Ad Code

अर्धनारीश्वर्यष्टोत्तरशतनामावलिः

 अर्धनारीश्वर्यष्टोत्तरशतनामावलिः  




ॐ चामुण्डिकाम्बायै नमः श्रीकण्ठाय नमः ।

ॐ पार्वत्यै नमः परमेश्वराय नमः ।

ॐ महाराज्ञ्यै नमः महादेवाय नमः ।

ॐ सदाराध्यायै नमः सदाशिवाय नमः ।

ॐ शिवार्धाङ्ग्यै नमः शिवार्धाङ्गाय नमः ।

ॐ भैरव्यै नमः कालभैरवाय नमः ।

ॐ शक्तित्रितयरूपाढ्यायै नमः मूर्तित्रितयरूपवते नमः ।

ॐ कामकोटिसुपीठस्थायै नमः काशीक्षेत्रसमाश्रयाय नमः ।

ॐ दाक्षायण्यै नमः दक्षवैरिणे नमः ।

ॐ शूलिन्यै नमः शूलधारकाय नमः । १०


ॐ ह्रीङ्कारपञ्जरशुक्यै नमः हरिशङ्कररूपवते नमः ।

ॐ श्रीमदग्नेशजनन्यै नमः षडाननसुजन्मभुवे  नमः ।

ॐ पञ्चप्रेतासनारूढायै नमः पञ्चब्रह्मस्वरूपभृते नमः ।

ॐ चण्डमुण्डशिरश्छेत्र्यै नमः जलन्धरशिरोहराय नमः ।

ॐ सिंहवाहिन्यै नमः वृषारूढाय नमः ।

ॐ श्यामाभायै नमः स्फटिकप्रभाय नमः ।

ॐ महिषासुरसंहर्त्र्यै नमः गजासुरविमर्दनाय नमः ।

ॐ महाबलाचलावासायै नमः महाकैलासवासभुवे नमः ।

ॐ भद्रकाल्यै नमः वीरभद्राय नमः ।

ॐ मीनाक्ष्यै नमः सुन्दरेश्वराय नमः । २०


ॐ भण्डासुरादिसंहर्त्र्यै नमः दुष्टान्धकविमर्दनाय नमः ।

ॐ मधुकैटभसंहर्त्र्यै नमः मधुरापुरनायकाय नमः ।

ॐ कालत्रयस्वरूपाढ्यायै नमः कार्यत्रयविधायकाय नमः ।

ॐ गिरिजातायै नमः गिरीशाय नमः ।

ॐ वैष्णव्यै नमः विष्णुवल्लभाय नमः ।

ॐ विशालाक्ष्यै नमः विश्वनाथाय नमः ।

ॐ पुष्पास्त्रायै नमः विष्णुमार्गणाय नमः ।

ॐ कौसुम्भवसनोपेतायै नमः व्याघ्रचर्माम्बरावृताय नमः ।

ॐ मूलप्रकृतिरूपाढ्यायै नमः परब्रह्मस्वरूपवाते नमः ।

ॐ रुण्डमालाविभूषाढ्यायै नमः लसद्रुद्राक्षमालिकाय  नमः । ३०


ॐ मनोरूपेक्षुकोदण्डायै नमः महामेरुधनुर्धराय नमः ।

ॐ चन्द्रचूडायै नमः चन्द्रमौलिने नमः ।

ॐ महामायायै नमः महेश्वराय नमः ।

ॐ महाकाल्यै नमः महाकालाय नमः ।

ॐ दिव्यरूपायै नमः दिगम्बराय नमः ।

ॐ बिन्दुपीठसुखासीनायै नमः श्रीमदोङ्कारपीठगाय नमः ।

ॐ हरिद्राकुङ्कुमालिप्तायै नमः भस्मोद्धूलितविग्रहाय नमः ।

ॐ महापद्माटवीलोलायै नमः महाबिल्वाटवीप्रियाय नमः ।

ॐ सुधामय्यै नमः विषधराय नमः ।

ॐ मातङ्ग्यै नमः मुकुटेश्वराय नमः । ४०


ॐ वेदवेद्यायै नमः वेदवाजिने नमः ।

ॐ चक्रेश्यै नमः विष्णुचक्रदाय नमः ।

ॐ जगन्मय्यै नमः जगद्रूपाय नमः ।

ॐ मृडाण्यै नमः मृत्युनाशनाय नमः ।

ॐ रामार्चितपदाम्भोजायै नमः कृष्णपुत्रवरप्रदाय नमः ।

ॐ रमावाणीसुसंसेव्यायै नमः विष्णुब्रह्मसुसेविताय नमः ।

ॐ सूर्यचन्द्राग्निनयनायै नमः तेजस्त्रयविलोचनाय नमः ।

ॐ चिदग्निकुण्डसम्भूतायै नमः महालिङ्गसमुद्भवाय नमः ।

ॐ कम्बुकण्ठ्यै नमः कालकण्ठाय नमः ।

ॐ वज्रेश्यै नमः वज्रपूजिताय नमः । ५०


ॐ त्रिकण्टक्यै नमः त्रिभङ्गीशाय नमः ।

ॐ भस्मरक्षायै नमः स्मरान्तकाय नमः ।

ॐ हयग्रीववरोद्धात्र्यै नमः मार्कण्डेयवरप्रदाय नमः ।

ॐ चिन्तामणिगृहावासायै नमः मन्दराचलमन्दिराय नमः ।

ॐ विन्ध्याचलकृतावासायै नमः विन्ध्यशैलार्यपूजिताय नमः ।

ॐ मनोन्मन्यै नमः लिङ्गरूपाय नमः ।

ॐ जगदम्बायै नमः जगत्पित्रे नमः ।

ॐ योगनिद्रायै नमः योगगम्याय नमः ।

ॐ भवान्यै नमः भवमूर्तिमते नमः ।

ॐ श्रीचक्रात्मरथारूढायै नमः धरणीधरसंस्थिताय  नमः । ६०


ॐ श्रीविद्यावेद्यमहिमायै नमः निगमागमसंश्रयाय नमः ।

ॐ दशशीर्षसमायुक्तायै नमः पञ्चविंशतिशीर्षवते नमः ।

ॐ अष्टादशभुजायुक्तायै नमः पञ्चाशत्करमण्डिताय नमः ।

ॐ ब्राह्म्यादिमातृकारूपायै नमः शताष्टेकादशात्मवते नमः ।

ॐ स्थिरायै नमः स्थाणवे नमः ।

ॐ बालायै नमः सद्योजाताय नमः ।

ॐ उमायै नमः मृडाय नमः ।

ॐ शिवायै नमः शिवाय नमः ।

ॐ रुद्राण्यै नमः रुद्राय नमः ।

ॐ शैवेश्वर्यै नमः ईश्वराय नमः । ७०


ॐ कदम्बकाननावासायै नमः दारुकारण्यलोलुपाय नमः ।

ॐ नवाक्षरीमनुस्तुत्यायै नमः पञ्चाक्षरमनुप्रियाय नमः ।

ॐ नवावरणसम्पूज्यायै नमः पञ्चायतनपूजिताय नमः ।

ॐ देहस्थषट्चक्रदेव्यै नमः दहराकाशमध्यगाय नमः ।

ॐ योगिनीगणसंसेव्यायै नमः भृङ्ग्यादिप्रमथावृताय नमः ।

ॐ उग्रतारायै नमः घोररूपाय नमः ।

ॐ शर्वाण्यै नमः शर्वमूर्तिमते नमः ।

ॐ नागवेण्यै नमः नागभूषाय नमः ।

ॐ मन्त्रिण्यै नमः मन्त्रदैवताय नमः ।

ॐ ज्वलज्जिह्वायै नमः ज्वलन्नेत्राय नमः । ८०


ॐ दण्डनाथायै नमः दृगायुधाय नमः ।

ॐ पार्थाञ्जनास्त्रसन्दात्र्यै नमः पार्थपाशुपतास्त्रदाय नमः ।

ॐ पुष्पवच्चक्रताटङ्कायै नमः फणिराजसुकुण्डलाय नमः ।

ॐ बाणपुत्रीवरोद्धात्र्यै नमः बाणासुरवरप्रदाय नमः ।

ॐ व्यालकञ्चुकसंवीतायै नमः व्यालयज्ञोपवीतवते नमः ।

ॐ नवलावण्यरूपाढ्यायै नमः नवयौवनविग्रहाय नमः ।

ॐ नाट्यप्रियायै नमः नाट्यमूर्तये नमः ।

ॐ त्रिसन्ध्यायै नमः त्रिपुरान्तकाय नमः ।

ॐ तन्त्रोपचारसुप्रीतायै नमः तन्त्रादिमविधायकाय नमः ।

ॐ नववल्लीष्टवरदायै नमः नववीरसुजन्मभुवे नमः । ९०


ॐ भ्रमरज्यायै नमः वासुकिज्याय नमः ।

ॐ भेरुण्डायै नमः भीमपूजिताय नमः ।

ॐ निशुम्भशुम्भदमन्यै नमः नीचापस्मारमर्दनाय नमः ।

ॐ सहस्राम्बुजारूढायै नमः सहस्रकमलार्चिताय नमः ।

ॐ गङ्गासहोदर्यै नमः गङ्गाधराय नमः ।

ॐ गौर्यै नमः त्रयम्बकाय नमः ।

ॐ श्रीशैलभ्रमराम्बाख्यायै नमः मल्लिकार्जुनपूजिताय  नमः ।

ॐ भवतापप्रशमन्यै नमः भवरोगनिवारकाय नमः ।

ॐ चन्द्रमण्डलमध्यस्थायै नमः मुनिमानसहंसकाय नमः ।

ॐ प्रत्यङ्गिरायै नमः प्रसन्नात्मने नमः । १००


ॐ कामेश्यै नमः कामरूपवते नमः ।

ॐ स्वयम्प्रभायै नमः स्वप्रकाशाय नमः ।

ॐ कालरात्र्यै नमः कृतान्तहृदे नमः ।

ॐ सदान्नपूर्णायै नमः भिक्षाटाय नमः ।

ॐ वनदुर्गायै नमः वसुप्रदाय नमः ।

ॐ सर्वचैतन्यरूपाढ्यायै नमः सच्चिदानन्दविग्रहाय नमः ।

ॐ सर्वमङ्गलरूपाढ्यायै नमः सर्वकल्याणदायकाय नमः ।

ॐ राजराजेश्वर्यै नमः श्रीमद्राजराजप्रियङ्कराय नमः । १०८


इति अर्धनारीश्वर्यष्टोत्तरशतनामावलिः समाप्ता ।

Post a Comment

0 Comments

Ad Code