Ad Code

अर्धनारीश्वरस्तोत्रम् ३

अर्धनारीश्वरस्तोत्रम् ३




ब्रह्मोवाच -
जय देव महादेव जयेश्वर महेश्वर ।
जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥ १॥

जय प्रकृतिकल्याणि जय प्रकृतिनायिके ।
जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ २॥

जयामोघमहामाय जयामोघमनोरथ ।
जयामोघमहालील जयामोघमहाबल ॥ ३॥

जय विश्वजगन्मातर्जय विश्वजगन्मये ।
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ४॥

जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ।
जय शाश्वतिकाकार जयशाश्वतिकानुग ॥ ५॥

जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ।
जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ६॥

जयावलोकनायत्तजगत्कारणबृंहण ।  var  जयावलोकनोत्कृष्ट
जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तमौक्तिक ॥ ७॥

जय देवाद्यविज्ञेयस्वात्मसूक्ष्मदृशोज्ज्वले ।
जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ८॥

 var   स्थूलात्मशक्त्यंशव्याप्तविश्वचराचरे

जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ।
जयासुरशिरोनिष्ठश्रेष्ठानुगकदम्बक ॥ ९॥

जयोपाश्रितसंरक्षां संविधानपटीयसी ।
जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ॥ १०॥

जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भिणे ।
जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ११॥

जय प्रणीतपञ्चार्थप्रयोगपरमामृत ।
जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणे ॥ १२॥  var  सुखस्रोतःस्वरूपिणे

जयति घोरसंसारमहारोगभिषग्वर ।
जयानादिमलाज्ञानतमःपटलचन्द्रिके ॥ १३॥

जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ।
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ १४॥

जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ।  var  प्रमथसर्वज्ञ
जय प्रचुरदिव्याङ्ग जय प्रार्थितदायिनि ॥ १५॥

क्व देव ते परं धाम क्व च तुच्छं च नो वचः ।
तथापि भगवन् भक्त्या प्रलपन्तं क्षमस्व माम् ॥ १६॥

विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ।
नमश्चकार रुद्राय रुद्राण्यै च मुहुर्मुहुः ॥ १७॥

इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ।
अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ १८॥

य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ।  var  शुचिस्तद्गतमानसः ।
महत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ १९॥

सकलभुवनभूतभावनाभ्यां
जननविनाशविहीनविग्रहाभ्याम् ।
नरवरयुवतीवपुर्धराभ्यां
सततमहं प्रणतोऽस्मि शङ्कराभ्याम् ॥ २०॥

॥ इति श्रीशैवे महापुराणे वायवीयसंहितायां पूर्वभागे
शिवशिवास्तुतिवर्णनं नाम पञ्चदशाध्याये
अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments

Ad Code