Ad Code

गौरीकृता अम्बिकेशशिवस्तुतिः

गौरीकृता अम्बिकेशशिवस्तुतिः 


(अम्बिकेशशिवस्तुतिः)
हर हर शङ्कर चन्द्रशेखर प्रमथाधीश्वर विश्वनाथ शम्भो ।
करुणारससारशोभिताङ्गाङ्गदकाहीश्वर देवदेव पाहि (देव पाहि पाहि) ॥ ५४॥

अम्बिकेश गगनातिगमौले लम्बितोरुजटयाखिलकाश ।
व्योमकेश विनतार्तिविनाश नागभूषणक (नागभूष नग) कार्मुकपाणे ॥ ५५॥

हरिबाणामलपद्मनेत्र शम्भो कृतदक्षाध्वरशिक्षवीक्षण ।
दग्धकामपुरवर्ग मदोद्यत्कुम्भिकुम्भदलनामलपाद ॥ ५६॥

गिरिराजसुता(सुतां)जटोरुबन्ध ह्यव (अव) मां घोरतपोभिरुग्रदेहाम् ।
भव भीमोग्र कपालमालजालिन्करशूलामलभूतिभूषिताङ्ग ॥ ५७॥

त्यद(त्वद)पाङ्गततिप्रभूतकामा किमिहेहामि
तवावृतेर्ममाद्य (तवादृतेऽहमाद्य, तवादते(?)ऽहमद्य) ।
गणनाथषडाननादिसेव्य प्रकटापारश्रुतीभिरीड्यपाद ॥ ५८॥

दहरगगनसंस्थ विश्वनाथ (विश्वधाम) प्रमथाधीश नतास्मि ते पदाब्जम् ॥ ५९॥

- -
(पूजाफलवर्णनम्) -
स्कन्दः -
इत्थं सम्पूज्य सा देवी कैलासाचलमूर्धनि ।
अम्बिकेशं महालिङ्गमम्बिकाभक्तितत्परा ॥ ६०॥

प्रणनाम मुहुर्भक्त्या दृष्ट्वा लिङ्गमुपातेः ।
महानन्दाम्बुधौ मग्ना नान्यज्जानाति किञ्चन ॥ ६१॥

एवं तत्रार्चनरता द्वाद शाब्दं किलाम्बिका ।
त्रिकालं सावधानेन प्रदोषेषु विशेषतः ॥ ६२॥

महाकैलासशैलाग्रेचाम्बिकेशशिवालये ।
(महाकैलासशैलाग्रेऽप्यम्बिकेशशिवालये ।)
अपूजयत्तदा देवीचाम्बिकेशं द्विजोत्तम ॥ ६३॥

नक्ताशनरता देवी स्वससखीभिः परीवृता ।
तरुणेन्दुकलामौलिलिङ्गं सम्पश्यती सदा ॥ ६४॥

निनाय सा क्षपास्तत्र महादेवी सदा मुदा ।
स्वयं सखीभिः सहिता कुसुमापचयोद्यता ॥ ६५॥

कैलासमौलिविपिने पुष्पसारयुते तदा ।
फुल्लानिनीषुः (फुल्लाब्जिनीषु) सततं पङ्कजाहरणादरा ॥ ६६॥

बिल्वकण्टकनुन्नापि स्वयमेवाहरच्छिवा ।
फलानि स्वादुभूतानि समाहृत्याम्बिकेश्वरे (अम्बिकेश्वरम्) ॥ ६७॥

निवेद्याश्नाति (निनेद्य स्नाति) नियतं सखीभिः सहिता शिवा ।
यन्निवेदितमीशाने तदश्नाति कुतूहलात् ॥ ६८॥

पवित्रं शिवनैवेद्यं ज्ञानप्रदमनुत्तमम् ।
जितामृतरसास्वादं (जितामृतरसंस्वादु) पापसङ्घविनाशनम् ॥ ६९॥

आस्वाद्य शिवनैवेद्यं जलमन्नं फलादिकम् ।
देवी हृष्टतरा नित्यमष्टमूर्त्यर्चने रता ॥ ७०॥

स्वतपोत्धं कष्टजालं जहौ लिङ्गसमर्चनात् ॥ ७१॥

देव्या कैलासमौलौ सततपरिचितापारपूजाप्रभावैः
तुष्टश्चैवाम्बिकेशो गुणगणसहितः (गणगणसहितः)
प्रदुरासीन्महेशः (प्रादुरासीन्महेशः)।
देवीं वीक्ष्य मुदाह गाढभुजकैरालिङ्ग्य धन्येऽम्बिके
को वेत्ति प्रभवं (प्रसभं) ममेष्टद महालिङ्गार्चनायाः फलम् ॥ ७२॥

॥ इति शिवरहस्यान्तर्गते भवाख्ये गौरीकृता अम्बिकेशशिवस्तुतिः ॥

Post a Comment

0 Comments

Ad Code