Ad Code

श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः


श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः




(श्रीजम्बुकेश्वरक्षेत्रे) अपराधसहस्राणि ह्यपि कुर्वाणे मयि प्रसीदाम्ब । अखिलाण्डदेवि करुणावाराशे जम्बुकेशपुण्यतते ॥ १॥ ऊर्ध्वस्थिताभ्यां करपङ्कजाभ्यां गाङ्गेयपद्मे दधतीमधस्तात् । वराभये सन्दधतीं कराभ्यां नमामि देवीमखिलाण्डपूर्वाम् ॥ २॥ जम्बूनाथमनोऽम्बुजातदिनराड्बालप्रभासन्ततिं शम्बूकादिवृषावलिं कृतवतीं पूर्वं कृतार्थामपि । कम्बूर्वीधरधारिणीं वपुषि च ग्रीवाकुचव्याजतो ह्यम्बूर्वीधररूपिणीं हृदि भजे देवीं क्षमासागरीम् ॥ ३॥ जम्बूमूलनिवासं कम्बूज्ज्वलगर्वहरणचणकण्ठम् । अम्बूर्वीधररूपं शम्बूकादेर्वरप्रदं वन्दे ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः सम्पूर्णा ।



Post a Comment

0 Comments

Ad Code