटिकाखण्डेन रेखां दिवि ।

  सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमीधरा-

  भावात्तु त्यजति स्म सोऽयमवनीपीठे तुषाराचलः ॥'


 राजा लोकोत्तरं श्लोकमाकर्ण्य 'किं देयम्' इति व्यचिन्तयत् । तस्मिन्क्षणे तदीयकवित्वमप्रतिद्वन्द्वमाकर्ण्य सोमनाथाख्यकवेर्मुखं विच्छायमभवत् । ततः स दौष्ट्याद्राजानं प्राह-'देव, असौ सुकविर्भवति । परमनेन न कदापि वीक्षितास्ति राजसभा । यतो दारिद्र्यवारिधिरयम् । अस्य च जीर्णमपि कौपीनं नास्ति ।' ततो राजा सोमनाथं प्राह-


  'निरवद्यानि पद्यानि यद्यनाथस्य का क्षतिः ।

  भिक्षुणा कक्षनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥ २०३ ॥


 ततः सर्वेभ्यस्ताम्बूलं दत्त्वा राजा सभाया उदतिष्ठत् । ततः सर्वैरप्यन्योन्यमित्यभ्यधायि-'अद्य विष्णुकवेः कवित्वमाकर्ण्य सोमनाथेन सम्यग्दौष्ट्यमकारि ।' ततः समुत्थिता विद्वत्परिषत् । ततो विष्णुकविरेकं पद्यं पत्रे लिखित्वा सोमनाथकविहस्ते दत्वा प्रणम्य गन्तुमारभत । 'अत्र सभायां त्वमेव चिरं नन्द । ततो वाचयति सोमनाथकविः-


  'एतेषु हा तरुणमारुतधूयमान-

   दावानलैः कवलितेषु महीरुहेषु ।

  अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च

   वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः' ॥ २०४ ॥


 ततः सोमनाथकविर्निखिलमपि पट्टदुकूलवित्तहिरण्यमयीं तुरङ्गमादिसंपत्तिं कलत्रवस्त्रावशेषं दत्तवान् । ततो राजा मृगयारसप्रवृत्तो गच्छंस्तं विष्णुकविमालोक्य व्यचिन्तयत्-'मयास्मै भोजनमपि न प्रदत्तम् । मामनादृत्यायं सम्पत्तिपूर्णः स्वदेशं प्रति यास्यति । पृच्छामि । विष्णुकवे, कुतः सम्पत्तिः प्राप्ता ।' कविराह-


  सोमनाथेन राजेन्द्र देव त्वद्गृहभिक्षुणा ।

  अद्य शोच्यतमे पूर्णं मयि कल्पद्रुमायितम्' ॥ २०५ ॥


 राज्ञा पूर्वं सभायां श्रुतस्य श्लोकस्याक्षरलक्षं ददौ । सोमनाथेन च यावद्दत्तं तावदपि सोमनाथाय दत्तवान् । सोमनाथः प्राह-


किसलयानि कुतः कुसुमानि वा क्व च फलानि तथा वनवीरुधाम् ।

अयमकारणकारुणिको यदा न तरतीह पयांसि पयोधरः ॥ २०६ ॥


 ततो विष्णुकविः सोमनाथदत्तेन राज्ञा दत्तेन च तुष्टवान् । तदा सीमन्तकविः प्राह-


  'वहति भुवनश्रेणी शेषः फणाफलकस्थितां

   कमठपतिना मध्ये पृष्ठं सदा स च धार्यते ।


  तमपि कुरुते क्रोडाधीनं पयोनिधिरादरा-

   दहह महतां निःसीमानश्चरित्रविभूतयः ॥ २०७ ॥


 कदाचित्सौधतले राजानमेत्य भृत्यः प्राह– 'देव, अखिलेष्वपि कोशेषु यद्वित्तजातमस्ति तत्सर्वं देवेन कविभ्यो दत्तम् । परन्तु कोशगृहे धनलेशोपि नास्ति । कोऽपि कविः प्रत्यहं द्वारि तिष्ठति । इतः परं कविर्विद्वान्वा कोऽपि राज्ञे न प्राप्य इति मुख्यामात्येन देवसन्निधौ विज्ञापनीयमित्युक्तम् ।' राजा कोशस्थं सर्वं दत्तमिति जानन्नपि प्राह-'अद्य द्वारस्थं कविं प्रवेशय ।' ततो विद्वानागत्य 'स्वस्ति' इति वदन्प्राह--


'नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखविसृष्टोत्तानचञ्चूपुटेन ।

जलधरजलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन' ।


 राजा तदाकर्ण्य 'धिग्जीवितं यद्विद्वांसः कवयश्च द्वारमागत्य सीदन्ति' इति तस्मै विप्राय सर्वाण्याभरणान्युत्तार्य ददौ । ततो राजा कोशाधिकारिणमाहूयाह-'भाण्डारिक, मुञ्जराजस्य तथा मे पूर्वेषां च ये कोशाः सन्ति तेषां मध्ये रत्नपूर्णाः कलशाः कुत्र ।' ततः काश्मीरदेशान्मुचुकुन्दकविरागत्य 'स्वस्ति' इत्युक्त्वा प्राह-


  'त्वद्यशोजलधौ भोज निमज्जनभयादिव ।

  सूर्येन्दुबिम्बमिषतो धत्ते कुम्भद्वयं नभः' ॥ २०९ ॥


राजा तस्मै प्रत्यक्षरं लक्षं ददौ । पुनः कविराह-


  'आसन्क्षीणानि यावन्ति चातकाश्रूणि तेऽम्बुद ।

  तावन्तोऽपि त्वयोदार न मुक्ता जलबिन्दवः' ॥ २१० ॥


ततः स राजा तस्मै शततुरगानपि ददौ । ततो भाण्डारिको लिखति-


  'मुचुकुन्दाय कवये जात्यानश्वाशतं ददौ ।

  भोजः प्रदत्तलक्षोऽपि तेनासौ याचितः पुनः' ॥ २११ ॥


ततो राजा सर्वानपि वेश्म प्रेषयित्वान्तर्गच्छति । ततो राज्ञश्चामरग्राहिणी प्राह-


 'राजन्मुञ्जकुलप्रदीप सकलक्ष्मापालचूडामणे

  युक्तं सञ्चरणं तवाद्भुतमणिच्छत्रेण रात्रावपि ।

 मा भूत्त्वद्वदनावलोकनवशाद्व्रीडाभिनम्रः शशी

  मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥ २१२ ॥


राजा तस्यै प्रत्यक्षरं लक्षं ददौ ।

 अन्यदा कुण्डिननगराद्गोपालो नाम कविरागत्य स्वस्तिपूर्वकं प्राह-


  'त्वच्चित्ते भोज निर्यातं द्वयं तृणकणायते ।

  क्रोधे विरोधिनां सैन्यं प्रसादे कनकोच्चयः ॥ २१३ ॥


 राजा श्रुत्वापि तुष्टो न दास्यति । राजपुरुषैः सह चर्चां कुर्वाणस्तिष्ठति । ततः कविर्व्यचिन्तयत्-'किमु राज्ञा नाश्रावि' । ततः क्षणेन समुन्नतमेवावलोक्य राजानं कविराह-


  'हे पाथोद यथोन्नतं हि भवता दिग्व्यावृता सर्वतो

   मन्ये धीर तथा करिष्यसि खलु क्षीराब्धितुल्यं सरः ।

  किन्त्वेष क्षमते नहि क्षणमपि ग्रीष्मोष्मणा व्याकुलः

   पाठीनादिगणस्त्वदेकशरणस्तद्वर्ष तावत्कियत् ॥ २१४ ॥


 राजा कविहृदयं विज्ञाय 'गोपालकवे' दारिद्र्याग्निना नितान्तं दग्धोऽसि ।'


 इति वदन्षोडशमणीननर्घ्यान् षोडशदन्तीन्द्रांश्च ददौ ।


 एकदा राजा धारानगरे विचरन्क्वचिच्छिवालये प्रसुम्नं पुरुषद्वयमपश्यत् । तयोरेको विगतनिद्रो वक्ति-'अहो, ममास्तरासन्न एव कस्त्वं प्रसुप्तोऽसि जागर्षि नो वा ।' ततस्त्वपर आह–'विप्र, प्रणतोऽस्मि । अहमपि ब्राह्मणपुत्रस्त्वामत्र प्रथमरात्रौ शयानं वीक्ष्य प्रदीप्ते च प्रदीपे कमण्डलूपवीतादिभिर्ब्राह्मणं ज्ञात्वा भवदास्तरासन्न एवाहं प्रसुप्तः । इदानीं त्वद्गिरमाकर्ण्य प्रबुद्धोऽस्मि ।' प्रथमः प्राह–'वत्स, यदि त्वं प्रणतोऽसि ततो दीर्घायुभव । वद कुत आगम्यते, किं नाम, अत्र च किं कार्यम् ।' द्वितीयः प्राह-'विप्र, भास्कर इति मे नाम । पश्चिमसमुद्रतीरे प्रभासतीर्थसमीपे वसतिर्मम । तत्र भोजस्य वितरणं बहुभिावर्णितम् । ततो याचितुमहमागतः। त्वं मम वृद्धत्वात्पितृकल्पोऽसि । त्वमपि सुपरिचयं वद ।' स आह–'वत्स, शाकल्य इति मे नाम । मयैकशिलानगर्या आगम्यते भोजं प्रति द्रविणाशया। वत्स, त्वयानुक्तमपि दुःखं त्वयि ज्ञायते कीदृशं तद्वद ।' ततो भास्करः प्राह-'तात, किं ब्रवीमि दुःखम् ।


  क्षुत्तामाः शिशवः शवा इव भृशं मन्दाशया बान्धवा

   लिप्ता झर्झरघर्घरी जतुलवैर्नो मां तथा बाधते ।


  गहिन्या त्रुटितांशुकं घटयितुं कृत्वा सकाकुस्मितं

   कुप्यन्ती प्रतिवेश्म लोकगृहिणी सूचिं यथा याचिता ॥ २१५ ॥


 राजा श्रुत्वा सर्वाभरणान्युत्तार्य तस्मै दत्वा प्राह-भास्कर, सीदन्त्यतीव ते बालाः। झटिति देशं याहि ।' ततः शाकल्यः प्राह-


  अत्युद्धृता वसुमती दलितोऽरिवर्गः

   क्रोडीकृता बलवता बलिराजलक्ष्मीः ।

  एकत्र जन्मनि कृतं यदनेन यूना

   जन्मत्रये तदकरोत्पुरुषः पुराणः' ।। २१६।।


 ततो राजा शाकल्याय लक्षत्रयं दत्तवान् ।


 अन्यदा राजा मृगयारसेन विचरंस्तत्र पुरः समागतहरिण्यां बाणेन विद्धायामपि वित्ताशया कोऽपि कविराह-


  'श्रीभोजे मृगयां गतेऽपि सहसा चापे समारोपिते-

   ऽप्याकर्णान्तगतेऽपि मुष्टिगलिते बाणेऽङ्गलग्नेऽपि च ।

  स्थानान्नैव पलायितं न चलितं नोत्कम्पितं नोत्प्लुतं

   मृग्या मद्वशगं करोति दयितं कामोऽयमित्याशया' ॥२१७॥


 राजा तस्मै लक्षत्रयं प्रयच्छति ।


 अन्यदा सिंहासनमलङ्कुर्वाणे श्रीभोजनृपतौ द्वारपाल आगत्याह- 'देव, जानवीतीरवासिनी काचन वृद्धब्राह्मणी विदुषी द्वारि तिष्ठति' ।


राजा-'प्रवेशय ।' तत आगच्छन्ती राजा प्रणमति । सा तं 'चिरं जीव' इत्युक्त्वाह-


'भोजप्रतापाग्निरपूर्व एष जागर्ति भूभृत्कटकस्थलीषु ।

यस्मिन्प्रविष्टे रिपुपार्थिवानां तृणानि रोहन्ति गृहाङ्गणेषु ॥ २१८ ॥


राजा तस्यै रत्नपूर्णं कलशं प्रयच्छति । ततो लिखति भाण्डारिकः-


  'भोजेन कलशो दत्तः सुवर्णमणिसम्भृतः ।

  प्रतापस्तुतितुष्टेन वृद्धायै राजसंसदि' ॥ २१९ ॥


 अन्यदा दूरदेशादागतः कश्चिचोरो राजानं प्राह-'देव, सिंहलदेशे मया काचन चामुण्डालये राजकन्या दृष्टा, मालवदेशदेवस्य महिमानं बहुधा श्रुतं त्वमपि वदेति पप्रच्छ। मया च तस्या देवगुणा व्यावर्णिताः। सा चात्यन्ततोषाच्चन्दनतरोर्निरुपमं गर्भखण्डं दत्त्वा यथास्थानं प्रपेदे । देवगुणाभिवर्णनप्राप्तं तदेतद्गृहाण । एतत्प्रमृतपरिमलभरेण भृङ्गाभुजङ्गाश्च समायान्ति ।' राजा तद्गृहीत्वा तुष्टस्तस्मै लक्षं दत्तवान् । ततो दामोदरकविस्तन्मिषेण राजानं स्तौति-


  'श्रीमच्चन्दनवृत्त सन्ति बहवस्ते शाखिनः कानने

   येषां सौरभमात्रकं निवसति प्रायेण पुष्पश्रिया ।

  प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातः प्रसिद्धात्मना

   योऽसौ गन्धगुणस्त्वया प्रकटितः कासाविह प्रेक्ष्यते ॥


 राजा स्वस्तुतिं बुद्ध्वा लक्षं ददौ ।


 ततो द्वारपाल आगत्य प्राह--'देव, काचित्सूत्रधारी स्त्री द्वारि वर्तते ।' राजा-'प्रवेशय ।' ततः सागत्य राजानं प्रणिपत्याह-


  'बलिः पातालनिलयोऽधः कृतश्चित्रमत्र किम् ।

  अधः कृतो दिविस्थोऽपि चित्रं कल्पद्रुमस्त्वया ॥ २२१ ॥


 राजा तस्यै प्रत्यक्षरं लक्षं ददौ ।


 ततः कदाचिन्मृगयापरिश्रान्तो राजा क्वचित्सहकारतरोरधस्तात्तिष्ठति स्म । तत्र मल्लिनाथाख्यः कविरागत्य प्राह-


  'शाखाशतशतवितताः सन्ति कियन्तो न कानने तरवः ।

  परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः' ॥ २२२ ॥


 ततो राजा तस्मै हस्तवलयं ददौ ।


 तत्रैवासीने राज्ञि कोऽपि विद्वानागत्य 'स्वस्ति' इत्युक्त्वा प्राह-- 'राजन् , काशीदेशमारभ्य तीर्थयात्रया परिभ्राम्यते क्षीणदेशवासिना मया ।' राजा-'भवादृशानां तीर्थवासिनां दर्शनात्कृतार्थोऽस्मि ।' स आह-वयं मान्त्रिकाश्च ।' राजा-'विप्रेषु सर्वं सम्भाव्यते ।' राजा पुनः प्राह-'विप्र, मन्त्रविद्यया यथा परलोके फलप्राप्तिः, तथा किमिहलोकेऽप्यस्ति ।' विप्रः-'राजन् , सरस्वतीचरणाराधनाद्विद्यावाप्तिर्विश्वविदिता । परं धनावाप्तिर्भाग्याधीना ।


  गुणाः खलु गुणा एव न गुणा भूतिहेतवः ।

  धनसञ्चयकतॄणि भाग्यानि पृथगेव हि ॥ २२३ ।।


 देव, विद्यागुणा एवं लोकानां प्रतिष्ठायै भवन्ति । न तु केवलं सम्पदः । देव,


  आत्मायत्ते गुणग्रामे नैर्गुण्यं वचनीयता ।

  दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ॥ २२४ ॥


 देव, मन्त्राराधनेनाप्रतिहता शक्तिः स्यात् । देव, एवं कुतूहलं यस्य । मया यस्य शिरसि करो निधीयते; स सरस्वतीप्रसादेनास्खलितविद्याप्रसारः स्यात् ।' राजा प्राह 'सुमते, महती देवताशक्तिः । ततो राजा कामपि दासीमाकार्य विप्रं प्राह-'द्विजवर, अस्या वेश्यायाः शिरसि करं निधेहि । 'विप्रस्तस्याः शिरसि करं निधाय तां प्राह-'देवि, यद्राजाज्ञापयति तद्वद । ततो दासी प्राह 'देव, अहमद्य समस्तवाङ्मयजातं हस्तामलकवत्पश्यामि । देव, आदिश किं वर्णयामि ।' ततो राजा पुरः खङ्गं वीक्ष्य प्राह-खड्गं मे व्यावर्णय' इति । दासी प्राह-


  'धाराधरस्त्वदसिरेष नरेन्द्र चित्रं

   वर्षन्ति वैरिवनिताजनलोचनानि ।

  कोशेन सन्तततमसङ्गतिराहवेऽस्य

   दारिद्र्यमभ्युदयति प्रतिपार्थिवानाम् ॥ २२५ ॥


 राजा तस्यै रत्नकलशाननर्घ्यान्पञ्च ददौ ।


ततस्तस्मिन्क्षणे कुतश्चित्पञ्च कवयः समाजग्मुः । तानवलोक्येषद्विच्छायमुखं राजानं दृष्ट्वा महेश्वरकविर्वृक्षमिषेणाह-


  'किं जातोऽसि चतुष्पथे घनतरच्छायोऽसि किं छायया

   छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः ।

  हे सद्वृक्ष सहस्व सम्प्रति चिरं शाखाशिखाकर्षण-

   क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः' ॥ २२६ ॥


 ततो राजा तस्मै लक्षं ददौ। ततस्ते द्विजवराः पृथक्पृथगाशीर्वचनमुदीर्य यथाक्रमं राजाज्ञया कम्बल उपविश्य मङ्गलं चक्रुः । तत एकः पठति-


  'कूर्मः पातालगङ्गापयसि विहरतां तत्तटीरूढमुस्ता-

   मादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः ।

  दिङ्मातङ्गा मृणालीकवलनकलनां कुर्वतां पर्वतेन्द्राः

   सर्वे स्वैरं चरन्तु त्वयि वहति विभो भोज देवीं धरित्रीम्' ॥ २२७ ॥


राजा चमत्कृतस्तस्मै शताश्वान्ददौ । ततो भाण्डारिको लिखति-

  'क्रीडोद्याने नरेन्द्रेण शतमश्वा मनोजवाः ।

  प्रदत्ताः कामदेवाय सहकारतरोरधः' ॥ २२८ ॥


 ततः कदाचिद्भोजो विचारयति स्म-मत्सदृशो वदान्यः कोऽपि नास्ति' इति । तद्गर्वं विदित्वा मुख्यामात्यो विक्रमार्कस्य पुण्यपत्रं भोजाय प्रदर्शयामास । भोजस्तत्र पत्रे किञ्चित्प्रस्तावमपश्यत् । तथाहि- विक्रमार्कः पिपासया प्राह-


  स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्तिवच्छीतलं

   पुत्रालिङ्गनवत्तथैव मधुरं तद्बाल्यसञ्जल्पवत् ।

  एलोशीरलवङ्गचन्दनलसत्कर्पूरकस्तूरिका-

   जातीपाटलिकेतकैः सुरभितं पानीयमानीयताम् ॥ २२९ ॥


ततो मागधः प्राह-


  'वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते

   बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।

  वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं

   स्वच्छे चित्ते कुतोऽभूत्कथय नरपते तेऽम्बुपानाभिलाषः' ॥ २३० ॥


ततो विक्रमार्कः प्राह । तथाहि-


  'अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः

   पञ्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः ।

  अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं

   दत्तं पाण्ड्यनृपेण यौतकमिदं वैतालिकायार्प्यताम् ॥ २३१ ॥


 ततो भोजः प्रथमत एवाद्भुतं विक्रमार्कचरित्रं दृष्ट्वा निजगर्वं तत्याज । ततः कदाचिद्धारानगरे रात्रौ विचरन्राजा कंचन देवालये शीतालुं ब्राह्मणमित्थं पठन्तमवलोक्य स्थितः-


  'शीतेनाध्युषितस्य माघजलवच्चिन्तार्णवे मज्जतः

   शान्ताग्नेः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम ।

  निद्रा काप्यवमानितेव दयिता सन्त्यज्य दूरं गता

   सत्पात्रप्रतिपादितेव कमला नो हीयते शर्वरी' ॥ २३२ ॥


 इति श्रुत्वा राजा प्रातस्तमाहूय पप्रच्छ–'विप्र, पूर्वेद्यू रात्रौ त्वया दारुणः शीतभारः कथं सोढः ।' विप्र आह-

  'रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः ।

  एवं शीतं मया नीतं जानुभानुकृशानुभिः' ॥ २३३ ॥


राजा तस्मै सुवर्णकलशत्रयं प्रादात् । ततः कवी राजानं स्तौति-


  धारयित्वा त्वयात्मानं महात्यागधनायुषा

  मोचिता बलिकर्णाद्याः स्वयशोगुप्तकर्मणः' ॥ २३४ ॥


 राजा तस्मै लक्षं ददौ ।


 एकदा क्रीडोद्यानपाल आगत्यैकमिक्षुदण्डं राज्ञः पुरो मुमोच । तं राजा करे गृहीतवान् । ततो मयूरकविर्नितान्तं परिचयवशादात्मनि राज्ञा कृतामवज्ञां मनसि निधायेक्षुमिषेणाह-


  'कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि

   किं चासि पञ्चशरकार्मुकमद्वितीयम् ।

  इक्षो तवास्ति सकलं परमेकमूनं

   यत्सेवितो भजसि नीरसतां क्रमेण' ॥ २३५ ॥


राजा कविहृदयं ज्ञात्वा मयूरं सम्मानितवान् । ततः कदाचिद्रात्रौ सौधोपरि क्रीडापरो राजा शशाङ्कमालोक्य प्राह-


  'यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते

  तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।'


ततश्चाधो भूमौ सौधान्तः प्रविष्टः कश्चिच्चोर आह-


  'अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-

  कटाक्षोल्कापातव्रणकणकलङ्काङ्किततनुम् ॥ २३६ ॥


 राजा तच्छ्रुत्वा प्राह–'अहो महाभाग, कस्त्वमर्धरात्रे कोशगृहमध्ये तिष्ठसि' इति । स आह–'देव, अभयं नो देहि' इति । राजा-'तथा' इति । ततो राजानं स चोरः प्रणम्य स्ववृत्तान्तमकथयत् । तुष्टो राजा चोराय दश कोटीः सुवर्णस्योन्मत्तान्गजेद्रांश्च ददौ । ततः कोशाधिकारी धर्मपत्रे लिखति-


  तदस्मै चोराय प्रतिनिहतमृत्युप्रतिभिये

   प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।


  सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरी-

   न्गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ॥ २३७ ॥


 ततः कदाचिद्वारपाल आगत्य प्राह--'देव, कौपीनावशेषो विद्वान्द्वारि वर्तते' इति । राजा-'प्रवेशय' इति । ततः प्रविष्टः स कविर्भोजमालोक्याद्य मे दारिद्र्यनाशो भविष्यतीति मत्वा तुष्टो हर्षाश्रूणि मुमोच । राजा तमालोक्य प्राह-'कवे, किं रोदिषि' इति । ततः कविराह-'राजन्, आकर्णय मद्गृहस्थितिम् ।


  अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी

   शिशोः कर्णौ यत्नात्सुपिहितवती दीनवदना ।

  मयि क्षीणोपाये यदकृत दृशावश्रुबहुले

   तदन्तः शल्यं मे त्वमसि पुनरुद्धर्तुमुचितः ॥ २३८ ॥


 राजा 'शिव शिव कृष्ण कृष्ण' इत्युदीरयन्प्रत्यक्षरलक्षं दत्वा प्राह- 'सुकवे त्वरितं गच्छ गेहम् । त्वद्गृहिणी खिन्नाभूत्' इति ।


 ततः कदाचिन्मृगयापरिश्रान्तो राजा कस्यचिन्महावृक्षस्य छायामाश्रित्य तिष्ठति स्म । तत्र शाम्भवदेवो नाम कविः कश्चिदागत्य राजानं वृक्षमिषेणाह-


  आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः

   पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।

  स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत-

   स्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ॥ २३६ ॥


किंच-


  अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् |

  अनधिगतपरिमलापि च हरति दृशं मालतीमाला ॥ २४० ॥


 ताभ्यां श्लोकाभ्यां चमत्कृतो राजा प्रत्यक्षरं लक्षं ददौ ।


 अन्यदा श्रीभोजः श्रीमहेश्वरं नन्तुं शिवालयमभ्यगात् । तदा कोऽपि ब्राह्मणो राजानं शिवसन्निधौ प्राह–'देव,


  अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं

   देवेत्थं जगतीतले पुरहराभावे समुन्मीलति ।

  गङ्गासागरमम्बरं शशिकला नागाधिपः क्ष्मातलं

   सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां तु भिक्षाटनम् ॥ २४१ ॥


 राजाक्षरलक्षं ददौ ।

 ततः कदाचिद्द्वारपाल आगत्य प्राह-'देव, कोऽपि विद्वान्द्वारि तिष्ठति' इति । राजा-प्रवेशय' इति । ततः प्रविष्टो विद्वान्पठति-


  "क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी ।

  ईर्ष्ययेव त्यजत्याशु तं नरेन्द्र दरिद्रता ॥ २४२ ॥


 राजा लक्षं ददौ । पुनरपि पठति कविः-


 केचिन्मूलाकुलाशाः कतिचिदपि पुनः स्कन्धसम्बन्धभाज-

  श्छायां केचित्प्रपन्नाः प्रपदमपि परे पल्लवानुन्नयन्ति ।

 अन्ये पुष्पाणि पाणौ दधति तदपरे गन्धमात्रस्य पात्रं

  वाग्वल्ल्याः किं तु मूढाः फलमहह नहि द्रष्टुमप्युत्सहन्ते ॥ २४३ ॥


एतदाकर्ण्य बाणः प्राह-


 परिच्छन्नस्वादोऽमृतगुडमधुक्षौद्रपयसां

  कदाचिच्चाभ्यासाद्भजति ननु वैरस्यमधिकम् ।

 प्रियाबिम्बोष्ठे वा रुचिरकविवाक्येऽप्यनवधि-

  र्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥ २४४ ॥


 ततो राजा लक्षं दत्तवान् ।


 ततः कदाचित्सिंहासनमलङ्कुर्वाणे श्रीभोजे द्वारपाल आगत्य प्राह- 'देव, वाराणसीदेशादागतः कोऽपि भवभूतिर्नामकविर्द्वारि तिष्ठति' इति | राजा प्राह-प्रवेशय' इति । ततः प्रविष्टः सोऽपि सभामगात् । ततः सभ्याः सर्वे तदागमनेन तुष्टा अभवन् । राजा च भवभूतिं प्रेक्ष्य प्रणमति स्म । स च 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः । भवभूतिः प्राह-'देव,


 नानीयन्ते मधुनि मधुपाः पारिजातप्रसूनै-

  -र्नाभ्यर्थ्यन्ते तुहिनरुचिनश्चन्द्रिकायां चकोराः ।

 अस्मद्वाङ्मामाधुरिमधुरमापद्यपूर्वावताराः

  सोल्लासाः स्युः स्वयमिह बुधाः किं मुधाभ्यर्थनाभिः ॥ २४५ ॥

 नास्माकं शिबिका न कापि कटकाद्यालङ्क्रियासक्रिया

  नोत्तुङ्गस्तुरगो न कश्चिदनुगो नैवाम्बरं सुन्दरम् ।

 किन्तु क्ष्मातलवर्त्यशेषविदुषां साहित्यविद्याजुषां


  चेतस्तोषकरी शिरोनतिकरी विद्यानवद्यास्ति नः ॥ २४६ ॥


 इत्याकर्ण्य बाणपण्डितपुत्रः प्राह-'आः पाप, धाराधीशसभायामहङ्कारं मा कृथाः।


  निश्वासोऽपि न निर्याति बाणे हृदयवर्त्मनि ।

  किं पुनः प्रकटाटोपपदबद्धा सरस्वती ॥ २४७ ॥


 ततो भवभूतिः पराभवमसहमानः प्राह-


  हठादाकृष्टानां कतिपयपदानां रचयिता

   जनः स्पर्धालुश्चेदहह कविना वश्यवचसा ।

  भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ

   घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ २४८ ॥


 पुनराह-


  'कालिदासकवेर्वाणी कदाचिन्मद्गिरा सह ।

  कलयत्यद्य साम्यं चेद्भीता भीता पदे पदे' ॥ २४९ ॥


 ततः कालिदासः प्राह-'सखे भवभूते, महाकविरसि । अत्र किमु वक्तव्यम् ।


  एषा धारेन्द्रपरिषन्महापण्डितमण्डिता ।

  आवयोरन्तरं वेत्ति राजा वा शिवसन्निभः ॥ २५० ॥


तच्छ्रुत्वा राजा प्राह-'युवाभ्यां रत्यन्तो वर्णनीयः' इति । भवभूतिः-


  'मुक्ताभूषणमिन्दुबिम्बमजनि व्याकीर्णतारं नभः

  स्मारं चापमपेतचापलमभूदिन्दीवरे मुद्रिते ।

  व्यालीनं कलकण्ठमन्दरणितं मन्दानिलैर्मन्दितं

  निष्पन्दस्तबका च चम्पकलता साभून्न जाने ततः' ॥ २५१ ॥


 ततः कालिदासः प्राह-


  'खिन्नं मण्डलमैन्दवं विलुलितं स्रग्भारनद्धं तमः

  प्रागेव प्रथमानकैतकशिखालीलायितं सुस्मितम् ।

  शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरोमीलितं

  वीतं विद्रुमसीत्कृतं नहि ततो जाने किमासीदिति ॥ २५२ ॥


 राजा कालिदासं प्राह-'सुकवे, भवभूतिना सह साम्यं तव न वक्तव्यम् ।' भवभूतिराह-'देव, किमिति वोरयसि ।' राजा-'सर्वप्रकारेण कविरसि ।' ततो बाणः प्राह-'राजन् , भवभूतिः कविश्चेत्का लिदासः किं वक्तव्यः । राजा-'बाणकवे, कालिदासः कविर्न । किन्तु पार्वत्याः कश्चिदवनौ पुरुषावतार एव ।' ततो भवभूतिराह-'देव, किमत्र प्राशस्त्यं भाति ।' राजा प्राह-'भवभूते, किमु वक्तव्यं प्राशस्त्यं कालिदासश्लोके । यतः 'कैतकशिखालीलायितं सुस्मितम्' इति पठितम् ।' ततो भवभूतिराह–'देव, पक्षपातेन वदसि' इति । ततः कालिदासः प्राह-'देव अपख्यातिर्मा भूत् । भुवनेश्वरीदेवतालयं गत्वा तत्सन्निधौ तां पुरस्कृत्य घटे संशोधनीयं त्वया ।' ततो भोजः सर्वकविवृन्दपरिवृतः सन्भुवनेश्वरीदेवालयं प्राप्य तत्र तत्सन्निधौ भवभूतिहस्ते घटं दत्त्वा श्लोकद्वयं च तुल्यपत्रद्वये लिखित्वा तुलायां मुमोच । ततो भवभूतिभागे लघुत्वोद्भूतामीषदुन्नतिं ज्ञात्वा देवी भक्तपराधीना सदसि तत्परिभवो मा भूदिति स्वावतंसकह्नारमकरन्दं वामकरनखाग्रेण गृहीत्वा भवभूतिपत्रे चिक्षेप । ततः कालिदासः प्राह-


  'अहो मे सौभाग्यं मम च भवभूतेश्च भणितं

   घटायामारोप्य प्रतिफलति तस्यां लघिमनि ।

  गिरां देवी सद्यः श्रुतिकलितकह्लारकलिका-

   मधूलीमाधुर्यं क्षिपति परिपूत्यै भगवती' ॥ २५३ ॥


 ततः कालिदासपादयोः पतति भवभूतिः। राजानं च विशेषज्ञं मनुते स्म । ततो राजा भवभूतिकवये शतं मत्तगजान्ददौ ।


 अन्यदा राजा धारानगरे रात्रावेकाकी विचरन्काञ्चनस्वैरिणीं सङ्केतं गच्छतीं दृष्ट्वा पप्रच्छ- -'देवि, का त्वम् । एकाकिनी मध्यरात्रौ क्व गच्छसि' इति । ततश्चतुरा स्वैरिणी सा तं रात्रौ विचरन्तं श्रीभोजं निश्चित्य प्राह


  'त्वत्तोऽपि विषमो राजन्विषमेषुः क्षमापते ।

  शासनं यस्य रुद्राद्या दासवन्मूर्ध्नि कुर्वते ॥ २५४ ॥


 ततस्तुष्टो राजा दोर्दण्डादादायाङ्गदं वलयं च तस्यै दत्तवान् । सा च यथास्थानं प्राप ।  ततो वर्त्मनि गच्छन्क्वचिद्गृह एकाकिनीं रुदतीं नारी दृष्ट्वा 'किमर्थमर्धरात्रौ रोदिति । किं दुःखमेतस्याः ।' इति विचारयितुमेकमङ्गरक्षकं प्राहिणोत् । ततोऽङ्गरक्षकः पुनरागत्य प्राह-'देव, मया पृष्टा यदाह तच्छृणु-


  वृद्धो मत्पतिरेष मञ्चकगतः स्थूणावशेषं गृहं

  कालोऽयं जलदागमः कुशलिनी वत्सस्य वार्तापि नो ।

  यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला

  दृष्ट्वा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति ॥ २५५ ।।


 ततः कृपावारिधिः क्षोणीपालस्तस्यै लक्षं ददौ ।

अन्यदा कोङ्कणदेशवासी विप्रो राज्ञे 'स्वस्ति' इत्युक्त्वा प्राह-


  शुक्तिद्वयपुटे भोज यशोऽब्धौ तव रोदसी ।

  मन्ये तदुद्भवं मुक्ताफलं शीतांशुमण्डलम् ॥ २५६ ॥


 राजा तस्मै लक्षं ददौ ।

 अन्यदा काश्मीरदेशात्कोऽपि कौपीनावशेषो राजनिकटस्थकवीन्कनकमाणिक्यपट्टदुकूलालङ्कृतानवलोक्य राजानं प्राह-


  नो पाणी वरकङ्कणक्वणयतो नो कर्णयोः कुण्डले

  क्षुभ्यत्तीरधिदुग्धमुग्धमहसी नो वाससी भूषणम् ।

  दन्तस्तम्भविकासिका न शिबिका नाश्वोऽपि विश्वोन्नतो

  राजन्राजसभासुभाषितकलाकौशल्यमेवास्ति नः ॥ २५७ ॥


 ततस्तस्मै राजा लक्षं ददौ ।

अन्यदा राजा रात्रौ चन्द्रमण्डलं दृष्ट्वा तदन्तस्थकलङ्कं वर्णयति स्म-


  'अङ्क केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे

  सारङ्गं कतिचिञ्च सञ्जगदिरे भूच्छायमैच्छन्परे ।'


 इति राजा पूर्वार्धं लिखित्वा कालिदासहस्ते ददौ । ततः स तस्मिन्नेव क्षण उत्तराध लिखति कविः-


  'इन्दौ यदलितेन्द्रनीलशकलश्यामं दरीदृश्यते

  तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥ २५८ ॥


 राजा प्रत्यक्षरलक्षमुत्तरार्धस्य दत्तवान् । ततो राजा कालिदासकवितापद्धतिं वीक्ष्य चमत्कृतः पुनराह-'सखे, अकलङ्कं चन्द्रमसं व्यावर्णय इति । ततः कविः पठति-


  'लक्ष्मीक्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां

  पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् ।

  पिण्डीभूतं हरस्य स्मितममरधुनीपुण्डरीकं मृगाङ्को

  ज्योत्स्नापीयूषवापी नयति सितवृषस्तारकागोलकस्य ॥ २५९ ॥


 राजा पुनः प्रत्यक्षरलक्षं ददौ ।


एकदा कश्चिद्दूरदेशादागतो वीणाकविराह-


  'तर्कव्याकरणाध्वनीनधिषणो नाहं न साहित्यवि-

  न्नो जानामि विचित्रवाक्यरचनाचातुर्यमत्यद्भुतम् ।

  देवी कापि विरञ्चिवल्लभसुता पाणिस्थवीणाकल-

  क्वाणाभिन्नरवं तथापि किमपि ब्रूते मुखस्था मम' ॥ २६० ॥


 राजा तस्मै लक्षं ददौ । बाणस्तस्य सुललितप्रबन्धं श्रुत्वा प्राह-'देव,


  मातङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमां

  व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी ।

  कस्तूरीघनसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययो-

  र्योगः कर्णरसायनं सुकृतिनः कस्यापि सम्पद्यते ॥ २६१ ॥


 अन्यदा राजा सीतां प्रातः प्राह-'देवि, प्रभातं व्यावर्णय' इति । सीता प्राह-


  'विरलविरलाः स्थूलास्ताराः कलाविव सज्जना

  मन इव मुनेः सर्वत्रैव प्रसन्नमभून्नभः ।

  अपसरति च ध्वान्तं चित्तात्सतामिव दुर्जनो

  व्रजति च निशा क्षिप्रं लक्ष्मीरनुद्यमिनामिव' ॥ २६२ ॥


 राजा लक्षं दत्त्वा कालिदासं प्राह-सखे सुकवे, त्वमपि प्रभातं व्यावर्णय' इति । कालिदासः-


  'अभूत्प्राची पिङ्गा रसपतिरिवापश्य कनकं

   गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।

  क्षणाक्षीणास्तारा नृपतय इवानुद्यमपरा

   न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ २६३ ॥


 राजा तस्मै प्रत्यक्षरं लक्षं ददौ ।

 अन्यदा द्वारपाल आगत्य प्राह-'देव, कापि मालाकारपत्नी द्वारि तिष्ठति' इति । राजाह- प्रवेशय' इति । ततः प्रवेशिता सा च नमस्कृत्य पठति-


  'समुन्नतघनस्तनस्तबकचुम्बितुम्बीफल-

   क्वणन्मधुरवीणया विबुधलोकलोलभ्रुवा ।

  त्वदीयमुपगीयते हरकिरीटकोटिस्फुर-

   त्तुषारकरकन्दलीकिरणपूरगौरं यशः' ॥ २६४ ॥


 राजा 'अहो महती पदपद्धतिः' इति तस्याः प्रत्यक्षरं लक्षं ददौ ।


 अन्यदा रात्रौ राजा धारानगरे विचरन्कस्यचिद्गृहे कामपि कामिनीमुलूखलपरायणां ददर्श । राजा तां तरुणीं पूर्णचन्द्राननां सुकुमाराङ्गी विलोक्य तत्करस्थं मुसलं प्राह–'हे मुसल, एतस्याः करपल्लवस्पर्शेनापि त्वयि किसलयं नासीत् । तर्हि सर्वथा काष्ठमेव त्वम्' इति । ततो राजा एकं चरणं पठति स्म-


  'मुसल किसलयं ते तत्क्षणाद्यन्न जातम् ।'


ततो राजा प्रातः सभायां समागतं कालिदासं वीक्ष्य 'मुसल किसलयं ते तत्क्षणाद्यन्न जातम्' इति पठित्वा 'सुकवे, त्वं चरणत्रयं पठ' इत्युवाच । ततः कालिदासः प्राह-


  'जगति विदितमेतत्काष्ठमेवासि नूनं

   तदपि च किल सत्यं कानने वर्धितोऽसि ।

  नवकुवलयनेत्रीपाणिसङ्गोत्सवेऽस्मि-

   न्मुसल किसलयं ते तत्क्षणाद्यन्न जातम् ॥ २६५ ॥


 ततो राजा चरणत्रयस्य प्रत्यक्षरं लक्षं ददौ ।


 अन्यदा राजा दीर्घकालं जलकेलिं विधाय परिश्रान्तस्तत्तीरस्थवटविटपिच्छायायां निषण्णः । तत्र कश्चित्कविरागत्य प्राह--


  'छन्नं सैन्यरजोभरेण भवतः श्रीभोजदेव क्षमा-

   रक्षादक्षिण दक्षिणक्षितिपतिः प्रेक्ष्यान्तरिक्ष क्षणात् ।

  निःशङ्को निरपत्रपो निरनुगो निर्बान्धवो निःसुहृन्-


   निस्त्रीको निरपत्यको निरनुजो निर्हाटको निर्गतः ॥ २६६ ॥


किञ्च-


  अकाण्डधृतमानसव्यवसितोत्सवैः सारसै-

   रकाण्डपटुताण्डवैरपि शिखण्डिनां मण्डलैः ।

  दिशः समवलोकिताः सरसनिर्भरप्रोल्लस-

   द्भवत्पृथुवरूथिनीरजनिभूरजः श्यामलाः ॥ २६७ ॥


 ततो राजा लक्षद्वयं ददौ । तदानीमेव तस्य शाखायामेकं काकं रटन्तं प्रेक्ष्य कोकिलं चान्यशाखायां कूजन्तं वीक्ष्य देवजयनामा कविराह-


  'नो चारू चरणौ न चापि चतुरा चञ्चूर्न वाच्यं वचो

   नो लीलाचतुरा गतिर्न च शुचिः पक्षग्रहोऽयं तव ।

  क्रूरक्रेङ्कृतिनिर्भरां गिरमिह स्थाने वृथैवोद्गिर-

   न्मूर्ख ध्वाङ्क्ष न लज्जसेऽप्यसदृशं पाण्डित्यमुन्नाटयन् ॥ २६८ ॥


 तत एनां देवजयकविना काकमिषेण विरचितां स्वगर्हणां मन्यमानस्तत्स्पर्धालुहरिशर्मा नाम कविः कोपेनेर्ष्यापूर्वं प्राह-


  'तुल्यवर्णच्छदः कृष्णः कोकिलैः सह सङ्गतः ।

  केन व्याख्यायते काकः स्वयं यदि न भाषते ॥ २६९ ॥


 ततो राजा तयोर्हरिशर्मदेवजययोरन्योन्यवैरं ज्ञात्वा मिथ आलिङ्गनादिवस्त्रालङ्कारादिदानेन च मित्रत्वं व्यधात् ।

 अन्यदा राजा यानमारुह्य गच्छन्वर्त्मनि कश्चित्तपोनिधिं दृष्ट्वा तं प्राह- 'भवादृशानां दर्शनं भाग्यायत्तम् । भवतां क्व स्थितिः। भोजनार्थं के वा प्रार्थ्यन्ते' इति । ततः स राजवचनमाकर्ण्य तपोनिधिराह-


  'फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां

   पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।

  मृदुस्पर्शा शय्या सुललितलतापल्लवमयी

   सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २७० ॥


 राजन् , वयं कमपि नाभ्यर्थयामः, न गृह्णीमश्च' इति । राजा तुष्टो नमति ।


 तत उत्तरदेशादागत्य कश्चिद्राजानं 'स्वस्ति' इत्याह । तं च राजा पृच्छति-'विद्वन् , कुत्र ते स्थितिः' इति । विद्वानाह

  'यत्राम्बु निन्दत्यमृतमन्त्यजाश्च सुरेश्वरान् ।

  चिन्तामणिं च पाषाणास्तत्र नो वसतिः प्रभो' ॥ २७१ ॥


 तदा राजा लक्षं दत्वा प्राह–'काशीदेशे का विशेषवार्ता' इति । स आह–'देव, इदानीं काचिदद्भुतवार्ता तत्र लोकमुखेन श्रुता- देवा दुःखेन दीनाः' इति । राजा-'देवानां कुतो दुःखं विद्वन् ।' स चाह-


  'निवासः काद्य नो दत्तो भोजेन कनकाचलः ।

  इति व्यग्रधियो देवा भोज वार्तेति नूतना' ॥ २७२ ॥


 ततो राजा कुतूहलोक्त्या तुष्टः संस्तस्मै पुनर्लक्षं ददौ ।


 ततो द्वारपालः प्राह- देव, श्रीशैलादागतः कश्चिद्विद्वान्ब्रह्मचर्यनिष्ठो द्वारि वर्तते' इति । राजा-'प्रवेशय' इत्याह । तत आगत्य ब्रह्मचारी 'चिरं जीव' इति वदति । राजा तं पृच्छति-'ब्रह्मन् , बाल्य एव कलिकालाननुरूपं किं नामव्रतं ते । अन्वहमुपवासेन कृशोऽसि ।कस्यचिद्ब्राह्मणस्य कन्यां तुभ्यं दापयिष्यामि, त्वं चेद्गृहस्थधर्ममङ्गीकरिष्यसि' इति । ब्रह्मचारी प्राह–'देव, त्वमीश्वरः । त्वया किमसाध्यम् ।


  सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गहिनी

  वृत्तिर्वन्यलताफलैर्निवसनं श्रेष्ठं तरूणां त्वचः ।

  तद्ध्यानामृतपूरमग्नमनसां येषामियं निर्वृति-

  स्तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा' ॥ २७३ ॥


 राजोत्थाय पादयोः पतति । आह च-'ब्रह्मन् , मया किं कर्तव्यम्' इति । स आह–'देव, वयं काशीं जिगमिषवः । तत एवं विधेहि । ये त्वत्सदने पण्डितवरास्तान्सर्वानपि सपत्नीकान्काशीं प्रति प्रेषय । ततोऽहं गोष्ठीतृप्तः काशीं गमिष्यामि' इति । राजा तथा चक्रे | ततः सर्वे पण्डितवरास्तदाज्ञया प्रस्थिताः । कालिदास एको न गच्छति स्म । तदा राजा कालिदासं प्राह-सुकवे, त्वं कुतो न गतोऽसि' इति । ततः कालिदासो राजानं प्राह-'देव, सर्वज्ञोऽसि |


  ते यान्ति तीर्थेषु बुधा ये शम्भोर्दूरवर्तिनः ।

  यस्य गौरीश्वरश्चित्ते तीर्थं भोज पर हि सः' ॥ २७४ ॥


 ततो विद्वत्सु काशीं गतेषु राजा कदाचित्सभायां कालिदासं पृच्छति-'कालिदास, अद्य किमपि श्रुतं किं त्वया' इति । स आह


  मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले

  कैलासस्य शिलातलेषु मलयप्राग्भारभागेष्वपि ।

  सह्याद्रावपि तेषु तेषु बहुशो भोज श्रुतं ते मया

  लोकालोकविचारचारणगणैरुद्गीयमानं यशः' ॥ २७५ ॥


 ततश्चमत्कृतो राजा प्रत्यक्षरं लक्षं ददौ ।


 ततः कदाचिद्राजा विद्वद्वृन्दं निर्गतं कालिदासं चानवरतवेश्यालम्पटं ज्ञात्वा व्यचिन्तयत्-'अहह, बाणमयूरप्रभृतयो मदीयामाज्ञां व्यदधुः । अयं च वेश्यालम्पटतया ममाज्ञां नाद्रियते । किं कुर्मः' इति । ततो राजा सावज्ञं कालिदासमपश्यत् । तत आत्मनि राज्ञोऽवज्ञां ज्ञात्वा कालिदासो बल्लालदेशं गत्वा तद्देशाधिनाथं प्राप्य प्राह-'देव, मालवेन्द्रस्य भोजस्यावज्ञया त्वद्देशं प्राप्तोऽहं कालिदासनामा कविः' इति । ततो राजा तमासन उपवेश्य प्राह-'सुकवे, भोजसभाया इहागतैः पण्डितैः समुदितः शतशस्ते महिमा । सुकवे, त्वां सरस्वती वदन्ति । ततः किमपि पठ' इति । ततः कालिदास आह-


  'बल्लालक्षोणिपाल त्वदहितनगरे सञ्चरन्ती किराती

  कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी ।

  क्षिप्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती

  श्वासामोदानुयातैर्मधुकरनिकरैघूमशङ्कां बिभर्ति ॥ २७६ ॥


 ततस्तस्मै प्रत्यक्षरं लक्ष ददौ ।


 ततः कदाचिद्वल्लालराजा कालिदासं पप्रच्छ-'सुकवे, एकशिलानगरीं व्यावर्णय' इति । ततः कविराह-


  'अपाङ्गपातैरपदेशपूर्वैरेणीदृशामेकशिलानगर्याम् ।

  वीथीषु वीथीषु विनापराधं पदे पदे शृङ्खलिता युवानः' ॥ २७७ ॥


 पुनश्च प्रत्यक्षरलक्षं ददौ । पुनश्च पठति कविः-


 'अम्भोजपत्रायतलोचनानामम्भोधिदीर्घान्विह दीर्घिकासु ।

 समागतानां कुटिलैरपाङ्गैरनङ्गबाणैः प्रहता युवानः' ॥२७८ ॥


 पुनश्च बल्लालनृपः प्रत्यक्षरं लक्षं ददौ । एवं तत्रैव स्थितः कालिदासः ।


 अत्रान्तरे धारानगर्यां भोजं प्राप्य द्वारपालः प्राह- -'देव, गुर्जरदेशान्माघनामा पण्डितवर आगत्य नगराद्बहिरास्ते; तेन च स्वपत्नी राजद्वारि प्रेषिता । 'राजा-तां प्रवेशय' इत्याह । ततो माघपत्नी प्रवेशिता । सा राजहस्ते पत्रं प्रायच्छत् । राजा तदादाय वाचयति--


  "कुमुदवनमपश्रि श्रीमदम्भोजषण्डं

   त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।

  उदयमहिमरश्मिर्याति शीतांशुरस्तं

   हतविधिनिहतानां ही विचित्रो विपाकः ॥२७९।।


 इति । राजा तदद्भुतं प्रभातवर्णनमाकर्ण्य लक्षत्रयं दत्वा माघपत्नीमाह- मातः, इदं भोजनाय दीयते । प्रातरहं माघपण्डितमागत्य नमस्कृत्य पूर्णमनोरथं करिष्यामि इति । ततः सा तदादाय गच्छन्ती याचकानां मुखात्स्वभर्तुः शारदचन्द्रकिरणगौरान्गुणाञ्श्रुत्वा तेभ्य एव धनमखिलं भोजदत्तं दत्तवती । माघपण्डितं स्वभर्तारमासाद्य प्राह-'नाथ, राज्ञा भोजेनाहं बहुमानिता । धनं सर्वं याचकेभ्यस्त्वद्गुणानाकर्ण्य दत्तवती।' माघः प्राह-'देवि, साधु कृतम् । परमेते याचकाः समायान्ति किल । तेभ्यः किं देयम्' इति । ततो माघपण्डितं वस्त्रावशेषं ज्ञात्वा कोऽप्यर्थी प्राह-


  'आश्वास्य पर्वतकुलं तपनोष्णतप्त-

   मुद्दामदावविधुराणि च काननानि ।

  नानानदीनदशतानि च पूरयित्वा

   रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥ २८०॥


इत्येतदाकार्ण्य माघः स्वपत्नीमाह-'देवि,


  अर्था न सन्ति न च मुञ्चति मां दुराशा

   त्यागे रतिं वहति दुर्ललितं मनो मे ।

  याच्या च लाघवकरी स्ववधे च पापं

   प्राणाः स्वयं व्रजत किं परिदेवनेन ॥ २८१ ॥

  दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा ।

   याचकाशाविघातान्तर्दाहः केनोपशाम्यति ॥ २८२ ॥


 इति । ततस्तदा माघपण्डितस्य तामवस्थां विलोक्य सर्वे याचका यथास्थानं जग्मुः । एवं तेषु याचकेषु यथायथं गच्छत्सु माघः प्राह-


  'व्रजत व्रजत प्राणा अर्थिभिर्व्यर्थतां गतैः ।


 पश्चादपि च गन्तव्यं क्व सोऽर्थः पुनरीदृशः ॥ २८३ ॥

 इति विलपन्माघपण्डितः परलोकमगात् । ततो माघपत्नी स्वामिनि परलोकं गते सति प्राह-


  'सेवन्ते स्स गृहं यस्य दासवद्भूभुजः सदा ।

  स स्वभार्यासहायोऽयं म्रियते माघपण्डितः ॥ २८४ ॥


 ततो राजा माघं विपन्नं ज्ञात्वा निजनगराद्विप्रशतावृतो मौनी रात्रावेव तत्रागात् । ततो माघपत्नी राजानं वीक्ष्य प्राह- राजन् , यतः पण्डितवरस्त्वद्देशं प्रातः परलोकमगात् , ततोऽस्य कृत्यशेषं सम्यगाराधनीयं भवता' इति । ततो राजा माघं विपन्नं नर्मदातीरं नीत्वा यथोक्तेन विधिना संस्कारमकरोत् । तत्र च माघपत्नी वह्नौ प्रविष्टा । तयोश्च पुत्रवत्सर्वं चक्रे भोजः । ततो माघे दिवं गते राजा शोकाकुलो विशेषेण कालिदासवियोगेन च पण्डितानां प्रवासेन कृशोऽभूद्दिने दिने बहुलपक्षशशीव । ततोऽमात्यैर्मिलित्वा चिन्तितम्-'बल्लालदेशे कालिदासो वसति । तस्मिन्नागते राजा सुखीभविष्यति' इति । एवं विचार्यामात्यैः पत्रे किमपि लिखित्वा तत्पत्रं चैकस्यामात्यस्य हस्ते दत्वा प्रेषितम् । स कालक्रमेण कालिदासमासाद्य 'राज्ञोऽमात्यैःप्रेषितोऽस्मि' इति नत्वा तत्पत्रं दत्तवान् । ततस्तत्कालिदासो वाचयति-


  न भवति स भवति न चिरं भवति चिरं चेत्फले विसंवादी ।

  कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ २८५ ॥

  सहकारे चिरं स्थित्वा सलीलं बालकोकिल ।

  तं हित्वाद्यान्यवृक्षेषु विचरन्न विलज्जसे ॥ २८६ ॥

  कलकण्ठं यथा शोभा सहकारे भवद्गिरः ।

  खदिरे वा पलाशे वा किं तथा स्याद्विचारय ॥ २८७ ॥


 इति । ततः कालिदासः प्रभाते तं भूपालमापृच्छ्य मालवदेशमागत्य राज्ञः क्रीडोद्याने तस्थौ । ततो राजा च तत्रागतं ज्ञात्वा स्वयं गत्वा महता परिवारेण तमानीय सम्मानितवान् । ततः क्रमेण विद्वन्मण्डले च समायाते सा भोजपरिषत्प्रागिव रेजे ।


 ततः सिंहासनमलङ्कुर्वाणं भोजं द्वारपाल आगत्य प्रणम्याह-'देव, कोऽपि विद्वाञ्जालन्धरदेशादागत्य द्वार्यास्ते' इति । राजा-'प्रवेशय' इत्याह । स च विद्वानागत्य सभायां तथाविधं राजानं जगन्मान्यान्कालिदासादीन्कविपुङ्गवान्वीक्ष्य बद्धजिह्व इवाजायत । सभायां किमपि तस्य मुखान्न निःसरति । तदा राज्ञोक्तम्-'विद्वन् , किमपि पठ' इति स आह-


  आरनालगलदाहशङ्कया मन्मुखादपगता सरस्वती ।

  तेन वैरिकमलाकचग्रहव्यग्रहस्त न कवित्वमस्ति मे ॥ २८८ ॥


 राजा तस्मै महिषीशतं ददौ ।  अन्यदा राजा कौतुकाकुलः सीतां प्राह–'देवि, सुरतं पठ' इति । सीता प्राह-


  सुरताय नमस्तस्मै जगदानन्दहेतवे ।

  आनुषङ्गि फलं यस्य भोजराज भवादृशाम् ॥ २८९ ॥


 ततस्तुष्टो राजा तस्यै हारं ददौ ।


 ततो राजा चामरग्राहिणीं वेश्यामवलोक्य कालिदासं प्राह-'सुकवे, वेश्यामेनां वर्णय' इति । तामवलोक्य कालिदासः प्राह-


  'कचभारात्कुचभारः कुचभाराद्भीतिमेति कचभारः ।

  कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ॥ २९० ॥


भोजस्तुष्टः सन्स्वयमपि पठति-


  'वदनात्पदयुगलीयं वचनादधरश्च दन्तपङ्क्तिश्च ।

  कचतः कुचयुतलीयं लोचनयुगलं न मध्यतस्त्रसति' ॥ २९१ ॥


 अन्यदा भोजो राजा धारानगर एकाकी विचरन्कस्यचिद्विप्रवरस्य गृहं गत्वा तत्र काञ्चन पतिव्रतां स्वाङ्के शयानं भर्तारमुद्वहन्तीमपश्यत् । ततस्तस्याः शिशुः सुप्तोत्थितो ज्वालायाः समीपमगच्छत् । इयं च पतिधर्मपरायणा स्वपतिं नोत्थापयामास । ततः शिशुं च वह्नौ पतन्तं नागृह्णात् । राजा चाश्चर्यमालोक्यातिष्ठत् । ततः सा पतिधर्मपरायणा वैश्वानरमप्रार्थयत्-'यज्ञेश्वर ! त्वं सर्वकर्मसाक्षी सर्वधर्माञ्जानासि । मां पतिधर्मपराधीनां शिशुमगृह्णन्तीं च जानासि । ततो मदीयशिशुमनुगृह्य त्वं मा दह' इति । ततः शिशुर्यज्ञेश्वरं प्रविश्य तं च हस्तेन गृहीत्वार्धघटिकापर्यन्तं तत्रैवातिष्ठत् । ततो नारोदीत्प्रसन्नमुखश्च शिशुः, सा च ध्यानारूढातिष्ठत् । ततो यदृच्छया समुत्थिते भर्तरि सा झटिति शिशुं जग्राह । तं च परं धर्ममालोक्य विस्मयाविष्टो नृपतिराह-'अहो, मम समं भाग्यं कस्यास्ति, यदीदृश्यः पुण्यस्त्रियोऽपि मन्नगरे वसन्ति' इति । ततः प्रातः सभायामागत्य सिंहासन उपविष्टो राजा कालिदासं प्राह- 'सुकवे, महदाश्चर्यं मया पूर्वेद्यू रात्रौ दृष्टमस्ति' इत्युक्त्वा राजा पठति- 'हुताशनश्चन्दनपङ्कशीतलः' । कालिदासस्ततश्चरणत्रयं झटिति पठति-


 'सुतं पतन्तं प्रसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता ।

 तदाभवत्तत्पतिभक्तिगौरवाद्धुताशनश्चन्दनपङ्कशीतलः' ॥ २९२ ॥


 राजा च स्वाभिप्रायमालोक्य विस्मितस्तमालिङ्गय पादयोः पतति स्म ।


 एकदा ग्रीष्मकाले राजान्तःपुरे विचरन्घर्मतापतप्त आलिङ्गनादिकमकुर्वंस्ताभिः सह सरससंलापाद्युपचारमनुभूय तत्रैव सुप्तः । ततः प्रातरुत्थाय राजा सभां प्रविष्टः कुतूहलात्पठति-


 'मरुदागमवार्तयापि शून्यं समये जाग्रति सम्प्रवृद्ध एव ।'


भवभूतिराह-


  'उरगी शिशवे बुभुक्षवे स्वामदिशत्फूत्कृतिमाननानिलेन ।

  मरुदागमवार्तयापि शून्ये समये जाग्रति सम्प्रवृद्ध एव' ॥ २९३ ॥


 राजा प्राह-'भवभूते, लोकोक्तिः सम्यगुक्ता' इति । ततोऽपाङ्गेन राजा कालिदासं पश्यति । ततः स आह-


  'अबलासु विलासिनोऽन्वभूवन्नयनैरेव नवोपगूहनानि ।

  मरुदागमवार्तयापि शून्ये समये जाग्रति सम्प्रवृद्ध एव' ॥ २९४ ॥


 तदा राजा स्वाभिप्रायं ज्ञात्वा तुष्टः कालिदासं विशेषेण सम्मानितवान् ।


 अन्यदा मृगयापरवशो राजात्यन्तमार्तः कस्यचित्सरोवरस्य तीरे निबिडच्छायस्य जम्बूवृक्षस्य मूलमुपाविशत् । तत्र शयाने राज्ञि जम्बोरुपरि बहुभिः कपिभिर्जम्बूफलानि सर्वाण्यपि चालितानि । तानि सशब्दं पतितानि पश्यन्घटिकामात्रं स्थित्वा श्रमं परिहत्य उत्थाय तुरङ्गमवरमारुह्य गतः । ततः सभायां राजा पूर्वानुभूतकपिचलितफलपतनरवमनुकुर्वन्समस्यामाह-'गुलुगुग्गुलुगुग्गुलु' । तत आह कालिदासः-


  'जम्बूफलानि पक्कानि पतन्ति विमले जले ।

  कपिकम्पितशाखाभ्यो गुलुगुग्गुलुगुग्गुलु' ॥ २९५ ॥


 राजा तुष्ट आह-सुकवे, अदृष्टमपि परहृदयं कथं जानासि ! साक्षाच्छारदासि' इति मुहुर्मुहुः पादयोः पतति स्म ।

 एकदा धारानगरे प्रच्छन्नवेषो विचरन्कस्यचिद्वृद्धब्राह्मणस्य गृहं राजा मध्याह्नसमये गच्छंस्तत्र तिष्ठति स्म । तदा वृद्धविप्रो वैश्वदेवं कृत्वा काकबलिं गृह्णन्गृहान्निर्गत्य भूमौ जलशुद्धायां निक्षिप्य काकमाह्वयति स्म । तत्र हस्तविस्फालनेन हाहेतिशब्देन च काकाः समायाताः । तत्र कश्चित्काकस्तारं रारटीति स्म । तच्छ्रुत्वा तत्पत्नी तरुणी भीतेव हस्तं निजोरसि निधाय 'अये मातः' इति चक्रन्द । ततो ब्राह्मणः प्राह-'प्रिये साधुशीले, किमर्थं बिभेषि' इति । सा प्राह-'नाथ ! मादृशीनां पतिव्रतास्त्रीणां क्रूरध्वनिश्रवणं न सह्यम् ।' 'साधुशीले, तथा भवेदेव' इति विप्र आह । ततो राजा तच्चरितं सर्वं दृष्ट्वा व्यचिन्तयत्–'अहो, इयं तरुणी दुःशीला नूनम् । यतो निर्व्याजं बिभेति । स्वपातिव्रत्यं स्वयमेव कीर्तयति च । नूनमियं निर्भीका सती अत्यन्तं दारुणं कर्म रात्रौ करोत्येव । एवं निश्चित्य राजा तत्रैव रात्रावन्तर्हित एवातिष्ठत् । अथ निशीथे भर्तरि सुप्ते सा मांसपेटिकां वेश्याकरेण वाहयित्वा नर्मदातीरमगच्छत्। राजाप्यात्मानं गोपयित्वानुगच्छति स्म । ततः सा नर्मदां प्राप्य तत्र समागतानां ग्राहाणां मांसं दत्त्वा नदीं तीर्वा परतीरस्थेन शूलाग्रारोपितेन स्वमनोरमेण सह रमते स्म । तच्चरित्रं दृष्ट्वा राजा गृहं समागत्य प्रातः सभायां कालिदासमालोक्य प्राह-'सुकवे, शृणु-


  'दिवा काकरवाद्भीता'


ततः कालिदास आह-


    'रात्रौ तरति नर्मदाम् ।


ततस्तुष्टो राजा पुनः प्राह-


  'तत्र सन्ति जले ग्राहाः


ततः कविराह-


    'मर्मज्ञा सैव सुन्दरी' ॥ २९६ ॥


ततो राजा कालिदासस्य पादयोः पतति ।


 एकदा धारानगरे विचरन्वेश्यावीथ्यां राजा कन्दुकलीलातत्परां तद्भ्रमणवेगेन पादयोः पतितावतंसां काञ्चन सुन्दरीं दृष्ट्वा सभायामाह'कन्दुकं वर्णयन्तु कवयः' इति । तदा भवभूतिराह-


  "विदितं ननु कन्दुक ते हृदयं प्रमदाधरसङ्गमलुब्ध इव |

  वनिताकरतामरसाभिहतः पतितः पतितः पुनरुत्पतसि ॥ २९७ ॥


 ततो वररुचिः प्राह-


  "एकोऽपि त्रय इव भाति कन्दुकोऽयं

   कान्तायाः करतलरागरक्तरक्तः ।

  भूमौ तच्चरणनखांशुगौरगौरः

   स्वस्थः सन्नयनमरीचिनीलनीलः' ॥ २९८ ॥


ततः कालिदास आह-


 'पयोधराकारधरो हि कन्दुकः करेण रोषादभिहन्यते मुहुः ।

 इतीव नेत्राकृतिभीतमुत्पलं स्त्रियः प्रसादाय पपात पादयोः ॥ २९९ ॥


 तदा राजा तुष्टस्त्रयाणामक्षरलक्षं ददौ । विशेषेण च कालिदासमदृष्टावतंसकुसुमपतनबोद्धारं सम्मानितवान् ।


 ततः कदाचिच्चित्रकर्मावलोकनतत्परो राजा चित्रलिखितं महाशेषं दृष्ट्वा 'सम्यग्लिखितम्' इत्यवदत् । तदा कश्चिच्छिवशर्मा नाम कविः शेषमिषेण राजानं स्तौति-


  अनेके फणिनः सन्ति भेकभक्षणतत्पराः ।

  एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ ३०० ॥


तदानीं राजा तदभिप्रायं ज्ञात्वा तस्मै लक्षं ददौ । कदाचिद्धेमन्तकाले समागते ज्वलन्तीं हसन्तीं संसेवयन्राजा कालिदासं प्राह–'सुकवे, हसन्तीं वर्णय' इति । ततः सुकविराह-


  'कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव ।

  हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता' ॥ ३०१ ॥


 राजाक्षरलक्षं ददौ ।


 एकदा भोजराजोऽन्तर्गृहे भोगार्हांस्तुल्यगुणाश्चतस्रो निजाङ्गना अपश्यत् । तासु च कुन्तलेश्वरपुत्र्यां पद्मावत्यामृतुस्नानम्, अङ्गराजस्य पुत्र्यां चन्द्रमुख्यां क्रमप्राप्तिम्, कमलानाम्न्यां च द्यूतपणजयलब्धप्राप्तिम् , अग्रमहिष्यां च लीलादेव्यां दूतीप्रेषणमुखेनाह्वानं च, एवं चतुरो गुणान्दृष्ट्वा तेषु गुणेषु न्यूनाधिकभावं राजाप्यचिन्तयत् । तत्र सर्वत्र दाक्षिण्यनिधी राजराजः श्रीभोजस्तुल्यभावेन द्वित्रिघटिकापर्यन्तं विचिन्त्य विशेषानवधारणेन निद्रां गतः । प्रातश्चोत्थाय कृताह्निकः सभामगात् । तत्र च सिंहासनमलङ्कुर्वाणः श्रीभोजः सकलविद्वत्कविमण्डलमण्डनं कालिदासमालोक्य 'सुकवे, इमां त्र्यक्षरोनतुरीयचरणां समस्यां शृणु ।' इत्युक्त्वा पठति- 'अप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः।' इति पठित्वा राजा कालिदासमाह-सुकवे, एतत्समस्यापूरणं कुरु' इति । ततः कालिदासस्तस्य हृदयं करतलामलकवत्प्रपश्यंस्त्र्यक्षराधिकचरणत्रयविशिष्टां तां समस्यां पठति-देव,


  स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु-

   द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याधुना |

  इत्यन्तःपुरसुन्दरीजनगुणे न्यायाधिकं ध्यायता

   देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः ॥ ३०२ ॥


 तदा राजा स्वहृदयमेव ज्ञातवतः कालिदासस्य पादयोः पतति स्म । कविमण्डलं च चमत्कृतमजायत ।


 एकदा राजा धारानगरे विचरन्क्वचित्पूर्णकुम्भं धृत्वा समायान्ती पूर्णचन्द्राननां काञ्चिदृष्ट्वा तत्कुम्भजले शब्दं च कञ्चन श्रुत्वा 'नूनमेव तस्याः कण्ठग्रहेऽयं घटो रतिकूजितमिव कूजित' इति मन्यमानः सभायां कालिदासं प्राह-'कूजितं रतिकूजितम्' इति । कविराह-


  'विदग्धे सुमुखे रक्ते नितम्बोपरि संस्थिते ।

  कामिन्याश्लिष्टसुगले कूजितं रतिकूजितम् ॥ ३०३ ॥


 तदा तुष्टो राजा प्रत्यक्षरलक्षं ददौ, ननाम च ।


 एकदा नर्मदायां महाह्रदे जालकैरेकः शिलाखण्ड ईषद्भ्रंशिताक्षरः कश्चिद्दृष्टः । तैश्च परिचिन्तितम्-'इदमत्र लिखितमिव किञ्चिद्भाति । नूनमिदं राजनिकटं नेयम्' इति बुद्धया भोजसदसि समानीतम् । तदाकर्ण्य भोजः प्राह-'पूर्वं भगवता हनूमता श्रीमद्रामायणं कृतम् । तदत्र ह्रदे प्रक्षेपितमिति श्रुतमस्ति । ततः किमिदं लिखितमित्यवश्यं विचार्यमिति लिपिज्ञानं कार्यम् ।' जतुपरीक्षयाक्षराणि परिज्ञाय पठति । तत्र चरणद्वयमानुपूर्व्याल्लब्धम्-


 'अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।


ततो भोजः प्राह-एतस्य पूर्वार्धं कथ्यताम्' इति । तदा भवभूतिराह-

  क्व नु कुलमकलङ्कमायताक्ष्याः

   क्व नु रजनीचरसङ्गमापवादः ।

  अयि खलु विषमः पुराकृतानां

   भवति हि जन्तुषु कर्मणां विपाकः' ॥ ३०४ ॥


 ततो भोजस्तत्र ध्वनिदोषं मन्वानस्तदेव पूर्वार्धमन्यथा पठति स्म-


'क्व जनकतनया क्व रामजाया क्व च दशकन्धरमन्दिरे निवासः ।

अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ॥


 ततो भोजः कालिदासं प्राह- सुकवे, त्वमपि कविहृदयं पठ' इति । स आह-


'शिवशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादे ।

अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः' ॥ ३०६ ॥


 ततस्तस्य शिलाखण्डस्य पूर्वपुटे जतुशोधनेन कालिदासपठितं तमेव दृष्ट्वा राजा भृशं तुतोष ।


 कदाचिद्भोजेन विलासार्थं नूतनगृहान्तरं निर्मितम् । तत्र गृहान्तरे गृहप्रवेशात्पूर्वमेकः कश्चिद्ब्रह्मराक्षसः प्रविष्टः । स च रात्रौ तत्र ये वसन्ति तान्भक्षयति। ततो मान्त्रिकान्समाहूय तदुच्चाटनाय राजा यतते स्म । स चाऽगच्छन्नेव मान्त्रिकानेव भक्षयति। किं च स्वयं कवित्वादिकं पूर्वाभ्यस्तमेव पठंस्तिष्ठति । एवं स्थिते तत्रैव रक्षसि राजा 'कथमस्य निवृत्तिः'


इति व्यचिन्तयत् । तदा कालिदासः प्राह- -'देव, नूनमयं राक्षसः सकलशास्त्रप्रवीणः सुकविश्व भाति । अतस्तमेव तोषयित्वा कार्यं साधयामि । मान्त्रिकास्तिष्ठन्तु | मम मन्त्रं पश्य' इत्युक्त्वा स्वयं तत्र रात्रौ गत्वा शेते स्म । प्रथमयामे ब्रह्मराक्षसः समागतः स चापूर्वं पुरुषं दृष्ट्वा प्रतियाममेकैकां समस्यां पाणिनिसूत्रमेव पठति । येनोत्तरं तद्धृदयगतं नोक्तम् , 'अयं न ब्राह्मणः, अतो हन्तव्यः' इति निश्चित्य हन्ति । तदानीमपि पूर्ववदयमपूर्वः पुरुषः । अतो मया समस्या पठनीया । न चेद्वक्ति सदृशमुत्तरं तस्यास्तदा हन्तव्य इति । बुद्ध्या पठति

  'सर्वस्य द्वे


इति । तदा कालिदासः प्राह-


   'सुमतिकुमती सम्पदापत्तिहेतू'


इति । ततः स गतः । पुनरपि द्वितीययामे समागत्य पठति-


  'वृद्धो यूना'


इति । तदा कविराह-


   'सह परिचयात्त्यज्यते कामिनीभिः ।


इति । तृतीययामे स राक्षसः पुनः समागत्य पठति-


  "एको गोत्रे


इति । ततः कविराह-


   'प्रभवति पुमान्यः कुटुम्बं बिभर्ति'


इति । ततश्चतुर्थयाम आगत्य स राक्षसः पठति-


  'स्त्री पुंवच्च'


इति । ततः कविराह-


   'प्रभवति यदा तद्धि गेहं विनष्टम्' ॥ ३०७ ॥


 इति । ततः स राक्षसो यामचतुष्टयेऽपि स्वाभिप्रायमेव ज्ञात्वा तुष्टः प्रभातसमये समागत्य तमाश्लिष्य प्राह- सुमते, तुष्टोऽस्मि । किं तवाभीष्टम्' इति । कालिदासः प्राह-'भगवन्, एतद्गृहं विहायान्यत्र गन्तव्यम्' इति । सोऽपि 'तथा' इति गतः । अनन्तरं तुष्टो भोजः कविं बहु मानितवान् ।


 एकदा सिंहासनमलङ्कुर्वाणे श्रीभोजे सकलभूपालशिरोमणौ द्वारपाल आगत्य प्राह–'देव, दक्षिणदेशात्कोऽपि मल्लिनाथनामा कविः कौपीनावशेषो द्वारि वर्तते । राजा-'प्रवेशय' इत्याह । ततः कविरागत्य 'स्वस्ति' इत्युक्त्वा तदाज्ञया चोपविष्टः पठति-


  'नागो भाति मदेन खं जलधरैः पूर्णेन्दुना शर्वरी

   शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् ।

  वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः

   सत्पुत्रेण कुलं त्वया वसुमती लोकत्रयं भानुना' ॥ ३०८ ॥


ततो राजा प्राह-विद्वन् , तवोद्देश्यं किम्' इति । ततः कविराह

  'अम्बा कुप्यति न मया न स्नुषया सापि नाम्बया न मया ।

  अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥ ३०९ ॥


 इति । राजा च दारिद्र्यदोषं ज्ञात्वा कविं पूर्णमनोरथं चक्रे ।


 एकदा द्वारपाल आगत्य राजानं प्राह-'देव, कविशेखरो नाम महाकविर्द्वारि वर्तते । राजा-प्रवेशय' इत्याह । ततः कविरागत्य 'स्वास्ति' इत्युक्त्वा पठति-


  'राजन्दौवारिकादेव प्राप्तवानस्मि वारणम् ।

  मदवारणमिच्छामि त्वत्तोऽहं जगतीपते ॥ ३१० ॥


तदा प्राङ्मुखस्तिष्ठन्राजातिसन्तुष्टस्तं प्राग्देशं सर्वं कवये दत्तं मत्वा दक्षिणाभिमुखोऽभूत् । ततः कविश्चिन्तयति- किमिदम् | राजा मुखं परावृत्य मां न पश्यति' इति । ततो दक्षिणदेशे समागत्याभिमुखः कविः पठति-


  'अपूर्वेयं धनुर्विद्या भवता शिक्षिता कथम् ।

  मार्गणौघः समायाति गुणो याति दिगन्तरम् ॥ ३११ ॥


 ततो राजा दक्षिणदेशमपि मनसा कवये दत्त्वा स्वयं प्रत्यङमुखोऽभूत् । कविस्तत्रागत्य प्राह-


  'सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा ।

  पदमेकं न जानीषे वक्तुं नास्तीति याचके' ॥ ३१२ ॥


 ततो राजा तमपि देशं कवेर्दत्तं मत्वोदङमुखोऽभूत् । कविस्तत्राप्यागत्य प्राह-


  'सर्वदा सर्वदोऽसीति मिथ्या त्वं कथ्यसे बुधैः ।

  नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ ३१३ ॥


 ततो राजा स्वां भूमिं कविदत्तां मत्वोत्तिष्ठति स्म । कविश्च तदभिप्रायमज्ञात्वा पुनराह-


  'राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति ।

  अभाग्यच्छत्रसंछन्ने मयि नायान्ति बिन्दवः ॥ ३१४ ॥


 तदा राजा चान्तःपुरं गत्वा लीलादेवीं प्राह-'देवि, सर्व राज्यं कवये दत्तम् । ततस्तपोवनं मया सहागच्छ' इति । अस्मिन्नवसरे विद्वान्द्वारि निर्गतः । बुद्धिसागरेण वृद्धामात्येन पृष्टः-'विद्वन् , राज्ञा किं दत्तम् इति । स आह-'न किमपि' इति । तदामात्यः प्राह-तत्रोक्तं श्लोकं पठ ।' ततः कविः श्लोकचतुष्टयं पठति । अमात्यस्ततः प्राह-'सुकवे, तव कोटिद्रव्यं दीयते; परं राज्ञा यदत्र तव दत्तं भवति तत्पुनर्विक्रीयताम्' इति, कविस्तथा करोति । ततः कोटिद्रव्यं दत्त्वा कविं प्रेषयित्वामात्यो राजनिकटमागत्य तिष्ठति स्म । तदा राजा च तमाह-'बुद्धिसागर, राज्यमिदं सर्वं दत्तं कवये । पत्नीभिः सह तपोवनं गच्छामि । तत्र तपोवने तवापेक्षा यदि मया सहागच्छ' इति । ततोऽमात्यः प्राह-'देव, तेन कविना कोटिद्रव्यमूल्येन राज्यमिदं विक्रीतम् । कोटिद्रव्यं च विदुषे दत्तम् , अतो राज्यं भवदीयमेव । भुङ्क्ष्व' इति । तदा राजा च बुद्धिसागरं विशेषेण संमानितवान् ।


 अन्यदा राजा मृगयारसेनाटवीमटँल्ललाटन्तपे तपने द्यूनदेहः पिपासापर्याकुलस्तुरगमारुह्योदकार्थी निकटतटभुवमटंस्तदलब्ध्वा परिश्रान्तः कस्यचिन्महातरोरधस्तादुपविष्टः । तत्र काचिद्गोपकन्या सुकुमारमनोज्ञसर्वाङ्गा यदृच्छया धारानगरं प्रति तक्रं विक्रीतुकामा तक्रभाण्डं चोद्वहन्ती समागच्छति । तामागच्छन्तीं दृष्ट्वा राजा पिपासावशादेतद्भाण्डस्थं पेयं चेत्पिबामीति बुद्ध्यापृच्छत्-'तरुणि, किंमावहसि' इति । सा च तन्मुखश्रिया भोजं मत्वा तत्पिपासां च ज्ञात्वा तन्मुखावलोकनवशाच्छन्दोरूपेणाह-


  'हिमकुन्दशशिप्रभशङ्खनिभं परिपक्वकपित्थसुगन्धरसम् ।

  युवतीकरपल्लवनिर्मथितं पिब हे नृपराज रुजापहरम्' ॥ ३१५ ॥


 इति । राजा तच्च तक्रं पीत्वा तुष्टस्तां प्राह-'सुभ्रूः, किं तवाभीष्टम्' इति । सा च किंचिदाविष्कृतयौवना मदपरवशमोहाकुलनयना प्राह–'देव, मां कन्यामेवावेहि ।' सा पुनराह-


  'इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभ

   मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजम् ।

  माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषित

   श्चेतोवृत्तिरियं सदा नृपवर त्वां द्रष्टुमुत्कण्ठते' ॥ ३१६ ॥


 राजा चमत्कृतः प्राह- 'सुकुमारि,त्वां लीलादेव्या अनुमत्या स्वीकुर्मः । इति धारानगरं नीत्वा तां तथैव स्वीकृतवान् ।


 कदाचिद्राजाभिषेके मदनशरपीडिताया मदिराक्ष्याः करतलगलितोहेमकलशः सोपानपत्तिषु रटन्नेव पपात । ततो राजा सभायामागत्य कालिदासं प्राह-सुकवे, एनां समस्यां पूरय-'टटंटटंटंटटटंटटंटम् ।' ततः कालिदासः प्राह-


 'राजाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघटो युवत्याः ।

 सोपानमार्गे प्रकरोति शब्द टटंटटंटंटटटंटटंटम् ॥ ३१७ ॥


 तदा राजा स्वाभिप्रायं ज्ञात्वाक्षरलक्षं ददौ ।


 अन्यदा सिंहासनमलंकुर्वाणे श्रीभोजे कश्चिच्चोर आरक्षकै राजनिकटं नीतः। राजा तं दृष्ट्वा 'कोऽयम्' इत्यपृच्छत् । तदा रक्षकः प्राह-'देव, अनेन कुम्भिल्लकेन कस्मिंश्चिद्वेश्यागृहे घातपातमार्गेण द्रव्याण्यपहृतानि' इति । तदा राजा प्राह-'अयं दण्डनीयः' इति । ततो भुक्कुण्डो नाम चोरः प्राह-


  'भट्टिनष्टो भारवीयोऽपि नष्टो भिक्षुर्नष्टो भीमसेनोऽपि नष्टः ।

  भुक्कुण्डोऽहं भूपतिस्त्वं हि राजन्भब्भापङ्क्तावन्तकः संनिविष्टः ॥३१८


 तदा राजा प्राह-'भो भुक्कुण्ड, गच्छ गच्छ यथेच्छं विहर ।'


 कदाचिद्भोजो मृगयापर्याकुलो वने विचरन्विश्रमाविष्टहृदयः कश्चित्तटाकमासाद्य स्थितवान्श्रमात्प्रसुप्तः । ततोऽपरपयोनिधिकुहरं गते भास्करे-


  तत्रैवारोचत निशा तस्य राज्ञः सुखप्रदा ।

  चञ्चच्चन्द्रकरानन्दसंदोहपरिकन्दला ॥ ३१६ ॥


 ततःप्रत्यूषसमये नगरीं प्रति प्रस्थितो राजा चरमगिरिनितम्बलम्बमानशशाङ्कबिम्बमवलोक्य सकुतूहलः सभामागत्य तदा समीपस्थान्कवीन्द्रान्निरीक्ष्य समस्यामेकामवदत्-'चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे । तदा प्राह भवभूतिः-


 अरुणकिरणजालैरन्तरिक्षे गतर्क्षे'


ततो दण्डी प्राह-


 'चलति शिशिरवाते मन्दमन्दं प्रभाते ।'


 ततः कालिदासः प्राह-

"युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे'॥


ततो राजा सर्वानपि संमानितवान्। तत्र कालिदासं विशेषतः पूजितवान् ।


 अथ कदाचिद्भोजो नगराद्बहिर्निर्गतो नूतनेन तटाकाम्भसा बाल्यसाधितकपालशोधनादि चकार । तन्मूलेन कश्चन शफरशावः कपालं प्रविष्टो विकटकरोटिकानिकटवटितो विनिर्गतः । ततो राजा स्वपुरीमवाप । तदारभ्य राज्ञः कपाले वेदना जाता । ततस्तत्रत्यभिषग्वरैः सम्यक्चिकित्सितापिन शान्ता । एवमहर्निशं नितरामस्वस्थे राज्ञ्यमानुषविदितेन महारोगेण ।


  क्षामं क्षाममभूद्वपुर्गतसुखं हेमन्तकालेऽब्जव-

   द्वक्त्रं निर्गतकान्ति राहुवदनाक्रान्ताब्जबिम्बोपमम् ।

  चेतः कार्यपदेषु तस्य विमुखं क्लीबस्य नारीष्विव

   व्याधिः पूर्णतरो बभूव विपिने शुष्के शिखावानिव ॥ ३२१ ॥


 एवमतीते संवत्सरेऽपि काले न केनापि निवारितस्तद्गदः। ततः श्रीभोजो नानाविधसमानौषधग्रसनरोगदुःखितमनाः समीपस्थं शोकसागरनिमग्नं बुद्धिसागरं कथमपि संयुताक्षरामुवाच वाचम्-'बुद्धिसागर, इतः परमस्मद्विषये न कोऽपि भिषग्वरो वसतिमातनोतु । वाग्भटादिभेषजकोशान्निखिलान्स्रोतसि निरस्यागच्छ । मम देवसमागमसमयः समागतः, इति । तच्छ्रुत्वा सर्वेऽपि पौरजनाः कवयश्चावरोधसमाजश्च विगलदस्रासारनयना बभूवुः ।


 ततः कदाचिद्देवसभायां पुरन्दरः सकलमुनिवृन्दमध्यस्थं वीणामुनिमाह-'मुने, इदानीं भूलोके का नाम वार्ता' इति । ततो नारदः प्राह- सुरनाथ, न किमप्याश्चर्यम् । किंतु धारानगरवासी श्रीभोजभूपालो रोगपीडितो नितरामस्वस्थो वर्तते । स तस्य रोगः केनापि न निवारितः। तदनेन भोजनृपालेन भिषग्वरा अपि स्वदेशानिष्कासिताः । वैद्यशास्त्रमप्यनृतमिति निरस्तम्' इति । एतदाकर्ण्य पुरुहूतः समीपस्थौ नासत्याविदमाह--'भोः स्वर्वैद्यौ, कथमनृतं धन्वन्तरीयं शास्त्रम् । तदा तावाहतुः-'अमरेश देव, न व्यलीकमिदं शास्त्रम् । किंत्वमरविदितेन न रोगेण बाध्यतेऽसौ भोजः' इति । इन्द्रः कोऽसाववार्यरोगः किं भवतोर्विदितः । ततस्तावूचतुः-'देव, कपालशोधनं कृतं भोजेन, तदा प्रविष्टः पाठीनः । तन्मूलोऽयं रोगः' इति । तदेन्द्रः स्मयमानमुखः प्राह-'तदिदानीमेव युवाभ्यां गन्तव्यम् । न चेदितःपरं भूलोके भिषक्शास्त्रस्यासिद्धिर्भवेत् । स खलु सरस्वतीविलासस्य निकेतनं शास्त्राणामुद्धर्ता च' इति । ततः सुरेन्द्रादेशेन तावुभावपि धृतद्विजन्मवेषौ धारानगरं प्राप्य द्वारस्थं प्राहतुः-'द्वारस्थ, आवां भिषजौ काशीदेशादागतौ । श्रीभोजाय विज्ञापय । तेनानृतमित्यङ्गीकृतं वैद्यशास्त्रमिति श्रुत्वा तत्प्रतिष्ठापनाय तद्रोगनिवारणाय च' इति । ततो द्वारस्थः प्राह-'भो विप्रौ, न कोऽपि भिषक्प्रवरः प्रवेष्टव्य इति राज्ञोक्तम् । राजा तु केवलमस्वस्थः । नायमवसरो विज्ञापनस्य' इति। तस्मिन्क्षणे कार्यवशाद्बहिनिर्गतो बुद्धिसागरस्तौ दृष्ट्वा कौ भवन्तौ' इत्यपृच्छत् । ततस्तौ यथागतमूचतुः । ततो बुद्धिसागरेण तौ राज्ञः समीपं नीतौ । ततो राजा ताववलोक्य मुखश्रियाऽमानुषाविति बुद्ध्वा 'आभ्यां शक्यतेऽयं रोगो निवारयितुम्' इति निश्चित्य तौ बहु मानितवान् । ततस्तावूचतुः-राजन् , न भेतव्यम् । रोगो निर्गतः । किं तु कुत्रचिदेकान्ते त्वया भवितव्यम्' इति । ततो राज्ञापि तथा कृतम् । ततस्तावपि राजानं मोहचूर्णेन मोहयित्वा शिरः- कपालमादाय तत्करोटिकापुटे स्थितं शफरकुलं गृहीत्वा कस्मिंश्चिद्भाजने निक्षिप्य संधानकरण्या कपालं यथावदारचय्य संजीविन्या च तं जीवयित्वा तस्मै तद्दर्शयताम् । तदा तद्दृष्ट्वा राजा विस्मितः 'किमेतत्' इति तौ पृष्टवान् । तदा तावूचतुः- राजन् त्वया बाल्यादारभ्य परिचितकपालशोधनतः संप्राप्तमिदम्' इति । ततो राजा तावश्विनौ मत्वा तच्छोधनार्थमपृच्छत्-'किमस्माकं पथ्यम्' इति । ततस्तावूचतुः-


  "अशीतेनाम्भसा स्नानं पयःपानं वराः स्त्रियः ।

  एतद्वो मानुषाः पथ्यम्-


 इति । तत्रान्तरे राजामध्ये 'मानुषाः' इति संबोधनं श्रुत्वा 'वयं चेन्मानुषाः, कौ युवाम्' इति तयोर्हस्तौ झटिति स्वहस्ताभ्यामग्रहीत् । ततस्तत्क्षण एव तावन्तर्धत्तां ब्रुवन्तावेव 'कालिदासेन पूरणीयं तुरीयचरणम्' इति । ततो राजा विस्मितः सर्वानाहूय तद्वृत्तमब्रवीत् । तच्छ्रत्वा सर्वेऽपि चमत्कृता विस्मिताश्च बभूवुः । ततः कालिदासेन तुरीयचरणं पूरितम्


     'स्निग्धमुष्णं च भोजनम् ॥ ३२२ ॥


 इति । ततो भोजोऽपि कालिदासं लीलामानुषं मत्वा परं संमानितवान् ।


 अथ भोजनृपालः प्रतिदिनं संजातबलकान्तिर्ववृधे धाराधीशः कृष्णेतरपक्षे चन्द्र इव । ततः कदाचित्सिंहासनमलंकुर्वाणे श्रीभोजे कालिदास-भवभूति-दण्डि-बाण-मयूर-वररुचि-प्रभृतिकवितिलककुलालंकृतायां सभायां द्वारपाल एत्याह-'देव, कश्चित्कविर्द्वारि तिष्ठति । तेनेयं प्रेषिता गाथासनाथा चीठिका देवसभायां निक्षिप्यताम्' इति तां दर्शयति । राजा गृहीत्वा तां वाचयति-


  'काचिद्बाला रमणवसतिं प्रेषयन्ती करण्डं

   दासीहस्तात्समयमलिखद्व्यालमस्योपरिस्थम् ।

  गौरीकान्तं पवनतनयं चम्पकं चात्र भावं

   पृच्छत्यार्यो निपुणतिलको मल्लिनाथः कवीन्द्रः ॥ ३२३ ॥


 तच्छ्रुत्वा सर्वापि विद्वत्परिषच्चमत्कृता । ततः कालिदासः प्राह-'राजन्, मल्लिनाथः शीघ्रमाकारयितव्यः' इति । ततो राजादेशाद्द्वारपालेन स प्रवेशितः कवी राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः । ततो राजा प्राह तं कवीन्द्रम्-'विद्वन्मल्लिनाथकवे, साधु रचिता गाथा ।' तदा कालिदासः प्राह-'किमुच्यते साध्विति । देशान्तरगतकान्तायाश्चारित्र्यवर्णनेन श्लाघनीयोऽसि विशिष्य तत्तद्भावप्रतिभटवर्णनेन ।' तदा भवभूतिः प्राह-विशिष्यत इयं गाथा पङ्क्तिकण्ठोद्यानवैरिणो वातात्मजस्य वर्णनात्' इति । ततः प्रीतेन राज्ञा तस्मै दत्तं सुवर्णानां लक्षं पञ्च गजाश्च दश तुरगाश्च दत्ताः । ततः प्रीतो विद्वान्स्तौति राजानम्-


  'देव भोज तव दानजलौघैः सेयमद्य रजनीति विशङ्के ।

  अन्यथा तदुदितेषु शिलागोभूरुहेषु कथमीदृशदानम् ॥ ३२४ .


 ततो लोकोत्तरं श्लोकं श्रुत्वा राजा पुनरपि तस्मै लक्षत्रयं ददौ । ततो लिखति स्म भाण्डारिको धर्मपत्रे-


  'प्रीतः श्रीभोजभूपः सदसि विरहिणो गूढनर्मोक्तिपद्यं

   श्रुत्वा हेम्नां च लक्षं दश वरतुरगान्पञ्च नागानयच्छत् ।

  पश्चात्तत्रैव सोऽयं वितरणगुणसद्वर्णनात्प्रीतचेता

   लक्ष लक्षं च लक्षं पुनरपि च ददौ मल्लिनाथाय तस्मै ॥ ३२५ ॥


 ततः कदाचिद्भोजराजः कालिदासं प्रति प्राह-सुकवे, त्वमस्माकं चरमग्रन्थं पठ।' ततः क्रुद्धो राजानं विनिन्द्य कालिदासः क्षणेन तं देशं त्यक्त्वा विलासवत्या सहेकशिलानगरं प्राप । ततः कालिदासवियोगेन शोकाकुलस्तं कालिदासं मृगयितुं राजा कापालिकावेषं धृत्वा क्रमेणैकशिलानगरं प्राप । ततः कालिदासो योगिनं दृष्ट्वा तं सामपूर्वं पप्रच्छ- 'योगिन् , कुत्र तेऽस्ति स्थितिः' इति । योगी वदति-सुकवे, अस्माकं धारानगरे वसतिः' इति । ततः कविराह-तत्र भोजः कुशली किम् ?' ततो योगी प्राह-'किं मया वक्तव्यम्' इति । ततः कविराह-तत्रातिशयवार्तास्ति चेत्सत्यं कथयं' इति । तदा योगी प्राह-भोजो दिवं गतः' इति । ततः कविर्भूमौ निपत्य प्रलपति-'देव, त्वां विनास्माकं क्षणमपि भूमौ न स्थितिः । अतस्त्वत्समीपमहमागच्छामि' इति कालिदासो बहुशो विलप्य चरमश्लोकं कृतवान्-

  'अद्य धारा निराधारा निरालम्बा सरस्वती ।

  पण्डिताः खण्डिताः सर्वे भोजराजे दिवं गते' ॥ ३२६ ॥


 एवं यदा कविनाचरमश्लोक उक्तस्तदैव स योगी भूतले विसंज्ञः पपात । ततः कालिदासस्तथाविधं तमवलोक्य 'अयं भोज एव' इति निश्चित्य "अहह महाराज, तत्रभवताहं वञ्चितोऽस्मि'। इत्यभिधाय झटिति तं लोकं प्रकारान्तरेण पपाठ-


  'अद्य धारा सदाधारा सदालम्बा सरस्वती ।

  पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते' ॥ ३२७ ॥


 ततो भोजस्तमालिङ्गय प्रणम्य धारानगरं प्रति ययौ ।


  शैले शैलविनिश्चलं च हृदयं मुञ्जस्य तस्मिन्क्षणे

   भोजे जीवति हर्षसंचयसुधाधाराम्बुधौ मज्जति ।

  स्त्रीभिः शीलवतीभिरेव सहसा कर्तुं तपस्तत्परे

   मुञ्जे मुञ्चति राज्यभारमभजत्त्यागैश्च भोगैर्नृपः ॥ ३२८ ॥


श्रीमन्महाराजाधिराजस्य धारानगराधीशस्य भोजराजस्य

प्रबन्धः समाप्तिमफाणीत् ।


 

एक टिप्पणी भेजें

0 टिप्पणियाँ