श्रीमदनादिसिद्धलिङ्गस्तवनम्
(उभयकविताविशारद षडक्षरदेवविरचितम्)
जगज्जालपालं जनस्तुत्यशीलम्
भवारण्यदावं भृत स्वानुभावम् ।
शिवानन्दकोशं दिनेशप्रकाशम्
महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ १॥
स्वतन्त्र स्वलीलं गणेन्द्रानुकूलम्
मिलन्मूलमन्त्रं प्रणीतेश तन्त्रम् ।
शिवध्यानसक्तं परानादिमुक्तम्
महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ २॥
परिव्राड्वरेण्यं गणेशाग्रगण्यम्
सदासत्यभाषं शिवज्ञानभूषम् ।
सरुद्राक्षमालं लसद्भस्मफालम्
महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ३॥
शिवाचारपक्षं कृपाभृत्कटाक्षम्
षडध्वादिबीजं नतामर्त्यभूजम् ।
परित्यक्तरागं परब्रह्मयोगम्
महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ४॥
कलासत्कलापं कपर्दिस्वरूपम्
मनोवृत्तिशून्यं मुनिव्रातमान्यम् ।
समञ्चद्गुणाङ्कं सदा निष्कलङ्कम्
महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ५॥
पवित्राभिधेयं पराम्नायगेयं
निरस्ताङ्गजातं सुधास्फीतगीतम् ।
परिच्छिन्नपाशं समस्तामरेशम्
महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ६॥
पवित्रस्वगात्रं बुधस्तोत्र पात्रम्
निकृत्तावरोधं निसर्गावबोधम् ।
चिदामोदभाजं चराचार्यराजम्
महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ७॥
जितारातिवर्गं गृहीताद्यमार्गम्
तताम्नायसारं तमस्तोमदूरम् ।
पराषट्स्थालाङ्कं निरातङ्कशङ्कम्
महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ८॥
भुजङ्गप्रयातं स्तवं सिद्धलिङ्ग
प्रभोर्मूलमन्त्राभिधानेन क्लुप्तम् ।
भुजङ्गाश्रमस्थस्य योवा पठे-
त्सोऽप्यवाप्नोत्यभीष्टं च भोगं च मोक्षम् ॥
इति उभयकविताविशारद षडक्षरदेवविरचितं श्रीमदनादि सिद्धलिङ्गस्तवनम् ।
0 Comments
If you have any Misunderstanding Please let me know