Ad Code

ॐकारेश्वरमहात्म्यम्

 ॐकारेश्वरमहात्म्यम् ओ३मकारेश्वर महात्म



पार्वती -

महादेवमहानन्दकरुणामृतसागर ।

श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥


किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।

क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥ ३॥


ईश्वरः -

क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने ।

ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥ ४॥


तत्र शैववरा नित्यं निवसन्ति सहस्रशः ।

ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥ ५॥


भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः ।

रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥ ६॥


तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता ।

नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥ ७॥


पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला ।

तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥ ८॥


तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् ।

तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥ ९॥


भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये ।

तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥ १०॥


सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया ।

कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥ ११॥


गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः ।

हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥ १२॥


धनुःशरकराः सर्वे जटाशोभितमस्तकाः ।

अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥ १३॥


सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः ।

कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥ १४॥


अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः ।

आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥ १५॥


समाजगाम त्वरितः शच्या साकं शिवे तदा ।

तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥ १६॥


सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् ।

सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥ १७॥


निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः ।

मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥ १८॥


विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् ।

कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥ १९॥


अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः ।

हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥ २०॥


तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः ।

ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥ २१॥


॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे ओङ्कारेश्वरमहात्म्यम् ॥


- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ७। २-२१॥



- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 7. 2-21..


Post a Comment

0 Comments

Ad Code