Ad Code

अमरेश्वरस्तोत्रम्

अमरेश्वरस्तोत्रम् 


कृष्णावेणीतटावास तृष्णाहृत्तुष्टमानस । त्रासहारिमहावीर त्राहि माममरेश्वर ॥ १॥ आन्ध्रदेशकृतावास चान्तरस्थमहारस । दुःखान्महाशक्तिधर त्राहि माममरेश्वर ॥ २॥ श्रीधान्यवाटिकाक्षेत्ररञ्जनानर्थभञ्जन । जननान्तत्रासहर त्राहि माममरेश्वर ॥ ३॥ नानोत्पातप्रशमन मनःशान्तिदचिन्तन । अधिष्ठितामरपुर त्राहि माममरेश्वर ॥ ४॥ चामुण्डाशक्तिसहित पराजितनिजाहित । हितकारिन् महाधीर त्राहि माममरेश्वर ॥ ५॥ प्रणवेशादिभिः पञ्चलिङ्गैस्त्वां सहितं न च । पश्यतां भीररिहर त्राहि माममरेश्वर ॥ ६॥ अमरावत्याधिष्ठानममरारिनिषूदनम् । वन्दे त्वामखिलाधार त्राहि माममरेश्वर ॥ ७॥ सदा ममास्तु योगस्ते त्वदर्थं मेऽपि सद्गते । देहोऽयं तिष्ठतु हर त्राहि माममरेश्वर ॥ ८॥ प्रसीद पार्वतीजाने न जानेऽहं शुभाशुभम् । स्मरामि त्वां स्मरहरे त्राहि माममरेश्वर ॥ ९॥ अपराधान्मानसिकान्कायिकानपि वाचिकान् । क्षमस्व स्वजनाधार त्राहि माममरेश्वर ॥ १०॥ दोषा अशेषा मम ये ते नश्यन्तु सदाऽभये । त्वय्यस्तु हृदयं तार त्राहि माममरेश्वर ॥ ११॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमदमरेश्वरस्तोत्रं सम्पूर्णम् । 

Post a Comment

0 Comments

Ad Code