Ad Code

अनादिकल्पेश्वरस्तोत्रम्

अनादिकल्पेश्वरस्तोत्रम् 




श्रीगणेशाय नमः ॥


कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावहः सः ।

सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ ॥ १॥


कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी ।

काशीनिवासी विजयप्रकाशी योऽनादिकल्पेश्वर एव सोऽसौ ॥ २॥


त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी ।

कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ ॥ ३॥


लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः ।

विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ ॥ ४॥


लिङ्गं परिच्छेत्तुमधोगतस्य नारायणश्चोपरि लोकनाथः ।

बभूवतुस्तावपि नो समर्थौ योऽनादिकल्पेश्वर एव सोऽसौ ॥ ५॥


यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्य सोऽत्र ।

कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्वर एव सोऽसौ ॥ ६॥


सकृच्च बाणोऽवनमय्य शीर्षं यस्याग्रतः सोऽप्यलभत्समृद्धिम् ।

देवेन्द्रसम्पत्त्यधिकां गरिष्ठां योऽनादिकल्पेश्वर एव सोऽसौ ॥ ७॥


गुणान्विमातुं न समर्थ एष वेषश्च जीवोऽपि विकुण्ठितोऽस्य ।

श्रुतिश्च नूनं चकितं बभाषे योऽनादिकल्पेश्वर एव सोऽसौ ॥ ८॥


अनादिकल्पेश उमेश एतत्स्तवाष्टकं यः पठति त्रिकालम् ।

स धौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्चेत् ॥ ९॥


इति श्रीवासुदेवानन्दसरस्वतीकृतं अनादिकल्पेश्वरस्तोत्रं सम्पूर्णम् ।

Post a Comment

0 Comments

Ad Code