Ad Code

श्री अष्टप्रासाष्टकम्

श्री अष्टप्रासाष्टकम् 


शक्राद्यामरसन्नुताङ्घ्रियुगलं चक्रायुधाद्यर्चितं
      नक्रग्रस्तशिशुप्रदानचतुरं शुक्राविसोमाक्षिकम् ।
विक्रान्तं श्रुतिमस्तकेषु चरणाब्जाक्रान्तयम्याशयं
      चक्रारिष्टरसाशताङ्गसुमहच्चक्रं ? महेशं भजे ॥ १॥

अष्टात्मानमपारसंसृतिदवप्लुष्टात्मनां शान्तिदं
      शिष्टान्विष्टपदारविन्दमुमया श्लिष्टाङ्गमत्याशया ।
दिष्टान्तानभियुक्तमौनितनयं कष्टापहं सेवता-
      मिष्टं सज्जनसंहतेर्विधिसमादिष्टात्मकाङ्घ्रिं भजे ॥ २॥

श‍ृङ्गारामितलोलमद्रिसुतया सङ्गं वृषे गामिनं
      गङ्गाचन्द्रजटाविराजिमकुटं पिङ्गाननातिप्रियम् ।
अङ्गासङ्गितमन्मथा बहुकृपापाङ्गं त्रिशूलायुधं
      लिङ्गार्चापरदत्तसर्वपुरुषार्थं गेयवीर्यं भजे ॥ ३॥

कुण्ठं भक्तजनाहितस्य परमोत्कण्ठास्पदं स्वस्त्रियः
      कण्ठालङ्कृतनागमाशुगि(जि)तवैकुण्ठाधिपं शङ्करम् ।
कण्ठस्थापितकालकूटविषमुत्कण्ठादिषट्कापहं
      कुण्ठात्मानभिगम्यमानचरितं कण्ठातिनीलं भजे ॥ ४॥

अण्डानामखिलस्य नाथमुडुराट्कुण्डं कृपासागरं
      शुण्डावक्त्रमुखोग्रपाण्ड्यजनकं दण्डायुधारिं शिवम् ।
काण्डाकारितवेदफेरु(रूप)ममरोद्दण्डं पुरद्वेषिणं
      चण्डीप्राणपतिं सुधाशनपतेः शुण्डावदर्च्यं भजे ॥ ५॥

हिक्कामुख्यगदाधितापपटलीधिक्कारिदिव्याह्वयं
      ढक्कादुन्दुभिकाहलाद्यविरमसृक्काबृहत्कुक्षिखं (?) ।
ढक्कामद्रुहमीशितारमतसी सृक्कालिमग्रीवमुं
      त्वक्कायच्छदमीदृशं खनिजभान्यक्कारिदेहं भजे (?) ॥ ६॥

भर्गाख्यं परमेश्वरं त्रिजगतां सर्गादिहेतुं मृडं
      दुर्गाधीशमनन्तमेकमजरं दुर्गापहं ध्यायताम् ।
गर्गागस्त्यवसिष्ठमुख्यसुतपद्वर्गान्तरङ्गालयं
      स्वर्गानोकहमर्थिनां पशुपतिं स्वर्गामिवन्द्यं भजे ॥ ७॥

वित्ताधीशसखं विशालनिटिलं सत्तामयं शाश्वतं
      चित्तादत्म्यददिव्यनामविभवं चित्ताधिजाताहितम् ।
मत्तानेकपगामिनं प्रणवसंवित्तास्वरूपं भवं
      मत्ताहीनसुबोधगोचरमलं मत्तापहाङ्घ्रिं भजे ॥ ८॥

अष्टप्रासाष्टकं शम्भोरिष्टं भक्त्या पठन्ति ये ।
इष्टा भवन्ति श्रीगन्धपुष्टिकाननवासिनः ॥ ९॥

॥ इति श्रीअष्टप्रासाष्टकं सम्पूर्णम् ॥

Post a Comment

0 Comments

Ad Code